०३ गण्डूष-प्रकरणम्

स्वस्य वामभागे स्थले गण्डूषं कुर्यात् ।
जले, वाम-हस्त-तले च न कुर्यात् ।
चुलकेन जलम् आदाय कुर्यात् । हस्ताग्रेण न कुर्यात् ।

गण्डूषकरणसमये अङ्गुल्या जिह्वां न शोधयेत् । जलबिन्दवो यथा अङ्गेषु न पतेयुः,
तथा सावधानं कुर्यात् ।
गण्डूषस्थलं शोधयेत् ॥