०६ योगः

विश्वास-प्रस्तुतिः

॥ अथ योगः ॥

सुप्रक्षालितपाणिपादः स्वाचान्तः शुचौ देशे आसीनः त्रिः प्राणानायम्य, कृतञ्च करिष्यामि + योगेन भगवत्कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि, भगवतो बलेन भगवतो वीर्येण + करिष्यामि भगवानेव + योगाख्यं कर्म + कारयतीत्यनुसन्धाय, द्वयमनुसन्धाय, अखिलहेयप्रत्यनीकेत्यादिपूर्वोक्तप्रकारेणानुसन्धाय, चतुर्दशभुवनात्मकमण्डमित्यारभ्य समग्रं श्रीवैकुण्ठगद्यमनुसन्दधीत । तदशक्तौ भगवद्ध्यानसोपानं वानुसन्दधीत । ततो निद्राप्रसक्तौ

संहारक्रममाश्रित्य तत्त्वान्यात्मनि संहरेत् ।
आत्मानं चापि हृत्पद्मे परमात्मनि निष्ठिते ॥
संहारेदुत्थितो योगात् स्वापं क्लेशापहं व्रजेत् ।

इत्युक्तत्वात् आराधनारम्भोक्तरीत्या पृथ्व्यादिक्रमेण तत्त्वानि प्रकृतिपर्यन्तानि स्वस्वकारणे संहृत्य, प्रकृतिं तमसि संहृत्य, तमः जीवे उपसंहरामीति तमस्तत्त्वमात्मन्युपसंहृत्य, आत्मानं परमात्मन्युपसंहरामीत्युपसंहृत्य, योगादुत्थितः भगवानेव + पूर्वरात्रियोगं कारितवानित्यनुसन्धाय, निद्रां च करिष्यमाणकैङ्कर्योपकरणेन्द्रियवर्गविश्रान्तिनिमित्ततया कैङ्कर्यत्वेनानुसन्धाय, प्रासादखट्वापर्यङ्कन्यायेन नाडीपुरीतद्ब्रह्मणि स्वात्मनश्शयनमनुसन्धाय, लक्ष्मीपरिष्वङ्गव्यञ्जकेन माधवशब्देन भगवन्तं कीर्तयन् स्वस्य परमात्मनि परिष्वङ्गविशेषं परिमृश्य, संशुद्धशुष्कपादः, शास्त्रोक्ते समुचिते स्थाने शास्त्रीयशयने चोदितदिक्छिराः शुद्धत्वानग्नत्वादिनियमयुक्तः स्वाराध्यस्य भगवतश्चरणारविन्दयोर्विन्यस्तशिरस्कः तमेव हृदि ध्यायन् कीर्तयन् शयानो निद्राच्छेदे प्रसक्ते पुनरानिद्रागमात् तमेव ध्यायेत् कीर्तयेच्च ॥

एवं वर्तमानस्य सर्वः कालोऽपि अवन्ध्यो भवति, सर्वे व्यापाराः कैङ्कर्यरूपा भवन्ति, सर्वोऽप्यानुषङ्गिको भोगः क्रीडाशुकक्षीरास्वादन्यायेन स्वामिभोगशेषभूतो भवति, इति भगवत्कैङ्कर्यैकरतेः परमैकान्तिनोऽ-नादिमायानिशावसाने अनन्तमोक्षवासरप्रारम्भे च प्रत्यूषवदवस्थितोऽयमायुश्शेषकाल इति सर्वं निरवद्यम् ।

श्रीमद्गोपालार्यमहादेशिकैरनुगृहीतम् आह्निकं सम्पूर्णम् ।

श्रीमते गोपालार्यमहादेशिकाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः ।

मूलम्

[[258]]