प्राङ्मुखः प्राग्-उदङ्-मुखो वा दन्त-धावनं कुर्यात् ।
असंभवे उदङ्मुखः कुर्यात् ।
अधो-भाग-स्व-दन्त-पङ्क्तेः वाम-भागम् आरभ्य प्रादक्षिण्येन कुर्यात् ।
कुक्कुटासन-स्थित एवं कुर्यात्, न प्रह्वाङ्गः - नापि जपादाव् इव सम्यगासीनः ।
पर्व-प्रथमा-षष्ठ्य्-अष्टमी-नवम्य्-एकादशी-चतुर्दश्य्-अमावास्यासु भानु-भौम-शुक्र-मन्द-वारेषु जन्मन-क्षत्रे च काष्ठेन दन्तधावनं न कुर्यात् ।
काष्ठालाभे निषेध-काले च आम्रादि-पर्णैः कुर्यात् ।
तदा अङ्गुष्ठानामिकाभ्यां दन्तान् संशोध्य
द्वादश गण्डूषान् कुर्यात् ।
नदी-देवालय-गोष्ठादिषु दन्तधावनं न कुर्यात् ।
सपादुकस्, तैलाभ्यक्तः, कृत-क्षौरः, आसनोपविष्टो,
ऽन्यथा धृत-सूत्रश् च न कुर्यात् ।
गण्डूषानन्तरं नेत्र-नासिकामलं वामेन निघृष्य
मृज्-जलाभ्यां हस्तादि प्रक्षालयेत्।
दन्तधावन-स्थलं गण्डूष-स्थलं च शोधयेत् ॥