०५ स्वाध्यायः

विश्वास-प्रस्तुतिः

अथ स्वाध्यायः ।

ततश्चतुर्थे काले

कृतञ्च करिष्यामि + स्वाध्यायेन भगवत्कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि,
भगवतो बलेन + करिष्यामि,

इति सङ्कल्प्य,

भगवान् एव + स्वाध्यायाख्यं कर्म + कारयति

इत्य् अनुसन्धाय,

मूलम्

अथ स्वाध्यायः ।

ततश्चतुर्थे काले कृतञ्च करिष्यामि + स्वाध्यायेन भगवत्कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि, भगवतो बलेन + करिष्यामि, इति सङ्कल्प्य, भगवानेव + स्वाध्यायाख्यं कर्म + कारयतीत्यनुसन्धाय,

विश्वास-प्रस्तुतिः

उपबृंहण-सापेक्षाधिकारी इतिहास-पुराण-निगमान्त–द्वय-परिचयं कुर्यात् ।

मूलम्

उपबृंहणसापेक्षाधिकारी इतिहासपुराणनिगमान्तद्वयपरिचयं कुर्यात् ।

विश्वास-प्रस्तुतिः

तन्-निरपेक्षाधिकारी स्व-चित्त-रञ्जकान् यौगिक-ज्ञान-प्रदीपायमानान् वाङ्मय–पाप-प्रतिबन्धकान्,
व्यापक-मन्त्रादीनां श्रवण-मनन-प्रवचन-जपादीन् सत्संवादांश्च कुर्यात् ।

मूलम्

तन्निरपेक्षाधिकारी स्वचित्तरञ्जकान् यौगिकज्ञानप्रदीपायमानान् वाङ्मयपापप्रतिबन्धकान् व्यापकमन्त्रादीनां श्रवणमननप्रवचनजपादीन् सत्संवादांश्च कुर्यात् ।

विश्वास-प्रस्तुतिः

शम-दमाद्य्-उपयुक्त-शब्द-संशीलनं कुर्यात् ।
इति स्वाध्याय-सारः ।

मूलम्

शमदमाद्युपयुक्तशब्दसंशीलनं कुर्यात् । इति स्वाध्यायसारः ।

आह्निकार्थप्रकाशिका

अथ चतुर्थकाल-कर्तव्यस्वाध्यायानुष्ठानप्रकारं सङ्कल्प-सात्त्विकत्यागपूर्वकं प्रतिपादयति — ततश्चतुर्थकाल इत्यादिना ।

स्वाध्यायकालः अहस्-तृतीय-याम-प्रभृति–रात्रि-प्रथम-यामान्तम् ।
यद्-उक्तम् अन्याह्निके –

अत्र जयाख्य-पाद्म-व्यास-दक्षादि-मते
सर्वस्मिन्न् अप्य् अस्तमय-प्राग्-भाव्य् एव स्वाध्यायकालः ।
शम-दमाद्य्-उपयुक्त-शब्द-शीलनं कुर्याद्
इति स्वाध्यायसारः

इति स्वाध्यायं परिसमाप्य,

“अथ लोहितायति-भास्करे” इत्यादिना दिनान्तादितया योग-काल उपक्रम्यते ।

न च

सायं सन्ध्या-वन्दन–होम–भगवद्-आराधन-भोजन-स्वाध्यायान् निरूप्य
“व्याख्यातः स्वाध्यायः, अथ योगं व्याख्यास्यामः"

इत्युक्तेः
“कथं योगस्य दिनावसानादित्वम्” इति वाच्यम् ।

“दिनावसाने सम्प्राप्ते
पूजां कृत्वा समभ्यसेत् ।
योगम्”

इत्य्-आदिना दिनान्त-भावि-पूजान्त-कर्मणो योग-कालान्तर्गतत्वाविरोधात्,
भोजनस्यानुयाग-रूपस्य इज्यान्तर्गतत्वात्,
योग-प्रतिज्ञाऽनन्तर-भावि-स्वाध्याय-ग्रन्थस्य

एतौ स्वाध्याय-योगौ
आह्निकानुयागात् पूर्वं केषुचित् संहिता-विशेषेषु समाहृत्य उपदिश्येते

इत्य्-आदेः स्वाध्याय-योग-गताधिकांश-परिहारात्मकत्वात्

इति ।

तदसारम् — प्रमाणाचार्यपादश्रीसूक्तिविरुद्धत्वात् ।

दिनावसाने सम्प्राप्ते पूजां कृत्वा समभ्यसेत् ।
योगं निशावसाने तु विश्रमैरन्तरीकृतम् ॥
पञ्चमो योगसंज्ञोऽसौ कालांशो ब्रह्मसिद्धिदः ।

इत्याचार्यपादोदाहृतजयाख्यसंहितावचननेन रात्रिपूजानन्तरं त्वाश्रुत्या योगो विहितः । अत्र पूजाशब्दोऽनुयागपर्यन्त इति सर्वैरङ्गीकरणीयं, “स एव कालः योगसंज्ञितः" इत्युक्तम् ।

[[253]]

लक्ष्मीतन्त्रेऽष्टाविंशेऽध्याये -

स्वाध्यायमाचरेत्सम्यगपराह्ने [[ह्णे??]] विचक्षणः ।
दिव्यशास्त्राण्यधीयीत निगमांश्चैव वैदिकान् ।
सर्वाननुचरेत्सम्यक्सिद्धान्तानात्मशुद्धये ॥

इत्यारभ्य

ततस्सन्ध्यामुपासीत पश्चिमां सार्धभास्कराम् ।
विधायाग्न्यर्थकार्यं तु योगं युञ्जीत वै ततः ॥

इत्यन्तवचनैः सायं सन्ध्योपासनहोमाराधनानन्तरं योगानुष्ठानं श्रौतक्रमसिद्धं प्रतीयते । पारमेश्वरे दशमेऽध्याये –

ततश्चतुर्थप्रहरे शास्त्राध्यनमाचरेत् ।
चिन्तनं श्रवणोपेतं व्याख्यानं स्वधियेच्छया ॥
अस्तंगते दिनकरे आसाद्याराधनालयम् ।
कुर्यान्मन्त्रार्चनं सम्यग्जपध्यानसमन्वितम् ॥
असाद्य शयनं पश्चात् स्मरन्मन्त्रेश्वरं हृदि ।
अपयित्वा निशांशं तु उत्थाय शयनात्ततः ॥
योगं युञ्जीत वै मान्त्रं प्राग्वद्धृत्कमलोदरे ।

इति वचनैः रात्र्याराधनाद्यनन्तरं योगविधेः अनुयागान्तं स्वाध्यायकाल इति प्रतीयते । श्रीशाण्डिल्यस्मृतौ — “स्वाध्यायमपि सङ्कल्प्य यथाशक्ति जपेन्मनु"मित्यारभ्य शास्त्राध्ययनादिकं विस्तरेण प्रतिपाद्य,

यामिन्यां योगकाले तु यत्कार्यं योगिभिर्नरैः ।
अधिवृक्षप्रमाणेन दृश्यमाने दिवाकरे ॥
विहाय देहसंशुद्धिं वासो विपरिधाय च ।

इत्यारभ्य

प्रोक्षणाचमने कृत्वा दद्यादर्घ्यं च पूर्ववत् ।
ध्यायन्नेव परं ब्रह्म यावन्नक्षत्रदर्शनम् ॥
जपेत् ब्रह्म पवित्रं वा मानसं मौनमाश्रितः ।
अभिगम्य यथापूर्वमर्चयित्वा यथाविधि ॥
भुक्त्वा जप्त्वा तथा स्तुत्वा योगं कुर्यादतन्द्रितः ।

इति वचनैः सायंसंध्यादिभोजनजपस्तोत्रानन्तरं यामिन्यां योगो विहितः । नारदीयसंहितायां त्रिंशेऽध्याये –

यदा भागवतश्रेष्ठो योगं युञ्जीत योगवित् ।
स योगकालो विज्ञेयः श्रुणु योगमतः परम् ॥

इति योगानुष्ठानकालस्य योगकालत्वं प्रतिपादितम् ।

[[254]]

श्रीपाञ्चरात्ररक्षायां द्वितीयाधिकारे –

समाराधनानन्तरभाविस्वाध्यायश्च श्रुतिस्मृतीतिहासपुराणमन्त्रजपसत्संवादाध्यात्मशास्त्रश्रवणप्रवचनाद्यात्मा यथासम्भवं भगवच्छास्त्रधर्मशास्त्रादिषु अनन्तरभावियोगोपकारकज्ञानसन्धुक्षणप्रयोजनः प्रतिपाद्यत इति + एवं योगोऽपि द्वयार्थानुसन्धानैकाग्य्ररूपः सर्वव्यापारोपरतिसुभगनिद्रापूर्वापरकालयोस्तत्पूर्वापररात्रेषु युत्जान [[युञ्जान??]]

इत्याद्युक्तावसरयुक्तयत्नलभ्यः व्यासस्मृतिविचारे -

रात्रिभोजनवचनेन तदनन्तरं योगोऽपि दिवाभोजनानन्तरोक्तः स्वयमेवागच्छतीति तदनुक्तिः

दक्षस्मृतिविचारे

यत्तु पश्चादुक्तम् ।
प्रदोषपश्चिमौ यामौ वेदाभ्यासेन यापयेत् ।
यामद्वयं शयानो हि ब्रह्मभूयाय कल्पते ॥

इति । अत्र योगासमर्थस्य तच्छेषभूतः स्वाध्यायः समर्थस्य योग एवेति न समानकालतदुभयविधायकशास्त्रद्वयविरोधः

इत्याचार्यपादश्रीसूक्त्यनुसारेण योगसमर्थाधिकारिविषयत्वस्याभ्युपगन्तव्यत्वात् योगासमर्थानामस्माकं रात्रिप्रथमप्रहरान्तं स्वाध्याय एवोचित इति तावानेव कालः स्वाध्यायकाल इत्यभ्युपेतव्यम् । तदुक्तं –

अथ स्वाध्यायं व्याख्यास्यामः । चतुर्थकाले सम्प्राप्ते स्वावगतवेदवाक्यार्थव्यक्तीकरणाय विदितसकलवेदतदर्थानां स्वयोगमहिमसाक्षात्कृतपरावरतत्त्वयाथात्म्यानां मनुपराशरपाराशर्यशुकशौनकादीनां महर्षीणां वेदोपबृह्मणानि श्रवणमननजपादिभिरभ्यसेदिदमुक्तं व्यासेन तत्कालकृत्यं – इतिहासपुराणाभ्यां वेदं समुपबृंहयेदिति । दक्षेण तु, इतिहासपुराणाभ्यां षष्ठं सप्तममभ्यसेत् । इति एवं भुक्त्वोपस्थाय चादित्यं पुरणानि सदा पठेदित्यादिकं द्रष्टव्यम् । उपब्रह्मण[[उपबृंहण??]]निरपेक्षस्य उपबृह्मणीयवेदभागजप एव युक्तः । तत्रापि साक्षात् भगवत्प्रतिपादक एव भागो जप्य इति श्रीशाण्डिल्यस्मृत्यादिषूक्तम् । सङ्ग्रहरुचीनां महामन्त्रसक्तानां च सर्वसारभूतव्यापकमन्त्रजपोपदेशः

इत्यादि ।

[[255]]

शिष्यगुरुसब्रह्मचारिश्रेयोऽर्थिभिरनसूयुभिः वीतरागैस्सह वादः “बोधयन्तः परस्पर"मित्याद्युक्तसंवादोऽपि तत्त्वनिर्णयफलत्वाविशेषादितिहासादिवत् स्वाध्यायकाल एव प्रवर्तनीयः

इत्यादि

तदिह भगवत्प्रीणनस्वचित्तरञ्जकेतिहासपुराणस्तोत्रनिगमान्तद्वयव्यापकमन्त्रादीनां श्रवणमननप्रवचनजपादयो वादसंवादादयश्च यौगिकज्ञानप्रदीपस्नेहायमानाः

पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः ।
अनिबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥

इत्यादिनिदर्शितविविधवाचिकपापोदयप्रतिबन्धिनश्च सर्वे व्यापारा यथायथं सम्भूय पृथग्भूय वा स्वाध्या(योभवति)यी भवन्ति । शमाद्युपयुक्तशब्दशीलनं कुर्यादिति स्वाध्यायसारः

इत्यादि च ।

विश्वास-प्रस्तुतिः

अक[[??]] लोहितायति सूर्ये, वस्त्रपरिवृत्तिपूर्वकं यथासूत्रं सायं सन्ध्यामुपासीत । तत्र अग्निश्चेति मन्त्रस्य सूर्य ऋषिः, देवी गायत्री छन्दः, अग्निर्देवता, अपां प्राशने विनियोगः ।

अग्निश्रच[[??]] मामन्युश्च मन्युपतयश्च मन्युकृतेभ्यः । पापेभ्यो रक्षन्ताम् । यदह्ना पापमकार्षं मनसा वाचा हस्ताभ्याम् । पद्भ्यामुदरेण शिश्ना । अहस्तदवलुम्पतु । यत्किञ्च दुरितं मयि । इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहोमि स्वाहा ्कृ

उपस्थानकाले इमं म इति पञ्चर्चस्य देवरात ऋषिः, गायत्रीजगतीत्रिषुभश्छन्दांसि, सविता देवता ।

इमं मे वरुण श्रुधीहवमद्या च मृडय । त्वा[[??]] मवस्युराचके । तत्त्वायामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशँसमान आयुः प्रमोषीः । यच्चिद्धिते विशो यथा प्रदेव वरुणव्रतं । मिनीमसि द्यवि द्यवि यत्किञ्चेदं वरुणदैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि । अचित्तीयत्तव धर्मायुयोपिम[[??]] मानस्तस्मादेनसो देव रीरिषः । कितवासो यद्रिरुपुर्नदिवि यद्वाघा सत्यमुत यन्न विद्म । सर्वा ता विष्य शिथिरेव देवाथातेस्याम वरुणप्रियासः

इति भेदः । अन्यत्सर्वं पूर्ववत् । प्रदोषरहितरात्रौ आशौचादिरहितः श्रीमदष्टारजपमपि[[??]] यथाशक्ति जपित्वा, आचम्य, सोदपात्रो गृहमागत्य, सायं होमं कृत्वा, पूर्ववद्भगवन्तमभिगम्य, हविर्निवेद्य, वैश्वदेवं बलिहरणवर्जं पञ्चमहायज्ञवर्जञ्च कृत्वा वैहायसबलिमात्रञ्च कृत्वा, पूर्ववद्भोजनं कुर्यात् । केचित् रात्रावपि बलिहरणादि कुर्वन्ति । केनचिन्निमित्तेन विलुप्तेऽपि भोजने प्राणाग्नि-होत्रमन्त्रजपं कुर्यात् । ततो रात्रियोग्यवेदाभ्यासं कुर्यात् । भगवानेव + स्वाध्यायाख्यं कर्म कारितवानिति सात्त्विकत्यागं कृत्वा, कृतञ्च करिष्यामि + स्वाध्यायेन भगवत्कर्मणा भगवान् प्रीयतां वासुदेव इति समापयेत् ॥

[[256]]

आह्निकार्थप्रकाशिका

सूर्यास्तमयर्पन्तं स्वाध्याय-कालः । अथ सायं सन्ध्योपासनप्रभृतिरात्रिद्वितीययामान्तं योगकाल इति सायं सन्ध्योपासनादेरपि योगान्तर्भावः

इति कैश्चिदुक्तं प्रमाणाचार्यपादश्रीसूक्तिविरुद्धमित्यभिप्रेत्य पूर्वोक्तरीत्या सायं सन्ध्योपासनप्रभृतिरात्रिप्रथमप्रहरकर्तव्यकर्मजातस्य स्वाध्यायान्तर्भावाभिसन्ध्या सायं सन्ध्योपासनादिकमाह - अथ लोहितायति सूर्ये इति ।

इति श्री श्रीनिवासमहादेशिकचरणारविन्दमधुव्रतैः मतिमन्थाननिर्मथितवेदान्तद्वयपञ्चरात्रस्मृतीतिहासाचार्यपादश्रीसूक्तिन्यायादिदुग्धार्णवसमुद्धृतसारार्थामृतरसैः गुरुपङ्क्तिभक्तिमतां प्रथमोदाहरणभूतैः श्रीरङ्गनाथनित्यसेवाकृतार्थैः श्रीमुनित्रयसिद्धान्तस्थापनाचार्यतल्लजैः श्रीमत्पादुकासेवकरामानुजमुनीन्द्रमहादेशिकैः अनुगृहीता श्रीमद्गोपालार्यमहादेशिकानुगृहीतश्रीमदाह्निकव्याख्यारूपा श्रीमदाह्निकार्थप्रकाशिका समाप्ता ॥ श्रीमते पादुकासेवकरामानुजमहादेशिकाय नमः । ***

[[257]]