विसर्जनोपक्रम-प्रभृति प्रक्षालन-पर्यन्तं
यथा किञ्चिदपि न लम्बेत,
तथा अन्तरीयम् उद्धत्य धारयेत् ।
छत्रं पादरक्षां वा दधन् न मूत्रादि विसृजेत् ।
स्वमलं न पश्येत् ।
विसर्जन-प्रभृति आप्रक्षालनारंभं लिङ्गं वामहस्तेन गृह्णन्नेव वर्तेत ।
आ-गण्डूष-करणम् अवयवस्पर्शं, ष्ठीवनादिकं, वृथास्थिति, संभाषणं च वर्जयेत् ।
आर्द्रवस्त्रो विसर्जनं न कुर्यात् ।
सप्त-वाताहतं+++(=??)+++ वस्त्रं शुष्कम् एव ॥