स्वस्य वामभागे स्थले गण्डूषं कुर्यात् । जले, वाम-हस्त-तले च न कुर्यात् । चुलकेन जलम् आदाय कुर्यात् । हस्ताग्रेण न कुर्यात् । गण्डूषकरणसमये अङ्गुल्या जिह्वां न शोधयेत् । जलबिन्दवो यथा अङ्गेषु न पतेयुः, तथा सावधानं कुर्यात् । गण्डूषस्थलं शोधयेत् ॥