गोपालदेशिकेन मुनित्रय-परम्परा-प्रवर्तकेन रचितम् आह्निकम्, चिन्नाण्डवन्-व्याख्यान-समेतम्।
Source: TW
उद्धरण-स्रोतांसि -
अत्र चतुर्वेदशतक्रतु-सुधानिधिकार-पाञ्चरात्ररक्षाहृदयकृद्-रङ्गनाथस्वामी- वात्स्यवेदान्ताचार्याः,
तत्-तत्-कृताह्निक-हेयोपादेय-कथनावसरे क्रमेण
एक, इतर, अन्य, पर, अपर, शब्दैर्व्यवह्रियन्ते । +++(5)+++श्रीपाञ्चरात्ररक्षा-वाक्योदाहरणे ऊर्ध्व-पुण्ड्र–भगवन्-निवेदित-प्राशनादि-विषये
श्रीसच्चरित्र-रक्षा-वाक्योदाहरणे च कर्तव्ये
“तद् उक्तम्” इति प्रयुज्यते ।