शोधिते तीरे कुक्कुटवद् आसीन आचामेत् ।
जानु-दघ्ने जले तिष्ठन् आचामेत् ।
अशुद्धान् पश्यन्, जल्पन्, तिष्ठन्,
दक्षिणाप्रतीचीमुखो, मुक्तकेशः,
प्रावृत-शिराः, प्रावृत-कण्ठो,
ऽप्रक्षालित-पाणि-पादः,
सत्वरो, ऽन्यचित्तश् च नाचामेत् ।
कदाऽप्य् उष्ण-वारिणा नाचामेत ॥
शिखा-गलने, कच्छ-गलने,
स्कन्ध-प्रदेशात् यज्ञोपवीतस्य किञ्चिद् गलने,
रक्तादि नासिका-नेत्र-श्रोत्र-मलाश्रु-केशाग्नि-ब्राह्मणानां स्पर्शे,
क्षुत्-ष्ठीवन-जृम्भणादि-करणे,
शूद्रादिभिः संभाषणे,
रथ्यागमने, अश्रु-मोचने, अधो-वायु-विसर्गे, रोदने, कोपे, प्रहासे, चाऽऽचमनं कुर्यात् ।
तस्यासंभवे श्रोत्राचमनं कुर्यात् ।
सप्रणवोच्चारणो नासिका-स्पर्श-पूर्वक-दक्षिण-श्रोत्र-स्पर्शः श्रोत्राचमनम् ।
यज्ञसूत्रं निवीतं कृत्वा
शूद्रादिना संभाष्य
उपवीतं कृत्वाऽऽचामेत् ।
दन्त-धावन-स्नान-पूजा-भोजनादिषु +आदाव् अन्ते च द्विर् आचामेत् ।
सन्ध्योपासन-होम-मन्त्र-जपादिषु +आदौ द्विः, अन्ते सकृत् आचामेत् ।
रथ्यागमन मूत्रोत्सर्जन-वस्त्रधारण-क्षुत्-निद्रा–पञ्चमादि-संभाषण–खादन-पानेषु कृतेषु द्विर् आचामेत् ।
आचमन-द्वय-प्रसक्तौ जलाभावे श्रोत्राचमनम् अपि द्विः कुर्यात् ।
सर्वकर्मसु +आरम्भे द्विः कुर्यात् ॥