सति संभवे उदङ्-मुखः शौचं कुर्यात् ।
अरत्नि-मात्रं जल-पार्श्वप्रदेशं परित्यज्य स्थले आसीनः कुर्यात् ।
अन्ते हस्त-द्वय-संघर्षणात् प्राक् हस्तयोः संबन्धं न कारयेत् ।
गुदे क्षिप्ता मृत्तिका यावता कृते न निश्शेषम् अपेयात् ,
तावत् क्षालनं कुर्यात् ।
इयद् एव एकं प्रक्षालनम् उच्यते ।
एवं द्वादशकृत्वः कुर्यात्।
मृत्तिकाया अलाभे सिकताभिरपि कुर्यात्।
तदा शौचं द्विगुणं भवति ।
मलादि-विसर्जनार्थम् आसीनस्य तद्-अप्रवृत्तौ अर्धं कार्यम् ।
प्रथम-शौचानन्तरं गुद-द्वारे अङ्गुलिं किञ्चित् प्रवेश्य क्षालनं कुर्यात् ।
लिङ्गे ऽप्य् एवं गृहस्थः कुर्यात् ।
अन्ते नख-शोधनं सम्यक् कुर्यात् ।
शौचस्थलं निर्मृत्तिकं क्षालयेत् ॥