विश्वास-प्रस्तुतिः
अथेज्या निरूप्यते ।
मूलम्
अथेज्या निरूप्यते ।
आह्निकार्थप्रकाशिका
तृतीयकालकर्तव्येज्यानिरूपणं प्रतिजानीते अथेति ।
विश्वास-प्रस्तुतिः
अत्र प्रसङ्गात्
मूलम्
अत्र प्रसङ्गात्
आह्निकार्थप्रकाशिका
श्रीदेशिकसम्प्रदायस्थैः कैश्चित् श्रीभाष्यकारनित्यग्रन्थविरुद्धमन्त्रोपचारादियुक्तभगवत्समाराधनप्रयोगस्संगृहीतः, तस्याचार्यपादश्रीसूक्तिविरुद्धत्वात् प्रपन्नैरग्राह्यत्वज्ञापनायोपक्रमते अत्र प्रसङ्गादिति । इज्यासामान्यज्ञानेन तत्क्रियाविशेषस्योपस्थितत्वरूपप्रसङ्गसङ्गतेरित्यर्थः ।
विश्वास-प्रस्तुतिः
प्रकृतोपयुक्तं किञ्चिदुच्यते । श्रीपाञ्चरात्ररक्षायां तृतीयाधिकारारम्भे -
तत्र भाष्यकारोक्तनित्यानुष्ठाननिष्ठस्य ब्राह्ममुहूर्तप्राप्तौ यत्कर्तव्यं तत्तावत् तच्छिष्यप्रशिष्यग्रन्थतन्मूलभूतसंहिताद्यनुसारेण सङ्गृह्यत
इत्युक्तत्वात्,
अथेदानीं मन्त्रसिद्धान्तोपास्यपररूपविषयां भोगार्चनमयीमिज्यां भाष्यकारोक्तनित्यग्रन्थविवरणमुखेन व्याख्यास्याम
इतीज्यारम्भे उक्तत्वात्,

प्रकृतोपयुक्तं किञ्चिदिति । श्रीभाष्यकारनित्योक्तग्राह्यतानिमित्तं किञ्चिदित्यर्थः । तृतीयाधिकारारम्भ इति । तच्छिष्यौ = श्रीभाष्यकाराव्यवहितशिष्यौ वङ्गिवंशेश्वरश्रवत्साङ्कमिश्रौ, प्रशिष्यौ = भट्टारकनारायणमुनी, तेषां ग्रन्थाः तद्रचिताभिगमनादिक्रियाप्रतिपादकग्रन्थाः, तन्मूलसंहिताः सूत्रनिष्ठपरमैकान्त्यनुगुणवर्णाश्रमादिधर्मयुक्तपाञ्चकालिकधर्मविधायिसंहिता इत्यर्थः । अत्र वक्तव्यमस्मत्त्कृतसत्पथरक्षायामनुसन्धेयम् । अथेदानीं मन्त्रसिद्धान्तोपास्येति आगमतन्त्रतन्त्रसिद्धान्तव्यावृत्त्यर्थम् ।
नानाव्यूहसमेतं च मूर्तिद्वादशकञ्च यत्
इत्याचार्यपादोदाहृतश्रीपौष्करवचनेन
मन्त्रसिद्धान्तसंज्ञं तज्जाग्रद्व्यूहादिमूर्तिना
इत्यादिभिः
विभवव्यूहसूक्ष्माख्यमधिकारं यथाक्रमम्
इत्यादिभिः
कर्मणामेवमादीनां विधानं यत्र पुष्कलम् ।
मन्त्रसिद्धान्तसंज्ञं तत् बहुभेदसमन्वितम् ॥
इत्यन्तैः पारमेश्वरप्रायश्चित्त्याध्यायवचनैश्च मन्त्रसिद्धान्ते परव्यूहविभवमूर्तीनामाराध्यत्वावगमेऽपि मुक्तप्राप्यपररूपविषयेज्यैव परमैकान्त्युपादेयेत्यभिप्रायेण पररूपविषयामित्युक्तम् ।
[[172]]
विभवव्यूहसूक्ष्मेषु यथाक्रममधिकारकथनं तत्तदर्वाचीनपदप्राप्तिकामविषयमित्ययमर्थः
यत्र मधुविद्यादौ वस्वादिपदप्राप्तिपूर्वकब्रह्मप्राप्तिवत् परम्परया वासुदेवप्राप्तिरभिधीयते तत्रापि तत्तदर्वाचीनपर्वव्यवहितपरप्राप्तिकामानामधिकार इति व्यवस्था । तदभिप्रायेणेच्चोक्तं[[??]] भाष्ये -
तद्धि वासुदेवाख्यं परं ब्रह्म सम्पूर्णषाड्गुण्यवपुः सूक्ष्मव्यूहविभवभेदभिन्नं यथाधिकारं भक्तैः ज्ञानपूर्वेण कर्मणाभ्यर्चितं सम्यक् प्राप्यते विभवार्चनात् व्यूहं प्राप्य व्यूहार्चनात् परं वासुदेवाख्यं सूक्ष्मं प्राप्यत इति वदति
इति आचार्यपादश्रीसूक्तिसिद्धिः ।
नित्यं नित्याकृतिधरं, नित्यसिद्धे तदाकारे,
भक्तानां सर्वविषयव्यावृत्तदृढचेतसाम् ।
सर्वेषामादिमूर्तिस्तु मङ्गलं वेदवेदिनाम् ॥
इति श्रीपौष्कर-सात्त्वत-शाण्डिल्यस्मृत्यादिवचनैः पररूपस्यैव मुमुक्षूपास्यत्वावगमात् भाष्यकारैरपि तद्विषयेज्याया एव परमैकान्तिकर्तव्यत्वमभिहितमिति भावः । लयभोगार्चनद्वैविध्यसत्त्वाल्लयार्चनव्यावृत्त्यर्थं भोगार्चनमयीमित्युक्तम् ।
हृदयादिषु चाङ्गेषु लाञ्छनं कमलादिकम् ।
भूषणं च किरीटाद्यं लक्ष्म्याद्याश्शक्तयस्तथा ॥ तद्देहसंस्थितास्सर्वे पूजनीयाः क्रमेण तु ।
परिवारं विना मन्त्रैः स्वैः स्वैः पुष्पानुलेपनैः ॥
लययागो ह्ययं विप्र हृदादिष्वनुकीर्तितः ।
तस्मात् हृत्कर्णिकाधारे मूर्तौ वा यत्र कुत्रचित् ॥ मूलमन्त्रशरीरस्थं परिवारं रजेत्सदा ।
मन्त्रराट्कर्णिकामध्ये लक्ष्म्याद्याः केसरादिषु ॥
साकाराः केवलास्सर्वे यत्र भोगाभिधस्तु सः ॥
इति श्रीजयाख्याक्तलयभोगयागयोः
लयभोगार्चन ங்களில் प्रवृत्त ரான परमैकान्तिक களுக்கு
इति श्रीरहस्यत्रयसारश्रीसूक्त्या परमैकान्त्यधिकारत्वावगमेऽपि श्रीभाष्यकारसम्प्रदायस्थेषु लययागोपदेशानुष्ठानपारम्पर्यासिद्ध्या तत्सम्प्रदायागतभोगार्चनमेवानुगृहीतम् । अतो न तेषु लयार्चनप्रसक्तिरिति बोध्यम् ।
विश्वास-प्रस्तुतिः
द्वितीयाधिकारे
परिपूर्णसमाराधनोपदेशिभिर्भाष्यकारैः
इत्युक्तत्वाच्च
मूलम्
द्वितीयाधिकारे
परिपूर्णसमाराधनोपदेशिभिर्भाष्यकारैः
इत्युक्तत्वाच्च
आह्निकार्थप्रकाशिका
उक्तार्थे स्थलान्तरस्थश्रीसूक्तिसंवादमाह - द्वितीयाधिकार इति ।
[[173]]
विश्वास-प्रस्तुतिः
श्रीभाष्यकारप्रणीतनित्यग्रन्थप्रकारेणैव इज्याऽनुष्ठेया । अत्र वङ्गिवंशेश्वरकारिकायां भूतशुद्धिप्रकरणे ‘त्रिर्वाथ पञ्चकृत्वः’ इत्यारभ्य प्रथमं प्राणायामत्रयपञ्चकपूर्वकं स्वदेहे शोषणादिकमुक्तं, नित्ये प्रथमं पञ्चोपनिषन्मन्त्राणां संहारन्यासमात्रमभिधाय
प्राणायामेनैकेन दक्षिणेन पाणिना नाभिदेशे मूलमन्त्रं न्यसेत्
इत्यादिना

भाष्यकारप्रणीतनित्यग्रन्थप्रकारेणैव इज्यानुष्ठेयेति । परमैकान्तिभिरिति शेषः । एवकारः धर्मशास्त्राद्युक्तसामान्यमन्त्रकरणकाराधनं श्रीभाष्यकारानुक्तभगवच्छास्त्रसंहिताराधनं च व्यवच्छिनत्ति । श्रीपाञ्चरात्ररक्षायां प्रथमाधिकारे
अत एव हि हौत्रं होतृशाखोक्तमध्वर्यवोऽपि परिगृह्णन्ति । अतो येषु सूत्रेषु भगवदर्चनादिकं प्रत्यपादि, तन्निष्ठानामपि भगवच्छास्त्रोक्तप्रक्रियया समाराधनादिकं प्रशस्ततमम् । तथा च शिष्टैरनुष्ठीयते
द्वितीयाधिकारे -
अथ परमैकान्तिनो भगवदाराधनप्रयोगं वक्ष्य
इत्यारभ्य
शौनकव्यासबोधायनादिधर्मशास्त्रानुक्तेन भगवच्छास्त्रोक्तवर्त्मना स्नानविशेषादिपूर्वकविलक्षणसमाराधनप्रक्रियाप्रतिपादनं कथंभूतमधिकारिणमधिकृत्य भाष्यकारैः कृतमिति कर्णे तवागतम् । भवतु तच्छक्तमधिकार्यन्तरं प्रतीति चेन्न, प्रपत्त्येकनिष्ठैस्तच्छिष्यप्रशिष्यादिभिः योग्यैरद्य यावद्यथाशक्ति तदनुष्ठानदर्शनात् अतस्तथाविधप्रपन्न एवात्र परमैकान्ती तमधिकृत्यैव किश्चित् सिद्धान्तस्थां काञ्चित्संहितां प्रधानीकृत्य समाराधनप्रयोगोऽत्र संगृह्यत इति यथा सम्प्रदायमकामेनापि स्वीकरणीयम्
इदं च भगवत्समाराधनं भगवच्छास्त्रेषु तैस्तैर्व्यापकमन्त्रप्रभृतिभिस्तत्तदधिकारानुरूपं प्रपञ्च्यते । अधिकृतशास्त्रप्रतिपादितस्य पूर्णोपदिष्टस्यैव मुख्यत्वं होतृशाखोक्तहौत्रपरिग्रहन्यायेन सिद्धः,
[[174]]
परमतभङ्गे
शौनकबोधायनादि கள் சொன்ன प्रतिष्ठार्चनादि கள் உண்டாயிருக்க भगवच्छास्त्र த்தாலே अपेक्षै என்னென்னில் होतृशाखोक्तहौत्रपरिग्रहन्याय த்தாலே இது परिग्राह्यतमं,
श्रीनिक्षेपरक्षायां -
इदं च नित्यं भगवदर्चनं शौनकबोधायनाद्युक्तं तावन्मात्राधिकारिणां, विशिष्टाधिकारिणां त्वनन्यभगवच्छास्त्रसिद्धं, तच्च प्रपत्तिगर्भमिति तदिह परमैकान्तिनो भगवदाराधनप्रयोगं वक्ष्य
इत्यारभ्योक्तं, श्रीसाध्योपायशोधनाधिकारे -
இப் प्रप्रन्न னுக்கு பூசித்தும் போக்கினேன் போது என்கிற अनन्ये प्रयोजनपूजाविशेष த்தை अथ परमैकान्तिनो भगवदाराधनप्रयोगं वक्ष्ये, भगवत्कैङ्कर्यरतिः ‘परमैकान्ती भूत्वा’என்று துடங்கி நித்யத்தாலே अत्यर्थप्रियाविरतविशदतमप्रत्यक्षरूपतापन्नानुध्यानेन ध्यायन्नासीत என்று அருளிச் செய்தார்
इति श्रीसूक्तिभिः श्रीभाष्यकारनित्याराधनस्य प्रपन्नशिष्टपरिगृहीतत्वस्यानुगृहीतत्वात्, मुक्तकैङ्कर्यतुल्यस्वयंप्रयोजनोत्तरकैङ्कर्यश्रीप्रधानतमभगवदाराधनस्यापि तद्विग्रहविशिष्टविषयत्वौचित्याच्च, श्रीयामुनाचार्यस्तोत्रगद्यरूपद्वयानुसन्धानपरीवाहग्रन्थेषु नित्यविग्रहविशिष्टानुसन्धानावगमात्, श्रीद्वयाधिकारे - செய்தார் चरणौ என்கிற शब्दं नित्य மான दिव्यमङ्गलविग्रह த்துக்கு उपलक्षक ம் श्रियःपति யினுடைய सर्वस्मात्परत्व மும் नित्यविग्रहयोग மும் ज्ञातव्य ங்களில் प्रधान ம்
इत्यादिना
चरणौ என்கிறவிடத்தில் नित्यविग्रहयोग ம் अनुसन्धेय ம்
इत्यन्तेन शणागत्यनुष्ठानसमये नित्यविग्रहविशिष्टस्यानुसन्धेयत्वोक्तेः, यथाक्रतुन्यायेन तद्विग्रहविशिष्टकैङ्कर्यपर्यन्तब्रह्मानुभवस्यैव प्राप्तिरूपत्वानुशासनात् श्रीभाष्यकारनित्यप्रकारेणैव इज्या अनुष्ठेयेति भावः ।
[[175]]
होतृशाखोक्तहौत्रपरिग्रहन्यायश्चेत्थं – तान्त्रिकोक्तः होतृशाखा ऋग्वेदः तदुक्तहौत्रम् अध्वर्युभिरुपादेयं न वेति विशये नेति पूर्वपक्षः, कल्पं बहु वा स्वशाखोक्तं ग्राह्यमिति धर्मज्ञसम्मतेः । सिद्धान्तस्तु ऋग्वेदोदितहौत्रमेवाध्वर्युभिरपि ग्राह्यम् । अधिकृतशास्त्रप्रतिपादितस्य साङ्गपूर्णोपदेशयुक्तस्य ग्राह्यतया ऋग्वेदविहितस्य हौत्रस्यैव तथात्वात् । यजुर्वेदस्याध्वर्युकर्मण्यधिकृतया हौत्रानधिकृतत्वादिति ।
विश्वास-प्रस्तुतिः
अत्र वङ्गिवंशेश्वरकारिकायां भूतशुद्धिप्रकरणे ‘त्रिर्वाथ पञ्चकृत्वः’ इत्यारभ्य प्रथमं प्राणायामत्रयपञ्चकपूर्वकं स्वदेहे शोषणादिकमुक्तं, नित्ये प्रथमं पञ्चोपनिषन्मन्त्राणां संहारन्यासमात्रमभिधाय
प्राणायामेनैकेन दक्षिणेन पाणिना नाभिदेशे मूलमन्त्रं न्यसेत्
इत्यादिना शोषणदाहने अभिधाय भगवद्दक्षिणपादे मूलमन्त्रेण स्वात्मनः प्रेशमभिधाय “अपरेण प्राणायामेने"त्यादिना क्रमव्यत्यासो महीयान् दृश्यते । तथा आधारशक्त्यादिकल्पनेऽपि महीयान् प्रक्रियाभेदो विदुषां स्फुटः । तथा कल्पिते नागभोगे भगवतो ध्यानप्रकरणे,
वामोरूपरि विन्यस्तदक्षिणाङ्घ्रिसरोरुहम् । प्रसार्याधाय वामाङ्घ्रिं पादपीठाम्बुजान्तरे ॥
इत्यादिना प्रसारितवामपादमाकुञ्चितदक्षिणपादं ध्येयरूपमुक्तमिति महान् भेदः । कारिकायां मूलमन्त्रेण ध्यानमुक्तम् । नित्ये तु पञ्चोपनिषन्मन्त्रैर्ध्यानमिति मन्त्रेऽपि भेदः ।
[[176]]
अतः
भाष्यकारोक्तनित्यानुष्ठाननिष्ठस्य
इत्यादिना परमैकान्तिनां श्रीभाष्यकारोक्तनित्यग्रन्थनिष्ठाया एवाचार्यपादैरुक्तत्वात्
भाष्यकारानुक्तमन्त्रन्यासः तच्छिष्याद्युक्तप्रकारेणानुष्ठेय इति ज्ञापनाय
इत्यादिना द्वितीयाधिकारे भाष्यकारानुक्तांशस्यापेक्षितस्य तच्छिष्यप्रशिष्याद्युक्तप्रकारेणानुष्ठेयतोक्तेश्च नित्यप्रकारेणैव सर्वमनुष्ठेयम् । अनुक्तन्यासादिकन्तु
न्यासेन देवमन्त्राणां देवतादात्म्यभावनात् ।
अप्राकृताङ्गकरणात् पूजामर्हति साधकः ॥
इति तृतीयाधिकारोपात्तवचनेन मन्त्रन्यासादीनामिज्याधिकारार्थत्वावगमेनापेक्षितत्वात् वङ्गिवंशेश्वरोक्तप्रकारेणैवानुष्ठेयम् ।

वङ्गिवंशेश्वराद्युक्तनित्यविग्रहविशिष्टाराधनानां संहिताभेदमूलकतया वैकल्पिकत्वात् वैकल्पिके पूर्वोपदेशानुष्ठानपरम्परासिद्धस्यैव ग्राह्यतया श्रीभाष्यकारनित्याराधनस्यैव तथाविधतया ग्राह्यत्वसिध्यर्थं तत्तदिज्याप्रक्रियाभेदमाह - अत्रेत्यादिना । श्रीसाध्योपायशोधनाधिकारे वङ्गिवंशेश्वरनारायणमुन्यादिनित्यप्रस्तावे
அவற்றிலுள்ள वैषम्य ங்கள் அவ்வோ संहिताविशेष ங்களில் சொல்லும் விகற்பங்களாலே सङ्गत ங்கள்
इत्यनुगृहीतम् । श्रीनिक्षेपचिन्तामणौ वङ्गिवंशेश्वरादिनिबन्धनसम्प्रदायस्य उच्छिन्नप्रायत्वमनुगृहीतम् । नित्ये तु कल्पिते नागभोगे इत्यादिनेति ।
[[177]]
श्रीस्तोत्रभाष्ये
यथोक्तं श्रीविष्वक्सेनसंहितायां -
वैकुण्ठे तु परे लोके श्रिया सार्द्धं जगत्पतिः ।
श्रीसहायो जगत्पतिः, उभाभ्यां भूमिनीलाभ्यां सेवितः परमेश्वरः ॥
महायोगी जगद्धाता दिव्यसिंहासनोपरि ।
दिव्यसंस्तरणोपेते शेषा हि फणिमण्डिते ॥
पञ्चोपनिषदाम्नातदिव्यमङ्गलविग्रहः ।
अप्राकृततनुर्देवो नित्याकृतिपरो युवा ।
नित्यातीतो जगद्धाता नित्यैर्मुक्तैश्च सेवितः ।
बद्धाञ्जलिपुटैर्हृष्टैर्निर्ममैर्निरुपद्रवैः ।
चतुर्भुजश्श्यामलाङ्गः श्रीभूभ्यां नीलया सह ।
विमलैर्भूषणैर्नित्यैर्भूषितो नित्यविग्रहः ।
पञ्चायुधैस्सेव्यमानश्शङ्खचक्रधरो हरिः ।
सहस्रस्थूणसंयुक्ते मण्डपे परमेश्वरः ।
विन्यस्य वामकं बाहुमासने वामपार्श्वके ।
दक्षिणं जानुके न्यस्तं लम्बयन् जगतां पतिः ॥
इति ।
एवमेव ध्यानं भाष्यकारैः नित्ये प्रोक्तमित्यनुगृहीतमिहानुसन्धेयम् । ननु श्रीभाष्यकारनित्याराधनस्यातिविस्तृततया देशकालावस्थानुगुण्येन संकुचितधर्मशास्त्रविहितसामान्यमन्त्रकरणकाराधनमपि कार्यमिति चेन्न;
[[178]]
देशकालादिवैगुण्यदशायामपि परमैकान्तिनां श्रीमदष्टाक्षरकरणकसंक्षिप्ताराधनस्य “श्रीपराशरभट्टारकैश्च” इत्यादिकया
हरिं प्रणम्य चायम्य प्राणान् प्रणिपतन्गुरून्
इत्यारभ्य श्रीमदष्टाक्षरमन्त्रस्य ऋषिच्छन्दोदेवताबीजशक्तीः प्रकाश्य भाष्यकारानुक्तो मन्त्रन्यासः तच्छिष्याद्युक्तप्रकारेणोपादेय इति ज्ञापनाय,
मन्त्रन्यासं ततः कृत्वा मन्त्रार्थमपि चिन्तयेत्
इति सङ्ग्रहेणाभिधाय (पूर्वग्रन्थेष्वनिवेशितमन्त्रार्थमत्यन्तोपयुक्ततया स्वयमेवाभिधाय)
एवं सञ्चिन्त्य मन्त्रार्थं ततस्तत्पुरुषं परम्
इत्यादिना पूर्वैरुक्तं ध्यानं संक्षिप्य, तदनुक्तं पादादिकेशान्तध्यानं प्रपञ्च्य षोडशोपचारक्रमेण समाराधनं विहितम् । उपचारान्तराणामपि सर्वेषाम् एते षोडशप्रधानतमाः तदनुबन्धेनैवान्यत् सर्वमनुष्ठीयते । देशकालावस्थाद्यनुसारेण संक्षेपविस्तारस्वीकारश्च शास्त्रीयः । अतः पूर्वैरैककण्ठ्यमिहानुसन्धेयम् इत्यन्तया द्वितीयाधिकारश्रीसूक्त्या,
उक्तं च नारदीये श्रीमदष्टाक्षरब्रह्मविद्यायां षोडशोपचारोक्त्यनन्तरं
एवमष्टाक्षरेणैव सर्वत्रार्चनकर्मणि ।
उपचारानिमान् कुर्वन् भक्तियुक्तेन चेतसा ॥
इति तृतीयाधिकारश्रीसूक्त्या च स्फुटतरमुपलब्धेः । अतः श्रीभाष्यकारतच्छिष्याचार्यपादसम्प्रदायस्थानां तत् श्रीसूक्तिविश्वासशालिनां श्रीभाष्यकारनित्यप्रकारेणैव इज्यानुष्ठेया ।
[[179]]
तद्विरुद्धसामान्यमन्त्रकरणकाराधनादिप्रयोगरचनानुष्ठानप्रवर्तनान्यनादरणीयानिति प्रघट्टिकाफलितार्थः ।
इदं च भगवदाराधनं नित्यं ब्रह्मचर्यप्रभृति । अनुगृहीतं श्रीनिक्षेपरक्षायां —
वैश्वदेववत् पञ्चमहायज्ञवच्च देवतार्चनं नित्यं, तच्च ब्रह्मचर्यप्रभृति । यथोक्तं मन्वादिभिः ।
स्नात्वा नित्यं शुचिः कुर्याद्देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव समिदाधानमेव च ॥इति भगवदर्चनमेव त्वनन्यानाम् । तच्च
गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ।
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ॥इत्यादिना महाभारतादिसिद्धम्
इत्यादिना । श्रीपाञ्चरात्ररक्षायां -
नित्यं चैतद्वैश्वदेववद्भगवत्समाराधनं, नित्यमाराधयेद्धरिमिति वचनात् ।
शौनकोऽहं प्रवक्ष्यामि नित्यं विष्ण्वर्चनं परम् ।
प्रवः पान्थमन्धसोऽधि इत्यर्धर्चविधानतः ॥इति सूत्रान्तरानुसारात् ।
स्नात्वा नित्यं शुचिः कुर्याद्देवर्षिपितृतर्पणम् ।
देवताभ्यर्चनं चैव समिदाधानमेव च ॥इति सामान्यतो मनूक्तेश्च । उक्तञ्चानुशासनिके श्रीपुण्डरीकनारदसंवादे -
ब्रह्मचारी गृहस्थोऽपि वानप्रस्थोऽथ भिक्षुकः ।
केशवाराधनं हित्वा नैव याति पराङ्गतिम् ॥
इति ।
[[180]]
भरद्वाजसंहितायां -
नित्यं विष्णुपरं कर्म कुरु निन्द्यानि मा कृथाः ।
सदात्मानं विबुध्यस्व मा कामेषु मनः कृथाः ॥
यजस्व नित्यमात्मेशं मा नंसीरन्यदेवताः ॥
इति शिष्यकर्तव्योपदेशानन्तरं
यथोक्तविधिना पूर्वं स्थापितं शुभविग्रहम् ।
श्रीभूमिनीलासहितं परिवारैस्समन्वितम् ।
अव्यक्तपरिवारं वा देवं सङ्ग्राह्य याजयेत् ॥
इति यागसंस्कारो विहितः । एवं च उपनयनप्रभृति सामान्यतो भगवदाराधनस्य विहितत्वात् यागसंस्कारदशायां याजयेदित्याचार्यकर्तृकयाजनविधानात् देवर्षितर्पणसमिदाधानवदाराधनं प्रतिपुरुषं कर्तव्यमिति सिद्धम् । न च
एकपाकेन वसतां पितृदेवद्विजार्चनम् ।
एकं भवेत् विभक्तानां तदेव स्यात् पृथक् पृथक् ॥
इति वचनात् अविभक्तेषु एकेनैव भगवदाराधनं कार्यमिति वाच्यम् ।
[[181]]
तत्र देवार्चनशब्दस्य साङ्केतिककुलदेवताराधनपरतया प्रतिदिनकर्तव्यनित्याराधनविषयत्वाभावात् तद्वचनव्याख्याने विज्ञानेश्वरेण एवमुक्तं -
पित्रर्चनं प्रातिसंवत्सरिकश्राद्धादिरूपं देवार्चनं साङ्केतिककुलदेवताराधनरूपं द्विजार्चनमतिथिपूजादिरूपमिति । दर्शसङ्क्रमणग्रहणश्राद्धादेरविभक्तदशायामपि प्रत्येकं कर्तव्यत्वात् पित्रर्चनपदं यथा विशेषपरं तथा ब्रह्मचर्यप्रभृतिदेवर्षिपितृतर्पणसमिदाधानसहपठितदेवतार्चनस्यापि अविभक्तदशायामपि कर्तव्यत्वात्, देवार्चनपदं उक्तविशे[[ष??/विषय??]] परमित्यभिप्रायः । प्रतिपुरुषं देवतार्चनं बहुष्वास्तिकेषु दृश्यते । केषुचित्तदकरणमालस्यमूलं कृत्याकरणमेवेति बोध्यम् ।
श्रीपाञ्चरात्ररक्षायां नित्य-व्याख्यानम्
एक-देशिभिस् तदानीम् एवापहृतं लुप्तम् । +++(5)+++
तत्र प्रातः-स्नान-प्रकरणे
वक्ष्यमाण-क्रमेण तीर्थावाहनादि-पूर्वकं सर्व-क्रिया-मूल-भूतं स्नानम् आचरेत्
इति वाक्यम्
इज्यायां स्नान-प्रपञ्चनम् अभिप्रेत्य प्रवृत्तम् ।
इज्यां भाष्यकारोक्त-नित्य-ग्रन्थ-विवरण-मुखेन व्याख्यास्याम
इति नित्य-ग्रन्थ-विवरणं प्रतिज्ञाय,
अथ परमैकान्तिनो भगवदाराधनप्रयोगं वक्ष्ये
इत्य्-अत्र
अथ गद्ये यथावत् प्रपत्ति-प्रतिपादनानन्तरं,
तत एव तन्-निष्ठाधिकारि-विशेष-सिद्धि-समनन्तरं यथावस्थितस्वरूपरूपगुणविभूतिलीलोपकरणविस्तारमनुसन्धाय तमेव शरणमुपगच्छेदखिलेत्यादिनेति वक्ष्यमाणानुसाराच्चात्र तथाविधशरणागतिविषयगद्यग्रन्थस्य पूर्ववृत्तत्वं विवक्षितमिति ज्ञायत
इत्यथ शब्दार्थमुक्त्वा,
[[182]]
परमैकान्तिशब्दार्थाधिकारिस्वरूपं प्रतिपाद्यानधिकारापादकदोषविशेषापचारविशेषांश्च उपपाद्य,
सर्वेषामन्ततो भगवत्प्राप्तिस्समाना । विकलानाम् अपि भागवतानाम्
इतीज्या-ग्रन्थो ऽवसितो दृश्यते ।
नित्यकृत्स्नव्याख्या न दृश्यते ।
व्याख्यातमभिगमनं व्याख्यातमुपादानं व्याख्यातः स्वाध्यायः
इतिवत् ‘व्याख्यातेज्ये’ति वाक्यं नास्ति ।
न हि नित्य-ग्रन्थ-विवरणं प्रतिज्ञाय
प्रतिज्ञा-वाक्य-मात्रं व्याख्यातम्
इति वक्तुं शक्यते ।
एकदेशि-परिगृहीत-नित्य-व्याख्याने
गद्योक्त-शरणागत्य्-अनुष्ठात्र्-अधिकारि-कर्तव्येज्यायाम् अप्य्
अनुध्यानानुकूल-मनो-वृत्ति-सिध्यर्थं
गद्योक्त-शरणागति-कर्तव्यत्व–तत्-स्थापन-पूर्वकं मोक्षार्थ-शरणागति-स्थापनादिकम्
‘आर्तोपच्छन्दनं गद्यम्’ इति वादिनाम् एकदेशिनाम् अत्यन्त-बाधकम्
इति नित्य-व्याख्यापहारस् सम्भावितः । +++(4)+++
आचार्यैस् तत्र तत्राचार्य-पादानुगृहीत-वाक्यानि वङ्गिवंशेश्वरादि-सम्प्रदाय-ग्रन्थवाक्यानि पाञ्चरात्रप्रमाणान्यनुसृत्य
इज्या निरूप्यत इत्यनुसन्धेयम् । यदन्योक्तं - नित्ये
तत्तन्मन्त्रेण भगवत्पर्यन्ताभिधायिना मूलमन्त्रेण
इत्यादेः,
श्रीवैकुण्ठादिपार्षदान्तं तर्पयित्वा
इत्यन्तस्य वाक्यस्य सत्त्वात् व्यापकमन्त्रसहिततत्तन्मन्त्रैरेव मन्त्रप्रोक्षणादिकं परमैकान्त्यनुष्ठेयमिति । तन्मन्दं – नित्ये सन्ध्याघट्टप्रक्षिप्तत्वस्य श्रीनिक्षेपचिन्तामणौ व्यवस्थापिततत्वात् । अयमर्थस्सत्पथरक्षायां प्रथमपरिच्छेदेऽस्माभिरुपपादितः ।
[[183]]
किञ्च श्रीपाञ्चरात्ररक्षायां -
अथ परमैकान्तिनो भगवदाराधनप्रयोगं वक्ष्य
इत्यारभ्य शौनकव्यासबोधायनादिधर्मशास्त्रानुक्तेन भगवच्छास्त्रोक्तवर्त्मना स्थानविशेषादिपूर्वकविलक्षणसमाराधनप्रक्रियाप्रतिपादनं कथं भूतमधिकारिणमधिकृत्य भाष्यकारैः कृतमिति कर्णे तवागतम् इति श्रीसूक्त्या श्रीभाष्यकारनित्यस्थस्नानादिप्रक्रिया भगवच्छास्त्रमूलकेति प्रतीयते । तत्प्रक्रियायाः पठ्यमानाहिर्बुध्न्यसंहितामूलकत्वं स्फुटतरमुपलभ्यते । तत्संहितायामष्टाविंशेऽध्याये -
तीर्थं गत्वा शुचौ देशे मृदमादाय मन्त्रतः ।
द्वेधा कृत्वैकभागेन कुर्याद्देहविशोधनम् ॥
स्नात्वाचम्य गृहीत्वान्यं मृद्भागं विन्यसेत्त्रिधा ।
वामे पाणौ दिशां बन्धं विदध्यादेकभागतः ॥
गात्रलेपं ततः कुर्यादन्येनांशेन नारद ।
सङ्कल्पयेत्तृतीयांशं तीर्थपीठमतः परम् ॥
गङ्गां तत्र स्मरेद्विष्णोः वामपादविनिस्सृताम् ।
अर्घ्यमस्या निवेद्याथ ततो हृत्वा जलाञ्जलिम् ॥
स्वमूर्ध्नि सिञ्चेत् त्रिःकृत्वः सप्तकृत्वोऽभिमन्त्रितम् ।
पीत्वा पुनस्समाचम्य प्रोक्षयेदात्मनस्तनुम् ॥
निमग्नस्तत्र देवस्य पादाब्जन्यस्तमस्तकः ।
यथाशक्ति जपेन्मन्त्रं तस्य ध्यानपरायणः ॥[[184]]
तत उत्तीर्य चाचम्य धृत्वा वस्त्रोत्तरीयके ।
धृतोर्ध्वपुण्ड्रः स्वाचान्तो देवादीनच्युतात्मकान् ॥
ध्यात्वा सन्तर्पयेदन्यदाह्निकं विधिवच्चरेत् ।
यागभूमिं समागम्य क्षालिताङ्घ्रिकरो वशी ॥
आचम्य वाग्यतो भूत्वा प्रारभेत समर्चनम् ।
अर्चयामि त्वदीयोऽहं त्वद्दत्तैरौपचारिकैः ॥
सांस्पर्शिकैरिति ब्रूयादेनमाभ्यवहारिकैः ॥
इति वचनानि सन्ति । नित्ये ‘तीर्थं गत्वा शुचौ देशे’ इत्यादिभिः
शुद्धवस्त्रधरो धृतोत्तरीयः ऊर्ध्वपुण्ड्रान् तत्तन्मन्त्रेण धारयित्वा
इत्यन्तवाक्यैः, ‘तीर्थं गत्वा शुचौ देशे’ इत्यादिभिः
तत उत्तीर्य चाचम्य धृत्वा वस्त्रोत्तरीयके । धृतोर्ध्वपुण्ड्र
इत्यन्तैरुदाहृतानिरुद्धसंहितावाक्यैः प्रतिपादितार्थाः प्रत्यभिज्ञायन्ते । उपरि ‘यागभूमिं गच्छेदि’त्यादिभिर्वाक्यैः स्वनियाम्येत्यादिसात्त्विकत्यागवाक्ये
औपचारिकसांस्पर्शिकाभ्यवहारिकादिसमस्तभोगान्
इति वाक्येन भूतशुद्धिप्रकरणवाक्यैश्च
यागभूमिं समागम्य क्षालिताङ्घ्रिकरो वशी ।
आचम्य वाग्यतो भूत्वा प्रारभेत समर्चनम् ॥[[185]]
अर्चयामि त्वदीयोऽहं त्वद्दत्तैरौपचारिकैः ।
सांस्पर्शिकैरिति ब्रूयादेनमाभ्यवहारिकैः ॥
संहरेदेव तत्वानि प्रतिसञ्चर वर्त्मना ।
ततः स्थूलमिदं देहं शोषयित्वाथ सन्दहेत् ॥
प्राणायामेन चाद्येन मन्त्रं नाभ्यान्तु विन्यसेत् ।
तदुद्भूतेन नादेन सुषुम्नामध्यवर्तिना ॥
वायुमण्डलमभ्येत्य तदुत्थेनैव वायुना ।
संशोषयेदिमं देहं स्थूलं सुरमुने ततः ॥
प्राणायामद्वितीयेन हृदये विन्यसेन्मनुम् ।
मन्त्रोत्थेनाग्निना देहं दहेन्मण्डलवर्तिना ॥
तृतीयेन स्वमात्मानं प्राणायामेन देशिकः ।
अथो निवेशयेद्विष्णोर्वामपादाम्बुजस्य वै ॥
स्वं तदङ्गुष्ठनिष्ठ्यूतपीयूषाप्लावितं स्मरेत् ।
पञ्चोपनिषदैर्मन्त्रैः ततस्सञ्जातविग्रहम् ॥
न्यस्ताङ्गो मन्त्रविन्मन्त्रैश्चिन्तयित्वा सुदर्शनम् ।
इति तत्संहितावचनविहितयागभूमिगमनसात्त्विकत्यागभूतशुद्धिप्रकाराः प्रत्यभिज्ञायन्ते ।
देवानृषीन्पितॄन्भगवदात्मकान् ध्यात्वा सन्तर्प्य
इति वाक्येन
धृतोर्ध्वपुण्ड्रः स्वाचान्तो देवादीनच्युतात्मकान् । ध्यात्वा सन्तर्पयेत्
इति तत्संहितावचनविहिततर्पणक्रमः स्मारितः ।
[[186]]
एवं चोर्ध्वपुण्ड्रधारणानन्तरं भगवदात्मकत्वध्यानपूर्वकं देवर्षिपितृतर्पणस्यैव तत्संहितावचनावगतत्वेन, नित्ये ऊर्ध्वपुण्ड्रधारणकथनानन्तरं
देवानृषीन् पितॄन् भगवदात्मकान् ध्यात्वा सन्तर्प्य
इति वाक्यसत्त्व एव पूर्वोपदर्शितस्नानोर्ध्वपुण्ड्रयागगृहगमनाराधनसात्त्विकत्यागभूतशुद्धिक्रमप्रतिपादकतत्संहितावचनानुगुण्यं भवति । तत्संहितायां
ध्यात्वा सन्तर्पयेदन्यदाह्निकं विधिवच्चरेत्
इत्युक्तेः । तद्विहितदेवादितर्पणं स्नानाङ्गमिति प्रतीयते । तदनन्तरं विधिवदाह्निकविधानं त्रयीधर्मशास्त्रविहितमिति स्वीकार्यम् । तत्संहितायां पञ्चदशेऽध्याये
श्रौतस्मार्तक्रियानित्यो नित्यनैमित्तिके रतः ।
ईदृग्गृहस्थो जिज्ञासुः प्राप्य ज्ञानमनुत्तमम् ।
प्राप्तवेदान्तविज्ञानः वैष्णवं श्रयते पदम् ॥
इति श्रौतस्मार्तक्रियानुष्ठानस्यैव विधानात् व्यापकयोजनप्रमाणादर्शनाच्च ।
तत्तन्मन्त्रेण भगवत्पर्यन्ताभिधायिना
इत्यारभ्य
श्रीवैकुण्ठादिपार्षदान्तं तर्पयित्वा
इत्यन्तं वाक्यं नित्यमूलाहिर्बुध्न्यसंहितानननुगणत्वात् प्रक्षिप्तमेवेति स्वीकार्यम् ।
[[187]]
वङ्गिवंशेश्वरैः श्रीभाष्यकारोक्तमूलमन्त्रकरणकस्नानवस्त्रधारणानन्तरं
धृतोर्ध्वपुण्ड्रो देवर्षिपितॄन् सन्तर्प्य मन्त्रतः ।
प्रयतः परया भक्त्या स्वकर्माराध्यमच्युतम् ॥
आदित्यमण्डलान्तःस्थं प्रणम्य मनसा स्मरन् ।
सन्धातृत्वेन सर्वेषां सन्ध्येति परिकीर्तितम् ॥
श्रुतिस्मृत्युदितं कर्म स्ववर्णस्वाश्रमोचितम् ।
फलाभिसन्धिरहितं परब्रह्मार्चनात्मकम् ॥
न्यस्य कर्तृत्वभोक्तृत्वे स्वामित्वं च परात्मनि ।
नित्यनैमित्तिकैः काम्यैः कर्मभिश्च समन्वितम् ॥
गायत्रीजपपर्यन्तं मन्त्राचमनपूर्वकम् ।
सान्ध्यं कर्माखिलं साधु समाप्य च यथाविधि ॥
ततः स्वकर्मभोक्तारमादित्यान्तरवस्थितम् ।
उपस्थाय स्वकैर्मन्त्रैर्नारायणमतन्द्रितः ॥
ततो माध्यन्दिनं कर्म स्वोदितं श्रुतिचोदितम् ।
स्नानादिब्रह्मयज्ञान्तं कृत्वाखिलमतन्द्रितः ॥
इत्यूर्ध्वपुण्ड्रदेवर्षितर्पणसामान्यमन्त्रकरणकमाध्यन्दिनसन्ध्योपासनादिकमुक्तम् ।
[[188]]
श्रुतिस्मृत्युदितं कर्म यावच्छक्ति परात्मनः ।
आराधनत्वेनापाद्य सोर्ध्वपुण्ड्रश्च तर्पयेत् ॥
आपो हीत्यादिभिर्मन्त्रैर्वाचकैः परमात्मनः ।
सम्प्रोक्ष्य मन्त्राचमनं मन्त्रैस्तत् प्रतिपादकैः ॥
आदित्यान्तःस्थितायार्घ्यं वितीर्य परमात्मनः ।
प्रतिपादिकया विष्णोः सावित्र्या तं जपेद्धरिम् ॥
ध्यायन् जप्त्वोपतिष्ठेत तमेव पुरुषोत्तमम् ॥
इति भट्टारकनारायणमुनिभिः व्यापकयोजनं विना श्रुतिस्मृतिविहितसन्ध्योपासनादिकं प्रत्यपादि । श्रीपाञ्चरात्ररक्षायां तत्र तत्र
श्रीभाष्यकारोक्तनित्यानुष्ठाननिष्ठस्य ब्राह्ममुहूर्तादिप्राप्तौ यत् कर्तव्यं तत्तावत् तच्छिष्यप्रशिष्यग्रन्थतन्मूलसंहिताद्यनुसारेण संगृह्यत
इत्युक्त्वा,
स्वसूत्रविहितमेव सन्ध्योपासनादिकं कर्तुमुचितम्
इत्यभिधाय, तत्रोदाहृतसम्प्रदायवचनानि प्रमाणत्वेनोदाहृतानि श्रीचरमश्लोकाधिकारे वङ्गिवंशेश्वरादिवचनानां श्रुतिस्मृतिविहितसामान्यमन्त्रकरणकवर्णाश्रमानुष्ठानपरत्वमेवानुगृहीतम् । तत्सर्वं सत्पथरक्षायां प्रथमपरिच्छेदेऽस्माभिः प्रपञ्चितम् । एवं च श्रीभाष्यकारोक्तनित्यानुष्ठाननिष्ठविषये मूलमन्त्रयोजनं विना श्रुतिस्मृतिसूत्रमात्रविहितसन्ध्यादिनित्यनैमित्तिककर्मानुष्ठेयत्वस्य श्रीभाष्यकारशिष्यप्रशिष्याचार्यपादनिबन्धनसिद्धत्वात् व्यापकयोजनप्रमाणानां मूलवेदसंस्कृतपञ्चरात्रदीक्षितोभयविषयत्वस्य प्रमाणसम्प्रदायैः सत्पथरक्षायामस्माभिः स्थापितत्वात् । नित्यस्थसन्ध्याघट्टप्रक्षिप्तत्वं सत्त्वस्थैः प्रामाणिकैरङ्गीकार्यम् । अतः आचार्यप्रदर्शितरीत्यैव माध्याह्निकं कार्यमिति सिद्धम् ।
[[189]]
प्रयोगः
विश्वास-प्रस्तुतिः
अथेज्या ।
तृतीये काले
मूलम्
अथेज्या ।
तृतीये काले
आह्निकार्थप्रकाशिका
अथेज्याप्रयोगमाह – अथेज्येति ।
विश्वास-प्रस्तुतिः
कृतञ्च करिष्यामि + इज्याया भगत्कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि, भगवतो बलेन + करिष्यामि, भगवानेव + इज्याख्यं कर्म स्वस्मै स्वप्रीतये स्वयमेव कारयतीत्यनुसन्धाय
मूलम्
कृतञ्च करिष्यामि + इज्याया भगत्कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि, भगवतो बलेन + करिष्यामि, भगवानेव + इज्याख्यं कर्म स्वस्मै स्वप्रीतये स्वयमेव कारयतीत्यनुसन्धाय
आह्निकार्थप्रकाशिका
इज्यासङ्कल्पसात्त्विकत्यागावाह — कृतं च करिष्यामीत्यादिना ।
विश्वास-प्रस्तुतिः
प्रातःस्रानोक्तप्रकारेण माध्याह्निकस्नानं सङ्कल्पपूर्वकं देवर्षिपितृतर्पणान्तं कुर्यात् ।
मूलम्
प्रातःस्रानोक्तप्रकारेण माध्याह्निकस्नानं सङ्कल्पपूर्वकं देवर्षिपितृतर्पणान्तं कुर्यात् ।
आह्निकार्थप्रकाशिका
माध्याह्निकस्नानमाह - प्रातःस्रानोक्तप्रकारेणेति । अत्र प्रमाणजातं पूर्वमुदाहृतम् ।
विश्वास-प्रस्तुतिः
अथवा धर्मशास्त्रोक्तप्रकारेण मृत्तिकागोमयादिकं गृहीत्वा नद्यादिकं गत्वा सुप्रक्षालितपाणिपादस्तीरं संशोध्य द्विराचम्य त्रिः प्राणानायम्य, श्री गोविन्देत्यादि + भगवत्प्रीत्यर्थं कर्मण्यतासिध्यर्थं नद्यादौ माध्याह्निकस्रानं करिष्य इति सङ्कल्प्य, ‘समस्त - जगदाधारे’ति साञ्जलिर्भगवन्तमनुज्ञाप्य, तीर्थाधिदैवतं श्रीरङ्गनाथादिकमनुज्ञाप्य, दूर्वां,
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरा ।
शिरसा धारिता देवि रक्षस्व मां पदे पदे ॥
उद्धृतासि वराहेण + त्वयि सर्वं प्रतिष्ठितम् ॥
इति मृदञ्च गृहीत्वा, तीरं संशोध्य संस्थाप्य, नाभिदघ्नजले सरसि स्नात्वा, मृदं गृहीत्वा, “अश्वक्रान्त" इत्यादिसप्तवाक्यान्युच्चार्य, आर्द्रामलक-मात्रया एकया मृदा शिरसि आलिप्य, नाभेरुपरि द्वाभ्याम् अथ त्रिभिः षड्भिः पादद्वयञ्चालिप्य, ‘“गन्धद्वारा”मिति गोमयमालिप्य स्नात्वा, षडृचं वारुणसूक्तं
आपो वा इदं सर्वं विश्वा भूतान्यापः प्राणा वा आपः पशव आपोऽमृतमापोऽन्नमापस्सम्राडापो विराडापः स्वराडापश्चन्धाँ स्यापोज्योतीँष्यापस्सत्यमापस्सर्वा देवता आपो भूर्भुवस्सुवराप ओं
इति यजुः, आपो हिष्ठेति तिस्रः, हिरण्यवर्णा इति चतस्रः पवमानानुवाकं च जपित्वा प्रोक्ष्य, सूर्यं प्रणवेन निरीक्ष्य,

धर्मशास्त्रोक्त-स्नानप्रकारमाह – अथवेति । धर्मशास्त्रोक्तस्त्रानमपि उपदेशपरम्परागतं परमैकान्तिकर्तव्यमिति आचार्यपादश्रीसूक्तिभिः सत्पथरक्षायां प्रथमपरिच्छेदेऽस्माभिः स्थापितम् ।
हारीतः —
प्रातःस्रातोऽपि मध्याह्ने पुनः स्नानं समाचरेत् ।
न भुक्त्वालङ्कृतो वापि मन्त्रैर्वा स्नानमाचरेत् ॥
एतन्मन्त्रस्नानं प्रातःस्नातस्याप्यशक्तौ द्रष्टव्यम् ।
भोगानुपार्ज्य यागार्थं विधिवत् स्नानमाचरेत् ।
शक्तश्चेदन्यथा रोगात् शाट्या सम्मार्जनं चरेत् ॥
इति शाण्डिल्यस्मृतिवचनमिह भाव्यम् ।
[[190]]
विश्वास-प्रस्तुतिः
शिरश्शोधनाद्यूर्ध्वपुण्ड्रादिकं समाचरेत् ।
मूलम्
शिरश्शोधनाद्यूर्ध्वपुण्ड्रादिकं समाचरेत् ।
आह्निकार्थप्रकाशिका
ऊर्ध्वपुण्ड्रादिकं समाचरेदिति । तत् प्रमाणोपपत्त्यादिकं पूर्वं प्रपञ्चितम् ।
विश्वास-प्रस्तुतिः
वस्त्रनिष्पीडनमात्रं माध्याह्निकसन्ध्यानन्तरं कुर्यात् । ततो द्विराचम्य, प्राणानायम्य, माध्याह्निकसन्ध्यामुपासिष्य इति सङ्कल्प्य, आपोहिष्ठेति पूर्ववत् प्रोक्ष्य, परिषिच्य, आपः पुनन्त्वित्यनुवाकस्याप ऋषिः, अनुष्टुप् च्छन्दः, ब्रह्मणस्पतिर्देवता, अपां प्राशने विनियोगः,
आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् ।
पुनन्तु ब्रह्मणस्पतिर्ब्रह्म पूता पुनातु माम् ॥
यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम ।
सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहँ स्वाहा ॥
इत्यपः प्राश्य, दधिक्राविण्ण इति पूर्ववत् प्रोक्ष्य, एकमर्घ्यं दत्वा, शेषं दधिक्राविण्ण इति पूर्ववत् प्रोक्ष्य, एकमर्घ्यं दत्वा, शेषं पूर्ववत्कुर्यात् । उपस्थाने माध्याह्निकसन्ध्योपस्थानमिति विशेषः । आसत्येनेति षडृचस्य हिरण्यस्तूप ऋषिः, आद्ययोस्त्रिष्टुप्, चतसृणां गायत्रीजगत्युष्णिक्त्रिष्टुभश्छन्दांसि, सविता देवता, माध्याह्निकसन्ध्योपस्थाने विनियोगः, आसत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यञ्च ।
हिरण्ययेन सविता रथेनादेवो याति भुवना विपश्यन् ।
उद्वयन्तमसस्परि पश्यन्तो ज्योतिरुत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ।
उदुत्यं जातवेदसन्देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ।
चित्रन्देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आ प्रा द्यावा पृथिवी अन्तरिक्षँसूर्य आत्मा जगतस्तस्थुषश्च ।
तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ।
पश्येम शरदश्शतम् । जीवेम शरदश्शतम् । नन्दाम शरदश्शतम् ।
मोदाम शरदश्शतम् । भवाम शरदश्शतँ शृणवाम शरदश्शतम् । प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक्च सूर्यं दृशे,
य उददगान्महतोऽर्णवाद्विभ्राजमानस्सरिरस्य मध्यात्समा वृषभो रोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु
इति आदित्यमुपस्थाय सन्ध्यादिनमस्कारादिकं कुर्यात् ।

अथ वस्त्रनिष्पीडनस्य माध्याह्निकान्तरकार्यत्वमुक्त्वा माध्याह्निकसन्ध्योपासनमाह - वस्त्रनिष्पीडनमात्रमित्यादिना । अथ शङ्खेनापि
प्रातस्सन्ध्यां सनक्षत्रां मध्यमां स्नानकर्मणि ।
सादित्यां पश्चिमां सन्ध्यामुपासीत यथाविधि ॥
जमदग्निश्च –
आदित्याभिमुखो मज्जेत् आपो अस्मानिति त्र्यचा ।
मध्यन्दिने चाचामेन्मन्त्रेणापः पुनन्त्विति ।
अग्निश्च मेति सायाह्ने प्रातस्सूर्यश्च मेति च ॥
अत्र भारद्वाजः -
आपः पुनन्त्वित्येतस्य ऋषिराप इति स्मृतः ।
छन्दोऽनुष्टुबिति प्रोक्ता देवता ब्रह्मणस्पतिः ॥
विनियोगः पयःपाने इत्युक्त्वाथ समन्त्रकम् ।
पीत्वा जलमथाचामेदन्यत् प्रातरिवाखिलम् ॥
अन्यन्मार्जनादिजपान्तं कर्तव्यमित्यर्थः ।
[[191]]
स्मृत्यर्थसारे –
अर्घ्यमेकं प्रदातव्यं मध्याह्ने भास्करं प्रति ।
उभयोस्सन्ध्ययोश्चैव अप इत्थं त्रिरुत्क्षिपेत् ॥
यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् ।
अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ॥
विश्वामित्रः –
स्वप्रभं सच्चिदानन्दं हृदये मण्डलेऽपि च ।
ध्यायन् जपेत्तदित्येतां निष्कामो मुच्यतेऽचिरात् ॥
एतां गायत्रीं, हृदये मण्डलेपि चेत्युभयवासस्थानोक्त्या,
स यश्चायं पुरुषे । यश्चासावादित्ये । स एक
इति श्रुत्युक्तध्यानार्थो विवक्षितः ।
अत्र व्यासः -
अथोपतिष्ठेदादित्यं क्षिप्त्वा पुष्पाञ्चिताञ्जलिम् ।
आसत्येतीक्षयन्नर्कमुद्वयं तमसस्परि ॥
उदुत्यं चित्रमित्येतत्तच्चक्षुरिति मन्त्रतः ।
हँसश्शुचिषदित्येतत् सावित्र्या च विशेषतः ॥
अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः ।
प्रदक्षिणं समावृत्य नमस्कुर्यात्ततः क्षितौ ॥
निष्पीड्य स्नानवस्त्रं हि द्विराचम्यार्चयेद्धरिम् ।
अत्रोपस्थानमन्त्रेषु यथोपदेशं कार्यम् ॥
पितामहः —
आसत्येत्र्यक्षु पूर्वे द्वे त्रिष्टुभौ कवयो विदुः ।
गायत्री च तृतीया स्याच्चरमा जगती स्मृता ॥
उष्णिक्तच्चक्षुराद्यस्स छन्द इत्युच्यते बुधैः ।
हिरण्यस्तूप इत्येष ऋषिर्देवोऽत्र भास्करः ॥
भरद्वाजः —
अथोपतिष्ठेदादित्यमासत्येनेति मन्त्रतः ।
आसत्येनेति षडृचां हिरण्यस्तूप इति ऋषिः ।
पूर्वे द्वे त्रिष्टुभौ पश्चात् गायत्री जगती ततः ।
उष्णिक्त्रिष्टुबित्युक्तानि छन्दांस्यर्कोऽधिदेवता ॥
वसिष्ठः –
ऋक्सामाथर्ववेदोक्तान् जपेन्मन्त्राण्यजूंषि च ।
जपित्वैवं ततः कुर्याद्देवर्षिपितृतर्पणम् ॥
अत्र प्रातःकाले ब्रह्मयज्ञाकरणे माध्याह्निकानन्तरतर्पणात् प्राक् ब्रह्मयज्ञः कार्यः । स चार्वाक्तर्पणात्कार्यः ।
पश्चाद्वा प्रातराहुतेः ।
वैश्वदेवावसाने वा नान्यदत्र निमित्ततः
इति रत्नकारस्थवचनजातान्यत्र भाव्यानि । मध्याह्नसन्ध्यायामेकार्घ्यविधानादाचाराच्च काले एकार्घ्यम् । कालातिक्रमे प्रायश्चित्तार्घ्यञ्च कर्तव्यम् । केषाश्चित् कालेऽप्यनेकार्घ्यदानकथनमविमर्शकृतम् । अपरोक्तः मध्याह्ने गायत्रीजपत्यागोऽयुक्तः । अन्योक्तः अष्टाक्षरसम्पुटितगायत्रीजपश्च दीक्षितविषयः । श्रीभाष्यकारसम्प्रदायस्थैः तथा नानुष्ठेय इति सत्पथरक्षायामस्माभिः प्रमाणाचार्यश्रीसूक्त्यादिभिः स्थापितः ।
[[192]]
किञ्च श्रीपाञ्चरात्ररक्षायां प्रातस्सन्ध्योपास्तिविचारे
स्वसूत्रविहितमेव सन्ध्योपासनादिकं कर्तुमुचितम् ।
सायं सन्ध्याप्रकरणे
यथासूत्रं सायं सन्ध्योपासनम्
इति चानुगृहीतम् । आपस्तम्बसूत्रे सन्ध्योपास्त्यदर्शनात् बोधायनसूत्रविहितसन्ध्योपासनमेव स्वसूत्रविहितमिति
स्वसूत्रे विद्यमानेऽपि परसूरत्रेण वर्तते ।
बोधायनमतं कृत्वा स्वसूत्रफलभाग्भवेत् ॥
इति शास्त्रादवगम्यते । बोधायनीयधर्मद्वितीयप्रपाठके ‘अथ हस्तौ प्रक्षाल्ये’त्यादिना
अन्तर्जलगतोऽघमर्षणेन त्रीन् प्राणायामान्धारयित्वा
इत्यन्तेन माध्याह्निकस्नानं विधाय, वस्त्रपरिधानविधानानन्तरम् अप आचम्य दर्भेष्वासीनो दर्भान् धारयमाणः प्राङ्मुखस्सावित्रीं सहस्रकृत्व आवर्तयेत् । “शतकृत्वो ऽपरिमितिकृत्वो वा दशावरामिति । अथादित्यमुपतिष्ठते” इति मध्याह्नसन्ध्योपास्तौ गायत्रीजपो विहितः । मध्याह्नसन्ध्योपास्तौ गायत्रीजपविधायकं ‘सावित्रीं च यथाशक्ती’त्यादिश्रीवैष्णवधर्मशास्त्रवचनं सत्पथरक्षायां तद्विचारावसरेऽस्मदुपात्तम् । विस्तरेण तत्र गायत्रीजपकर्तव्यता स्थापिता । अतः प्रमाणाचार्यपादश्रीसूक्तिविरुद्धो मध्याह्नसन्ध्यागायत्रीजपत्यागवाद इति बोध्यम् ।
विश्वास-प्रस्तुतिः
ततो यथाशक्ति मूलमन्त्रजपः । आधारशक्त्यादितर्पणमपि केचित्कुर्वन्ति ।
मूलम्
ततो यथाशक्ति मूलमन्त्रजपः । आधारशक्त्यादितर्पणमपि केचित्कुर्वन्ति ।
आह्निकार्थप्रकाशिका
तस्मादष्टाक्षरं मन्त्रं मद्भक्तैर्वीतकल्मषैः ।
सन्ध्याकालेषु जप्तव्यम्
इति श्रीवैष्णवधर्मशास्त्रमनुसृत्याह - ततो यथाशक्ति मूलमन्त्रजप इति ।
विश्वास-प्रस्तुतिः
आधारशक्त्यादितर्पणमपि केचित्कुर्वन्ति ।
मूलम्
आधारशक्त्यादितर्पणमपि केचित्कुर्वन्ति ।
आह्निकार्थप्रकाशिका
वासिष्ठसंहितादावनुक्तत्वात् नित्ये सन्ध्याघट्टप्रक्षिप्तत्वस्य श्रीनिक्षेपचिन्तामणौ स्थापितत्वात् वंगिवंशेश्वरैः प्रातःकाल इव मध्याह्ने अनुक्तेः, प्रत्युत
ततो माध्यन्दिनं कर्म स्वोदितं श्रुतिचोदितम् ।
स्नानादिब्रह्मयज्ञान्तं कृत्वाखिलमतन्द्रितः ।
इज्याकाले तु सम्प्राप्ते हृष्टो देवगृहं गतः ॥
इति ब्रह्मयज्ञान्तकथनानन्तरं विधिवद्भगवद्यागकथनात् अनुष्ठानपारम्पर्याभावाच्च मध्याह्ने आधारशक्त्यादितर्पणं न कार्यमित्यभिप्रायेणाह — आधारशक्त्यादितर्पणमपि केचित्कुर्वन्तीति ।
[[193]]
विश्वास-प्रस्तुतिः
श्रीपाञ्चरात्ररक्षायां द्वितीयाधिकारे
धर्मशास्त्रानुक्तेन भगवच्छास्त्रोक्तेन वर्त्मना स्नानविशेषादिपूर्वकं भगवत्समाराधनप्रयोगो भाष्यकृता सङ्गृहीत
इत्यभिधानात् परमैकान्तिनां श्रीभाष्यकारनित्यानुष्ठाननिष्ठानां नित्यप्रकारेणैव माध्याह्निकस्रानं कर्तव्यम् ।

श्रीभाष्यकारनित्यानुष्ठाननिष्ठानां नित्योक्तप्रकारेणैव माध्याह्निकस्नानकर्तव्यत्वं सोपपत्तिकमाह — श्रीपाञ्चरात्ररक्षायामित्यादिना ।
प्रयोगः २
विश्वास-प्रस्तुतिः
अथेज्याप्रयोगः ।
मूलम्
अथेज्याप्रयोगः ।
आह्निकार्थप्रकाशिका
इज्यानुष्ठानप्रकारमाह — अथेति । इयं चेज्यापररूपविषयेति श्रीपाञ्चरात्ररक्षायामनुगृहीतम् ।
अथ मन्त्रसिद्धान्तोपास्यपररूपविषयां भोगार्चनमयीमिज्याम्
इत्यादिना । यदन्योक्तं —
मन्त्रसिद्धान्ते परिवारभेदस्तु गुणीभूतमूर्त्यन्तरयोः वैकल्पिकः
इत्याचार्यपादश्रीसूक्तेः परिवाराणां मूर्तिमत्त्वतदभावरूपो भेदः परिवारभेदः, गुणीभूतमूर्त्यन्तरयोरिति सप्तमी । ते तु मूर्त्यन्तरे श्रीभूमिरूपे, ततश्च एकस्या एव भगवन्मूर्तेः प्राधान्यम् । श्रीभूम्योः गौणतयावश्यं सत्त्वं भूषणायुधादिपरिवाराणां विद्यमानत्वमविद्यमानत्वं वा एतदुभयमपि मुख्यगौणभेदेन भोगभेदकमिति भाव इति । तदयुक्तं – गुणीभूतमूर्त्यन्तरयोरिति पदस्य षष्ठ्यन्तस्य भगवन्मूर्तिपरत्वेन श्रीभूमिपरत्वासम्भवात् ।
नानाव्यूहसमेतं च मूर्तिद्वादशकं च यत् ।
तथा मूर्त्यन्तरयुतं प्रादुर्भावगणं हि यत् ॥
प्रादुर्भावान्तरयुतं धृतं हृत्पद्मपूर्वके ।
लक्ष्म्यादिशङ्खचक्राद्यैः
इत्याचार्यपादोदाहृतपौष्करसंहितावचनैः,
सङ्क्रान्तमन्त्रसिद्धान्तं भेदभिन्नमनेकधा ।
यत्र शान्ततरं व्यूहं शान्तोदितमनन्तरम् ।
सुषुप्तिसंज्ञं स्वप्नाख्यं जाग्रद्व्यूहं यथोदितम् ।
मूर्त्यन्तरं केशवाद्यं प्रादुर्भावं तथान्तरम् ।
हृत्पद्मपद्मपीठादौ लक्ष्यं पुष्ट्यादिशक्तिभिः ।
लाञ्छनैश्शङ्खचक्राद्यैः गरुडप्रमुखैरपि ।
ऋते सिद्धादिभिश्शास्त्रपर्यन्तैर्यजनं हितम् ।
विश्वामित्रनृसिंहस्य दीक्षापूर्वं तथा परम् ।
विभवव्यूहसूक्ष्माख्यमधिकारं यथाक्रमम् ॥
इत्यादिभिः पारमेश्वरप्रायश्चित्ताध्यायवचनैश्च मन्त्रसिद्धान्तेऽनेकमूर्त्याराधनविधानात्,
[[194]]
एकैव मूर्तिराराध्या प्राधान्येनोत्तराः पुनः ।
देव्यः श्रियादयश्चापि सम्पूज्याः परिवारवत् ॥
आयुधैश्शङ्खचक्राद्यैः श्रीवत्साद्यैश्च भूषणैः ।
मूर्तिमद्भिः परिवृताः केवलं वाम्बुजासन ।
कथ्यते यत्र तत् प्रोक्तं मन्त्रसिद्धान्तमग्रिमम् ॥
इति श्रीपाञ्चरात्ररक्षोदाहृतश्रीपौष्करवचनैः एकस्या भगवन्मूर्तेः प्राधान्येनाराध्यत्वमितरासां भगवन्मूर्तीनां श्रियादीनां च परिवारवदाराध्यत्वावगमात्, “गुणीभूतमूर्त्यन्तरयो”रित्यत्र प्रधानाराध्यभगवन्मूर्तितदतिरिक्तभगवन्मूर्त्योः परिवारभेदः वैकल्पिक इत्यर्थस्य स्वीकार्यत्वात् । उदाहृतपाद्मवचनैः
यथोक्तविधिना पूर्वं स्थापितं शुभविग्रहम् ।
श्रीभूमिनीलासहितं परिवारैस्समन्वितम् ।
अव्यक्तपरिवारं वा देवं सङ्ग्राह्य याजयेत् ॥
इति भरद्वाजसंहितावचनतश्चापि श्रीभूमिनीलानामवश्यसत्त्वस्यैव प्रतीतेः श्रीभूम्योः गौणतया सत्त्वमिति कथनमप्रामाणिकमेव । इयञ्च इज्या अष्टाङ्गा ।
अन्तःकरणयागादियावदात्मनिवेदनम् ।
तदाद्यमङ्गं यागस्य नाम्नाभिगमनं महत् ॥
पूजनञ्चार्घ्यपुष्पाद्यैः भोगैर्यदखिलं मुने ।
बाह्योपाचारैस्तद्विद्धि भोगसंज्ञं तु नारद ॥
मध्वाज्याक्तेन दघ्ना वै पूजा च पशुना सह ।
तत्तृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम् ॥
निवेदितस्य यद्दानं पूर्वोक्तविधिना मुने ।
सम्प्रदानन्तु तन्नाम यागाङ्गं पञ्चमं स्मृतम् ॥
वह्निसन्तर्पणं षष्ठं पितृयागन्तु सप्तमम् ।
प्राणाग्निहवनं नाम्ना त्वनुयागं तदष्टमम् ॥
इति श्रीपाञ्चरात्ररक्षोदाहृतजयाख्यसंहितावचनैरवगम्यते । एतत्तत्त्वं उत्तरत्र निपुणतरमुपपादयिष्यते ।
आराधनोपक्रमादौ संस्कृतां घण्टां नादयेत् ।
[[195]]
तथा जयाख्यसंहितायां —
पूजितां धूपितां लिप्तां मन्त्रविन्यस्तविग्रहाम् ।
एकीकृत्य स्वशब्देन हृद्गतेनान्तरात्मना ॥
सञ्चालयेत्ततस्सम्यक्सशब्दां चक्रचिह्निताम् ।
त्रैलोक्यद्राविणीं घण्टां सर्वदुःखनिबर्हिणीम् ॥
एषा दूती हि मन्त्राणां सुप्तानां च प्रबोधिनी ।
वारणी सर्वविघ्नानां सर्वमन्त्रप्रसादिनी ॥
प्रणवान्तर्ध्वनिर्ह्येषा शब्दशक्तौ लयं गता ।
वर्णदेहा स्मृता मन्त्रा मन्त्रदेहास्तु देवताः ॥
घण्टास्तनितमूलास्ते प्रबुद्धाः कर्मसिद्धिदाः ॥
इत्यादिभिः,
घण्टाशब्दगतं सर्वं तस्मात्तां चालयेत्पुरा ।
आवाहनेऽर्घ्यं धूपे च दीपे नैवेद्यजोषणे ॥
नित्यमेव प्रयुञ्जीत सम्यक् मन्त्रार्थसिद्धये ।
पूजाकालं विनान्यत्र हितं नास्याः प्रचालनम् ॥
नानया तु विना कार्यं पूजनं सिद्धिमिच्छता ।
इत्यन्तैर्वचनैर्घण्टाचालनविधानात् । पारमेश्वरे षष्ठेऽद्ध्याये घण्टास्वरूपमाहात्म्यादिकं विस्तरेण प्रतिपाद्य
घण्टाशब्दगतं सर्वं तस्मात्तां चालयेत्पुरा ।
स्वेषु चोक्तेषु कालेषु तांस्तु मे गदतश्शृणु ॥
गणेशपीठद्वारस्थदेवानामर्चने ततः ।
आहूतिकाले मन्त्राणां धूपदाने विशेषतः ॥
दीपदानेऽर्घ्यदाने च तथा नैवेद्यजोषणे ।
जपस्तुत्यवसानाभ्यां प्रवृत्तेश्चाग्नितर्पणे ॥
प्राणाहुतिप्रदाने च मन्त्राणान्तु विसर्जने ।
विष्वक्सेनार्चने चैव तत्पूजाप्रतिपादने ॥
बलिप्रदानकाले तु देवतानां विशेषतः ।
नातोऽन्यदा स्याद्विहितं चालनं सिद्धिमिच्छता ॥
इति वचनैः घण्टाचालनमुक्तम् ।
[[196]]
पाद्मे क्रियापादे एकत्रिंशेऽध्याये –
एवं तु संस्कृतां घण्टां चालयेत्सर्वकर्मसु ।
उद्घाटने कवाटस्य प्रस्तुते पूजने तथा ।
आवाहनेऽर्घ्ये स्तपने धूपदीपे च दित्सिते ।
नीराजने यवनिकासमुत्थाने निवेदने ।
होमे भूतबलौ कर्मण्युद्वासे चालयेन्मणिम् ।
उच्चाटनं पिशाचादेः प्रीणनं च हरेः परम् ।
सन्निधानममर्त्यानां घण्टायाश्चलने भवेत् ।
असंस्कृतायाश्चलने ग्रामादेश्चलनं भवेत् ।
अन्यथा निष्फला पूजा परस्य परमात्मनः ॥
इति घण्टाचालनसमयो दर्शितः । श्रीसात्त्वते –
गृष्टधूपसमायुक्तं गुग्गुलं धूपयेच्छुभम् ।
सहघण्टारवै रम्यैश्चाल्यमानेन बाहुना ।
श्रीकरसंहितायां -
निर्धूमैः स्फुरदङ्गारैर्निज्वलैश्च निरिन्धनैः ।
धूपं दद्यात्स्वयं किञ्चित् घण्टां वामेन नादयन् ॥
इति । अत्र धूपशब्दः पूर्वोदाहृतवचनावगतदीपादि-प्रदर्शनपरः । अत्र स्ववामबाहुना घण्टानादविधानात्, आराधकेन घण्टानादो न कार्यः वामबाहुना न कार्य इति कस्यचिदुक्तिः प्रत्युक्ता । स्फुटत्वाद्विवादाभावाच्च श्रीभाष्यकाराणां घण्टानादानुक्तिः । तदभिप्रायविद्भिर्वङ्गिवंशेश्वरैरुक्तो घण्टानादः ।
घण्टानादसनाथौ तु धूपदीपौ निवेदयेत् ।
तन्नादसंयुतावेतौ दुष्टसत्त्वनिबर्हणौ ।
भगवत् प्रीतिजननौ शृण्वतां पापनाशनौ ॥
इति । अत्र धूपदीपशब्दः पूर्वोदाहृतवचनावगतकवाटोद्घाटनादिप्रदर्शनपरः । आचार्यैः श्रीभाष्यकारानुक्तांशस्यापेक्षितस्य तच्छिष्यप्रशिष्याद्युक्तप्रकारेणानुष्ठेयतोक्तेश्चेति वाक्येन श्रीभाष्यकारानुक्तविषयव्यवस्थाया अनुगृहीतत्वात् ग्रन्थगौरवभयाच्च विशिष्य घण्टानादानुक्तिः । एवमेव विशिष्यानुक्तविषये व्यवस्थानुसन्धेया ।
[[197]]
विश्वास-प्रस्तुतिः
सुप्रक्षालितपाणिपादः स्वाचान्तः तत्तत्क्षेत्राधीशं श्रीरङ्गनाथादिकं भगवन्तमभ्यर्च्य, पूजागृहाद्बहिर्दूरतोऽवस्थाय, चण्डादीन् द्वारपालान् प्रणम्य गन्धादिभिरभ्यर्च्य, आत्मप्रवेशनं याचयित्वा, तैरनुज्ञातो द्वारपार्श्वेऽवस्थाय, अस्त्रमन्त्राभिमन्त्रितं पुष्पं दुष्टजन्तुपलायनार्थं देवगृहान्तः प्रास्य तत्र दक्षिणपादं प्रथमं विन्यस्य, तदन्तः प्रविश्य भगवन्तमष्टाङ्गेन प्रणम्य प्रदक्षिणीकृत्य पूजाप्रदेशं संमार्ज्य गोमयेनालिप्य रङ्गवल्ल्यादिभिरलङ्कृत्य, साक्षतपुष्पाणि प्रकीर्य कर्पूरागरुचन्दनैर्धूपयित्वा, निश्शब्दे प्रदेशे भुवं सङ्गृह्य,

सुप्रक्षालितपाणिपादः स्वाचान्त इत्यादि ।
इज्याकाले तु सम्प्राप्ते हृष्टो देवगृहं गतः ।
प्रक्षाल्य पादौ पाणी च समाचम्य हरिं स्मरन् ॥
तत्क्षेत्राधीशमभ्यर्च्य तन्मन्त्रेणाच्युतं प्रभुम् ।
देवपूजागृहद्वारात् स्थित्वा बहिरदूरतः ॥
चण्डप्रचण्डप्रमुखान् द्वारस्थानधिपानपि ।
प्रणम्याभ्यर्च्य गन्धाद्यैर्याचयित्वा प्रवेशनम् ॥
दत्ताभ्यनुज्ञस्तैश्चापि सदयैरवलोकनैः ।
प्रविशन् द्वारपार्श्वस्थः स्वास्त्रमन्त्राभिमन्त्रितम् ॥
पुष्पं देवगृहस्यान्तः प्रास्य दक्षिणपाणिना ।
तद्भयादपयातेषु दुष्टसत्त्वेषु तद्गृहात् ॥
प्रथमं दक्षिणं पादं विन्यस्यान्तः प्रविश्य च ।
प्रणिनंसुः परात्मानं भक्तिनिघ्नेन चेतसा ॥
मनोबुध्यभिमानेन सह न्यस्य धरातले ।
कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ॥
प्रदक्षिणसमेतेन त्वेवंरूपेण याजकः ।
अष्टाङ्गेन प्रणामेन प्रणमेत्पुरुषोत्तमम् ॥
ततस्सम्मार्ज्य तं देशं गोमयेनावलिप्य च ।
साक्षतानि च पुष्पाणि प्रकीर्य च समन्ततः ॥
धूपयित्वा बहुविधैः कर्पूरागरुचन्दनैः ।
पुरस्ताद्देवदेवस्य संस्तीर्यासनमात्मनः ॥
दार्भं काष्ठमयं वापि सास्त्रच्छोटाभिवीक्षितम् ।
तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
प्रवेश्योभयजान्वन्तः स्वपादाङ्गुष्ठयोर्युगम् ॥
दक्षिणोत्तरमासीनः स्वस्तिकेनासनेन तु ।
पद्मादिष्वासनेष्वेकमवलम्ब्येच्छयाथवा ॥
इति वङ्गिवंशेश्वरवचनान्यत्र भाव्यानि ।
[[198]]
पद्मासनलक्षणन्तु –
कृत्वोत्तानौ कृतौ पादौ तत्रैवोरू द्वयं समम् ।
पदद्वयं समं सम्यगङ्गमूरुद्वयोरपि ।
कृतं पद्मासनं ह्येतत् श्रेष्ठं सर्वेषु कर्मसु ॥
इत्यगस्त्यसंहितोक्तं द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
दार्भं दारुमयं वा आसनम् आत्मनो देवस्य पुरस्ताद्दक्षिणतस्संस्तीर्य, तां शोषणादिभिर्विशोध्य सच्छोटेनास्त्रमन्त्रेणाभिवीक्ष्य,
मूलम्
दार्भं दारुमयं वा आसनम् आत्मनो देवस्य पुरस्ताद्दक्षिणतस्संस्तीर्य, तां शोषणादिभिर्विशोध्य सच्छोटेनास्त्रमन्त्रेणाभिवीक्ष्य,
आह्निकार्थप्रकाशिका
दार्भं दारुमयं वाऽऽसनमात्मनः देवस्य पुरस्तात् दक्षिणतस्संस्तीर्येति । विहगेश्वरसंहितायां –
देवस्य दक्षिणे पार्श्वे पूजकस्य स्थितिर्भवेत्
अनिरुद्धसंहितायां –
उदग्दिक्पूर्ववदने दक्षिणाभिमुखश्चरेत् ।
पश्चिमे द्वारके विप्र तथा कुर्याद्विचक्षणः ॥
भगवति पूर्वदिगभिमुखे उदङ्मुखः पूजयेत् । पश्चिमाभिमुखे सति दक्षिणाभिमुखः पूजयेदित्यर्थः । एवं च क्वचिद्वामपार्श्वावस्थानविधानं वैकल्पिकमिति तत्र पूर्वपरिग्रहानुसारेण ‘दक्षिणतः संस्तीर्ये’त्युक्तम् । शोषणादिभिर्विशोध्येत्यत्र यं वायवे नम इत्यादिभिर्मन्त्रैरित्यभिप्रेतम् ।
आदावेव जपे कुर्यात् शोषणं दहनं प्लुतिम् ।
वाय्वग्निवरुणैर्बीजैर्ध्यात्वा तन्मण्डले हरिम् ॥
इति तन्त्रसारवचनस्यात्रानुसर्तव्यत्वात् ।
विश्वास-प्रस्तुतिः
आसनमन्त्रस्य पृथिव्या मेरुपृष्ठ ऋषिः । सुतलं छन्दः, श्रीकूर्मो देवता, आसने विनियोगः, “पृथ्वि त्वया + आसन"मिति सामान्यतः प्राप्तमन्त्रेण पद्मासनस्वस्तिकासनादिष्वेकमवलम्ब्यासीनो
मूलम्
आसनमन्त्रस्य पृथिव्या मेरुपृष्ठ ऋषिः । सुतलं छन्दः, श्रीकूर्मो देवता, आसने विनियोगः, “पृथ्वि त्वया + आसन"मिति सामान्यतः प्राप्तमन्त्रेण पद्मासनस्वस्तिकासनादिष्वेकमवलम्ब्यासीनो
आह्निकार्थप्रकाशिका
आसनमन्त्रस्य पृथिव्या इत्यादि । ‘सामान्यतः प्राप्तमन्त्रेणे’त्युक्तरीत्यात्रापि सामान्यप्राप्तमन्त्रग्रहणौचित्यात् ।
विश्वास-प्रस्तुतिः
गुरुपरम्परया भगवन्तं शरणमुपगम्य तमेव प्राप्यत्वेन प्रापकत्वेनानिष्टनिवर्तकत्वेन यथावस्थितस्वरूपरूपगुणविभूतिलीलोपकरणविस्तारमनुसन्धाय, करिष्यमाणभगवदाराधनपर्यन्तातिमात्रप्रीतिजनकानुभवजनकात्यर्थप्रियाविरतविशदतमप्रत्यक्षरूपानुध्यानानुकूलमनोवृत्तिसिद्ध्यर्थं द्वयोच्चारणपूर्वकं,

[[199]]
आह्निकार्थप्रकाशिका
गुरुपरम्परया परमगुरुं भगवन्तं शरणमुपगम्येत्यादि ।
सुप्रक्षालितपाणिपादः स्वाचान्तः शुचौ देशे मनोहरे निश्शब्दे भुवं संगृह्य शोषणादिभिर्विशोध्य गुरुपरम्परया परमगुरुं भगवन्तमुपगम्य तमेव प्राप्यत्वेन प्रापकत्वेनानिष्टनिवारकत्वेन च यथावस्थितस्वरूपरूपगुणविभूतिलीलोपकरणविस्तारमनुसन्धाय तमेव शरणमुपगच्छेदखिलेत्यादिना । एवं शरणमुपगम्य तत्प्रसादोपबृंहितमनोवृत्तिः तमेव भगवन्तं सर्वेश्वरमात्मनः स्वामित्वेन सुहृत्त्वेनानुसन्धाय अत्यर्थप्रियाविरतविशदतमप्रत्यक्षरूपानुध्यानेन ध्यायन्नासीत । ततस्तदनुभवजनितातिमात्रप्रीतिकारितपरिपूर्णकैङ्कर्यरूपपूजामारभेत
इति नित्येऽनुगृहीतमिह भाव्यम् । गुरुपरम्परया परमगुरुं भगवन्तं शरणमुपगम्येति । तदुक्तं —
अत्र गुरुपरम्पराप्रपदनपूर्वकमिदं ध्यानं विवक्षितं,
गुरून् प्रपद्य प्रथमं तद्गुरूंश्च ततो हरिम्
इति तस्मिन्नवसरे नित्यान्तरोक्तेः । उक्तं च श्रीसात्त्वते अपररात्रयोगारम्भे –
गुरुं देवं नमस्कृत्य ह्युपविश्याजिनासन
इत्यादि,
सर्वत्र च शास्त्रीयसर्वकर्मारम्भे भगवत्पर्यन्तगुरुपङ्क्तिप्रपदनं निश्रेयसाय भवति । उक्तं च रहस्याम्नायब्राह्मणे -
स चाचार्यवंशो ज्ञेयो भवति । आचार्याणामसावसावित्याभगवत्त इति
इति ।
विश्वास-प्रस्तुतिः
‘अखिलहेये’त्यादि
अनन्यशरणस्त्वत्पादारविन्दयुगलं शरणमहं प्रपद्ये
इत्यन्तं बृहद्गद्यमनुसन्धाय, साङ्गप्रपदनमनुष्ठाय, तज्जनितभगवत्प्रसादोपबृंहितमनोवृत्तिस्तमेव भगवन्तमात्मनः स्वामित्वेनानुसन्धाय, अत्यर्थप्रियाविरतविशदतमप्रत्यक्षरूपानुध्यानेन ध्यायन्नासीत । ततस्तदनुभवजनितातिमात्रप्रीतिकारितपरिपूर्णकैङ्कर्यरूपपूजामारभेत ।

[[200]]
आह्निकार्थप्रकाशिका
तमेव शरणमुपगच्छेदखिलेत्यादिनेति । तदुक्तम् –
बृहद्गद्यन्तु समाराधनकाले विशेषतोऽनुसन्धेयानां स्वरूपरूपगुणविभूतिदेवीभूषायुधपरिजनपरिच्छदद्वारपालपार्षदादीनां यथावदनुसन्धानहेतुतया
यथावस्थितस्वरूपरूपगुणविभूतिलीलोपकरणविस्तारमनुसन्धाय तमेव शरणमुपगच्छेदखिलेत्यादिना
इति समाराधनादावन्ते च श्रीभाष्यकारैरेव विनियुक्तम्
इति । श्रीनिक्षेपरक्षायां -
तत्र स्वतन्त्राङ्गप्रपत्त्योर्वाचिकविशेषाभावात् अखिलेत्यादिकं सप्रकारानुसन्धानं मनोवृत्त्युपसंहारार्थतया विनियुक्तम् । एवं तत्राह - यथावस्थितस्वरूपरूपगुणविभूतिलीलोपकरणविस्तारमनुसन्धाय
तमेव शरणमुपगच्छेदखिलेत्यादिना
इति । अनन्तरमप्याह –
एवं शरणमुपगम्य तत्प्रसादोपबृंहितमनोवृत्तिरिति
इति ।
विश्वास-प्रस्तुतिः
अष्टाविंशतिकृत्वो मनसावर्तितेन मूलमन्त्रेण त्रिः प्राणानायम्य,
मूलम्
अष्टाविंशतिकृत्वो मनसावर्तितेन मूलमन्त्रेण त्रिः प्राणानायम्य,
आह्निकार्थप्रकाशिका
अष्टाविंशतिकृत्वो मनसाऽऽवर्तितेनेति । वैकुण्ठदीक्षितीये पराशरः –
अष्टाविंशतिवारं तु प्राणायामे जपेन्मनुम् ।
पूरके कुम्भके चैव रेचके च विशेषतः ॥
प्राणायाममिदं प्राहुरुत्तमं मुनिसत्तमाः ।
मध्यमं मुनिभिः प्रोक्तं मुने द्वादशसङ्ख्यया ॥
षड्वारन्तु कनिष्ठं स्यादधमन्तु त्रिभिः स्मृतम् ।
वृद्धहारीतस्मृतौ –
प्राणायामत्रयं कृत्वा पश्चान्न्यासं समाचरेत् ।
प्राणायामत्रयं कृत्वा पश्चाद्ध्यानं यथोक्तवत् ॥
इत्यादिकमिह भाव्यम् ।
विश्वास-प्रस्तुतिः
धर्मशास्त्रोक्तप्रकारेण वा त्रिः प्राणानायम्य
मूलम्
धर्मशास्त्रोक्तप्रकारेण वा त्रिः प्राणानायम्य
आह्निकार्थप्रकाशिका
धर्मस्त्रोक्तप्रकारेण वेति । माध्याह्निकस्नानविषये श्रीभाष्यकारोक्तस्नानविशेषमुक्त्वा अथवेत्यादिधर्मशास्त्रोक्तस्नानं प्रपञ्च्य परमैकान्तिनां श्रीभाष्यकारनित्यप्रकारेणैव माध्याह्निकस्नानं कर्तव्यमित्युक्तरीत्याष्टाक्षरेणैव श्रीभाष्यकारतच्छिष्यप्रशिष्यैः भगवत्समाराधनप्रयोगकरणात् परमैकान्तिभिरष्टाक्षरेणैव प्राणायामः कार्य इत्यभिप्राय इत्यङ्गीकार्यम् ।
[[201]]
विश्वास-प्रस्तुतिः
कृतञ्चेत्याराधनं सङ्कल्प्य, भगवानेव स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेनात्मना स्वकीयैश्चोपकरणैः स्वकीयैश्च देहेन्द्रियान्तःकरणैः स्वकीयकल्याणतमद्रव्यमयैः औपचारिकसांस्पर्शिकाभ्यवहारिकादिसमस्तभोगानतिप्रभूतानतिप्रियतमानतिसमग्रानत्यन्तभक्तिकृतान् अखिलपरिजनपरिच्छदान्विताय स्वस्मै स्वप्रीतये स्वयमेव प्रतिपादयितुमुपक्रमत इत्यनुसन्धाय,

कृतञ्चेत्याराधनं सङ्कल्प्येति । बलमन्त्रोच्चारणं तत्प्रमाणं च पूर्वं प्रदर्शितम् । भगवानेवेति श्रीभाष्यकारनित्यवाक्यम् । अनेन
न्यासेन देवमन्त्राणां देवतादात्म्यभावनात्
इत्याचार्यपादोपात्तवचनावगतदेवतादात्म्यभावनासिद्धिः । तदुक्तमपररात्रयोगविचारे
अत एव हि तथाविधभावनयाप्यनन्तरं योग्यतापादनमात्रमुक्तम् ।
न्यासेन देवमन्त्राणां देवतादात्म्यभावनात् ।
अप्राकृताङ्गकरणात्पूजामर्हति साधक ॥इत्यादि । तदभिप्रायेण स्वनियाम्येत्यादिकं वक्ष्यति श्रीभाष्यकार
इत्यन्तम् ।
विश्वास-प्रस्तुतिः
“ओं लान्नमः पराय सर्वात्मने नमः”, इति पादयोर्न्यासं कुर्वन्
“पृथिवीं गन्धतन्मात्रे विलापयामि, गन्धतन्मात्रमप्सु विलापयामी"ति चिन्तयेत् ।
“ओं वान्नमः पराय निवृत्त्यात्मने नमः”, इति गुह्ये न्यस्यन्,
“अपो रसतन्मात्रे विलापयामि, रसतन्मात्रं तेजसि विलापयामी"ति चिन्तयेत् ।
“ओं रान्नमः पराय विश्वात्मने नमः”, इति हृदये न्यस्यन्
“तेजो रूपतन्मात्रे विलापयामि, रूपतन्मात्रं वायौ विलापयामी"ति चिन्तयेत् ।
“ओं यान्नमः पराय पुरुषात्मने नमः”, इति नासाग्रे न्यस्यन्
“वायुं स्पर्शतन्मात्रे विलापयामि, स्पर्शतन्मात्रम् आकाशे विलापयामी"ति चिन्तयेत् ।
“ओं षौन्नमः पराय परमेष्ठ्यात्मने नम” इति मूर्ध्नि न्यस्यन्
आकाशं शब्द-तन्मात्रे विलापयामि,
शब्द-तन्मात्रम् इन्द्रियाणि चाहङ्कारे विलापयामि,
अहङ्कारं महति विलापयामि,
महान्तं प्रकृतौ विलापयामि,
प्रकृतिं तमसि विलापयामि,
तमस् सजीवं परमात्मन्य् एकीभावयामि
इति तत्त्वानां संहारं चिन्तयेत् ।
ततः प्राणायामेनैकेन मूलमन्त्रं
दक्षिणेन पाणिना नाभिदेशे न्यस्य
“मन्त्रोद्भूत-चण्ड-वाय्व्-आप्यायित-नाभि-देश-स्थ-वायुना
शरीरम् अन्तर्-बहिश् च सर्वं तत्त्वक्रमेण शोषयामी"ति विशोष्य,
पुनरपि प्राणायामेनैकेन मूलमन्त्रं
दक्षिणेन पाणिना हृदये न्यस्य,
“मन्त्रोद्भूत-चक्राग्नि-ज्वालोपबृंहित-जाठराग्निना
तत्-तत्-समष्टि-प्रलीन–
सर्व-तत्त्व–सर्व-किल्बिष–सर्वाज्ञान–तद्-वासनं
स्वदेहं दाहयामी"ति दग्ध्वा,
दग्ध-तत्-तत्-समष्टि-प्रलीन-सर्व-तत्त्व-सर्व-किल्बिष-सर्वाज्ञान-तद्वासनो भूत्वा,
मूलम्
ओं लान्नमः पराय सर्वात्मने नमः, इति पादयोर्न्यासं कुर्वन् पृथिवीं गन्धतन्मात्रे विलापयामि, गन्धतन्मात्रमप्सु विलापयामीति चिन्तयेत् । ओं वान्नमः पराय निवृत्त्यात्मने नमः, इति गुह्ये न्यस्यन्, अपो रसतन्मात्रे विलापयामि, रसतन्मात्रं तेजसि विलापयामीति चिन्तयेत् । ओं रान्नमः पराय विश्वात्मने नमः, इति हृदये न्यस्यन्तेजो रूपतन्मात्रे विलापयामि, रूपतन्मात्रं वायौ विलापयामीति चिन्तयेत् । ओं यान्नमः पराय पुरुषात्मने नमः, इति नासाग्रे न्यस्यन् वायुं स्पर्शतन्मात्रे विलापयामि, स्पर्शतन्मात्रमाकाशे विलापयामीति चिन्तयेत् । ओं षौन्नमः पराय परमेष्ठ्यात्मने नम इति मूर्ध्नि न्यस्यन् आकाशं शब्दतन्मात्रे विलापयामि, शब्दतन्मात्रमिन्द्रियाणि चाहङ्कारे विलापयामि, अहङ्कारं महति विलापयामि, महान्तं प्रकृतौ विलापयामि, प्रकृतिं तमसि विलापयामि, तमस्सजीवं परमात्मन्येकीभावयामीति तत्त्वानां संहारं चिन्तयेत् । ततः प्राणायामेनैकेन मूलमन्त्रं दक्षिणेन पाणिना नाभिदेशे न्यस्य मन्त्रोद्भूतचण्डवाय्वाप्यायितनाभिदेशस्थवायुना शरीरमन्तर्बहिश्च सर्वं तत्त्वक्रमेण शोषयामीति विशोष्य, पुनरपि प्राणायामेनैकेन मूलमन्त्रं दक्षिणेन पाणिना हृदये न्यस्य, मन्त्रोद्भूतचक्राग्निज्वालोपबृंहितजाठराग्निना तत्तत्समष्टिप्रलीनसर्वतत्त्वसर्वकिल्बिषसर्वाज्ञानतद्वासनं स्वदेहं दाहयामीति दग्ध्वा, दग्धतत्तत्समष्टिप्रलीनसर्वतत्त्वसर्वकिल्बिषसर्वाज्ञानतद्वासनो भूत्वा,
[[202]]
आह्निकार्थप्रकाशिका
अप्राकृत-विग्रह-युक्तस्य भगवतः,
प्राकृत-शरीरस्य +आराधनानर्हत्वात्,
तद्-आराधन-योग्यत्वाय
‘+अ-प्राकृताङ्ग-करणात्
पूजाम् अर्हति साधकः’
इत्य् उक्ताप्राकृताङ्ग-करणार्थ-भूत-शुद्धि-प्रकारमाह -
ओं लान्नमः परायेत्यादिना ।
तथानुगृहीतं नित्ये -
“स्वदेहे पञ्चोपनिषन्मन्त्रान् संहारक्रमेण न्यस्ये"त्यादिना ।
पादादिमूर्धान्त-न्यासः संहारन्यासः ।
अत्राहिर्बुध्न्य-संहिता-वचनानि माध्याह्निक-प्रकरणे प्रदर्शितान्यनुसन्धेयानि ।
उभयतो नमःपदयुक्ताः श्रीविष्वक्सेनसंहितायां द्वादशेऽध्याये आचार्यप्रदर्शितरीत्यैव पञ्चोपनिषन्मन्त्राः पठिताः ।
शेषसंहितायां पञ्चदशेऽध्याये –
पञ्चोपनिषदां न्यासं कुर्यात्सृष्टिक्रमेण च ।
सर्वमन्त्रप्रसिद्ध्यर्थं मोक्षज्ञानार्थसिद्धये ॥
ओं षौन्नमश्शिरःस्थाने परायेति पदं ततः ।
परमेष्ठ्यात्मने पश्चान्नमोन्तं मन्त्रविन्न्यसेत् ॥
ओं यान्नमः पराय पदं वक्त्रे पुरुषात्मने नमः ।
ओं रान्नमः पराय हृदि न्यसेत्सर्वात्मने नमः ॥
ओं वान्नमः परायेति गुह्ये निवृत्त्यात्मने नमः ।
ओं लान्नमः परायेति पदोस्सर्वात्मने नमः ॥
जपपूजासु होमेषु न्यस्येदिदमतन्द्रितः ।
इति । वृद्धहारीतस्मृतौ चतुर्थेऽध्याये —
पञ्चोपनिषदां न्यासं कुर्यात्सर्वत्र कर्मसु ।
ओं षौन्नमः परायेति परमेष्ठ्यात्मने नमः ॥
ओं यान्नमः परायेति ततः पुरुषात्मने नमः ।
ओं रान्नमः परायेति ततो विश्वात्मने नमः ॥
ओं वान्नमः परायेति ततो निवृत्त्यात्मने नमः ।
ओं लान्नमः परायेति ततस्सर्वात्मने नमः ॥
शिरो नासाग्रहृदयगुह्यपादेषु विन्यसेत् ।
इति ।
वराह-सूरि-विरचित-क्रिया-कैरव-चन्द्रिकायाम्
अष्टादशे प्रतिष्ठापरिच्छेदे
एकविंश-परिच्च्छेदे स्नपनविधौ च
उदाहृत-शेष-संहिता–वृद्ध-हारीत-वचनोक्त-प्रकारेणैव पञ्चोपनिषन्-मन्त्राणां
कर्मसु विनियोगः प्रादर्शि ।
सप्तत्रिंशपरिच्छेदात्मके तद्ग्रन्थे
उक्तपरिच्छेदद्वय-व्यतिरिक्त-परिच्छेदेषु
बहवो मन्त्राः नमःपद-द्वय-युक्ताः तत्-तत्-कर्माङ्गमन्त्राः प्रदर्शिताः ।
[[203]]
ननु वृद्धहारीतस्मृतेः क्वाप्यनुदाहरणात् विरुद्धाचरण-दर्शनाच्चाप्रामाण्यं शङ्क्यम् इति न वाच्यम्;
आचार्यश्रीजयन्तीनिर्णये
परमवैष्णवधर्म-शास्त्रतया प्रसिद्धायां वृद्धहारीतस्मृतौ पञ्चमाध्याये
इत्यादिना तत्स्मृति-वचनान्य् उदाहृत्य
न च तस्या अविश्वसनीयत्वम् इति वाच्यं;
महाचार्यैर् अतिप्राचीनैर् उपात्तत्वात्
पूर्वकाले ऽप्य् एतद्-आचार-ज्ञापकत्वाच् च
इत्यनुगृहीतत्वात्,
विरुद्धाचार-दर्शनस्याधिकारि-विशेषे व्यवस्थितता वा
श्रीभाष्य-कार-सम्प्रदाय-स्थेषु अननुष्ठान-पराहततया वा निर्वाह्यत्वात्,
पञ्चोपनिषन्-मन्त्र-पाठ-विषये प्रमाण-विरोधादर्शनेन
पूर्वोदाहृत-पञ्चरात्र-वचनानुगुण्येन च
नमःपदद्वय-युक्तोपदर्शित-मन्त्र-पाठस्यैवादरणीयत्वात् ।
श्रीपाञ्चरात्ररक्षायां –
स च प्रार्थनामन्त्रः
त्वय्य् आराधन-कामोयम्
इत्यादिकः यथान्यायं देशिकसकाशादधीत्यात्रान्वहं प्रयोक्तव्यः ।
एवमेव सर्वेषां मन्त्राणां समाधिः ।
विपर्यये हि नैष्फल्यम् ।
दृष्टादृष्टप्रत्यवायश् च तेषु तेषु शास्त्रेषु पठ्यते ।यदृच्छया श्रुतो मन्त्रः
छन्नेनाथ छलेन वा ।
पत्रेक्षितो वा व्यर्थस् स्यात्
प्रत्युतानर्थदो भवेद् इति ॥
इति सदाचार्योपदेशलब्धमन्त्रप्रयोग एव कार्य इत्यनुगृहीतम् । श्रीस्तोत्रभाष्ये –
नमो नमो वाङ्मनसातिभूमय
इति श्लोकस्थनमश्शब्दद्वयविषये
श्रुत्यादिषु चैवं वीप्सादिकं दृश्यते
इत्यनुगृहीतम् । तैत्तरीयचतुर्थकाण्ड-विद्यारण्यभाष्ये -
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमः
इत्यादौ
एकमितरस्य विशेषणं, केचिदुभयतो नमस्काराः केचिदन्यतरतो नमस्काराः । इत्यर्थमुक्तं “ते हैते घोरा रुद्राः ये उभयतो नमस्काराः, अथैते शान्ततराः ये अन्यतर नमस्कारा” इति शतपथब्राह्मणम् ।
नमो हिरण्यबाहव इत्यत्र तद्भाष्ये -
अत्र नमस्कारादिनमस्कारान्तमेकैकं यजुः । एवमनन्तरानुवाकेपि ।
नमो भवायेत्यनुवाकभाष्यारम्भे –
गता उभयतो नमस्काराः इति
इति नमःपदद्वययुक्ता मन्त्राः प्रदर्शिताः ।
[[204]]
अथैतानि परस्परापकर्ष-वचनान्य्
असङ्कीर्ण-बहुकोश-पाठाद् आप्त-भाषितानीति मन्येमहि
इति तद्-ग्रन्थ-प्रथमाधिकार-श्री-सूक्त्य्-अनुगृहीत-न्यायेनासङ्कीर्ण-श्री-नित्याह्निक-बहु-कोशेषु उदाहृत-प्रमाणानुगुणः पञ्चोपनिषन्मन्त्र-पाठो दृश्यते ।
अतः प्रदर्शित-प्रमाण–तद्-ग्रन्थ-पाठोपदेश-पारम्पर्यानुसारेण
+आचार्यदर्शित-नमः-पद-द्वय-युक्त-तन्-मन्त्र-पाठ एव शिष्टैः क्रियते ।
एतेन पञ्चोपनिषन्मन्त्रेषु द्वितीयनमःपदमशुद्धम्
इति साहसिकवाक्यं निरस्तमिति बोध्यम् ।
यत्तु कैश्चिद् उदाहृतमन्त्रेषु व्योममन्त्रे वासुदेवायेति पदं
वायुमन्त्रे सङ्कर्षणायेति पदं
तेजोमन्त्रे प्रद्युम्नायेति पदम्
आप्यमन्त्रे अनिरुद्धायेति पदं,
पार्थिवमन्त्रे नारायणायेति पदं च
संयोज्य पञ्चोपनिषन्मन्त्राः पठिताः ,
तत्-पूर्वोदाहृत-प्रमाणावगतानुपूर्वी-विरुद्धत्वाद् अश्रद्धेयम् ।
किञ्च नारदीयसंहितायां पञ्चदशेऽध्याये -
शान्तेऽनन्ते परे व्योम्नि
निष्क्रिये ज्ञानविक्रिये ।
तं ध्यायेत् परमानन्दे
संस्थितं शान्तविग्रहम् ॥
यस्मान् नव्यन्तु तं पीतं
संस्था यत्-तत्त्व-रूपकम् ।
परस्य ब्रह्मणश् शक्तिं
विदुस् तत्-परमेष्ठिनम् ॥
स वासुदेवो विज्ञेयः
सर्वात्मा सर्वकृत् प्रभुः ।
परापरविकल्पैक-
स्वरूप-ज्ञान-हेतुकः ॥तां स्वामव्यापिनीं मायाम्
अधिष्ठाय सिसृक्षया ।
नादात्मा जनयन् मूर्तिं
पौरुषीं स्वर्गसंज्ञिताम् ॥
सङ्कर्षणस्स विज्ञेयः
पुरुषश्चेति कथ्यते ।स पुराणाकृतिर् मायां
क्षोभयित्वा जगत्पतिः ॥
वीर्यतेजोमयं रूपं
प्रद्युम्नम् असृजत् प्रभुः ।पुनस् तेजोमयीं तासां
प्रकृतिः परिशोध्यते ॥
विश्वाह्लादकरैश् शान्तैः
रसमात्राभिर् ईश्वरः ।
निवृत्ति-संज्ञम् अपरम्
अकरोद् अब्मयी-तनुम् ॥
विमुक्तम् अनिरुद्धाख्यं
जलोदयशयं हरिम् ।पुनरप्याकृतिं मायां
विक्षोभ्य जगदीश्वरः ॥
गन्धमात्रात्मकं देवं
सर्वात्मानं प्रजापतिम् ।पञ्चैताश्शक्तयः प्रोक्ताः
परस्य परमात्मनः ॥
अशेषजगदाधारे
पदे देवे व्यवस्थिताः ॥
इति पञ्चोपनिषदां क्रमेण
वासुदेवसङ्कर्षणादयो वाच्या इत्युच्यन्ते,
मन्त्रेष्व् एव वासुदेवादि-पद-सत्त्वे
‘वासुदेवस्स विज्ञेयः”, “सङ्कर्षणस्स विज्ञेयः”
इत्य्-आदिभिर् वासुदेवादीनां तत्-तन्-मन्त्र-वाच्यत्व-ज्ञापनम् असङ्गतं स्यात् ।
अतः आचार्य-पठिता एव पञ्चोपनिषन्-मन्त्राः प्रामाणिक-परिग्राह्याः ।
[[205]]
विश्वास-प्रस्तुतिः
भगवद्दक्षिणपादाङ्गुष्ठे मूलमन्त्रेण स्वात्मानं प्रवेशयेत् । अपरेण प्राणायामेन भगवत्प्रसादेन भगवत्किङ्करतायोग्यतामापाद्य तस्मादादाय तद्वामपादाङ्गुष्ठनखशीतांशुमण्डलगलद्दिव्यामृतरसेनात्मानमभिषिच्य, भगवत्प्रसादेन तदमृतमयं सर्वकैङ्कर्यमनोहरं सर्वकैङ्कर्ययोग्यं शरीरं लब्ध्वा, तस्मिन् पञ्चोपनिषन्मन्त्रान् सृष्टिक्रमेण न्यसेत् । तत् प्रकारः -
“ओं षौन्नमः पराय परमेष्ठ्यात्मने नम” इति मूर्ध्नि न्यस्यन्,
परमात्मनस् तम उत्पादयामि,
तमसः प्रकृतिम् उत्पादयामि,
प्रकृतेर् महान्तम् उत्पादयामि,
महतो ऽहङ्कारम् उत्पादयामि,
अहङ्काराद् इन्द्रियाणि शब्दतन्मात्रञ् चोत्पादयामि,
शब्द-तन्मात्राद् आकाशम् उत्पादयामि
इति चिन्तयेत् ।
“ओं यान्नमः पराय पुरुषात्मने नम” इति नासाग्रे न्यस्यन्,
“आकाशात् स्पर्शतन्मात्रम् उत्पादयामि,
स्पर्शतन्मात्राद् वायुम् उत्पादयामी"ति चिन्तयेत् ।
“ओं रान्नमः पराय विश्वात्मने नम” इति हृदये न्यस्यन्
“वायो रूपतन्मात्रम् उत्पादयामि,
रूपतन्मात्रात् तेज उत्पादयामी"ति चिन्तयेत् ।
“ओं वान्नमः पराय निवृत्त्यात्मने नम” इति गुह्ये न्यस्यन्
“तेजसो रसतन्मात्रम् उत्पादयामि,
रसतन्मात्राद् अप उत्पादयामी"ति चिन्तयेत् ।
“ओं लान्नमः पराय सर्वात्मने नम” इति पादयोः न्यस्यन्
“अद्भ्यो गन्धतन्मात्रमुत्पादयामि,
गन्धतन्मात्रात् पृथिवीम् उत्पादयामी"ति चिन्तयेत् ।
मूलम्
भगवद्दक्षिणपादाङ्गुष्ठे मूलमन्त्रेण स्वात्मानं प्रवेशयेत् । अपरेण प्राणायामेन भगवत्प्रसादेन भगवत्किङ्करतायोग्यतामापाद्य तस्मादादाय तद्वामपादाङ्गुष्ठनखशीतांशुमण्डलगलद्दिव्यामृतरसेनात्मानमभिषिच्य, भगवत्प्रसादेन तदमृतमयं सर्वकैङ्कर्यमनोहरं सर्वकैङ्कर्ययोग्यं शरीरं लब्ध्वा, तस्मिन् पञ्चोपनिषन्मन्त्रान् सृष्टिक्रमेण न्यसेत् । तत् प्रकारः - ओं षौन्नमः पराय परमेष्ठ्यात्मने नम इति मूर्ध्नि न्यस्यन्, परमात्मनस्तम उत्पादयामि, तमसः प्रकृतिमुत्पादयामि, प्रकृतेर्महान्तमुत्पादयामि, महतोऽहङ्कारमुत्पादयामि, अहङ्कारादिन्द्रियाणि शब्दतन्मात्रञ्चोत्पादयामि, शब्दतन्मात्रदाकाशमुत्पादयामीति चिन्तयेत् । ओं यान्नमः पराय पुरुषात्मने नम इति नासाग्रे न्यस्यन्, आकाशात् स्पर्शतन्मात्रमुत्पादयामि, स्पर्शतन्मात्राद्वायुमुत्पादयामीति चिन्तयेत् । ओं रान्नमः पराय विश्वात्मने नम इति हृदये न्यस्यन् वायो रूपतन्मात्रमुत्पादयामि, रूपतन्मात्रात्तेज उत्पादयामीति चिन्तयेत् । ओं वान्नमः पराय निवृत्त्यात्मने नम इति गुह्ये न्यस्यन् तेजसो रसतन्मात्रमुत्पादयामि, रसतन्मात्रादप उत्पादयामीति चिन्तयेत् । ओं लान्नमः पराय सर्वात्मने नम इति पादयोः न्यस्यन् अद्भ्यो गन्धतन्मात्रमुत्पादयामि, गन्धतन्मात्रात् पृथिवीमुत्पादयामीति चिन्तयेत् ।
आह्निकार्थप्रकाशिका
भगवद्दक्षिणपादाङ्गुष्ठे मूलमन्त्रेण स्वात्मानं प्रवेशयेदित्यादि । तस्मिन् पञ्चोपनिषन्मन्त्रान् सृष्टिक्रमेण न्यसेदित्यन्तं नित्यवाक्यम् । उक्तं च वङ्गिवंशेश्वरैः -
ततो विमुक्तमात्मानं विमुक्तं तत्त्वपञ्जरात् ।
विमुक्तं मेघपटलाद्दिवाकरमिवोज्ज्वलम् ॥
ततः प्रकृतिसंसर्गादनादेरशुचेः स्वतः ।
अशुद्धं शुद्धतां नेतुं शुभाश्रयवशेन तु ॥
भगवद्दक्षिणाङ्घ्र्यब्जशुभाङ्गुष्ठं प्रवेशयेत् ।
इति । प्रकृतिसम्बन्धत्यागेन भगवत्कैङ्कर्ययोग्यतासम्पादनेऽपि शरीराभावे आराधनासम्भवात् भगवत्प्रसादलब्धकैङ्कर्ययोग्यशरीरलाभकथनम् । अप्राकृतचतुर्विंशतितत्त्वात्मकं शुद्धसत्त्वमयं शरीरं लब्ध्वेत्यर्थो बोध्यः । तस्य शरीरस्य स्थूलावस्थासिध्यर्थं तस्मिन् पञ्चोपनिषन्मन्त्राणां सृष्टिक्रमेण न्यासः । मूर्ध्वादिपादान्तन्यासः सृष्टिन्यासः ।
विश्वास-प्रस्तुतिः
एवमुद्भूतपरिशुद्धदेहं ध्यात्वा, पुनरपि प्राणायामेनैकेन भगवद्वामपादाङ्गुष्ठविनिस्सृतामृतधारया आत्मानमभिषिच्य, कृतलाञ्छनो धृतोर्ध्वपुण्ड्रः,
मूलम्
एवमुद्भूतपरिशुद्धदेहं ध्यात्वा, पुनरपि प्राणायामेनैकेन भगवद्वामपादाङ्गुष्ठविनिस्सृतामृतधारया आत्मानमभिषिच्य, कृतलाञ्छनो धृतोर्ध्वपुण्ड्रः,
[[206]]
आह्निकार्थप्रकाशिका
एवमुद्भूतपरिशुद्धदेहं ध्यात्वेति ।
एवं न्यासं कुर्वन् तत्तच्छक्तिमयमुद्भूतदेहं ध्यायेत्
इति नित्येऽनुगृहीतम् । शरीरतया स्थूलदशापन्नमित्यर्थः । पूर्वदेहत्यागपूर्वकशरीरान्तरविशिष्टस्य तत्क्षणोत्पन्नवत् कैङ्कर्यानर्हत्वात् तद्योग्यत्वाय स्नानाङ्कनोर्ध्वपुण्ड्रधारणान्याह - एवमित्यादिना । इदं च नित्यश्रीसूक्तिसिद्धम् ।
विश्वास-प्रस्तुतिः
अस्य श्रीमदष्टाक्षरमहामन्त्रस्येत्यादिपूर्वोक्तप्रकारेण ऋष्यादिन्यासमङ्गन्यासं च कुर्यात् । आराधनार्थे विनियोग इति भेदः । अत्र श्रीभाष्यकारैः वङ्गिवंशेश्वरैश्च जपस्यानुक्तत्वाद् आराधनयोग्यतार्थं न्यासमात्रं कर्तव्यम् ।

अथ ‘न्यासेन देवमन्त्राणाम्’ इत्याचार्यपादोपात्तमन्त्रन्यासप्रकारमाह - अस्य श्रीमदष्टाक्षरमन्त्रस्येत्यादि । तन्न्यासप्रकारः पूर्वं प्रपञ्चितः ।
विश्वास-प्रस्तुतिः
पाद्मादिषु तु जपोऽप्युक्तः ।
मूलम्
पाद्मादिषु तु जपोऽप्युक्तः ।
आह्निकार्थप्रकाशिका
पाद्मादिषु तु जपोऽप्युक्त इति । तस्य संहिताभेदनिबन्धनवैकल्पिकधर्मतया श्रीभाष्यकारनित्यष्ठानां [[??]] जपावश्यकर्तव्यत्वं नास्तीति भावः ।
विश्वास-प्रस्तुतिः
ततो यागमारभेत । भगवानेवेत्यादि + कारयतीति पूर्ववत् ध्यात्वा
मूलम्
ततो यागमारभेत । भगवानेवेत्यादि + कारयतीति पूर्ववत् ध्यात्वा
आह्निकार्थप्रकाशिका
पूर्वोक्ताराधनार्हतासिध्यनन्तरमाराधनारम्भं विदधाति - तत इत्यादिना ।
ततो भगवद्यागमारभेत । भगवानेव + सर्वं कारयतीति पूर्ववत् ध्यायेत्
इति नित्येऽनुगृहीतम् । अथ अष्टाङ्गाराधने -
अन्तःकरणयागादियावदात्मनिवेदनम् ।
तदाद्यमङ्गं यागस्य नाम्नाऽभिगमनं भवेत् ॥
[[207]]
विश्वास-प्रस्तुतिः
हृदयकमलम् अधोमुखम् ऊर्ध्वमुखम् उन्नमय्य,
बाह्यतो वक्ष्यमाणाधारशक्त्यादि-कल्पन-क्रमेण योगपीठान्तं कल्पयित्वा,
पर्यङ्कं नागराजं च परिकल्प्य
तस्य पीठस्य दक्षिणपार्श्वतः स्वात्मानमासीनं च विचिन्त्य,
तत्पीठस्योपरि “सव्यं पादम्” इति वक्ष्यमाणक्रमेण सपरिवारं भगवन्तं विचिन्त्य ध्यात्वा
मानसैरतिमानुषैः सांस्पर्शिकौपचारिकाभ्यवहारिकैः भोगैरभ्यर्च्य
भगवन्तं प्रणम्य प्रसाद्य,
भगवन् पुण्डरीकाक्ष
हृद्-यागन्तु मया कृतम् ।
आत्मसात् कुरु देवेश
बाह्यैस् त्वां सम्यगर्चये ॥
विभो सकल-लोकेश
प्रणतार्तिहराच्युत ।
त्वां भक्त्या पूजयाम्य् अद्य
भोगैर् अर्घ्यादिभिः क्रमात् ॥
इति बाह्ययागं भगवते निवेद्य,
मूलम्
हृदयकमलम् अधोमुखम् ऊर्ध्वमुखम् उन्नमय्य,
बाह्यतो वक्ष्यमाणाधारशक्त्यादि-कल्पन-क्रमेण योगपीठान्तं कल्पयित्वा,
पर्यङ्कं नागराजं च परिकल्प्य
तस्य पीठस्य दक्षिणपार्श्वतः स्वात्मानमासीनं च विचिन्त्य,
तत्पीठस्योपरि “सव्यं पादम्” इति वक्ष्यमाणक्रमेण सपरिवारं भगवन्तं विचिन्त्य ध्यात्वा
मानसैरतिमानुषैः सांस्पर्शिकौपचारिकाभ्यवहारिकैः भोगैरभ्यर्च्य
भगवन्तं प्रणम्य प्रसाद्य,
भगवन् पुण्डरीकाक्ष हृद्यागन्तु मया कृतम् ।
आत्मसात्कुरु देवेश बाह्यैस्त्वां सम्यगर्चये ॥
विभो सकललोकेश प्रणतार्तिहराच्युत ।
त्वां भक्त्या पूजयाम्यद्य भोगैरर्घ्यादिभिः क्रमात् ॥
इति बाह्ययागं भगवते निवेद्य,
आह्निकार्थप्रकाशिका
इत्युक्तमादिमाङ्गं हृद्यागं कृत्वेति नित्येऽनुगृहीतं प्रतिपादयितुमुपक्रमते - हृदयकमलमित्यादिना । मूलमन्त्रेण स्वात्मानं देवाय विनिवेदयेदित्यन्तमाद्याङ्गमिति बोध्यम् । अयं च हृद्यागः नान्तर्याम्यवतारविषयः ।
अष्टाङ्गयोगसिद्धानां हृद्यागनिरतात्मनाम् ।
योगिनामधिकारस्स्यादेकस्मिन् हृदयेशय ॥
इति श्रीपाञ्चरात्ररक्षोदाहृतश्रीसात्त्वतवचनेन तदाराधनस्य योगसिद्धविषयत्वावगमात् । किन्तु कल्पिताकारविषयः,
अथार्चितुं य इच्छेत्तु विशेषव्यक्तिलक्षणम् ।
सङ्कल्पितं स्वबुध्या तु तत्कालसमनन्तरम् ॥
विभोस्सामर्थ्यशक्तिर्वै स्पन्दतामेति च स्वयम् ।
सूतेऽग्निकणवन्मन्त्रं यत्र मन्त्री कृतास्पदः ॥
तमागतमिवाकाशादागतं कर्णिकान्तरे ।
भावयेदथ तन्मध्यादाराध्य मुदितं स्मरेत् ॥
आदिमूर्तिस्वरूपेण चतुर्मूर्तिमयेन वा ।
पृथक्त्वेन चतुर्मूर्तेरेकैकाकृतिनाप्यथ ॥
अथवा वैभवीयेन नानाकृत्यात्मना तु वा ।
अङ्ग सङ्घं (सर्वं) तदीयं च न्यसेत्पद्मदलाश्रितम् ॥
परिवारं बहिः पद्मात् स्वकं यो यस्य विद्यते ।
सशक्तिकस्य मन्त्रस्य दिक्क्रमेण हृदादि यत् ॥
न्यसेत्केसरजालस्थं पत्रमध्ये तु शक्तयः ।
निश्शक्तिको निरङ्गो यो मन्त्रनाथस्तु केवलः ॥
शब्दमात्रेण तं भूयो दलजालगतं यजेत् ।
इत्येवमन्तर्यागस्तु देवस्य चतुरात्मनः ॥
समासेनोदितस्सम्यगथ मूर्तौ बहिर्यजेत् ।
इति श्रीसात्त्वतपञ्चमपरिच्छेदवचनैस्तथानुशिष्टत्वात् । बाह्यपूजाप्रकारेण हृद्यागः कार्य इत्यभिप्रायेण नित्ये हृद्यागं कृत्वेति सामान्येनानुगृहीतम् ।
[[208]]
केषुचित् वङ्गिवंशेश्वरनित्यकोशेषु —
हृद्यागं कर्तुमुद्युक्तः कुर्यादेवमतन्द्रितः ।
हृत्पुण्डरीकमध्ये तु योगपीठं यथा बहिः ।
कुर्यादाधारशक्त्यादिनागराजान्तमुज्ज्वलम् ॥
इति सार्धश्लोकोऽस्ति । अन्याह्निकोदाहृतश्च । अत आचार्योक्तप्रकारेणैव हृद्यागानुष्ठानं कार्यम् ।
एवं ध्यात्वाऽथ तं देवं मानसैरतिमानुषैः ।
सांस्पर्शिकैश्च गन्धाद्यैः छत्राद्यैरौपचारिकैः ॥
शुद्धैर्हविरपूपाद्यैश्शुभैराभ्यवहारिकैः ।
उपचारैश्चतुष्षष्ठिसङ्ख्यैरावाहनादिभिः ॥
अभ्यर्च्य हृदये देवं दिव्यैर्भावमयैश्शुभैः ।
पत्नीपरिजनोपेतं प्रणम्याभिप्रसाद्य च ॥
निवेद्य च बहिर्यागमेवं भक्त्या समाहितः ॥
इति वङ्गिवंशेश्वरैः हृद्यागः प्रपञ्चितः ।
विश्वास-प्रस्तुतिः
तदनुज्ञातश्चण्डादिद्वारपालान् गन्धादिभिरभ्यर्च्य
मूलम्
तदनुज्ञातश्चण्डादिद्वारपालान् गन्धादिभिरभ्यर्च्य
आह्निकार्थप्रकाशिका
अथ बाह्ययागानुष्ठानप्रकारमाह - द्वारपालान् तदनुज्ञातश्चण्डादीन् प्रणम्येत्यादिना ।
विश्वास-प्रस्तुतिः
सम्भारान् सम्भृत्यात्मनो वामपार्श्वे जलभाजने तोयमुत्पूर्य गन्धपुष्पयुतं कृत्वा,
मूलम्
सम्भारान् सम्भृत्यात्मनो वामपार्श्वे जलभाजने तोयमुत्पूर्य गन्धपुष्पयुतं कृत्वा,
आह्निकार्थप्रकाशिका
सम्भारान् संभृत्येत्यादि ।
सम्भारान् सम्भृत्यात्मनो वामपार्श्वे जलभाजने तोयमुत्पूर्य गन्धपुष्पयुतं कृत्वा सप्तकृत्वोऽभिमन्त्र्य विशोष्य दग्ध्वा दिव्यामृतमयं तोयमुत्पाद्य अस्त्रमन्त्रेण रक्षां कृत्वा
इति नित्येऽनुगृहीतम् । सम्भाराणामुपादानकालसम्भृतत्वेऽपि पुत्रशिष्याद्यानीतानां प्राप्ताप्राप्तावेक्षणाय तत्काले तद्देशानयनमत्रोच्यते ।
विश्वास-प्रस्तुतिः
सप्तकृत्वोऽभिमन्त्र्य, विशोष्य दग्ध्वा दिव्यामृतमयं तोयमुत्पाद्यास्त्रमन्त्रेण रक्षां कृत्वा
मूलम्
सप्तकृत्वोऽभिमन्त्र्य, विशोष्य दग्ध्वा दिव्यामृतमयं तोयमुत्पाद्यास्त्रमन्त्रेण रक्षां कृत्वा
आह्निकार्थप्रकाशिका
सप्तकृत्वोऽभिमन्त्र्येति । मूलमन्त्रेणेत्यभिप्रेतम् । एवं शोषणादावपि बोध्यम् । नित्ये “मूलमन्त्रेण स्वात्मानं देवाय निवेद्ये"ति “मूलमन्त्रेण पुष्पं प्रदाये"ति चानुगृहीतत्वात्, श्रीपाञ्चरात्ररक्षायां —
अत एव श्रीभाष्यकाराणां शिष्याः प्रशिष्याश्च श्रीमदष्टाक्षरेण समाराधनं प्रपञ्चयन्तः
इत्यादिना,
हरिं प्रणम्य चायम्य प्राणान् प्रणिपतन् गुरून्
इत्यारभ्य श्रीमदष्टाक्षरमन्त्रस्य ऋषिच्छन्दोदेवताबीजशक्तीः प्रकाश्य,
श्रीभाष्यकारानुक्तो मन्त्रन्यासस्तच्छिष्याद्युक्त प्रकारेणोपादेय इति ज्ञापनाय,
मन्त्रन्यासं ततः कृत्वा मन्त्रार्थमपि चिन्तयेत्
इति सङ्ग्रहेणाभिधाय, (पूर्वग्रन्थेष्वनिवेशितमन्त्रार्थमत्यन्तोपयुक्ततया स्वयमेवाभिधाय)
एवं सञ्चिन्त्य मन्त्रार्थं ततस्तं पुरुषं परम्
इत्यादिना पूर्वैरुक्तं ध्यानं संक्षिप्य
इत्यन्तेन श्रीभाष्यकारशिष्यप्रशिष्यग्रन्थेषु श्रीभाष्यकारानुगृहीताष्टाक्षरकरणकाराधनस्य प्रदर्शितत्वावगमात् ।
[[209]]
तत्रैव “अथ परमैकान्तिनो भगवदाराधनप्रयोगं वक्ष्य” इत्यारभ्य,
शौनकव्यासबोधायनादिधर्मशास्त्रानुक्तेन भगवच्छास्त्रोक्तेन वर्त्मना स्नानविशेषादिपूर्वकविलक्षणसमाराधनप्रक्रियाप्रतिपादनं कथम्भूतमधिकारिणमधिकृत्य श्रीभाष्यकारैः कृतमिति कर्णे तवागतनम्
इति श्रीसूक्त्यापि मूलमन्त्रकरणकस्नानादिप्रतिपादकनित्याराधनस्य मूलमन्त्रकरणकत्वावगमाच्च ।
विश्वास-प्रस्तुतिः
सुरभिमुद्रां प्रदर्य,
मूलम्
सुरभिमुद्रां प्रदर्य,
आह्निकार्थप्रकाशिका
सुरभिमुद्रां प्रदर्श्येति ।
अङ्गुष्ठे द्वे कनिष्ठे द्वे तथा स्यात्तर्जनीद्वयोः ।
श्लिष्टं प्रसारयेद्ब्रह्मन्नङ्गुलीनिकरद्वये ॥
मध्यमां दक्षिणकरेऽनामिकां च तथेतरे ।
संहृत्य प्रहरेच्छेषं करयोरुभयोरपि ॥
ज्ञेया सुरभिमुद्रा सा यागद्रव्यविशोधिनी
इति पाद्मद्वाविंशवचनोक्तप्रकारेण सुरभिमुद्रा कार्या ।
विश्वास-प्रस्तुतिः
अन्यानि पूजाद्रव्याण्यात्मनो दक्षिणापार्श्वे निधाय मूलमन्त्रेण शोषणदाहनप्लावनैर्योग्यतामापाद्य
मूलम्
अन्यानि पूजाद्रव्याण्यात्मनो दक्षिणापार्श्वे निधाय मूलमन्त्रेण शोषणदाहनप्लावनैर्योग्यतामापाद्य
आह्निकार्थप्रकाशिका
अन्यानि पूजाद्रव्याणि स्वात्मनो दक्षिणपार्श्वे निधायेत्यादि । “अन्यानि पूजाद्रव्याणि आत्मनो दक्षिणपार्श्वे निधाये”ति नित्यवाक्यमनुसृत्य “दक्षिणपार्श्वे” इत्युक्तम् ।
आत्मनो दक्षिणे पार्श्वे वासितैः पावनैर्जलैः ।
पूरितं विन्यसेत्पात्रं मूलमन्त्रेण मन्त्रवित् ।
वामपार्श्वे तथा सर्वं विन्यसेत्साधनान्तरम् ॥
इत्यहिर्बुध्न्यसंहितोक्तं संहिताभेदनिबन्धनं वैकल्पिकम् ।
पूजाद्रव्याणि सर्वाणि क्षालयित्वाम्बु पूरिताम् ।
दक्षिणे वामपार्श्वे तु विनिवेश्य गलन्तिकाम् ॥
गालितेनाम्बुना पूर्णं स्वाहृतेनाम्बुना सह ।
स्वोत्तरे वर्मणा स्थाप्य कुम्भं सर्वोपयोगि यत् ॥
उपार्जितं पुरा यद्वै यागोपकरणं महत् ।
तत्सर्वं दक्षिणे कृत्वा मध्ये भद्रासनं न्यसेत् ॥
इति पाद्मपारमेश्वरवचनपूर्वाचार्याचारानुसारेण वामपार्श्वे जलभाजनस्थापनं दक्षिणपार्श्वे यागोपकरणस्थापनं च नित्येऽनुगृहीतमिति बोध्यम् ।
विश्वास-प्रस्तुतिः
पुरतः स्वास्तीर्णे पीठे क्रमेणाग्नेयादिकोणेषु अर्घ्यपाद्याचमनीयस्नानीयपात्राणि मध्ये शुद्धोदकपात्रं च निधाय,
मूलम्
पुरतः स्वास्तीर्णे पीठे क्रमेणाग्नेयादिकोणेषु अर्घ्यपाद्याचमनीयस्नानीयपात्राणि मध्ये शुद्धोदकपात्रं च निधाय,
आह्निकार्थप्रकाशिका
आत्मनः पुरतः स्वास्तीर्णे पीठ इत्यादि । “आत्मनः पुरतः स्वास्तीर्णे” इत्यादिनित्यवाक्यमिहानुसन्धेयम् ।
[[210]]
मूलम्
मूलमन्त्रेणास्त्रमन्त्रेण वा प्रक्षाल्य, शोषणादिना विशोष्य, संस्कृततोयेन तानि पूरयित्वा,
आह्निकार्थप्रकाशिका
मूलमन्त्रेणास्त्रमन्त्रेण वा प्रक्षाल्येति । नित्यानुसारेण मूलमन्त्रेणेति । “प्रक्षाल्यास्त्रेण विधिवत् स्थापयेत् पुरतो हरेः” इति वङ्गिवंशेश्वरवाक्यानुसारेणास्त्रमन्त्रेण वेत्युक्तम् । यदत्र नित्यान्तरे पात्रस्थापनभेदादिकथनं तत्सर्वं संहिताभेदनिबन्धनवैकल्पिकम् ।
विश्वास-प्रस्तुतिः
अर्घ्यपात्रे,
सिद्धार्थमक्षतञ्चैव कुशाग्रं तिलमेव च ।
यवं गन्धं फलं पुष्पम् अर्घ्ये द्रव्याणि निक्षिपेत् ॥
पाद्ये ।
दूर्वां विष्णुपर्णीं श्यामाकं पद्ममक्षतम् ।
तिलञ्च ।
आचमनीये,
एलालवङ्गतक्कोलजातीकर्पूरचन्दनम् ।
लामज्जपुष्पाणि च,
स्नानीये,
गन्धसर्वौषधीरत्नफलबीजकुशानि च ।
तिलानि चाक्षतं चैव दधि क्षीरं घृतं तथा ॥
रजनी द्वादशैतानि स्नानीयद्रव्यमुच्यते ।
गन्धसर्वौषधीत्यत्र
कोष्ठं मांसि हरिद्रे द्वे मुराशैलेयचम्पकाः ।
वचाकचोरुमुस्ताश्च सर्वौषध्यः प्रकीर्तिता ॥
इत्युक्ततत्तद्द्रव्याणि तत्तत्पात्रे निक्षिप्य,

तोयस्य सौगन्ध्यादिसिद्ध्यर्थं नित्यवाक्यपाद्मादिसंहितावचनान्यनुसृत्य निधेयद्रव्याण्याह - अर्घ्यपात्रे सिद्धार्थमक्षतं चैवेत्यादिना ।
विश्वास-प्रस्तुतिः
द्रव्यालाभे तुलसीं वा निक्षिपेत् । अन्यस्मिन्पात्रे सर्वार्थतोयमुत्पूर्य परिकल्प्य,
मूलम्
द्रव्यालाभे तुलसीं वा निक्षिपेत् । अन्यस्मिन्पात्रे सर्वार्थतोयमुत्पूर्य परिकल्प्य,
आह्निकार्थप्रकाशिका
द्रव्यालाभ इति ।
स्वमन्त्रेण विनिक्षिप्य तदलाभे हरिप्रियाम् ।
तुलसीमेव निक्षिप्य
इति वङ्गिवंशेश्वरोक्तं ग्राह्यम् ।
[[211]]
विश्वास-प्रस्तुतिः
अर्घ्यादिपात्राणि पाणिना मलमन्त्रेणाभिमन्त्र्य, ओं नमो भगवते अर्घ्यं परिकल्पयामीत्यर्घ्यादिकं क्रमेण परिकल्पयेत्, ततः अर्घ्यपात्राज्जलमन्येन पात्रेणादाय, यागभूमिं सर्वाणि यागद्रव्याणि आत्मानं च सम्प्रोक्ष्यासनं परिकल्पयेत् ।

ततोऽर्घ्यपात्रं पाणिना मूलमन्त्रेणेति । “ततोऽर्ध्यादिपात्राणि पाणिना मूलमन्त्रेणाभिमन्त्र्ये"त्यादिनित्यवाक्यमिहानुसन्धेयम् ।
विश्वास-प्रस्तुतिः
ओं आधारशक्त्यै नमः, ओं प्रकृत्यै नमः, ओं अखिलजगदाधाराय कूर्मरूपिणे नारायणाय नमः, ओं अनन्ताय नागराजाय नमः, ओं भूं भूम्यै नमः, इति यथास्थानमुपर्युपरि ध्यात्वा प्रणम्य, ओं श्रीवैकुण्ठाय दिव्यलोकाय नम इति श्रीवैकुण्ठदिव्यलोकं ध्यात्वा प्रणम्य, ओं श्रीवैकुण्ठाय दिव्यजनपदाय नम इति दिव्यजनपदं ध्यात्वा प्रणम्य, ओं श्रीवैकुण्ठाय दिव्यनगराय नम इति दिव्यनगरं ध्यात्वा प्रणम्य, ओं श्रीवैकुण्ठाय दिव्यविमानाय नम इति दिव्यविमानं ध्यात्वा प्रणम्य, ओं आनन्दमयाय दिव्यमण्टपरत्नाय नम इति दिव्यमण्डपं ध्यात्वा प्रणम्य, ओं आस्तरणरूपायानन्ताय नागराजाय नम इति आस्तरणं ध्यात्वा प्रणम्य, ओं धर्माय पीठपादाय नम इति आग्नेयां, ओं ज्ञानाय + नम इति नैर्ऋत्यां, ओं वैराग्याय + नम इति वायव्यां, ओं ऐश्वर्याय + नम इति ऐशान्यां पीठपादान् न्यस्य ध्यात्वा प्रणम्य, ओं अधर्माय पीठगात्राय नम इति प्राच्यां, ओं अज्ञानाय + नम इति दक्षिणस्यां, ओं अवैराग्याय + नम इति प्रतीच्यां, ओं अनैश्वर्याय + नम इति उत्तरस्यां च क्रमेण पीठगात्राणि विन्यस्य ध्यात्वा प्रणम्य, ओं एभिः परच्छिन्नतनवे पीठभृते सदात्मकायानन्ताय नागराजाय नम इति सदात्मकं सर्वकार्योन्मुखं विभुमनन्तं विन्यस्य, तदुपरि, ओं अष्टदलपद्माय नम इति अष्टदलपद्मं विन्यस्य, पूर्वाद्यष्टसु दलेषु क्रमेण ओं विमलायै चामरहस्तायै नमः, ओं उत्कर्षिण्यै चा + मः, ओं ज्ञानायै चा + मः, ओं क्रियायै + चा + मः, ओं प्रभ्व्यै चा + मः, ओं सत्यायै + चा + मः, ओं ईशानायै चा + मः, इति विमलाद्या हरेर्मुखमीक्षमाणाः, करेणैकेन चामराणि दधतीः स्वलङ्कृता; इतरैकहस्तेन शिरो-निहितेन नमस्यन्तीरष्टौ ध्यात्वा प्रणम्य, गन्धाद्यैरभ्यर्च्य, कर्णिकापूर्वभागे, ओं अनुग्रहायै चा + नम इति पूर्वोक्तरूपामनुग्रहां चामरहस्तां विन्यस्य ध्यात्वा प्रणम्य, ओं जगत्प्रकृतये दिव्ययोगपीठाय नम इति जगत्प्रकृतिभूतं आधारशक्त्याद्यखिलदेवतामयमद्भुतं योगपीठं विन्यस्य प्रणम्याभ्यर्च्य, ओं दिव्ययोगपर्यङ्काय नम इति योगपर्यङ्कं विन्यस्य, ओं सहस्रफणामणिमण्डितायानन्ताय नागराजाय नम इति मध्ये कुण्डलीकृतविग्रहं रजताद्रिनिभम् उन्मिषत्पद्मपत्रारुणेक्षणं शैत्यसौगन्ध्यसौकुमार्यादिगुणाकरं वितानमिव फणामणिसहस्रं वितत्यासीनमनन्तं नागराजं विन्यस्य ध्यात्वाभ्यर्च्य, ओं पादपीठात्मने अनन्ताय नागराजाय नम इति पुरतः पादपीठं विन्यस्य, सर्वपरिवाराणां पुरतः पार्श्वतः पश्चादपि सर्वतः, ओं पद्मासनेभ्यो नम इति पद्मासनानि विन्यस्य, योगपीठस्य पश्चात्पुरतः प्रागुत्तरे च क्रमेणानन्तगरुडविष्वक्सेनानां, ओं सपीठकपद्मासनेभ्यो नम इति सपीठपद्मासनानि विन्यस्य, सर्वतः पुष्पाक्षतानि विकीर्य, धूपैर्धूपयित्वा, योगपीठस्य पश्चिमोत्तरदिग्भागे समीपतः

[[212]]
आह्निकार्थप्रकाशिका
आसनं परिकल्पयेत् । ओं आधारशक्त्यै नम इत्यादि । श्रीनित्योक्तप्रकारेणैव आधारशक्त्यादिपीठपरिकल्पनमनुगृहीतम् ।
विश्वास-प्रस्तुतिः
ओं अस्मद्गुरुभ्यो नमः इति
मूलम्
ओं अस्मद्गुरुभ्यो नमः इति
आह्निकार्थप्रकाशिका
अस्मद्गुरुभ्यो नम इति ।
विश्वास-प्रस्तुतिः
रहस्यत्रयगायत्रीप्रदातॄन् तदर्थोपदेष्टॄन् इज्याप्रयोगशिक्षकान् भरसमर्पणकर्तॄन् च सर्वान् गुरून् तदीयान् गुरूंश्च ध्यात्वा प्रणम्य, गन्धाद्यैरभ्यर्च्याभिवाद्य प्रसाद्य “गुरुवस्तदीयगुरवो दिशन्तु मम साध्वनुग्रहम् । “युष्मदुपजनितशक्तिमतिरहं हरिमर्चयामि गतभीः प्रसीदत” इति प्रणम्यानुज्ञाप्य, भगवद्यागमारभेत ।

सर्वगुरुसङ्ग्राहकत्वमाह — रहस्यत्रयगायत्रीप्रदातॄनित्यादिना । “पश्चिमोत्तरदिग्भागे योगपीठसमीपतः” इत्युपक्रम्य ‘‘गुरवस्तदीयगुरवः” इति वङ्गिवंशेश्वरोक्तेः स्वगुरून् विशिष्य ध्यात्वा, तद्गुरुत्वेन प्राचार्यप्रभृतयो गुरवो ध्येयाः ।
विश्वास-प्रस्तुतिः
कल्पितनागभोगे आसीनं भगवन्तं नारायणं पुण्डरीकदलामलायतेक्षणं, किरीटमकुटहारकेयूरकटकादिसर्वभूषणैर्भूषितम् आकुञ्चितदक्षिणपादं प्रसारितवामपादं, दक्षिणजानुन्यस्तप्रसारितदक्षिणभुजं नागभोगे विन्यस्तवामभुजम् ऊर्ध्वभुजद्वयेन शङ्खचक्रधरं, सर्वेषां सृष्टिस्थितिप्रलयहेतुभूतमञ्जनाभं “चकासतम्” “विराजमान” “उदग्र” “प्रबुद्ध”

पूर्वप्रदर्शितविष्वक्सेनसंहितोक्तपररूपध्यानमाह — कल्पित इति । तत्संहितोक्तं दिव्यसिंहासनस्थित्याद्यभिप्रेत्योक्तम् ।
[[213]]
विश्वास-प्रस्तुतिः
नागभोगे
मूलम्
नागभोगे
आह्निकार्थप्रकाशिका
नागभोग इति ।
विश्वास-प्रस्तुतिः
भगवन्तं नारायणं
मूलम्
भगवन्तं नारायणं
आह्निकार्थप्रकाशिका
‘‘परमेश्वरो जगद्धाता” इत्युक्तमाह – भगवन्तं नारायणमिति । भगवच्छब्दस्य रूढत्वेऽपि भगवन्नारायणेत्यत्रेव निर्वचनप्रसिद्धयोगार्थविवक्षया न पौनरुक्त्यम् ।
विश्वास-प्रस्तुतिः
पुण्डरीकदलामलायतेक्षणं, किरीटमकुटहारकेयूरकटकादिसर्वभूषणैर्भूषितम्
मूलम्
पुण्डरीकदलामलायतेक्षणं, किरीटमकुटहारकेयूरकटकादिसर्वभूषणैर्भूषितम्
आह्निकार्थप्रकाशिका
“दिव्यमङ्गलविग्रह” इत्युक्तदिव्यत्वमङ्गलत्वादिकम् अवयव-प्रधान-नयन-शोभा-वर्णनेन प्रकटयति — पुण्डरीकेति ।
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी, यः स्मरेत् पुण्डरीकाक्षं, जितन्ते पुण्डरीकाक्ष
इत्यादिकमत्रानुसन्धेयम् ।
विश्वास-प्रस्तुतिः
आकुञ्चितदक्षिणपादं प्रसारितवामपादं, दक्षिणजानुन्यस्तप्रसारितदक्षिणभुजं नागभोगे विन्यस्तवामभुजम् ऊर्ध्वभुजद्वयेन शङ्खचक्रधरं,
मूलम्
आकुञ्चितदक्षिणपादं प्रसारितवामपादं, दक्षिणजानुन्यस्तप्रसारितदक्षिणभुजं नागभोगे विन्यस्तवामभुजम् ऊर्ध्वभुजद्वयेन शङ्खचक्रधरं,
आह्निकार्थप्रकाशिका
“विन्यस्य वामबाहुं चे”त्याद्युक्तविग्रहसन्निवेशमाह - आकुञ्चितेत्यादिना ।
विश्वास-प्रस्तुतिः
सर्वेषां सृष्टिस्थितिप्रलयहेतुभूतम्
मूलम्
सर्वेषां सृष्टिस्थितिप्रलयहेतुभूतम्
आह्निकार्थप्रकाशिका
वेदान्तभगवच्छास्त्रसिद्धजगत्कारणत्वादिकमाह — सर्वेषां सृष्टीत्यादिना ।
विश्वास-प्रस्तुतिः
अञ्जनाभं
मूलम्
अञ्जनाभं
आह्निकार्थप्रकाशिका
‘‘श्यामलाङ्ग” इत्युक्तं विवृणोति अञ्जनाभमिति ।
विश्वास-प्रस्तुतिः
“चकासतम्”
मूलम्
“चकासतम्”
आह्निकार्थप्रकाशिका
‘चकासतं ज्याकिणकर्कशैश्शुभैरिति श्रीस्तोत्रमाह - चकासतमिति ।
विश्वास-प्रस्तुतिः
“विराजमान”
मूलम्
“विराजमान”
आह्निकार्थप्रकाशिका
‘‘आदित्यवर्णं, तस्य भासा सर्वमिदं विभाति, दिवि सूर्यसहस्रस्ये"त्यादिप्रतिपादितस्वतस्सिद्धदीप्तिमाह — विराजमानमिति ।
विश्वास-प्रस्तुतिः
परमसत्त्वपञ्च
मूलम्
परमसत्त्वपञ्च
आह्निकार्थप्रकाशिका
उदग्रेत्यादि । उदग्रः उन्नतः, उच्चप्रांशून्नतोदग्रोच्छ्रिता इत्यमरः । श्रीस्तोत्रभाष्ये “उदग्रपीनांसेत्यत्र ‘उदग्रमुन्नत"मित्यनुगृहीतम् । तत्रैव “परात्परं ब्रह्म च ते विभूतय” इत्यत्र “अत्र ब्रह्मशब्दोपचारनिमित्ते लोकोत्तरबृहत्त्वबृंहणत्वे” इति । अचिन्त्यदिव्याद्भुतेत्यत्र ‘‘निरतिशयभोग्यमहत्तराकारत्वमभिप्रेत्यामृतोदधित्वोपचार” इति, चानुगृहीतं मूर्तं ब्रह्मेत्यत्र चतुश्लोकीभाष्ये
अत्र ब्रह्मशब्देन दिव्यविग्रहस्यातिमहत्त्वं स्वाश्रितानां धीविकासहेतुत्वं च विवक्षितम्
इत्यनुगृहीतम् । एतेन उदग्रः उत्कृष्टः लक्षणशास्त्रोक्तयावल्लक्षणलक्षित इति यावदित्यन्योक्तं निरस्तम् । प्रबुद्धः स्वयं प्रकाश इत्यर्थः । स्फुरच्छब्दस्य प्रत्यक्षग्राह्यतत्तदवयवसंस्थानविशेष इत्यर्थः । अपूर्वेत्यनेन देवीनित्यमुक्तैस्सदानुभूयमानोऽपि अपूर्ववत् विस्मयावह इति बोध्यते । अचिन्त्यः
समस्ताश्शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ।
तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥
इत्याद्युक्तातिमहत्त्वाश्रयतया योगिभिरप्यपरिच्छेद्यः, कुतर्कैः प्रतिक्षेप्तुमशक्यश्च । ‘अचिन्त्यदिव्याद्भुते’ति स्तोत्रभाष्ये अचिन्त्यपदमेवमेव व्याख्यातम् ।
विश्वास-प्रस्तुतिः
परमसत्त्वपञ्चशक्तिमयविग्रहं
मूलम्
परमसत्त्वपञ्चशक्तिमयविग्रहं
आह्निकार्थप्रकाशिका
पञ्चोपनिषदाम्नातदिव्यमङ्गलविग्रहः ।
अप्राकृततनुर्देवः
इत्याद्यभिप्रेत्य परमसत्त्वपञ्चशक्तिमयविग्रहमिति । परमसत्त्वं प्राकृतमिश्रसत्त्वव्यवच्छेदकत्वं पञ्चशक्तिमयत्वं ‘शान्तेऽनन्ते परे व्योम्नी’त्यारभ्य
पञ्चैताश्शक्तयः प्रोक्ताः परस्य परमात्मनः ।
अशेषे जगदाधारे परे देवे व्यवस्थिताः ॥
इत्यन्तैः पूर्वोदाहृतनारदीयसंहितावचनैः प्रतिपादितं परमेष्ठिपुरुषविश्वनिवृत्तिसर्वशब्दवाच्यविग्रहमयत्वम् । एतेन अप्राकृतपञ्चभूतात्मकत्वं पञ्चशक्तिमयत्वम् इत्यन्योक्तं निरस्तम् । उपात्तविशेषणानां नारायणशब्दार्थे विशेष्येन्वयः ।
[[214]]
विश्वास-प्रस्तुतिः
पञ्चोपनिषदैर्ध्यात्वा
मूलम्
पञ्चोपनिषदैर्ध्यात्वा
आह्निकार्थप्रकाशिका
पञ्चोपनिषदैर्ध्यात्वेति । पञ्चोपनिषदाम्नातपञ्चशक्तिमयदिव्यमङ्गलविग्रहवत्त्वात् तन्मन्त्रैरेव ध्यानं विहितमिति बोध्यम् । अथाप्राकृतलोकवर्तिनः पररूपस्याप्राकृतत्वस्य प्रमाणसिद्धत्वेऽपि प्राकृतलोकस्थायाश्शैललोहादिरूपायाः अचार्याः कथमप्राकृतत्वं, प्रत्यक्षविरोधादिति चेन्न;
बिम्बाकृत्यात्मना बिम्बे समागत्यावतिष्ठते ।
अर्चापि लौकिकी या सा भगवद्भावितात्मनाम् ॥
मन्त्रमन्त्रेश्वरन्यासात् सापि षाड्गुण्यविग्रहा ।
सर्वातिशयषाड्गुण्यं संस्थितं मन्त्रबिम्बयोः ॥
विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ।
यो गुरौ मानुषं भावं मन्यते हि नराधमः ॥
यो देवे लोहजं भावमुभौ नरकपातिनौ ॥
इत्यादिप्रमाणैः,
अर्चावतार மாவது:- परव्यूहादिलक्षण ங்களோடே கூட स्वयं व्यक्तादिप्रक्रियै யாலே देशकालादिविप्रकर्ष மற்று मांसचक्षुस्सु க்களுக்கும் अनुभवि க்கும்படி தோற்றா நிற்கும் நிலை. இங்கே यथा युवानं राजानं, मानं, सर्वातिशायिषाड्गुण्यं, अर्च्यस्सर्वसहिष्णुः
इत्यादिश्लोक
ங்களையும் अभिमानसंसारपरिणामानुप्रवेशाभिमुख्यादिविशेष ங்களையும் கண்டு கொள்வது
इति श्रीतत्त्वत्रयचुलकादिश्रीसूक्तिभिश्चार्यायाः नीरक्षीरवदप्राकृतविग्रहसंसृष्टत्वावगमेनादोषात् । श्रीन्याससिद्धाञ्जने -
स्वयं व्यक्तदैवार्षादयस्त्वर्चावतारभेदाः । दैवादिष्वपि विशिष्टप्रतिष्ठानन्तरं प्रसादोन्मुखेश्वरसङ्कल्पाधीनमप्राकृतत्वमनुसन्धेयम् । प्राकृताप्राकृतसंसर्गोऽपि नानुपपन्नः । कथमन्यथा प्राकृतलोकेषु भगवदवताराः स्युः । परमपदेऽप्यर्चिरादिमार्गेण सूक्ष्मशरीरस्य वैदिकपुत्रादेर्गमनं वा कथं घटेत । हृत्पद्मकर्णिकागतस्यान्तर्यामिणः परस्य विशेषतः सूक्ष्मान्तर्याम्यवतारः
इत्यादिना विशिष्टप्रतिष्ठानन्तरं भगवत्सङ्कल्पाधीनमर्चायामप्राकृतत्वं, प्राकृताप्राकृतसंसर्गेऽनुपपत्तिपरिहरणं च व्यक्तमुक्तम् । यदन्योक्तम् - अर्चिरादिव्यतिरिक्तमार्गेण वैदिकपुत्राणां सूक्ष्मशरीरेणैव वैकुण्ठगमनं प्रतिपाद्यते श्रीभागवते दशमस्कन्धे इति; तदयुक्तं — तत्र तेषां सूक्ष्मशरीरेण बैकुण्ठगमनानुक्तेः, वैदिकपुत्राणां यावत् भूलोकप्राप्ति तच्छरीरेणैवावस्थातव्यत्वात्, कथमन्यथा तेनैव शरीरेण पुनरानयनं घटेत, ‘तथैव दृश्यते - भागवतादिषु’ इत्युत्तरस्ववाक्यविरुद्धत्वाच्च ।
इत्यादिष्टौ भगवता तौ कृष्णौ परमेष्ठिना ।
ओमित्यानम्य भूमानमादाय द्विजदारकान् ॥
न्यवर्तेतां स्वकं धाम सम्प्रहृष्टौ यथागतम् ।
विप्राय ददतुः पुत्रान् यथारूपांस्तथा प्रभू ॥
इति दशमस्कन्धवचनतः जननकालिकरूपविशिष्टानामेव पुत्राणामानयनप्रदानावगमात्
வைதிகன் பிள்ளைகளை உடலொடுங்கொண்டு கொடுத்தவனைப் பற்றி
इति द्रमिडोपनिषद्वाक्यषट्सहस्रिकाभाष्ये -
श्रीवैकुण्ठ த்திலே இருந்த वैदि கன் பிள்ளைகளை அவ்வுடலோடுங் கொண்டு கொடுத்தவனைப் பற்றி
इति व्याख्या दृश्यते । परकालस्वामिकृताष्टादशसहस्रिकायाम्
वैदि கன் पुत्र ர்களை முன்னிவன் பிறந்த அந்த शरीर த்தோடே கொண்டுவந்து கொடுத்தவனைப் பற்றி, एतदेवोक्तम् अघटितघटनादिति । அங்கு போனவர்க்கு மிங்கு மீள்வதுண்டோவென்ன; இங்கே अर्चिरादिमार्ग த்தாலே देशविशेषसम्बन्धं வாராமையாலே இவரை மீட்டது विरुद्ध மன்றென்று श्रीमद्वेदान्तदेशि கன் அருளிச் செய்தார்
इत्युक्तम् । यदप्यन्योक्तं – परमपदसोपाने अर्चिरादिपर्वान्ते विरजाया दिव्यलोकसीमन्ततया दिव्यजनपदसीमान्ततया च पक्षद्वयमुक्त्वा अनन्तरपक्षस्य श्रुत्युक्तत्वाभिधानात्, गतिचिन्तनाधिकारे मुक्तस्य दिव्यलोकगमनानन्तरं विरजातरणोपदेशाच्च द्वितीयपक्ष एवाचार्यपक्ष इत्यवगम्यते ।
[[215]]
यत्तु - प्रथमपक्षाश्रयणेन अर्चिरादीत्यस्यात्र नान्वयः, परमपदसोपाने वैदिकपुत्राणाम् अर्चिरादौ गमनाभावादेव पुनरावृत्तिप्रतिपादनात्
परमपदशब्दोऽत्र विरजानद्यभिप्रायः । विद्यामाहात्म्यानुवृत्तसूक्ष्मशरीरस्य विरजावगाहनानन्तरं निवृत्तिप्रतिपादनात्, विरजायाश्च शुद्धसत्त्वमयत्वात् प्राकृताप्राकृतसंसर्ग इत्यर्थः । न तु वैकुण्ठलोकाभिप्रायः । सूक्ष्मशरीरस्य तत्र गमनाभावात्
इति रङ्गरामानजीयव्याख्यानं, तत्तु मन्दमेव; प्रथमपक्षस्यैवोक्तविधयार्यमिश्रानभिमतत्वात्, तदनुपपत्तेश्च । न हि वैदिकपुत्राणां यावद्भूलोकप्राप्तिसूक्ष्मशरीरेण विरजायामवस्थितिर्वक्तुं शक्या । तत्स्पर्शमात्रेण सूक्ष्मशरीरनिवृत्तेस्तैरेव प्रतिपादनात् – इति । एतदत्यन्तभ्रममूलम् - प्रथमपक्षरीत्या मुक्तानां वैदिकपुत्राणां च शुद्धसत्वमयविरजायामेव प्राकृताप्राकृतसंसर्गस्योपपादितत्वात् । ‘विद्यामाहात्म्यानुवृत्तसूक्ष्मशरीरस्य विरजायां निवृत्तिप्रतिपादनात्’ इति तत्रानुगृहीततया वैदिकपुत्राणां सूक्ष्मशरीरगमनाप्रतिपादनात् तेषां सूक्ष्मशरीरेण गमनं नास्ति, स्थूलशरीरेणैव गमनमित्युपपादितम् । उपकारसंग्रहे -
आतिवाहि கரைக் கொண்டு சூழ்ந்தகன்றாழ் ந்துயர்ந்த முடிவில் பெரும்பாழைக் கடத்துமதுவும் विरजै என்கிற अमृतनदि யைக் கிட்டிவைத்து आकार த்தில் நின்று மெடுத்த ரத்நத்தின் அழுக்குக் கழற்றுமாப் போலே आत्मा வை अनुबन्धि த்துக் கொண்டு கிடக்கிற सूक्ष्माचि த்தைக் கழித்து ஒளிகொண்ட சோதியுமாயென்னும்படி பண்ணுமதுவும், இப்பாலுள்ள உபகாரங்கள், அக்கரையில் दिव्यलोकदिव्यजनपददिव्यनगरदिव्यविमानदिव्यस्थान
इत्यादिना विरजाया दिव्यलोकसीमान्तत्वपक्षोऽप्यङ्गीकृतः । द्वितीयपक्षे दिव्यजनपददिव्यनगरेत्यादेर्वक्तव्यत्वेन दिव्यलोकपदप्रयोगस्यायुक्तत्वात् । पक्षद्वयेऽपि विरजायामेव वैदिकपुत्रावस्थानं श्रीभागवते उक्तं –
ततः प्रविष्टस्सलिलं नभस्वता बलीयसैजत् बृहदुर्मिभूषणम् ।
तत्राद्भुतं वै भवनं द्युमत्तमम्
इत्यादिना
द्विजात्मजामेव युवयोर्दिदृक्षुणा मयोपनीता भुवि धर्मगुप्तये
इत्यादिना च विरजामध्यस्थदिव्यभवनगतसहस्रस्तम्भमण्टपान्तर्वर्तिशेषासनस्थभगवत्समीपवर्तित्वावगमात्तेषाम् । अतः श्रीरङ्गरामानुजमहादेशिकव्याख्यानदूषणमयुक्तम् । यथा ‘अर्चिरादिने’त्यस्य वैदिकपुत्रादेरित्यत्र नान्वयः, तथा सूक्ष्मशरीरस्येत्यत्रापि नान्वयः । किं तु मुक्तस्येत्यध्याहृतपदार्थ एवान्वयः ।
विश्वास-प्रस्तुतिः
“भगवन् समाराधनाभिमुखो भवे"ति प्रार्थ्य
मूलमन्त्रेण दण्डवत् प्रणम्योत्थाय,
ब्रह्माद्यास्सकला देवा यं न स्मर्तुमपीश्वराः ।
स एष भगवानद्य मम प्रत्यक्षतां गतः ॥
स्वागतं भगवन्नद्य मां तारयितुमागतः ।
धन्योऽस्म्यनुगृहीतोऽस्मि कृतार्थोऽस्मि कृपानिधे ॥
इति स्वागतं निवेद्य,
सान्निध्यं कुरु देवेश सर्वदा सर्वकामद ।
द्रव्यमन्त्रक्रियाभक्तिश्रद्धाहानिं सह प्रभो ॥
इति सान्निध्ययाचनं कुर्यात् ।
मूलम्
“भगवन् समाराधनाभिमुखो भवे"ति प्रार्थ्य मूलमन्त्रेण दण्डवत् प्रणम्योत्थाय,
ब्रह्माद्यास्सकला देवा यं न स्मर्तुमपीश्वराः ।
स एष भगवानद्य मम प्रत्यक्षतां गतः ॥
स्वागतं भगवन्नद्य मां तारयितुमागतः ।
धन्योऽस्म्यनुगृहीतोऽस्मि कृतार्थोऽस्मि कृपानिधे ॥
इति स्वागतं निवेद्य,
सान्निध्यं कुरु देवेश सर्वदा सर्वकामद ।
द्रव्यमन्त्रक्रियाभक्तिश्रद्धाहानिं सह प्रभो ॥
इति सान्निध्ययाचनं कुर्यात् ।
आह्निकार्थप्रकाशिका
भगवन् समाराधनाभिमुखो भवेति प्रार्थ्येति । ‘समाराधनाभिमुखो भवे’ति नित्यवाक्यमिह भाव्यम् ।
[[216]]
विश्वास-प्रस्तुतिः
अन्यत्र स्वाभिमते देशे पूजाचेदेवमावाहनमित्युपक्रम्य,
मन्त्रयोगस्समाह्वानं करपुष्पोदपर्शनम् ।
बिम्बोपवेशनञ्चैव योगविग्रहचिन्तनम् ॥
प्रणामश्च समुत्थानं स्वागतं पुष्पमेव च ।
सान्निध्ययाचनञ्चेति मन्त्राह्वानस्य सत्क्रियाः ॥
ततो भगवन्तं प्रणम्य दक्षिणतः ओं श्रीं श्रियै नम इति गोरोचनवर्णां भगवन्नारायणेत्यादिगद्योक्तगुणसंपन्नां श्रियमावाह्य प्रणम्य, वामे, ओं भूं भूम्यै नम इति श्यामां भूमिं, तत्रैव, ओं नीं नीलायै नम इति हरितवर्णां नीलां, ओं सर्वाभ्यो भगवद्दिव्यमहिषीभ्यो नम इति सर्वा भगवन्महिषीः समन्ततः प्रणम्य,
इति नित्यग्रन्थरीतिः ।

‘अथान्यत्र स्वाभिमत’ इत्यादिनित्यवाक्यार्थं विवक्षुस्तद्वाक्यमुपादत्त अन्यत्रेति ।
विश्वास-प्रस्तुतिः
अत्र केचित् अन्यत्रेत्यस्य पूर्वं ध्येयतयोक्तपरवासुदेवमूर्त्यतिरिक्तमूर्त्यन्तरे चेदेवमावाहनमित्येवार्थः ।
मूलम्
अत्र केचित् अन्यत्रेत्यस्य पूर्वं ध्येयतयोक्तपरवासुदेवमूर्त्यतिरिक्तमूर्त्यन्तरे चेदेवमावाहनमित्येवार्थः ।
आह्निकार्थप्रकाशिका
अन्यत्रेत्यादेरर्थमाह — अत्र केचिदिति । अन्यत्रेत्यस्येति । अन्यादिपदस्य पूर्वप्रस्तुतार्थभिन्नवाचकत्वस्य व्युत्पत्तिसिद्धत्वात् परवासुदेवमूर्तेः पूर्वं प्रस्तुतत्वात् तद्व्यतिरिक्तपरमन्यपदमिति भावः ।
विश्वास-प्रस्तुतिः
पूजायामावाहनस्थानानीत्यादिना परमव्योमव्यतिरिक्तानां स्थानानामावाहनस्थानतया वक्ष्यमाणत्वात् तथैव बहुग्रन्थदर्शनाच्च इति वर्णयन्ति ।
मूलम्
पूजायामावाहनस्थानानीत्यादिना परमव्योमव्यतिरिक्तानां स्थानानामावाहनस्थानतया वक्ष्यमाणत्वात् तथैव बहुग्रन्थदर्शनाच्च इति वर्णयन्ति ।
आह्निकार्थप्रकाशिका
ननु परमपदस्याप्यावाहनस्थानत्वात् तद्वृत्तिपरवासुदेवव्यतिरिक्तपरत्ववर्णनमयुक्तमित्यत्राह - पूजायामावाहनस्थानानीत्यादि । उत्तरत्र “पूजायामावाहनस्थानानि क्षीरार्णवादित्यहृदयानी"ति बहुग्रन्थपाठदर्शनात् “परमव्योमक्षीरार्णवे"त्यादिक्वाचित्कपाठो न श्रद्धेय इति भावः ।
विश्वास-प्रस्तुतिः
वस्तुतस्तु अन्यत्र कल्पितनागभोगव्यतिरिक्तदेशे, पूजाचेदित्येव स्वरसतः प्रतीयते । अतः उक्तरीत्या
मूलम्
वस्तुतस्तु अन्यत्र कल्पितनागभोगव्यतिरिक्तदेशे, पूजाचेदित्येव स्वरसतः प्रतीयते । अतः उक्तरीत्या
आह्निकार्थप्रकाशिका
अस्मिन्पक्षे ‘भगवन् मूर्त्यन्तरे देश’ इति सामान्याशब्दप्रयोगस्यानुचितत्वमभिप्रेत्य पक्षान्तरमाह – वस्तुतस्त्विति ।
विश्वास-प्रस्तुतिः
आधारशक्त्यादिपीठकल्पनमन्तरेणापि प्रकारान्तरेण पूजास्तीति गम्यते । तथा सत्येव हि अन्यत्र स्वाभिमते देशे इत्यस्य स्वारस्यम् । अथ वा
मूलम्
आधारशक्त्यादिपीठकल्पनमन्तरेणापि प्रकारान्तरेण पूजास्तीति गम्यते । तथा सत्येव हि अन्यत्र स्वाभिमते देशे इत्यस्य स्वारस्यम् । अथ वा
आह्निकार्थप्रकाशिका
आधारशक्त्यादिपीठकल्पनामन्तरेण प्रकारान्तरेण पूजास्तीति गम्यत इति । देशकालावस्थानगुण्येन सङ्ग्रहषोडशोपचारसहितभट्टारकाद्युक्ताराधनस्याचार्यपादप्रदर्शितस्य पूर्वमुपपादितत्वात् तदाराधनविषयं,
ईषच्छक्तौ तु सङ्कुचितयजनं, एकोपचारमारभ्य तत्तच्छक्त्याद्यनुसारेण सहस्रोपचारान्तविधानात्
इति
अत्र तत्तत्क्रियामिति सामान्यनिर्देशाद्यथाधिकारं साक्षात्समाराधनपरैस्तत्प्रवर्तनं, समाराधनापेक्षितप्रदानेन शुश्रूषणमित्यादिकं सर्वं सङ्गृहीतम्
इति,
उक्तन्यायेन न्यूनाधिकोपचारादिकमपि सर्वमुपपादितं मन्तव्यम्
इति च श्रीपाञ्चरात्ररक्षोदाहृतविषयं च प्रकृतवाक्यमिति भावः । यथा वा द्वात्रिंशच्चतुष्षष्ठ्यष्टोत्तरशतोपचारादीनामशक्तविषये षोडशोपचारादिविधायकशास्त्रविहितसङ्कुचितयजनव्यतिरिक्तविषयकत्वं, एवं, ‘तत आधारशक्त्यादिविष्वक्सेनान्तमर्चन’मिति श्रीपौष्कराद्युक्तमशक्ताधिकारिकसङ्कुचितयजनव्यतिरिक्तविषयमेव । एतेनान्योक्तमाधारशक्त्यादिकल्पनमन्तरा प्रकारान्तरेण पूजास्तीति कथनमयुक्तमिति दूषणं परास्तम्; आधारशक्त्यादिकल्पनमन्तरापि पुंसूक्तादियुक्ताराधनक्रमस्यापि पाद्मादौ दर्शनात् शिष्टाचाराच्च ।
[[217]]
विश्वास-प्रस्तुतिः
ज्योतिष्टोमप्रकरणे द्वादशोपसत्त्ववत् गृहार्चनप्रयोगकर्तृभिः श्रीभाष्यकारैरन्यत्र स्वाभिमते देश इत्यालयादावाहनक्रम उपदिष्ट इत्येव सर्वसार इति दिक् ।
मूलम्
ज्योतिष्टोमप्रकरणे द्वादशोपसत्त्ववत् गृहार्चनप्रयोगकर्तृभिः श्रीभाष्यकारैरन्यत्र स्वाभिमते देश इत्यालयादावाहनक्रम उपदिष्ट इत्येव सर्वसार इति दिक् ।
आह्निकार्थप्रकाशिका
सर्वसारभूतमुदाहृतवाक्यार्थमाह – ज्योतिष्टोमप्रकरण इति । “तिस्र एव साह्नस्योपसदो द्वादशाहीनस्ये”ति तैत्तरीयश्रुतज्योतिष्टोमे उपसत्त्रयविधानसमये उपसत्प्रसङ्गादहीनसबन्धिद्वादशोपसद्विधानवत् ‘परमैकान्तिनो भगवत्समाराधनप्रयोगं वक्ष्ये’ इत्युपक्रमे गृहार्चनप्रयोगस्य प्रतिज्ञातत्वात् पूर्वप्रकृतभिन्नार्थकान्यशब्दस्य गृहार्चाव्यतिरिक्तालयादिपरत्वस्य युक्तत्वादिति भावः । अन्यत्र + देशे आलयादाविति । आदिपदेन वेद्यादिसग्रहः । पाद्मे चर्यापादे तृतीयेऽध्याये –
आवाहनपदं पात्रं प्रक्षालितमथाम्बुभिः ।
पूरयेन्मूलमन्त्रेण हस्ताभ्यां च समुद्धरेत् ॥
ललाटसममेतस्मिन्नन्तराबाह्यकेशवम् ।
मूलबिम्बाद्यथा दीपं दीपादधिकृतं तथा ॥
चतुरुच्चारयेन्मन्त्रमागच्छ पदसंयुतम् ।
तेन तोयेन कर्मार्चां सिञ्चेत्कूर्चेन मूर्धनि ॥
प्रणम्य किञ्चिदुत्थाय स्वागतोक्तेरनन्तरम् ।
दर्शयेत्प्रतिमामुद्रां कल्पयित्वा च सन्निधिम् ॥
यागावसानिकीं तत्र प्रार्थयेत हरेः स्थितिम् ।
सन्मुखीकरणं कुर्यात्पुण्डरीकाक्षविद्यया ।
दद्याच्च मूलमन्त्रेण सपर्यासनमादितः ॥
इति वचनैर्मूलबेरात्[[??]] कर्मार्चायामावाहनं प्रतीयते, अत्र फलाश्रवणात् सकामकर्तृकाराधनविषयत्वं न सम्भवतीति स्वीकार्यम् । मूलबेरकर्मार्चादिकमालय एवास्ति । नारदीये पञ्चविंशेऽध्याये —
न गृहे बलिभिः कार्यं नित्यनैमित्तिकादिकम् ।
एकदेवस्य यजनमन्यथा दोषदं भवेत् ॥
इति गृहे एकदेवयजनोक्तेः, अत्रार्चायां प्रतिष्ठयैव भगवत्सान्निध्यसत्त्वेनावाहनानपेक्षणात् ।
यदन्योक्तं — यदन्यत्रेति बिम्बादन्यत्र वेद्यादिवृत्तिस्थान इत्यर्थः, ‘बिम्बं विनान्यत्र आधार’ इत्यादिवचनैर् बिम्बव्यतिरिक्त एवाष्टाङ्गावाहनविधानात्, अतो गोपालार्यनित्यव्याख्योक्तपक्षा मूलसंहिताविरुद्धाः इति; तदसङ्गतम् – प्रतियोगिवाचकपदासमभिव्याहृतान्यपदस्य पूर्ववाक्यतात्पर्यविषयातिरिक्तार्थपरत्वव्युत्पत्तेः, बिम्बस्य पूर्वमप्रस्तुतत्वेन तदन्यार्थपरत्ववर्णनस्यायुक्तत्वात् । बिम्बादिसर्वव्यक्तिसाधारण्यस्य स्वाङ्गीकृतत्वेन ‘अन्यत्रे’ति पदेन बिम्बान्यत्वमात्रबोधवर्णनस्यासङ्गतत्वात्, पूवोदाहृतपाद्मसंहितावचनैर्बिम्बेऽप्यष्टाङ्गावाहनस्य विहिततया अन्यत्रेत्यस्य बिम्बादन्यत्रेत्यर्थवर्णनस्यायुक्तत्वात्, सामान्यतः ““बिम्बं विनान्यत्राधार” इत्यस्य नावाहयेदेकबेर” इत्यादिवचनानुसारेण पूर्वोदाहृतपाद्मवचनानुसारेण च मूलबेरव्यतिरिक्तपरत्वस्यैव स्वीकार्यतयाष्टाङ्गावाहनस्यानेकबेरयुक्तालयविषयत्वस्य सुवचत्वात् । आचार्यपक्षे वेद्यादावष्टाङ्गावाहनविरोधाभावात् तृतीयपक्षस्यैव सिद्धान्तत्वेन पूर्वपक्षद्वयस्यानभिमतत्वेन तत्र दोषकथनस्यानुचितत्वाच्च ।
[[218]]
यदपरोक्तम् — अन्यत्र वैकुण्ठतयाध्यातस्वगृहव्यतिरिक्तस्थले, गृहस्य वैकुण्ठतया ध्यानविधानेन तथा ध्यानाभावे स्वगृहेऽष्टाङ्गावाहनं कार्यमित्यर्थः - इति । तदयुक्तम् । नित्यग्रन्थे पूर्वं वैकुण्ठत्वेन स्वगृहध्यानानुक्त्या अन्यत्रेत्यस्य तथा ध्यातव्यतिरिक्तार्थकत्वस्य व्युत्पत्तिविरुद्धत्वात् । पूर्वोदाहृतपाद्मवचनैर्मूलबेरकर्मार्चादिस्थलेष्वष्टाङ्गावाहनस्य विहितत्वेन प्रतिष्ठाधीनभगवत्सान्निध्ययुक्तगृहगतैकबेरेऽष्टाङ्गावगाहनवर्णनस्य प्रमाणविरुद्धत्वात् । इति दिक् इत्यनेन प्रकरणोदाहृतप्रमार्थौचित्यानुष्ठानादिकं परामर्शनीयमित्यर्थो लभ्यते ।
अत्र मन्त्रयोगादिक्रमे पक्षभेदास्तु दृश्यन्ते तत्र प्रथममाचार्यगुणादर्शे श्रीमन्नारायणमुनिभिः प्रदर्शितः प्रकारो लिख्यते । उद्धरिण्यार्घ्यजलमादाय पुष्पद्वयं निक्षिप्य मूलमन्त्रं चतुरावर्त्य धारणविधारणे कृत्वा, भगवद्विग्रहचिन्तनं मन्त्रयोगः पञ्चोपनिषन्मन्त्रेष्वाद्येन व्योममन्त्रेण उद्योगध्यानं द्वितीयेन वायव्यमन्त्रेण पात्रे प्रवेशध्यानं च समाह्वानं, तृतीयेनाग्नेयमन्त्रेण पात्रं बिम्बस्य दर्शयित्वा, पुरतो निधाय, एकं पुष्पं सजलं सतेजो हस्तेनादाय देवस्य दर्शनं करपुष्पोपदर्शनम् । तुरीयेणाप्यमन्त्रेण भगवन्मूर्ध्वप्रभृतिपादान्तं पुष्पजलाभ्यामभिषिच्य प्रवेशध्यानं बिम्बोपवेशनं द्वितीयं पुष्पमादाय पञ्चमेन पार्थिवमन्त्रेण प्रणवेन च ब्रह्मरन्ध्रं पिधाय शिरःप्रभृतिपञ्चोपनिषन्न्यासः मूलमन्त्रे न्यासश्च योगविग्रहचिन्तनम् । मूलमन्त्रेण प्रणामोत्थाने । “ब्रह्माद्यास्सकला देवा” इति मन्त्रेण स्वागतम् । पुष्पं नाम मूलमन्त्रेण पादयोः पुष्पप्रदानं सान्निध्ययाचनं नाम “भगवन्यावदाराधनपरिसमाप्तिसन्निधत्स्वेह विग्रह” इति सान्निध्यप्रार्थना । तत्तन्मन्त्रेण श्रिय भूमिं नीलाञ्चावाहयेत् ।
नित्यव्याख्यानादौ तु उक्तप्रक्रियाया एव
किञ्चिद् अधिकतया विस्तर-रूपेणावाहन-प्रक्रिया-भेदः प्रदर्शितः ।
तथा हि - मन्त्रयोगो नाम -
उद्धरिण्या ऽर्घ्यजलम् आदाय
तत्र पुष्पद्वयं निक्षिप्य
उरस्-स्थं कृत्वा
धारण-विधारणे कृत्वा
मूल-मन्त्र-चतुर्-आवृत्ति-पूर्वकम् आवाह्य
भगवद्-विग्रह-चिन्तनं समाह्वानन्तु -
ओं परधामावस्थित-मद्-अनुग्रहाभियोगोद्यतावतार
एह्येह्य् अभिमत-सिद्धिद मन्त्र-शरीर
ओं नमो नमः
ओं षौन्नमः पराय परमेष्ठ्यात्मने वासुदेवाय नम
इति उद्योग-ध्यानम्,
ओं यान्नमः पराय पुरुषात्मने सङ्कर्षणाय नम
इति करस्थपात्रजले प्रवेशध्यानञ्च ।
करपुष्पोपदर्शनं नाम - “ओं रान्नमः पराय विश्वात्मने प्रद्युम्नाय नम” इति पात्रं भगवन्-मुखे दर्शयित्वा
पुरतो निधाय
एकं पुष्पं सजलं सतेजो-हस्तेनादाय देवस्य मुखे दर्शनम् ।
[[219]]
बिम्बोपवेशनं नाम
आवाहयामि लक्ष्मीशं
परमात्मानमव्ययम् ।
आतिष्ठताम् इमां मूर्तिं
मदनुग्रहकाम्यया ॥
श्रिया सार्द्धं जगन्नाथो
देवो नारायणः प्रभुः ।
इति ध्यात्वा
“ओं वान्नमः पराय निवृत्त्यात्मने अनिरुद्धाय नमः” इति शिरःप्रभृति-पादान्तं पुष्पजलाभ्याम् अभिषिच्य प्रवेशनं,
योगविग्रहचिन्तनं नाम - अन्यत्-पुष्पमादाय
“ओं लान्नमः पराय सर्वात्मने नारायणाय नम” इति ब्रह्मरन्ध्रं पिधाय
शेषं निरस्य
मूलमन्त्रेण भगवद्विग्रहध्यानं,
भगवतश्शिरःप्रभृति पादान्तं पञ्चोपनिषन्-मन्त्राणां सृष्टिक्रमेण न्यासः,
मूलमन्त्रस्य व्यापकन्यासः,
मूलमन्त्राक्षराणाम् “ओं ओं, ओं नम्” इत्यादिक्रमेण
मूर्ध्नि, नेत्रयोः, मुखे, हृदये, नाभौ, गुह्ये, जान्वोः, पादयोश् च
तत्तदङ्गुल्या सृष्टिन्यासः ।
नाभ्यादिहृदयपर्यन्तं स्थितिन्यासश्च ।
ततः मूलमन्त्रेण प्रमाणसमुत्थाने “ब्रह्माद्यास् सकला देवा” इति मन्त्रेण स्वागतम् ।
अथ पादयोः मूलमन्त्रेण पुष्पप्रदानं पुष्पम् । सान्निध्ययाचनं नाम - ओं ओं ज्ञानाय हृदयाय नमः, भगवन् सन्निधत्स्वेह विग्रहे इति भगवन्मूर्ध्नि पुष्पेण जलं प्रदाय शेषं प्रतिग्रहपात्रे निक्षिप्य, पुनरपि ओं नां बलाय कवचाय हुं भगवन् सन्निधत्स्वेह विग्रह इति भगवन्मूर्ध्नि पुष्पेण जलं प्रदाय शेषं प्रतिग्रहपात्रे निक्षिप्य पुनरपि ओं यं तेजसे नेत्राभ्यां वौषट् भगवन्यावदाराधनपरिसमाप्ति सन्निधत्स्वेह विग्रह इति भगवन्मूर्ध्नि पुष्पेणार्घ्यजलं प्रदाय शेषं प्रतिग्रहपात्रे निक्षिप्य, “सान्निध्यं कुरु + प्रभो” इत्यर्घ्यत्रयपुरस्सरं सान्निध्ययाचनं कुर्यात् । अथ भगवद्वक्षसि दक्षिणभागमारभ्य क्रमेण तत्तन्मन्त्रेण श्रीभूमिनीलानां न्यासः दक्षिणे तत्तन्मन्त्रेण श्रीभूमिनीलानां न्यासः । दक्षिणेतरहस्तेषु पद्मगदाचक्रशङ्खानां प्रणवादिनमोऽन्तन्यासः, एवं किरीटश्रीवत्सकौस्तुभवनमालानां शिरोवक्षोदक्षिणभागमध्योभयपार्श्वेषु न्यासः । श्रीपुष्टिसरस्वतीनिद्राकान्तिपृथ्वीगरुडानां तत्तत्स्थानेषु न्यासः । तेषां चतुरुपचारैरर्चनं चक्रमुद्रा मूलमुद्रा च । एवं श्रीभूग्यादिबिम्बे सति ओं श्रीं श्रियै नमः इति चतुरावृत्त्यादिबिम्बोपवेशनान्तं कृत्वा ओं षौन्नम इत्यादि योगविग्रहचिन्तनकाले पञ्चोपनिषदां सृष्टिन्यासं कृत्वा ओं श्रीं श्रियै नम इति श्रीमन्त्रेण व्यापकन्यासं कुर्यात् । ओं श्रां ज्ञानाय हृदयाय नमः ओं श्रीं ऐश्वर्याय शिरसे स्वाहा, ओं श्रूं शक्त्यै शिखायै वौषट्, ओं श्रैं बलाय कवचाय हुं ओं श्रौं तेजसे नेत्राभ्यां वौषट्, ओं श्रः वीर्यायास्त्रायभट्, इति षडङ्गन्यासं कृत्वा श्रीमन्त्रेण प्रणामोत्थाने कृत्वा स्वागतं निवेद्य श्रीमन्त्रेण पुष्पं दत्वा ओं ओं ज्ञानाय हृदयाय नमः भगवति श्रीः सन्निधत्स्वेह विग्रहे इत्याद्यर्घ्यत्रयं मूर्ध्नि दद्यात् । एवं भूं भूम्यै नम इति चतुरावृत्त्यादि, ओं भां ज्ञानाय हृदयाय नम इत्यादिक्रमेण भूम्यावाहनम् । ओं नीं नीलायै नम इत्यादि नीलावाहनम् ।
मन्त्रयोगादौ पक्षभेदेन प्रयोगभेदं प्रदर्शयितुमाह - अत्रेति । लोके गृहार्चायां सालग्रावाराधनस्यैव प्रायिकत्वात् वेद्याराधनोपदेशानुष्ठानपारम्पर्यासिद्धेर्नास्माकं मन्त्रयोगादिस्वरूपविचारापेक्षेति बोध्यम् ।
[[220]]
विश्वास-प्रस्तुतिः
सालग्रावशिलायां तु आवाहनं विना सान्निध्ययाचनमात्रं कुर्यात् ।
मूलम्
सालग्रावशिलायां तु आवाहनं विना सान्निध्ययाचनमात्रं कुर्यात् ।
आह्निकार्थप्रकाशिका
सालग्रावशिलायां विशेषमाह – सालग्रावशिलायां त्विति । भारद्वाजे परिशिष्टे -
अर्च्योऽर्चायां हरिर्नित्यं तदभावे तु कुत्रचित् ।
पुष्पेणार्घ्येण हविषा स्तुत्वा नत्वापि वा परम् ॥
सालग्रावशिलायां तु पूजनं स्नपनादिकम् ।
सा हि दिव्या हरेर्मूर्तिर्दर्शनादेव सिद्धिकृत् ॥
पाद्मे च –
न प्रतिष्ठा विधातव्या न चैवावाहनादिकम् ।
सालग्रावशिलादीनां पूजालोपो न दूषणम् ॥
तथैवाशुद्धिसंस्पर्शे क्षालयित्वार्चयेत् पुनः ।
न च स्नानं न च ध्यानं न चैवावाहनादिकम् ॥
सालग्रावशिलाबिम्बे स्रपनेनैव पूजयेत् ।
इत्यादिकमिह भाव्यम् ।
विश्वास-प्रस्तुतिः
ततः किरीटाय मकुटाधिपतये नम इति भगवतः पश्चिमपार्श्वे चतुर्बाहुं चतुर्वक्त्रं कृताञ्जलिपुटं मूर्ध्नि भगवत्किरीटं धारयन्तं किरीटाख्यदिव्यपुरुषं प्रणम्य, ओं किरीटमालायै आपीडात्मने नम इति स्वमौलिना देवापीडं बिभ्रतमापीडात्मानं भगवतः पुरतो ध्यात्वा प्रणम्य ओं दक्षिणकुण्डलाय मकरात्मने नमः, ओं वामकुण्डलाय मकरात्मने नम इति भगवतो दक्षिणवामपार्श्वयोर्यथाक्रमं स्वमौलिना भगवच्छ्रवणभूषणं दधतं मकरकुण्डलाख्यं सूरिद्वयं प्रणम्य, ओं वैजयन्त्यै वनमालायै नम इति पञ्चवर्णां मृदुतनुं पञ्चभूताधारभूतां भूतमालाख्यां मूर्तिमतीं श्रियमिव स्थितां भगवतः पुरतः प्रणम्य, ओं श्रीमत्तुलस्यै नम इति पुरतः वैजयन्तीपार्श्वे
श्यामाङ्कमलपत्राक्षीं गोविन्दचरणप्रियाम् ।
प्रियां श्रियमिवानन्यां हरेर्नित्यविभूषणम् ॥
प्रणम्य, ओं वत्साय श्रीनिवासाय नमः इति पुरतः प्रधानतत्त्वाधारभूतं हेमप्रभं श्रीवत्सं प्रणम्य, ओं हाराय सर्वाभरणाधिपतये नम इति हारात्मानं पुरतः प्रणम्य, ओं श्रीकौस्तुभाय सर्वरत्नाधिपतये नम इति पुरतः जीवतत्त्वाधारभूतं भास्वरवपुषं कौस्तुभात्मानं प्रणम्य, ओं काञ्चीगुणोज्ज्वलाय दिव्य-पीताम्बराय नम इति पुरतः पीताम्बरं प्रणम्य, ओं सर्वेभ्यो भगवद्दिव्यभूषणेभ्यो नम इति
तत्तदङ्गसमुत्थानि तेजांसीव परात्मनः । सुसाराणि सुगन्धीनि सुकुमाराकृतीनि च ।
मनोनयनहारीणि देवस्यापि निजैर्गुणैः ॥
स्वैरेव धार्यमाणानि रूपैर्बहुविधैश्शुभैः ।
यथावर्णं यथास्थानं यथारूपं यथाक्रमम् ॥
प्रणम्य चिन्तयेद्भक्त्या स्वैर्मन्त्रैः पुरतो हरेः ॥
इत्यादिक्रमेण भगवतः पुरत एव नूपुरादीनि सर्वाणि भूषणानि ध्यात्वा प्रणम्य, ओं सुदर्शनाय हेतिराजाय नम इति सुदर्शनात्मानं रक्तवर्णं रक्तनेत्रं द्विभुजं कृताञ्जलिपुटं भगवन्तमालोकयन्तं तद्दर्शनानन्दबृंहितमुखं मूर्ध्नि भगवच्चक्रं धारयन्तं दक्षिणतः प्रणम्य, ओं नन्दकाय खड्गाधिपतये नम इति तत्रैव ज्ञानतत्त्वाधिदैवतं मूर्ध्नि भगवत्खड्गं धारयन्तं दिव्यपुरुषं प्रणम्य, तत्रैव ओं पद्माय नमः इति शिरसि पद्मं धारयन्तं शैत्यसौगन्ध्यसौन्दर्यमार्दवादिगुणं लीलापद्मं ध्यात्वा प्रणम्य, वामतः ओं पाञ्चजन्याय शङ्खाधिपतये नम इति शङ्खात्मानं सितवर्णं रक्तनेत्रं द्विभुजं कृताञ्जलिपुटं शङ्खनादबृंहितमुखं मूर्ध्नि भगवच्छङ्खं धारयन्तं प्रणम्य, ओं कौमोदक्यै गदाधिपत्न्यै नम इति गदान्देवीं बुद्धितत्त्वाधारभूतां भगवद्गदां शिरसा दधतीं प्रणम्य, तत्रैव ओं शार्ङ्गाय चापाधिपतये नम इति त्रिणतं शिरसा भगवद्धनुर्दधतं तत्तदाकृतिशरतूणीरद्वयसमेतं शार्ङ्गात्मानं प्रणम्य, ओं सर्वेभ्यो भगवद्दिव्यायुधेभ्यो नम इति सर्वाणि भगवदायुधानि स्वशिरोधृतस्वस्वरूपायुधानि प्रणम्य, ओं सर्वाभ्यो भगवत्पादारविन्दसंवाहिनीभ्यो नम इति भगवत्पादारविन्दसंवाहिनीस्समन्ततः प्रणम्य, ओं अनन्ताय नागराजाय नम इति पृष्ठतोऽनन्तं नागराजं चतुर्बाहुं हलमुसलधरं कृताञ्जलिपुटं फणामणिसहस्रमण्डितोत्तमाङ्गं वारुणीकान्तिभ्यां पत्नीभ्यां समेतं भगवन्तमालोकयन्तं तदर्शनानन्दबृंहितसर्वाङ्गं ध्यात्वा प्रणम्य, ओं सर्वेभ्यो भगवत्परिजनेभ्यो नम इत्यनुक्तानसङ्ख्येयान् परिजनान् सर्वतः प्रणम्य, ओं भगत्पादुकाभ्यां नम इति पुरतः पादुके प्रणम्य,
[[221]]
ओं सर्वेभ्यो भगवत्परिच्छदेभ्यो नम इति सर्वान् परिच्छदान् सर्वतः प्रणम्य, अग्रतः ओं वैं वैनतेयाय नम इति वैनतेयं समासीनं द्विभुजं कृताञ्जलिपुटं भगवन्तमालोकयन्तं रुद्रासुकीर्तिभ्यां समेतं ध्यात्वा प्रणम्य, भगवतः प्रागुत्तरे, ओं भगवते विष्वक्सेनाय नम इति दक्षिणामुखं चतुर्भुजं कृताञ्जलिपुटं शङ्खचक्रधरं नीलमेघनिभं सूत्रवत्या समेतं ध्यात्वा प्रणम्य, ओं गं गजाननाय नमः, ओं जं जयत्सेनाय नमः, ओं हं हरिवक्त्राय नमः, ओं कं कालप्रकृसंज्ञिकाय नमः, ओं सर्वेभ्यो विष्वक्सेनपरिजनेभ्यो नमः इति विष्वक्सेनपरिजनान् तस्य समन्ततः प्रणम्य, ओं चण्डाय द्वारपालाय नमः, ओं प्रचण्डाय + नम इति पूर्वद्वारपार्श्वयोः शङ्खचक्रगदाज्ञामुद्राधरचतुर्हस्तौ चण्डप्रचण्डौ प्रणम्य, ओं भद्राय + नमः, ओं सुभद्राय + नमः, इति दक्षिणद्वारपार्श्वयोः पूर्वोक्तलक्षणौ भद्रसुभद्रौ प्रणम्य, ओं जयाय + नमः, ओं विजयाय + नम इति पश्चिमद्वारपार्श्वयोः पूर्वोक्तलक्षणौ जयविजयौ प्रणम्य, ओं धात्रे + नमः, ओं विधात्रे + नम इत्युत्तरद्वारपार्श्वयोः पूर्वोक्तलक्षणौ धातृविधातारौ प्रणम्य, ओं सर्वेभ्यो द्वारपालेभ्यो नम इति सर्वान् द्वारपालान् सर्वतः प्रणम्य, ओं कुमुदाय गणाधिपतये सवाहनपरिवारप्रहरणाय नमः, ओं कुमुदाक्षाय + नमः, ओं पुण्डरीकाय + नमः, ओं वामनाय + नमः, ओं शङ्कुकर्णाय + नमः, ओं सर्व(र्प)नेत्राय + नमः, ओं सुमुखाय + नमः, ओं सुप्रतिष्ठिताय + नमः, इति भगवतः प्रागादिक्रमेणाष्टसु दिक्षु कुमुदादीन् शङ्खचक्रगदाधरान् सवाहनपरिवारप्रहरणान् ध्यात्वा प्रणम्य, ओं सर्वेभ्यो भगवत्पार्षदेभ्यो नम इति पूर्वोक्तलक्षणान् सर्वान् पारिषदान् समन्ततः प्रणम्य, गन्धाद्यैरभ्यर्चयेत् ।

पूर्वं श्रीभूमिनीलानां ध्यानं प्रतिपादितम् । प्रासङ्गिकमन्त्रयोगादिनिरूपणानन्तरं किरीटादिध्यानादिकमाह - ततः किरीटायेत्यादिना । सर्वेभ्यो भगवत्पारिषदेभ्यो नम इति पूर्वोक्तलक्षणान् सर्वान् पारिषदान् समन्ततः प्रणम्य गन्धाद्यैरभ्यर्चयेदित्यन्तेन ।
विश्वास-प्रस्तुतिः
पूजायामावाहनस्थानानि क्षीरार्णवादित्यमण्डलहृदयानि, मधुरायोध्यादिदिव्यावतारस्थानान्यन्यानि पौराणिकानि श्रीरङ्गादीनि यथारुचि ।
एवं भगवन्तं नारायणं देवीभूषायुधपरिजनपरिच्छद
मूलम्
पूजायामावाहनस्थानानि क्षीरार्णवादित्यमण्डलहृदयानि, मधुरायोध्यादिदिव्यावतारस्थानान्यन्यानि पौराणिकानि श्रीरङ्गादीनि यथारुचि ।
एवं भगवन्तं नारायणं देवीभूषायुधपरिजनपरिच्छद
आह्निकार्थप्रकाशिका
पूर्वम्, “अन्यत्र स्वाभिमते देशे” इत्यादिना नित्योक्तमन्त्रयोगादिविषये नित्योक्तावाहनस्थानान्याह - पूजायामित्यादिना ।
विश्वास-प्रस्तुतिः
एवं
मूलम्
एवं
आह्निकार्थप्रकाशिका
अथ मूलमन्त्रद्वयोत्तरखण्डचतुर्थ्यन्तपदाभिप्रेतं सर्वप्रकारविशिष्टभगवतः कैङ्कर्योद्देश्यत्वमभिप्रेत्य तथाविधविषयध्यानमाह एवमिति ।
विश्वास-प्रस्तुतिः
भगवन्तं
मूलम्
भगवन्तं
आह्निकार्थप्रकाशिका
उभयलिङ्गत्वमाह – भगवन्तमिति ।
विश्वास-प्रस्तुतिः
नारायणं
मूलम्
नारायणं
आह्निकार्थप्रकाशिका
सर्वप्रकारवाचि नाम निर्दिशति नारायणमिति ।
[[222]]
विश्वास-प्रस्तुतिः
देवीभूषायुधपरिजनपरिच्छदद्वारपालपार्षदैस्सेव्यामानं
मूलम्
देवीभूषायुधपरिजनपरिच्छदद्वारपालपार्षदैस्सेव्यामानं
आह्निकार्थप्रकाशिका
पूर्वोक्तदेव्यादिवैशिष्ट्यमाह देवीभूषेत्यादिना ।
विश्वास-प्रस्तुतिः
स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं क्लेशकर्माद्यशेषदोषासंस्पृष्टं स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यतेजःप्रभृत्यसङ्ख्येयकल्याणगुणगणौघमहार्णवं
मूलम्
स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं क्लेशकर्माद्यशेषदोषासंस्पृष्टं स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यतेजःप्रभृत्यसङ्ख्येयकल्याणगुणगणौघमहार्णवं
आह्निकार्थप्रकाशिका
नारायणशब्दनिर्वचनसिद्धाकारानाह - स्वाधीनेत्यादिना ।
विश्वास-प्रस्तुतिः
ध्यात्वा प्रणम्य,
मूलम्
ध्यात्वा प्रणम्य,
आह्निकार्थप्रकाशिका
तथाविधस्य ध्यानादिकमाह - ध्यात्वा प्रणम्येति ।
विश्वास-प्रस्तुतिः
मूलमन्त्रेण स्वात्मानं भगवते निवेद्य,
मूलम्
मूलमन्त्रेण स्वात्मानं भगवते निवेद्य,
आह्निकार्थप्रकाशिका
अथान्तःकरणयागादियावदात्मनिवेदनम् ।
तदाद्यमङ्गं यागस्य नाम्नाभिगमनं भवेत् ॥
इति श्रीजयाख्योक्तयागाद्याङ्गसमापनमाह – मूलमन्त्रेणेति ।
विश्वास-प्रस्तुतिः
प्रणम्यानुज्ञाप्य, पूजामारभेत ।
मूलम्
प्रणम्यानुज्ञाप्य, पूजामारभेत ।
आह्निकार्थप्रकाशिका
प्रणम्यानुज्ञाप्य पूजामारभेतेति । बाह्यपूजामारभेतेत्यर्थः ।
विश्वास-प्रस्तुतिः
बाह्ययागे भोगसमर्पणप्रकारः ।
प्रदर्शनं प्रदानञ्च क्षापणं प्रीणनं तथा ।
आदौ मध्येऽवसाने च प्रतिभोगं समाचरेत् ॥
अवलोकय देवेदमित्यावेद्य स्वसंज्ञया ।
प्राप्तं प्राप्तं क्रमाद्भोगं दर्शयेदासनादिकम् ॥
प्रदर्शितममुं भोगं गृह्णीष्व भगवन्निति ।
ब्रुवन् प्रणम्य प्रयतः प्रदद्यात्परमात्मने ।
अथापराधानखिलान् दत्तभोगानुबन्धितः ॥
क्षमस्व देवदेवेति क्षापयेत्प्रणमन् पुनः ।
देवपादौ स्वहस्ताभ्यां गृहीत्वा शिरसा नमन् ॥
प्रीणयेद्दत्तभोगेन प्रीयतां भगवानिति ।
भोगदानविधावेवं सावधानस्सदा स्मरन् ॥
इति वङ्गिवंशेश्वरोक्तरीत्योपचारान् दद्यात् । अत्र मूलमन्त्रेणैव सर्वोपचारान् दद्यात् ।
इज्याकालस्तृतीयोऽयमह्नोंशस्समुपागतः ।
सम्भृताश्चैव सम्भाराः कल्पितान्यासनानि च ॥
स्नानाद्यर्थानि देवेश तवेच्छा वर्तते यदि ।
अवलोकनदानेन तत्सर्वं सफलं कुरु ॥
तदर्थं सह देवीभ्यां सानुगैस्सचिवैस्सह ।
मदनुग्रहाय कृपया अत्रागन्तुं त्वमर्हसि ॥
इति विज्ञाप्य,

बाह्ययागे भोगसमर्पणप्रकारमाह बाह्येति ।
[[223]]
विश्वास-प्रस्तुतिः
मन्त्रासनमभ्यर्च्य, पादुके प्रदाय, तत्रोपविष्टे भगवति,
मूलम्
मन्त्रासनमभ्यर्च्य, पादुके प्रदाय, तत्रोपविष्टे भगवति,
आह्निकार्थप्रकाशिका
मन्त्रासनमभ्यर्च्य पादुके प्रदायेति ।
विनिवेद्यासनवरं समाहूतस्य वै विभोः ।
पादपीठं तु सामान्यं मन्त्रास्तरणभूषितम् ॥
सम्पूर्णमीश्वरार्हं तत् भावनीयमशेषतः । मृद्वास्तरणसंस्तीर्णमादावासनमुत्तमम् ॥
इति सात्त्वतलक्ष्मीतन्त्रवचनानुसारेण पुनर्मन्त्रासनं कूर्चेन मार्जयित्वा, “ततो निवेद्य प्रणतः प्रथमासनमादरात्” इति श्री नित्यवङ्गिवंशेश्वरवाक्यानुसारेण च प्रथमं मन्त्रासनन्यसनादिकमुक्तम् ।
विश्वास-प्रस्तुतिः
उद्धरिण्या पूर्वस्थापितादर्घ्यपात्रादर्घ्यजलमादाय, पाणिभ्यां घ्राणसममुद्धृत्य, तिष्ठन् अवनताननस्सन्, मत्पूजां प्रतिगृह्णीष्वेति चिन्तयन् मुखे दर्शयित्वा, भगवदक्षिणहस्ते किञ्चित्प्रदाय शेषमर्घ्यप्रतिग्रहपात्रे प्रक्षिपेत् ।

अथार्घ्यदानमाह - उद्धरिण्या पूर्वस्थापितादर्घ्यपात्रादित्यादिना ।
पात्रेण पूर्वस्थापितादर्घ्यपात्रादर्घ्यजलमादाय पाणिभ्यां घ्राणसममुद्धृत्य ‘भगवन् ! मत्पूजां प्रतिगृह्णीष्वे’ति चिन्तयन् भगवन्मुखे दर्शयित्वा भगवद्दक्षिणहस्ते किञ्चित् प्रदाय शेषमर्घ्यप्रतिग्रहपात्रे प्रक्षिपेत्
इति नित्यवाक्यमिह भाव्यम् । अर्ध्यादौ घण्टानादप्रमाणानि पूर्वं प्रदर्शितानि ।
विश्वास-प्रस्तुतिः
हस्तशाटिकां प्रदाय,
मूलम्
हस्तशाटिकां प्रदाय,
आह्निकार्थप्रकाशिका
हस्तशाटिकां प्रदायेति । नित्ये स्नाने शाटिकाप्रदानस्यानुगृहीतत्वात् अर्घ्यजलस्पृष्टहस्तविशोधनार्थं शाटिकादानम् ।
विश्वास-प्रस्तुतिः
स्वहस्तौ प्रक्षाल्य पादयोः पुष्पाणि दत्वा, ततः स्वहस्तद्वयं प्रसार्य
अकृत्रिमप्रेमरसनिर्भरः स्वकराम्बुजैः ।
शुद्धैः स्वभावसुभगैः सुखस्पर्शैस्सुगन्धिभिः ॥
संवाह्यमानमनिशं शेषशेषाशनादिभिः ।
असत्यस्यातिनीचस्य भक्तिहीनस्य दुर्मतेः ॥
ममापि करयोरद्य स्वयैव कृपया हरे ।
निधेहि चरणद्वन्द्वं त्वामस्मि शरणं गतः ॥
इति सम्प्रार्थ्य पाद्यपात्राज्जलमादाय मूलमन्त्रेण भगवन्निदं पाद्यमित्यावेदनादिपूर्ववत्कृत्वा पादयोः किञ्चिद्दत्वा, मनसा पादौ प्रक्षाल्य, पाद्यप्रतिग्रहपात्रे प्रक्षिपेत् । पादौ वस्त्रेण संमृज्य, गन्धपुष्पाणि दत्वा, आचमनीयपात्रादाचमनीयमादाय, पूर्ववद्दक्षिणहस्ते किञ्चिद्दत्वाssचामन्तं ध्यात्वा, शेषमाचमनप्रतिग्रहपात्रे प्रक्षिपेत् ।

स्वहस्तौ प्रक्षाल्य पादयोः पुष्पाणि दत्वेति । “हस्तौ प्रक्षाल्य देयानि पुष्पाणि प्रयतावपी"ति श्रीवाराहवचनमिहानुसन्धेयम् । एतेन –
अर्घ्यप्रदाने मनसेत्यनुषज्य भगवद्दक्षिणहस्ते किश्चित् प्रदाय मनसा हस्तौ प्रक्षाल्येत्यर्थः, स्वहस्तौ प्रक्षाल्येति व्याख्यानं मन्दं, मानाभावात्
इति उक्तं परास्तम् । पुष्पप्रदानाय स्वहस्तप्रक्षाळनस्योदाहृतवचनसिद्धतया नित्यश्रीसूक्तेः स्वरसार्थपरित्यागेन क्लिष्टार्थकल्पनस्यायुक्तत्वात् ।
[[224]]
विश्वास-प्रस्तुतिः
ततः स्वहस्तद्वयं प्रसार्य
अकृत्रिमप्रेमरसनिर्भरः स्वकराम्बुजैः ।
शुद्धैः स्वभावसुभगैः सुखस्पर्शैस्सुगन्धिभिः ॥
संवाह्यमानमनिशं शेषशेषाशनादिभिः ।
असत्यस्यातिनीचस्य भक्तिहीनस्य दुर्मतेः ॥
ममापि करयोरद्य स्वयैव कृपया हरे ।
निधेहि चरणद्वन्द्वं त्वामस्मि शरणं गतः ॥
इति सम्प्रार्थ्य पाद्यपात्राज्जलमादाय मूलमन्त्रेण भगवन्निदं पाद्यमित्यावेदनादिपूर्ववत्कृत्वा पादयोः किञ्चिद्दत्वा, मनसा पादौ प्रक्षाल्य, पाद्यप्रतिग्रहपात्रे प्रक्षिपेत् । पादौ वस्त्रेण संमृज्य, गन्धपुष्पाणि दत्वा, आचमनीयपात्रादाचमनीयमादाय, पूर्ववद्दक्षिणहस्ते किञ्चिद्दत्वाssचामन्तं ध्यात्वा, शेषमाचमनप्रतिग्रहपात्रे प्रक्षिपेत् ।
मूलम्
ततः स्वहस्तद्वयं प्रसार्य
अकृत्रिमप्रेमरसनिर्भरः स्वकराम्बुजैः ।
शुद्धैः स्वभावसुभगैः सुखस्पर्शैस्सुगन्धिभिः ॥
संवाह्यमानमनिशं शेषशेषाशनादिभिः ।
असत्यस्यातिनीचस्य भक्तिहीनस्य दुर्मतेः ॥
ममापि करयोरद्य स्वयैव कृपया हरे ।
निधेहि चरणद्वन्द्वं त्वामस्मि शरणं गतः ॥
इति सम्प्रार्थ्य पाद्यपात्राज्जलमादाय मूलमन्त्रेण भगवन्निदं पाद्यमित्यावेदनादिपूर्ववत्कृत्वा पादयोः किञ्चिद्दत्वा, मनसा पादौ प्रक्षाल्य, पाद्यप्रतिग्रहपात्रे प्रक्षिपेत् । पादौ वस्त्रेण संमृज्य, गन्धपुष्पाणि दत्वा, आचमनीयपात्रादाचमनीयमादाय, पूर्ववद्दक्षिणहस्ते किञ्चिद्दत्वाssचामन्तं ध्यात्वा, शेषमाचमनप्रतिग्रहपात्रे प्रक्षिपेत् ।
आह्निकार्थप्रकाशिका
अथ पाद्यदानप्रकारमाह - ततः स्वहस्तौ प्रसार्येत्यादिना । एवमाचमनीयदानमपि प्रतिपादितम् । उभयमपि नित्यश्रीसूक्तिसिद्धम् ।
विश्वास-प्रस्तुतिः
तत्र गन्धपुष्पधूपदीपाचमनमुखवासताम्बूलादि दत्वा, प्रणम्य, आत्मात्मीयं सर्वं भगवन्नित्यकिङ्करत्वाय स्वीकुर्विति भगवते निवेदयेत् ।
मूलम्
तत्र गन्धपुष्पधूपदीपाचमनमुखवासताम्बूलादि दत्वा, प्रणम्य, आत्मात्मीयं सर्वं भगवन्नित्यकिङ्करत्वाय स्वीकुर्विति भगवते निवेदयेत् ।
आह्निकार्थप्रकाशिका
तत्र गन्धपुष्पधूपदीपाचमनमुखवासताम्बूलानि दत्वेति । गन्धपुष्पदानं वङ्गिवंशेश्वरोक्तं प्रसिद्धम् ।
ततो गग्गुलुकर्पूरचन्दनागरुभिः कृतम् ।
धूपात् सौगन्ध्यमादाय देवाय विनिवेदयत् ॥
ततः कर्पूरचूर्णाढ्यघृतार्द्रानववर्तिजात् ।
ज्वलिताद्रुचिराद्दीपादुत्थिताच्चतुरङ्गलम् ॥
सुगन्धिदृष्टिसुखदमौष्ण्येन परिवर्जितम् ।
आलोकमात्रमादाय स्वेन दक्षिणपाणिना ॥
घण्टानिनादसहितौ धूपदीपौ निवेदयेत् ।
तन्नादसहितावेतौ दुष्टसत्त्वनिबर्हणौ ॥
सदेवीकाय देवाय स्वमन्त्रेण निवेदयेत् ।
शुद्धैः कर्पूरजैस्तैलैस्सिक्तं कुसुमवासितम् ।
प्रभूतं क्रमुकं दद्यात् श्वेतताम्बूलसंयुतम् ॥
इति वङ्गिवंशेश्वरोक्तानि धूपदीपमुखवासताम्बूलानि ग्राह्याणि ।
घृष्टधूपसमायुक्तं गुग्गुलं धूपयेच्छुभम् ।
सहघण्टारवै रम्यैश्चाल्यमानेन बाहुना ॥
निर्धूमैः स्फुरदङ्गारैर्निज्वलैश्च निरिन्धनैः ।
धूपं दद्यात् स्वयं किञ्चित् घण्टां वामेन नादयन् ॥
क्रमुकस्य फलं भिन्नमपक्कं पक्कमेव वा ।
कर्पूरतैलसंसिक्तमसिक्तं वा मुनीश्वर ॥
ताम्बूलवल्लिपत्रैश्च सहितं क्षालितं तथा ।
एलातक्कोलजातीभिः कर्पूरसहितं तथा ॥
मातुलङ्गफलैर्युक्तं नालिकेरफलान्वितम् ।
शिलाचूर्णैश्च संसिक्तं कर्पूरसहितेन च ।
संस्कृतं प्रणवेनैव मुखवासं प्रदापयेत् ॥
इति श्रीसात्त्वतश्रीकरकपिञ्जलवचनान्यत्र भाव्यानि ।
[[225]]
दीपार्थं गोघृतं श्रेष्ठं मध्यमं तिलतैलकम् ।
अधमं वृक्षतैलं तु ऐरण्डादीनि वर्जयेत् ॥
इति वैखानसवचनं,
पुन्नागैरण्डतैलैश्च पिचिमन्दैश्च कुन्दजैः ।
तैलैश्च मधुकोद्भूतैर्नालिकेरोद्भवैरपि ॥
काष्ठजैस्तिलजैर्दीपैर्नित्यनीराजनेऽपि च ।
सन्ध्यादीपे विशेषेण वर्जयेत्तु प्रयत्नतः ॥
इति पारमेश्वरवचनञ्चात्र भाव्यम् । तिलजैरिति काष्ठजैरित्येतद्विशेषणं, काष्ठजैस्तैलैरित्यर्थः ।
सर्पिषा तिलतैलेन दीपारोपणमाचरेत् ।
नान्यैरैरण्डतैलाद्यैर्नाजाविमहिषादिभिः ।
स्नेहैरारोपणं कुर्यान्न च प्राण्यङ्गसम्भवैः ॥
इति पाद्मवचनेन तिलतैलाभ्यनुज्ञानेन तदैकार्थ्यात् ।
विश्वास-प्रस्तुतिः
अर्घ्यादिस्नानान्तव्यतिरिक्तानामुपचाराणां मुख्यद्रव्यालाभे
मूलम्
अर्घ्यादिस्नानान्तव्यतिरिक्तानामुपचाराणां मुख्यद्रव्यालाभे
आह्निकार्थप्रकाशिका
उपचाराणां मुख्यद्रव्यालाभे प्रतिनिधिदानमाह - अर्ध्यादीत्यादिना ।
विश्वास-प्रस्तुतिः
सर्वार्थतोयेनैव दानं, सर्वार्थतोयमिति संज्ञाबलात्, सर्वार्थतोयस्य कार्यविशेषाकथनाच्च ।
मूलम्
सर्वार्थतोयेनैव दानं, सर्वार्थतोयमिति संज्ञाबलात्, सर्वार्थतोयस्य कार्यविशेषाकथनाच्च ।
आह्निकार्थप्रकाशिका
सर्वार्थतोयेनैवेति । तथौचित्यादिति भावः ।
विश्वास-प्रस्तुतिः
केचित्तु अर्घ्यादेव सर्वोपचारसमर्पणं, सर्वार्थतोयस्य क्षालनं प्रयोजनमिति वदन्ति । तत्रौचित्यं नातीवेति द्रष्टव्यम् ।
मूलम्
केचित्तु अर्घ्यादेव सर्वोपचारसमर्पणं, सर्वार्थतोयस्य क्षालनं प्रयोजनमिति वदन्ति । तत्रौचित्यं नातीवेति द्रष्टव्यम् ।
आह्निकार्थप्रकाशिका
मतान्तरं खण्डयति केचित्त्विति । यदन्योक्तं - उपचाराणां मुख्यद्रव्यालाभे मानसैरेवोपचारः कार्यः, उदकस्य सन्न्यासिनामेव भोगप्रतिनिधित्वं नान्येषामिति सर्वार्थतोयेनासम्भवद्रव्योपचारकथनमयुक्तम् - इति । तन्मन्दं – नारदीये द्वाविंशेऽध्याये
अलाभे सर्वभोगानां तोयं प्रतिनिधिः स्मृतम् ।
मुख्याभावे यथेच्छातः सर्वाभावे तु मानसम् ।
जलाभावे तु मनसा कल्पयेन्नित्यकर्मणि ॥
इति वचनेन,
अलाभे सर्वभोगानामुदकेनाभिपूजितः ।
प्रयच्छत्यमलं लोकं भक्तिपूतान्तरात्मनाम् ॥
इति श्रीपाञ्चरात्ररक्षातृतीयाधिकारस्थवचनेन च उदकप्रतिनिधित्वस्य उदकाभावे मानसप्रतिनिधित्वस्य च प्रतीतेः । यतिधर्मसमुच्चये फलपुष्पोत्पाटने प्रायश्चित्तविधानात् “अद्भिः कर्तव्यमन्याहृतैर्वै’’ति यतेः पूजोपकरणमुक्तम् ।
[[226]]
विश्वास-प्रस्तुतिः
ततः स्नानासनमानीय, गन्धादिभिरभ्यर्च्य, प्रणम्य,
स्नानकालस्त्वयं प्राप्तस्तवेच्छा वर्तते यदि ।
अभ्यञ्जयित्वा देवेश सुस्रानं कर्तुमर्हसि ॥
स्फुटीकृतं मया देव इदं स्नानासनं परम् ।
सपादपीठं परममिदं स्नानासनं महत् ॥
आसादयाशु स्नानार्थं मदनुग्रहकाम्यया ।
इति विज्ञाप्य, पादुके प्रदाय, तत्रोपविष्टे मालावस्त्रभूषणान्यपनीय, विष्वक्सेनाय दत्वा, स्नानशाटिकां प्रदाय पाद्याचमनपादपीठप्रदानदन्तकाष्ठजिह्वानिर्लेहनगण्डूषमुखप्रक्षालनाचमनादर्शहस्तप्रक्षालनमुखवासताम्बूलतैलाभ्यङ्गोद्वर्तनामलकतोयप्रदानकङ्कतप्लोतदेहशोधनशाटिकाप्रदानहरिद्रालेपनप्रक्षालनवस्त्रोत्तरीयोपवीतपाद्याचमनपवित्रप्रदानगन्धपुष्पधूपदीपाचमननृत्तगीतवाद्यादिसर्वमङ्गलयुक्ताभिषेकप्रदाननीराजनाचमनदेहशोधनप्लोतवस्त्रोत्तरीयाचमनकूर्चप्रसारणानि कुर्यात् ।

अथ स्नानासनकर्तव्योपचारमाह - ततः स्नानासनमानीयेति । स्नानासनोक्तोपचारकलापः श्रीनित्यानुगृहीत एवात्राभिहितः । कूर्चप्रसारणं प्रथमासनमार्जनार्थं, “पुनर्मन्त्रसनं[[मन्त्रासनं??]] कूर्चेन मार्जयित्वे"ति नित्योक्तेः ।
विश्वास-प्रस्तुतिः
ततोऽलङ्कारासनमानीय गन्धादिभिरभ्यर्च्य
सम्पन्नं देव सद्वस्त्रभूषास्रक्चन्दनादिकम् ।
अलङ्कारासनं भद्रमधितिष्ठ तृतीयकम् ॥
इति विज्ञाप्य, पादुके प्रदाय तत्रोपविष्टे पूर्ववत् स्नानीयवर्जमर्घ्यादि कल्पयित्वा अर्घ्य-पाद्याचमनीयानि दत्वा, गन्धसंमर्दनवस्त्रोत्तरीयभूषणोपवीताचमनीयानि दत्वा,

अथालङ्कारासनकर्तव्यमाह — तत इत्यादिना । नित्योक्तप्रक्रियैवात्रानुगृहीतेति बोद्ध्यम् ।
विश्वास-प्रस्तुतिः
देव्यादिपरिवाराणां स्नानवस्त्र-भूषणान्तं कृत्वा, गन्धपुष्पादीनि देवानन्तरं सर्वपरिवाराणां प्रत्येकं प्रदाय धूपदीपाचमनीयानि दद्यात् । अथवा सर्वपरिवाराणां गन्धादीनेव दद्यात् । पुष्पप्रदानालङ्काराञ्जनोर्ध्वपुण्ड्रादर्शधूपदीपाचमनध्वजच्छत्रवाहनशङ्खचिह्नकाहलभेर्यादिसकलवाद्यनृत्तगीतादिभिरभ्यर्च्य, मूलमन्त्रेण प्रत्यक्षरं पुष्पं प्रदाय द्वादशाक्षरेण विष्णुगायत्र्या पञ्चोपनिषन्मन्त्रैः पुरुषसूक्तऋग्भिरन्यैश्च भगवन्मन्त्रैश्शक्तश्चेत्पुष्पं प्रदाय प्रणम्य, प्रतिदिशं प्रदक्षिणप्रणामपूर्वकं भगवते पुष्पाञ्जलिं दत्वा, पुरतः प्रणम्य

[[227]]
आह्निकार्थप्रकाशिका
देव्यादिपरिवाराणां स्नानवस्रभूषणान्तं कृत्वेति । देव्यादिपरिवाराणां स्नानादिदीपान्तः गन्धादिदीपान्तः उपचार इति पक्षद्वयं भगवच्छास्त्रप्रसिद्धम् । पाद्मे
एकैव मूर्तिराराध्या प्राधान्येनेतराः पुनः ।
देव्यः श्रियादयश्चापि सम्पूज्याः परिवारवत् ॥
इति एकभगवन्मूर्तेरेव सर्वोपचारयुक्ताराधनम्, अन्यभगवन्मूर्तीनां श्र्यादिदेवीनां परिवारवदाराध्यत्वं प्रतिपाद्य “चतुर्भिरेव गन्धाद्यैः परिवारार्चनं मतमि”ति तत्रैवोक्तेः । द्वितीयपक्ष एव नित्येऽनुगृहीतः ।
विश्वास-प्रस्तुतिः
श्रुतिसुखैः स्तोत्रैः स्तुत्वा, स्वात्मानं नित्यकिङ्करत्वेन निवेद्य तथैव ध्यात्वा, यथाशक्ति मूलमन्त्रं जपित्वा, सर्वभोगप्रपूरणीं शालितण्डुलनिर्मितां मात्रां दत्वा,
भोगापवर्गफलदान्भुङ्क्ष्व भोगान् जगद्गुरो ।
सतामप्यसतामेषामस्तु ते परिपूर्णता ॥
इति प्रार्थ्य, मुखवासताम्बूलादि प्रदाय, अर्घ्यं प्रदाय,

श्रुतिसुखैः स्तोत्रैः स्तुत्वेति । नित्येऽनुगृहीतमिहोक्तम् ।
सदागमादिकान् सर्वान् वेदान्वै वेदघोषणम् ।
इतिहासं पुराणं च तथा दैवं च मानुषम् ॥
वेदोपबृहणं त्वन्यत् संस्कृतं प्राकृतं तु वा ।
भाषान्तरगतं वापि यथा श्रद्धानुरूपतः ॥
ऋग्वेदं च यजुर्वेदं सामवेदमथर्वणम् ।
तथोपनिषदं सम्यग्वेदान्तं क्रमशो वदेत् ॥
मीमांसां ज्योतिषं सम्यक् धर्मशास्त्रं च सात्विकम् ।
पुराणं च तथा सम्यगितिहासं तथागमम् ॥
भाषागानं विष्णुभक्तैः कृतं वेदान्तनिर्णयम् ।
महावाद्यं तथा गीतं नृत्यादीन् श्रावयेत् क्रमात् ॥
तदा तद्देवदेवस्य नित्यार्चायां च पूजकः ।
अलङ्कारासने सम्यगेतद्वेदादिकं क्रमात् ॥
इति पारमेश्वरपराशरसंहितावचनविहितक्रमानुसारेण वेदवेदान्तधर्मशास्त्रेतिहासपुराणसंस्कृतवेदान्तोपबृंहणरूपस्तुतिवाक्यानन्तरं वेदान्तोपबृंहणभाषागानपठनं न्याय्यम् । श्रीरङ्गनाथसन्निधौ नित्योत्सवेषु विशेषोत्सवेषु चाराधनकालोऽलङ्कारासने उदाहृतक्रमेणैव स्तोत्रवाक्यानि पठ्यन्ते । ‘भाषागान’मित्युक्त्या “भाषा गीतिः प्रशस्ता भगवति वचनात् राजवच्चोपचारा"दित्याचार्यपादश्रीसूक्त्या च तद्व्याख्यावाक्यपठनमनावश्यकमिति प्रतीयते । मार्गशीर्षोत्सवादौ व्याख्यापाठस्तु न प्रामाणिकः, किं तु सभ्यानुरञ्जनार्थ इति बोध्यम् । अतः पूर्वोक्तप्रमाणप्रतिपन्न क्रमविरुद्धस्तोत्रक्रमोsविमर्शकृत इति ।
स्वात्मानं नित्यकिङ्करत्वेन निवेद्येत्यादि अर्घ्यं प्रदायेत्यन्तं नित्योक्तमिह निवेशितम् ।
[[228]]
विश्वास-प्रस्तुतिः
भोज्यासनं समर्प्याभ्यर्च्य प्रणम्य,
मूलम्
भोज्यासनं समर्प्याभ्यर्च्य प्रणम्य,
आह्निकार्थप्रकाशिका
अनन्तरम्
मध्वाज्याक्तेन दध्ना वै पूजा च पशुना सह ।
तत्तृतीयं हि यागाङ्गं तुर्यमन्नेन पूजनम् ॥
इति वचनावगततृतीयाङ्गं मधुपर्कं तुर्याङ्गमन्नादिनिवेदनं च प्रतिपादयति - भोज्यासनमभ्यर्च्येति । एवं नित्येऽनुगृहीतम् ।
विश्वास-प्रस्तुतिः
प्राप्यं तु प्रापणे काले पतत्यानीत एष ते ।
मृष्टमेध्यस्थिरान्नानि भक्ष्यभोज्यान्यनेकशः ।
सम्पन्नानि जगन्नाथ भोज्यासनमुपाश्रय ॥
इति विज्ञाप्य पादुके प्रदाय अत्रोपविष्टे,
मूलम्
प्राप्यं तु प्रापणे काले पतत्यानीत एष ते ।
मृष्टमेध्यस्थिरान्नानि भक्ष्यभोज्यान्यनेकशः ।
सम्पन्नानि जगन्नाथ भोज्यासनमुपाश्रय ॥
इति विज्ञाप्य पादुके प्रदाय अत्रोपविष्टे,
आह्निकार्थप्रकाशिका
प्राप्यंत्विति । प्रणम्यानुज्ञाप्य पादुके प्रदायेत्यादि गां सुवर्णं रत्नानि च दद्यादित्यन्तं नित्येऽनुगृहीतम् ।
विश्वास-प्रस्तुतिः
पाद्याचमनीयार्हणीयानि दत्वा, गुडं माक्षिकं सर्पिर्दधिक्षीरं चेति पात्रे निक्षिप्य, शोषणादिभिर्विशोध्य, अर्घ्यजलेन प्रोक्ष्यावनतशिराः हर्षोत्फुल्लनयनः हृष्टमानसो भूत्वा प्रदायाचमनीयं दद्यात् । यद्द्रव्यं भगवते दीयते तत्सर्वं शोषणादिभिर्विशोध्यार्घ्यजलेन सम्प्रोक्ष्यास्त्रमन्त्रेण रक्षां कृत्वा दद्यात् । ततश्च गां सुवर्णं रत्नानि च दद्यात् ।

अर्हणीयानि दत्वेति । अर्हणीयदानमुपस्तरणार्थं भगवद्धस्ते उदकदानम् । पाद्मे
प्रोक्षणञ्चास्त्रमन्त्रेण परिषिच्य च वर्मणा ।
प्रणवेनार्हणे दत्त
इति, वङ्गिवंशेश्वरीये — ‘परिषेकोपस्तरणक्रियायै प्रोक्षणार्घ्यतः’ इति । अर्चनानवनीते
शीतलोदकसम्पूर्णमेलाकर्पूरसंयुतम् ।
मन्दोष्णं वासनायुक्तमर्हणाम्बु इति स्मृतम् ॥
इति । गुडमाक्षिकमित्यादि मधुपर्कद्रव्याणि । मधुपर्कं मधुयुतं दधि दद्यात् घृतप्लुतम् ।
ततो दधि मधु न्यस्य सर्पिषा मध्वलाभतः
इति वङ्गिवंशेश्वरोक्तम् । शाण्डिल्यः
अवश्यं मधुपर्केण मध्वाज्यदधियोगिना ।
अर्चयेदुदकेनापि क्वाथितेन फलादिभिः ॥
मध्वाज्यं दधि संयोज्य योयजेत जनार्दनम् ।
अयं संसृज्यते तेन श्रीमता मधुपर्कवत् ।
मधुराणां च संपर्को मधुपर्कः प्रकीर्तितः ॥
इति ।
[[229]]
विश्वास-प्रस्तुतिः
ततः
सुसंस्कृतान्नमाज्याढ्यं दधिक्षीरमधूनि च ।
फलमूलव्यञ्जनानि मोदकांश्च निवेदयेत् ॥
अन्यानि लोके प्रियतमानि आत्मनश्चेष्टानि संभृत्य शोषणादिभिर्विशोध्यार्घ्यजलेन प्रोक्ष्यास्त्रमन्त्रेण रक्षां कृत्वा सुरभिमुद्रां प्रदर्श्य देवस्य पुरतो निधाय, कृताञ्जलिस्सभयस्तिष्ठन्,
असत्यमशुचिन्नीचमपराधैकभाजनम् ।
अल्पशक्तिमचैतन्यमनर्हं त्वत्क्रियास्वपि ॥
मामनादृत्य दुर्बुद्धिं स्वयैव कृपया विभो ।
अतिप्रभूतमत्यन्तभक्तिस्नेहोपपादितम् ॥
शुद्धं सर्वगुणोपेतं सर्वदोषविवर्जितम् ।
स्वानुरूपं विशेषेण स्वदेव्योस्सदृशं गुणैः ॥
त्वमेवेदं हविः कृत्वा स्वीकुरुष्व सुरेश्वर ।
पायसान्नं गुडान्नं च मुद्गानं शुद्धमोदनम् ॥
दधिक्षीराज्यसंमिश्रं नानापूपफलान्वितम् ।
यतीन्द्र यामुनेयाद्यैः पराङ्कुशमुखैरपि ।
निवेद्यमानं नैवेद्यं स्वीकुरुष्व सुरेश्वर ॥
इति सम्प्रार्थ्यार्हणपूर्वकं हविर्निवेदयेत् । अतिप्रभूतमतिप्रियतममतिसमग्रमत्यन्तभक्तिकृतमिदं स्वीकुर्विति प्रणामपूर्वकमत्यन्तसाध्वसविनयावनतः परिषेकोपस्तरणार्थं देवस्य दक्षिणहस्तेऽर्हणाम्बु दत्वा ग्रासमुद्रया दद्यात् ।

हविर्निवेदनप्रकारमाह — ततः सुसंस्कृतान्नमित्यादिना । भगवन्निवेदनीयानिवेदनीयप्रमाणानि पाद्मविष्वक्सेनादिसंहितासु धर्मशास्त्रनिबन्धनेषु आहारनियमगाधा तद्व्याख्यादौ च विस्तरेण द्रष्टव्यानि ।
आह्निकार्थप्रकाशिका
शास्त्राविरुद्धानीति[[??]] । इदं नित्यानुगृहीतम् । जात्याश्रयनिमित्तादुष्टानीत्यर्थः । जातिदुष्टानि कोद्रवादीनि, आश्रयदुष्टानि ताम्रपात्रस्थितं गव्यम्, आयसपात्रस्थानि व्यञ्जनादीनि कुलटाषण्डपतितवैर्यभिशस्तादिस्वामिकानि च । निमित्तदुष्टानि कृमिकेशादस्पृष्टानि शास्त्राविरुद्धानामेव निवेदनीयत्वं शास्त्रनिषिद्धानां च निवेदने प्रायश्चित्तं च भगवच्छास्त्रादिसिद्धम् । आपदादौ स्वस्य निषिद्धान्नग्रहणे न तन्निवेदनीयम्, अविरुद्धं पत्रपुष्पजलादिकं निवेदनीयं, “यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः” इत्येतदपि शास्त्राविरुद्धविषयमिति बोध्यम् । “तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः” इति श्रीगीताश्लोकतात्पर्यचन्द्रिकायाम् -
अश्नामीत्युपभोगमात्रलक्षणा तेन निवेद्याभावे पत्रादिकमपि निवेद्यं स्यात्
इत्यनुगृहीतम् । श्रीसच्चरित्ररक्षायां “ततोऽन्नमभ्युद्यम्ये’’त्यादिना
कपित्थस्य फलं चैव यथा कुञ्जरभक्षितम् ।
तस्य सारं च गृह्णीयात् तथा हविरसं प्रभुः ॥
इत्यादिना च निवेदनदशायामन्नादेः सूक्ष्मांशग्रहणं, “आचार्यादिमुखेन तस्यैव प्रत्यक्षयोग्यस्थूलांशग्रहण"मित्यादिना च निवेदनप्रकारश्चानुगृहीतः । वङ्गिवंशेश्वरैः -
जलं गृहीत्वा देवस्य प्रदद्याद्दक्षिणे करे ।
अथादाय रसं सर्वं हविषः स्वेन पाणिना ॥
स्वयं वा भोजयेद्देवं प्रयतः परया मुदा ।
दद्याद्वा दक्षिणे हस्ते देवस्य ग्रासमुद्रया ॥
इति निवेदनप्रकारोऽभिहितः ।
[[230]]
लक्ष्मीतन्त्रे -
ग्रथितौ द्वौ करौ कृत्वा सुश्लिष्टौ चाप्यधोमुखौ ।
मध्यमाङ्गुलियुग्मं त्वन्योन्यकरपृष्ठतः ॥
विक्षिप्यानामिकायुग्मं तर्जनीयुगलं तथा ।
मुद्रैषा कामधेन्वाख्या सर्वभोगप्रपूरणी ॥
इति सुरभिमुद्रा प्रदर्शिता ।
पञ्चाङ्गुलीनामग्रं तु संयोज्य कमलासन ।
अन्वारब्धेन वामेन पाणिना दक्षिणेन च ॥
निवेद्यपरमान्नादिमुद्रा सा ग्राससंज्ञिता ।
इति पाद्मे ग्रासमुद्रा प्रदर्शिता । अतिप्रभूतमतिसमग्रमिदमित्यादिनित्येऽनुगृहीतम् । पुरुषाशनप्रमाणान्यूनमेव निवेदनीयम् । वैशेषिकार्चनेऽधिकम् । यथोक्तं पौष्करे -
पुरुषाशनमात्रन्तु व्यञ्जनेन समन्वितम् ।
प्रापणं परमान्नाद्यमन्नाद्यमतिभूतये ॥
इति ।
विहितं शुद्धशाल्यन्नं तद्वदेव तु पौष्कर ।
भक्ष्याणां लेह्यपेयाख्यशोष्या खाद्याभिधायिनाम् ॥
विधिवत् षड्रसोत्थानां पावनानामतोऽर्थतः ।
भक्तिश्रद्धावशाच्चैव प्रत्येकस्य त्वनेकथा ।
विशेषयागे विहितं नित्ये वा सति संभवे ॥
इति । यदपरोक्तम् - दिवाक्षीरनिषेधस्स कामविषय इति नित्ये क्षीरग्रहणेन सिद्धम् - इति । तदयुक्तं - भगवति क्षीरनिवेदनकथनमात्रेण दिवाक्षीरनिषेधस्य सकामविषयत्वासम्भवात् । तथा सति एकादश्याद्युपवासदिनेषु सप्ताङ्गयजनस्य श्रीपाञ्चरात्ररक्षानुगृहीतत्वेन चतुर्थाङ्गस्यान्नपूजनरूपतया तदुपवासस्य सकामविषयत्वापातात् । ननु एकादश्यां भोजने प्रत्यवायश्रवणात् नित्योपवासेsपि भोजननिषेधसिद्धिरिति चेत्; तर्हि दिवाक्षीरनिषेधस्य फलार्थिविषयत्वाश्रुतेः निष्कामविषयत्वं वक्तव्यमिति तुल्यम् ।
विश्वास-प्रस्तुतिः
ततश्चानुपानतर्पणे प्रदाय हस्तप्रक्षालनाचमनसंमार्जनचन्दनमुखवासताम्बूलादि दत्वा, दत्वा, प्रणम्य, देव्यादीनामपि हविर्निवेदनमिति वङ्गिवंशेश्वरादिपक्षे भगवदर्थादन्यद्धविर्निवेदयेत् ।
मूलम्
ततश्चानुपानतर्पणे प्रदाय हस्तप्रक्षालनाचमनसंमार्जनचन्दनमुखवासताम्बूलादि दत्वा, दत्वा, प्रणम्य, देव्यादीनामपि हविर्निवेदनमिति वङ्गिवंशेश्वरादिपक्षे भगवदर्थादन्यद्धविर्निवेदयेत् ।
आह्निकार्थप्रकाशिका
ततश्चानुपानतर्पणे प्रदायेति । अनुपानं हविर्भोगसमनन्तरं नालिकेरोदकपानकादिभोगः । यथोक्तं पारमेश्वरे
सव्येन पाणिनास्पृश्य प्रकोष्ठं दक्षिणस्य तु ।
तेन दक्षिणहस्तेन अग्रसङ्कुचितेन तु ।
निवेदयेत्ततो विप्र शिरसावनतेन तु ॥
इति निवेदनोक्त्यनन्तरं
पावनैः पानकैः स्वच्छैः शीतलैर्मधुरादिकैः ।
त्वगेलाद्यन्वितैर्मृष्टधूपकर्पूरवासितैः ।
नालिकेरोदकोपेतैस्तर्पणीयमनन्तरम् ॥
इति ।
[[231]]
श्रीसात्त्वते “पानकानि पवित्राणि त्वत्रापि मधुपर्कवदि"ति । तर्पणं तृप्त्यर्थं हस्ते उदकदानम् । यतोक्तं[[??]] लक्ष्मीतन्त्रे - “तर्पणं तर्पणीयाभिस्ततो निष्पुंसनं कर” इति । हस्तप्रक्षालनेत्यादि प्रणमेदित्यन्तं नित्यगतमेव । देव्यादीनामपि हविर्निवेदनमिति वङ्गिवंशेश्वरादिपक्षे भगवदर्थान्यद्यद्धविर्निवेदयेदिति । नित्ये देवीनिवेदनमनुक्तम् । “अथ मन्त्रसिद्धान्तोपास्यपररूपविषया”मित्याचार्यपादानुगृहीतप्रकारेण नित्याराधनस्य मन्त्रसिद्धान्तसिद्धत्वावगमात्, तत्सिद्धान्ते
एकैकमूर्तिराराध्या प्राधान्येनेतराः पुनः ।
देव्यः श्रियादयश्चापि सम्पूज्याः परिवारवत् ॥
इति पाद्मवचनेन भगवन्मूर्त्यन्तरश्रयादीनां “चतुर्भिरेव गन्ध्याद्यैः परिवारार्चननं मत"मिति तत्संहितावचनोक्तगन्धादिचतुरुपचारयुक्तार्चनस्य “अथवा सर्वपरिवाराणां गन्धादीनेव दद्या”दिति नित्येऽनुगृहीतत्वात्, श्रीसच्चरित्ररक्षातृतीयाधिकारे भगवन्निवेदितस्य भोज्यत्वे तेनान्तर्यामिनिवेदनवैश्वदेवप्राणाद्याहुतिकरणे निवेदितनिवेदनाख्यदोषमाक्षिप्य वचनबलात्तत्सिद्धेस्समर्थितत्वात् लक्ष्मीभगवतोरुभयोः युगपदेकान्ननिवेदने तेनान्तर्यामिनिवेदनवैश्वदेवादिकरणं न सम्भवति, पूर्वोक्तदोषप्रसङ्गात् मानाभावाच्च । वङ्गिवंशेश्वरोक्तभगवत्समाराधनस्य संहिताविशेषमूलकवैकल्पिकत्वं पूर्वोदाहृतश्रीसाध्योपायशोधनाधिकारवाक्यसिद्धम् । वङ्गिवंशेश्वरैरपि -
ततो भुक्तवति प्रीत्या तद्धविः पुरुषोत्तमे ।
देवीभ्यां च हविश्शुद्धं घृतं भक्ष्यं निवेदितम् ॥
प्रभूतं सुबहु स्वादु धृतं [[घृ??]] भक्त्या निवेदयेत् ।
भुक्तवत्योस्तयोश्चापि पत्न्योर्देवस्य चोभयोः ॥
अनुपानं बहुविधं विनिवेद्य यथोदितम् ।
प्रोक्षणार्घ्याद्गृहीत्वाम्भः सर्वेभ्यस्तु पृथक् पृथक् ॥
करेषु तर्पणार्थाय प्रदद्याच्चषकादिना ॥
इति भगवन्निवेदितादन्यदेव श्रीभूम्योर्निवेदनीयमित्युक्तमिति प्रतीयते; उत्तरत्र
भगवद्धस्तसंस्पर्शलब्धसौगन्ध्यनिर्भरम् ।
भगवद्वीक्षणावाप्तशुध्याधिक्यविभूषितम् ॥
सर्वशुद्धिकरं सर्वभोक्तृपापविनाशनम् ।
चतुर्द्धा संविभज्यैतत् षोढा वा स्वेन पाणिना ॥
विष्वक्सेनार्चनार्थाय न्यस्यैकं भागमग्रतः ।
प्राङ्निवेदितमेतत्तु नैवेद्यमवशेषितम् ॥
प्रयच्छेत् पात्रभूतेभ्यो वैष्णवेभ्यो विभज्य तत् ।
आत्मार्थं शिरसा स्वेन स्वीकुर्याच्च स्वयं च तत् ॥
इति श्लोकैः भगवन्मात्रनिवेदितस्य विभागः विष्वक्सेनार्थमेकांशस्थापनम्, अन्यभागांशानां वैष्णवेभ्यः प्रदानं स्वार्थं भगवन्निवेदितग्रहणं चोक्तम् । स्वेनेति अन्यदीयपाणिनिषेधकम् । पाणिनेति दर्व्यादिनिषेधकम् । एतेन मनसा विभज्य विष्वक्सेननिवेदनं कार्यम् - इति कस्यचिदुक्तिः परास्ता; अन्तर्यामिनिवेदनप्राणाहुत्यादौ विष्वक्सेननिवेदितस्यानुपयोगेन पृथगुद्धृत्यैव तन्निवेदनस्य कार्यत्वात् । भगवन्निवेदितेनैव विष्वक्सेनयजनं, तस्य शेषाशनसंज्ञा, स्वार्थभागेनैवान्तर्याम्याराधनादिकं श्रीसच्चरित्ररक्षाश्रीसूक्तिसिद्धम् । श्रीविशिष्टस्य निवेदने तत्सर्वं न सिध्यति, प्रमाणं च नास्तीति पूर्वमुक्तम् । अतो “वङ्गिवंशेश्वरादिपक्षे देव्यादिभ्यो भगवदर्थादन्यद्धविर्निवेदयेदि”त्यनुगृहीतम् ।
यदुक्तं कैश्चित् —
तदन्तर्भावात्त्वां न पृथगभिधत्ते श्रुतिरपि” என்கிற வழிகளும் கண்டுகொள்வது எம்பெருமானைச் சொன்னவிடத்திலே பிராட்டியையுஞ் சொல்லித் தாம் என்று துடங்கி உடையவர் அருளிச் செய்த வார்த்தையை ஆச்சான் பக்கலிலே கேட்டு நஞ்ஜீயர் ஸங்க்ரஹித்தார் + लयभोगार्चन ங்களிலே प्रवृत्त ராய் अनन्यप्रयोजन ரான मुमुक्षु க்களுக்கும்
इति श्रीसिद्धोपायशोधनाधिकारश्रीसूक्त्याद्यनुसारेण वक्षःस्थलस्थश्रीविशिष्टभगवत एव हविर्निवेदनादिकं कार्यं न केवलं भगवतः – इति ।
[[232]]
तदयुक्तं – प्रमाणाचार्यश्रीसूक्तिविरुद्धत्वात्; सर्वरक्षणदीक्षित னானவன்
लक्ष्म्या सह हृषीकेशो देव्या कारुण्यरूपया ।
रक्षकस्सर्वसिद्धान्ते वेदान्तेऽपि च गीयते ॥
इत्यादि
கள்படியே सपत्नी கனாக सिद्ध னாயிருக்கையாலே இங்கே प्रमाणसिद्धोपयोगविशेष மான पत्नीसम्बन्ध மாर्थம்
इति श्रीमूलमन्त्राधिकारादिश्रीसूक्तिभिः सर्वविद्यासु प्रमाणसिद्धपत्नीसम्बन्धस्य सन्नियोगशिष्टन्यायसिद्धत्वावगमात्,
இங்கு उपायदशै யிலும் प्रमाण ங்கள் नित्ययोग த்தைச் சொல்லுகையாலும், अतोऽनन्यपरानेकश्रुतिस्मृत्यनुसारतः । पत्नीविशिष्ट एकैकः प्रपत्तव्य इहोदितः
इति श्रीद्वयचरमश्लोकाधिकारश्रीसूक्तिसिद्धं श्रीवैशिष्ट्यं प्रमाणबलादङ्गीकार्यमिति ज्ञायते, द्वयाख्यशरणागतिमन्त्रे लक्ष्मीसम्बन्धस्य वाचनिकत्वेन मूलमन्त्रस्वरूपोपायफलपरयोजनासु लक्ष्मीसम्बन्धस्यावश्यापेक्षितत्वाच्च लक्ष्मीसम्बन्धस्यार्थसिद्धत्वमवश्याश्रयणीयम् । भगवच्छास्त्रवचनैः श्रीभाष्यकारतच्छिष्यप्रशिष्यवाक्यैश्चाराधने मूलमन्त्रस्य करणत्वावगमनेन तन्मन्त्रेण भगवदाराधनमात्रत्वावगमात्, मन्त्रसिद्धान्तोपास्याराधने श्रियः परिवारवदर्चनस्य
देव्यः श्रियादयश्चापि सम्पूज्याः परिवारवत् ।
चतुर्भिरेव गन्धाद्यैः परिवारार्चनं मतम् ॥
इति वचनसिद्धतया वचनविरोधे न्यायानवतारस्याचार्यपादबहुश्रीसूक्तिसिद्धत्वात्, श्रीविशिष्टोद्देशेन निवेदनस्य वक्तुमशक्यत्वात् । श्रीभाष्यकारनित्यस्य [[??]] भोगार्चनविषयतया “दक्षिणतः श्रीं श्रियै नमः इति श्रियमावाह्य प्रणमे’’दिति भगवद्दक्षिणपार्श्वे लक्ष्मीध्यानार्चनकथनेन तदाराधनमध्ये उपदेशानुष्ठानपारम्पर्यरहितलययागप्रक्रियया वक्षःस्थलस्थलक्ष्मीविशिष्टोद्देशेन हविर्निवेदनकथनस्यात्यन्तविरोधात्, अन्तर्यामिनिवेदनाद्यनुपपत्तिप्रसङ्गाच्च । श्रीमद्गोपालार्यमहादेशिकैः श्रीदेशिकसहस्रनामस्तोत्र
विष्णुनैवेद्यैकसाध्यवैश्वदेवविधिप्रियः ।
विष्णुनैवेद्यैकसाध्यप्राणाग्निहवनक्रियः ॥
वैश्वदेवेज्योपयुक्तभोज्यतावाक्यशोधकः ।
विष्णुनैवेद्यहार्दानिवेद्याशननिषेधकः ॥
इति भगवन्मात्रनिवेदितेनान्तर्यामिनिवेदनादिकमनुगृहीतम् ॥ “शठकोपादिनैवेद्यसार्थप्राणाग्निहोत्रकः’’ इत्येतत् प्राणाहुत्यनन्तरं शठकोपादिनिवेदितप्राशने पूर्वकृतप्राणाग्निहोत्रस्य सप्रयोजनत्वकथनेन शठकोपादिनिवेदितभोजनस्तुतिपरं, न तु शठकोपादिनिवेदितस्य प्राणाग्निहोत्रसाधनत्वपरं, तथा सति श्रीसच्चरित्ररक्षाद्याचार्यपादश्रीसूक्त्यनुपदोदाहृतश्लोकविरुद्धत्वात् मानाभावाच्च ।
[[233]]
अत एव वैश्वदेवाग्निनिर्णये भगवन्मात्रनिवेदितेनान्तर्यामिनिवेदनवैश्वदेवप्राणाहुतिकरणं प्रतिपाद्य, लक्ष्मीमात्रनिवेदितान्नलाभे तेन प्राणाहुतिकरणे मानाभावात् स्वार्चाराधनकालिकभगवन्मात्रनिवेदितपत्रपुष्पादिभिः वैश्वदेवप्राणाहुत्यादिकं लक्ष्मीनिवेदितस्य पश्चात् भोजनं चानुगृहीतं सङ्गच्छते ।
भगवन्निवेदितात् चतुर्थांशं षष्ठांशं वा गृहीत्वा, एकं सेनेशाय निक्षिप्य, एकं वैश्वदेव देवयज्ञातिथिप्राणाहुतिभ्यो निक्षिप्य उद्धृतान्यद्धविः श्रीभूमिनीलानां निवेद्य
इत्येकोक्तं,
भगवन्निनिवेदितं षोढा विभज्य, वैश्वदेवार्थमेकं भागं निक्षिप्य, एकं श्रियै, एकं भूमिनीलाभ्यां, एकमनन्ताय, एकं वैनतेयाय, एकं दिव्यभूषणायुधपादुकापरिजनपरिच्छदेभ्यो निवेद्य, श्रीनिवेदितं भागं विष्वक्सेनादिशठकोपस्वाचार्यपर्यन्तं निवेद्य
इति परोक्तं च भगवच्छास्त्रवंगिवंशेश्वरकारिकासच्चरित्ररक्षाद्यनुक्तं तद्विरुद्धं चेति सम्प्रदायग्रन्थाभिज्ञैरनादरणीयम् । भगवन्निवेदितस्य श्रियादिनिवेदने मानाभावात् भगवन्निवेदितमात्रेण विष्वक्सेनयागस्य प्रमाणसम्प्रदायसिद्धतया श्रीनिवेदितेन विष्वक्सेनादिनिवेदनस्याप्रामाणिकत्वात् । अत आचार्योक्तनिवेदनप्रकार एव साधीयान् ।
विश्वास-प्रस्तुतिः
पुनर्मन्त्रासनं कूर्चेन मार्जयित्वाभ्यर्च्य प्रदाय तत्रोपविष्टे पाद्याचमने दत्वा माल्यभूषणादीन्यपनीय सेनेशाय दत्वा पाद्याचमनगन्धपुष्पधूपदीपाचमनापूपफलाचमनमुखवासताम्बूलादिभिरभ्यर्च्य प्रदक्षिणीकृत्य, प्रणम्य,
मूलम्
पुनर्मन्त्रासनं कूर्चेन मार्जयित्वाभ्यर्च्य प्रदाय तत्रोपविष्टे पाद्याचमने दत्वा माल्यभूषणादीन्यपनीय सेनेशाय दत्वा पाद्याचमनगन्धपुष्पधूपदीपाचमनापूपफलाचमनमुखवासताम्बूलादिभिरभ्यर्च्य प्रदक्षिणीकृत्य, प्रणम्य,
आह्निकार्थप्रकाशिका
ततो मन्त्रसनतदुपचारादिकमाह – पुनर्मन्त्रासनमिति । प्रथमासनत्वज्ञापनार्थः पुनश्शब्दः । वङ्गिवंशेश्वरैरुक्तं -
ततो निवेद्य प्रणतः प्रथमासनमादरात् ।
प्रदाय पादुकायुग्मं शनकैश्शनकैर्नयेत् ॥
इति । प्रथमासने प्राक्कृतोपचारदशालग्नपुष्पादिशेषापनोदाय तन्मार्जनकथनम् ।
विश्वास-प्रस्तुतिः
पर्यङ्कासनमभ्यर्च्य प्रणम्य, पादुके प्रदाय तत्रोपविष्टे पाद्याचमने दत्वा, माल्यभूषणवस्त्राणि विसृज्य, विष्वक्सेनाय दत्वा सुखशयनोचितं सुखस्पर्शं वासः तदुचितानि भूषणानि उपवीतं च प्रदाय, आचमनं दत्वा, गन्धपुष्पधूपदीपमुखवासताम्बूलादिभिरभ्यर्च्य,

मन्त्रासनकर्तव्योपचारानुक्त्वा सुखशयनोचितमासनान्तरमाह पर्यङ्कासनमभ्यर्च्येति । तत्रासनद्वये कर्तव्यं सर्वं नित्येऽनुगृहीतम् ।
विश्वास-प्रस्तुतिः
श्रुतिसुखैः स्तोत्रैरभिष्टूय भगवानेव + स्वयमेव प्रतिपादितवानित्यनुसन्धाय, भगवन्विष्वक्सेनाराधनाय मामनुजानीहीति भगवन्तमनुज्ञाप्य,
मूलम्
श्रुतिसुखैः स्तोत्रैरभिष्टूय भगवानेव + स्वयमेव प्रतिपादितवानित्यनुसन्धाय, भगवन्विष्वक्सेनाराधनाय मामनुजानीहीति भगवन्तमनुज्ञाप्य,
[[234]]
आह्निकार्थप्रकाशिका
श्रुतिसुखैः स्तोत्रैरभिष्टूयेति । अलङ्कारासनोपदर्शितप्रमाणाचारानुसारेण वेदवेदान्तधर्मशास्त्रेतिहासपुराणश्रीयामुनेयस्तोत्रश्रीभाष्यश्रीरहस्यत्रयसारयतिराजसप्ततिसप्ततिरत्नमालिकान्तसंस्कृतस्तुत्यनन्तरं श्रीगोदाशठकोपमुन्यादिकृतद्रामिडगाधास्तोत्राणि कार्याणीति बोध्यम् । आराधनान्ते नित्यानुगृहीतसात्विकत्यागमाह - स्वनियाम्येति ।
स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेनानेनात्मना स्वकीयैश्चोपकरणैः स्वकीयैश्च देहेद्रियान्तःकरणैः स्वकीयकल्याणतमद्रव्यमयानौपचारिकसांस्पर्शिकाभ्यवहारिकादिसमस्तभोगान् अतिप्रभूतान् अतिप्रियानतिसमग्रान् अत्यन्तभक्तिकृतानखिलपरिजनपरिच्छदान्विताय स्वस्मै स्वप्रीतये स्वयमेव प्रतिपादितवान्
इति नित्यानुगृहीतं वाक्यम् ।
विश्वास-प्रस्तुतिः
भगवन्निवेदिताद्धविश्शेषाद्विष्वक्सेनाय किञ्चिदुद्धृत्य निक्षिप्यान्यत्सर्वं त्रेधा विभज्यात्मार्थमेकमवस्थाप्य,
मूलम्
भगवन्निवेदिताद्धविश्शेषाद्विष्वक्सेनाय किञ्चिदुद्धृत्य निक्षिप्यान्यत्सर्वं त्रेधा विभज्यात्मार्थमेकमवस्थाप्य,
आह्निकार्थप्रकाशिका
ततो विष्वक्सेनविशेषपूजामाह – भगवन्नित्यादिना । “भगवन्तमनुज्ञाप्ये"त्यादिकं नित्येऽनुगृहीतम् ।
विश्वास-प्रस्तुतिः
एकं कारिभ्यो दत्वा, एकं स्वाचार्यवैष्णवेभ्यो निवेदयेत् ।
मूलम्
एकं कारिभ्यो दत्वा, एकं स्वाचार्यवैष्णवेभ्यो निवेदयेत् ।
आह्निकार्थप्रकाशिका
एकं कारिभ्यो दत्वा एकं स्वाचार्यप्रमुखेभ्यो वैष्णवेभ्यो निवेदयेदिति ।
निवेदयीत स्वात्मानं, निवेदयत मां क्षिप्रं, मूलमन्त्रेण स्वात्मानं देवाय विनिवेद्य
इत्यादाविवात्र निवेदनं समर्पणं, तच्च सम्प्रदानमेव । अत एव नित्ये “स्वाचार्यप्रमुखेभ्यो वैष्णवेभ्यः प्रदाये’’त्यनुगृहीतम् । श्रीसच्चरित्ररक्षातृतीयाधिकारेऽप्येवमेव प्रपश्चितम् । एतेन — “वैष्णवेभ्यो निवेदयेदि’’त्याराधनान्तर्गतहविर्यजनपरमिति केषांचिदुक्तिः परास्ता, श्रीनित्यवङ्गिवंशेश्वराचार्यपादश्रीसूक्तिविरुद्धत्वात्, तत्र तेभ्यः स्थूलान्नादिसम्प्रदानोक्तेः । नित्ये विष्वक्सेनभागातिरिक्तस्य सम्प्रदानोक्तिः वह्निसन्तर्पणपितृयागापेक्षितान्नव्यतिरिक्तविषया । ‘‘अत एवानुयागस्यानियतत्वव्यञ्जनाय भाष्यकाराणां तदनुक्तिरि"त्याचार्यपादश्रीसूक्त्या सप्ताङ्गनैयत्यावगमेन वह्निसन्तर्पणाद्यर्थहविःस्थापनाङ्गीकारस्य वाच्यत्वात् । अत्र श्रीसच्चरित्ररक्षातृतीयाधिकारानुगृहीतालयविषयवचनेषु भगवन्निवेदितस्य चतुर्धा विभागः कारिभ्य एकं एकं सम्प्रदानार्थमित्यवगमादत्र तथाऽनुगृहीतम् । गृहार्चायां कार्याचार्यादिवैष्णवप्रदानासम्भवेन द्विधैव भगवन्निवेदितविभागः कार्यः । यथोक्तं तदधिकारे तथेश्वरसंहितायां समाराधनाध्याये –
दत्तशिष्टमथादाय संविभज्य द्विधा तु तत् ।
पूजितस्यार्घ्यपुष्पाद्यैः विष्वक्सेनस्य वै विभोः ॥
प्रतिपाद्यामराणां च तृप्तये विघ्नशान्तये ।
द्वितीयमनुयागादौ प्राशनं बान्धवैस्सह ॥
तन्निश्शेषं च भोक्तव्यं हृन्मन्त्रं संस्मरन् हृदि ॥
[[235]]
‘अमराणां चे’ति विष्वक्सेनभक्तानां तन्निवेदितं प्रतिपाद्येत्यर्थः । पारमेश्वरे -
विष्वक्सेनं यजेत् साङ्गं तर्पयेत्तदनन्तरम् ।
समाहृत्याखिलं पश्चात् कृते चैतद्विसर्जने ॥
यद्यन्निवेदितं तस्य ह्यगाधेऽम्भसि निक्षिपेत् ।
तच्चापि क्ष्मातले कूपे तटाकादिषु चोक्तिरेत् ॥
लक्ष्मीतन्त्रे –
प्रागेव विभजेदन्नं प्रापणार्थं प्रदानतः ।
तेनान्नेन यजेत्सम्यक् विष्वक्सेनं चतुर्भुजम् ।
विष्वक्सेनार्चितं सम्यगगाधेऽम्भसि निक्षिपेत् ॥
पाद्मे –
निवेदितानां तुर्यांशं विष्वक्सेनाय कल्पयेत् ।
तच्चागाधजले क्षेप्यं तद्भक्तान्वापि भोजयेत् ।
तेनैव पार्षदास्तृप्ता भवेयुर्भूततृप्तये ॥
इति ।
दीक्षितशब्दवाच्यसात्त्वतानां विष्वक्सेननिवेदितं त्याज्यम् । विष्वक्सेननिवेदिते च विकल्पभेदाः तत्तत्संहितानुसारेण प्रयोगपद्धतिः रत्नावल्यादिषु भोजराजादिभिः स्थापिता द्रष्टव्याः
इत्याचार्यपादानुगृहीतम् । विष्वक्सेनस्यात्मदाचार्यकोटिप्रविष्टत्वात् तन्निवेदितमस्माभिर्भोज्यमिति वङ्गिवंशेश्वरैरुक्तम् –
ततस्तद्भूततृप्त्यर्थं विशुद्धेऽम्भसि निक्षिपेत् ।
तद्गणानुचरो भूत्वा भुञ्जीत स्वयमप्यदः ॥
तदाश्रितानां भूतानां पातालतलवासिनाम् ।
स्वेन भुक्तोज्झितं सर्वं तेन दत्तं महात्मना ।
एवमभ्यर्च्य सेनान्यं सपत्नीकं समन्त्रिणम् ॥
इति । तद्गणानुचरः विष्वक्सेनभक्तगणानुसारी तद्भक्तिमान् भूत्वा, स्वयमपि आराधकोऽपि, अदः विष्वक्सेननिवेदितं, भुञ्जीतेत्यर्थः ।
विश्वास-प्रस्तुतिः
भगवद्यागावशिष्टैर्जलैर्विष्वक्सेनमभ्यर्च्य पूर्वोद्धृतं हविश्च दत्वा तदर्चनं परिसमाप्य,
मूलम्
भगवद्यागावशिष्टैर्जलैर्विष्वक्सेनमभ्यर्च्य पूर्वोद्धृतं हविश्च दत्वा तदर्चनं परिसमाप्य,
आह्निकार्थप्रकाशिका
विष्वक्सेनयागप्रकारमाह – भगवद्यागावशिष्टैर्जलैरित्यादिना ।
विश्वास-प्रस्तुतिः
भगवन्तम्
मूलम्
भगवन्तम्
आह्निकार्थप्रकाशिका
इज्यान्ते प्रणामं विदधाति - भगवन्तमित्यादिना ।
[[236]]
विश्वास-प्रस्तुतिः
अष्टाङ्गेन प्रणम्य,
मूलम्
अष्टाङ्गेन प्रणम्य,
आह्निकार्थप्रकाशिका
श्रीसात्त्वतसंहितोक्तमष्टाङ्गप्रणाममाह - अष्टाङ्गेन प्रणम्येति ।
विश्वास-प्रस्तुतिः
इज्यामध्ये सम्भावितबुद्धिपूर्वकापचाराङ्गवैकल्यादिपरिहारार्थं शरणमुपगच्छेत् ।
मूलम्
इज्यामध्ये सम्भावितबुद्धिपूर्वकापचाराङ्गवैकल्यादिपरिहारार्थं शरणमुपगच्छेत् ।
आह्निकार्थप्रकाशिका
इज्यामध्ये सम्भावितबुद्धिपूर्वापराधादिपरिहाराय शरणवरणमाह - इज्यामध्य इति ।
विश्वास-प्रस्तुतिः
मनोबुध्यभिमानेन सह न्यस्य धरातले ।
कूर्मवच्छतुरः पादान् शिरस्तत्रैव पञ्चमम् ॥
प्रदक्षिणसमेतेन ह्येवंभूतेन सर्वदा ।
अष्टाङ्गेन प्रणामेन ह्युपविश्याग्रतो विभोः ॥
इत्युक्तोऽष्टाङ्गप्रणामः । शरणागतिप्रकारश्च पूर्वोक्तः इति नित्योक्तम् ।

उक्ताष्टाङ्गप्रणामः शरणागतिप्रकारश्च नित्योक्त इत्याह - मनोबुद्धीत्यादिना ।
विश्वास-प्रस्तुतिः
ततोऽर्घ्यजलं प्रदाय
मूलम्
ततोऽर्घ्यजलं प्रदाय
आह्निकार्थप्रकाशिका
‘‘विसर्जनेऽर्घ्यदानन्तु” इत्युक्त्यार्घ्यदानमाह - ततोऽर्घ्यजलं प्रदायेति । “ततोऽर्घ्यजलं प्रदाय भगवन्तमनुज्ञाप्य पूजां समापयेदि’’ति नित्येऽनुगृहीतम् ।
विश्वास-प्रस्तुतिः
अनुयागादिकं चाथ चिकीर्षन्नाह्निकं विधिम् ।
दत्तानुज्ञः परेणापि गमनायात्मनो बहिः ॥
निर्गन्तुकामो निक्षिप्य देवं दौवारिकादिषु ।
सभयस्सानुतापश्च चण्डादिद्वारपालकान् ॥
कुमुदादीन् गणेशांश्च चक्रादीन्यायुधान्यपि ।
गरुडं च विशेषेण शेषं शेषाशनं तथा ॥
प्रणम्य धारयेद्देवं सस्नेहादरसाध्वसम् ।
निक्षिपन् जीवितमिव न्यस्यन्निव महानिधिम् ॥
निधित्सन्निव चक्षुस्स्वमर्पयन्निव कल्पकम् ।
सर्वे भवन्तस्सगणास्सन्नद्धास्सर्वदिक्ष्वपि ॥
सावधानाश्च तिष्ठन्तु निक्षिपामि भवत्स्वहम् ।
मम नाथं मम गुरुं पितरं मातरं च मे ॥
हरिं श्रियं भुवं चापि तान् पालयत सर्वतः ।
यथा निक्षिप्तरूपं मे सन्दर्शयत सर्वदा ॥
भवतश्शरणं लब्ध्वा व्रजामि गतसाध्वसः ।
इति विज्ञाप्य पुरतः प्रार्थयेत हरिं गिरा ॥
ननु देव त्वमेवैकः सस्थावरचरं जगत् ।
ब्रह्मादिस्थावरान्तं च परिपासि बिभर्षि च ॥
संहरिष्यसि चाप्यन्ते रूपैस्तैस्तैर्यथेप्सितैः ।
केन त्वं पाल्यसे देव केन वा त्वं हि सेव्यसे ॥
अतस्त्वमेव त्वां देव्यौ चण्डादीन् द्वारपालानपि ।
मां च मामकमत्ये[[??]] तत्सर्वं गृहमशेषतः ॥
पालयित्वा स्वसंकल्पमात्रेण मधुसूदन ।
त्वां मया त्वयि निक्षिप्तं विश्वस्तेनार्थिकल्पकम् ॥
आगताय यथाकालं सर्वं मे दातुमर्हसि ॥

[[237]]
आह्निकार्थप्रकाशिका
वङ्गिवंशेश्वरोक्तं भगवदनुज्ञापनप्रकारमाह — अनुयागादिकमित्यायादिना । आगताय यथाकालं सर्वं मे दातुमर्हसीति विज्ञाप्येत्यन्तेन । श्रीसच्चरित्ररक्षायां भगवन्निवेदितस्यैव भोज्यत्वं तदनिवेदितस्याभोज्यत्वं सामान्येन भगवत्स्नानोदकपादोदकादिपानं मन्त्रपूर्वं निवेदितस्य स्त्रीशूद्रनिषिद्धेभ्यः प्रदाने प्रायश्चित्तादिकं च सप्रमाणोपपत्तिकमनुगृहीतम् ।
आराधकेन तीर्थं प्रथमं पातव्यमिति वैखानसे —
सालग्रामशिलातीर्थं विष्णुपादोदकैर्युतम् ।
अर्चकोऽर्चावसाने तु पीत्वान्येभ्यः प्रदापयेत् ॥
इत्यादिवचनानि सन्ति । श्रीपाञ्चरात्रे तु आचार्यादिदीक्षितेभ्यस्तीर्थं दत्वा स्वयं तीर्थं गृह्णीतेति विधिरस्ति गृहे पाञ्चरात्रिकप्रसङ्गाभावादाचाराच्चाराधकः तीर्थं प्रथमं गृहीत्वान्येभ्यो दद्यादिति युक्तम् । विष्णुरहस्ये -
प्राश्नीयाद्विष्णुपादाम्बुतुलसीदलमिश्रितम् ।
उपवासेषु सर्वेषु एकादश्यां विशेषतः ॥
वृद्धहारीतः –
उपवासदिने यस्तु तीर्थं श्रीतुलसीश्रितम् ।
न प्राश्नीयाद्विमूढात्मा रौरवं नरकं व्रजेत् ॥
यत्र कुत्रापि एकादश्यां तुलसीमिश्रिततीर्थपाननिषेधः आवृत्तिविषयः
असकृज्जलपानाच्च सकृत्ताम्बूलचर्वणात् ।
उपवासं प्रणश्येत
इति धर्मशास्त्रवचनात् ।
विश्वास-प्रस्तुतिः
स्वार्थभागेन वैश्वदेवं पञ्चमहायज्ञांश्च यथासूत्रं यथासम्प्रदायं च कुर्यात् । प्रातः कृतब्रह्मयज्ञश्चेत्तन्न कुर्यात् ।
मूलम्
स्वार्थभागेन वैश्वदेवं पञ्चमहायज्ञांश्च यथासूत्रं यथासम्प्रदायं च कुर्यात् । प्रातः कृतब्रह्मयज्ञश्चेत्तन्न कुर्यात् ।
आह्निकार्थप्रकाशिका
अथ वैश्वदेवादिकमाह - स्वार्थभागेनेति ।
वह्निसन्तर्पणं षष्ठं पितृयागन्तु सप्तममिति श्रीजयाख्यवचनादग्निमध्ये आसनकल्पनपूर्वकेज्याङ्गहोमः वासुदेवसङ्कर्षणादिपदयुक्तपितृयागश्च परमैकान्तिभिः कार्यः
इति अपराह्निकेऽन्येषु च ग्रन्थेषूक्तोऽयुक्तः । तादृशहोमपितृयागौ पञ्चरात्रविहितचक्राब्जमण्डलादिदीक्षायुक्तैरालये गृहे वा कर्तव्यं, न तद्भिन्नैः सूत्रविहितसंस्कारादिविशिष्टैः प्रपन्नैः, तदधिकारिणां वैश्वदेवयज्ञ एव वह्निसन्तर्पणं, सूत्रविहितपितृयज्ञ एव पितृयागः, तत एवेज्याषष्ठसप्तमाङ्गानुष्ठानसिद्धिरिति सत्पथरक्षायां परपक्षप्रतिक्षेपपुरस्सरं प्रमाणसम्प्रदायोपपत्तिभिरस्माभिः स्थापितं द्रष्टव्यम् ।
[[238]]
विश्वास-प्रस्तुतिः
ततश्च वैश्वदेवं लौकिकाग्नौ पाके तत्र कुर्यात्, वैदिके तत्र कृत्वा शेषं द्वावेव दम्पती भुञ्जीयाताम् ।
मूलम्
ततश्च वैश्वदेवं लौकिकाग्नौ पाके तत्र कुर्यात्, वैदिके तत्र कृत्वा शेषं द्वावेव दम्पती भुञ्जीयाताम् ।
आह्निकार्थप्रकाशिका
वैश्वदेवस्य पाकाग्निनैयत्यानुगुणमग्निविशेषनियममाह - ततश्च वैश्वदेवमिति ।
शालाग्नौ वा पचेदन्नं लौकिके वापि नित्यशः ।
यस्मिन्नग्नौ पचेदन्नं तस्मिन् होमो विधीयते ॥
इत्यादिप्रमाणपरामर्शेन वैश्वदेवप्रारम्भदिवसगृहीताग्निनियतपाकहोमादिकं कार्यम् । कस्मिंश्चिदग्नौ वैश्वदेवारम्भपाकहोमौ पश्चादग्न्यन्तरे पाकहोमौ न कार्याविति श्रीमद्गोपालार्यमहादेशिकैर्वैश्वदेवाग्निनिर्णये सम्यक् विचार्य स्थापितम् ।
अत्र केचित् – “ये भूताः प्रचरन्ति नक्तं बलिमिच्छन्त” इति मन्त्रपाठात्, ‘नक्तमेवोत्तमेन वैहायस’मिति आपस्तम्बोक्तेः, ‘ये भूताः’ इति मन्त्रकरणकबलीरात्रावेव, न दिवा । एवकारस्य भिन्नक्रमत्वमाश्रित्य नक्तमुत्तमेनैव बलिरिति व्याख्याय बल्यन्तरनिवृत्तिकथनमसङ्गतम् । रात्रौ कृत्स्नबल्यननुष्ठानेन पाकयज्ञलोपप्रायश्चित्तं प्रसज्येतेति रत्नाकरोक्तेः, दिवा न वैहायसबलिः, रात्रौ कृत्स्नबलिः — इति वदन्ति । तदयुक्तम् । रत्नाकर एव “नक्तंचारिभ्यो दिवाचारिभ्यः” इति आश्वलायने भेदेनाम्नानात् दिवापि शिष्टा आचरन्तीत्युक्तेर्दिवा वैहायसबल्यावश्यकत्वात् । एवं चाश्वलायनसूत्रानुसारेणापस्तम्बसूत्रगतैवकारस्य भिन्नक्रमत्वस्यावश्याश्रयणीयतया रात्रावुत्तमव्यतिरिक्तबल्यन्तरनिवृत्तेश्शास्त्रीयत्वात् । यथा “सावित्राणि जुहोति प्रसूत्यै चतुर्गृहीतेन जुहोती”ति तैत्तरीयके चतुर्गृहीतविधानेऽपि वाजसनेयकेऽष्टगृहीतोक्तेः मन्त्रसमसङ्ख्यौ चित्यात् जुह्वामष्टगृहीतं गृहीत्वा ‘युञ्जानः प्रथमं मनः’ इति ऋग्भिः यजुरष्टाभिः एकामाहुतिं जुहोतीति आपस्तम्बेनाष्टगृहीतहोमविधानं कृतं; तथाश्वलायनसूत्रानुसरणं न्याय्यमेव । एवं मन्त्रभाष्योज्ज्वलाह्निककाण्डेषु बलिहरणप्रकारो निर्णीतः । एवं च रात्रौ विहितोत्तमबलिमात्रस्य शास्यत्वात्पाकयज्ञलोपाभावेन न प्रायश्चित्तप्रसक्तिरिति बोध्यम् ।
विश्वास-प्रस्तुतिः
कदाचिदिज्यायाः क्षीणवृत्तितया कलहादिवशेन वा तृतीयकाले करणाशक्तौ यत्र क्वचिदवसरे भोजनात्पूर्वं कुर्यात् ।
मूलम्
कदाचिदिज्यायाः क्षीणवृत्तितया कलहादिवशेन वा तृतीयकाले करणाशक्तौ यत्र क्वचिदवसरे भोजनात्पूर्वं कुर्यात् ।
आह्निकार्थप्रकाशिका
अथेज्यायाः स्वकालानुष्ठानोपरोधे तत्कर्तव्यकालमाह - कदाचिदिति ।
[[239]]
विश्वास-प्रस्तुतिः
एकस्मिन्नेव दिने श्रवणजन्मर्क्षसङ्क्रान्त्युपरागद्वादशीपर्वद्वयगुरुजन्मर्क्ष्यादिनिमित्तवशेनानेकभगवदाराधने प्राप्तेऽभिगमनोपादानादिसङ्कोचेननिमित्तक्रमेण कुर्यात् ।
मूलम्
एकस्मिन्नेव दिने श्रवणजन्मर्क्षसङ्क्रान्त्युपरागद्वादशीपर्वद्वयगुरुजन्मर्क्ष्यादिनिमित्तवशेनानेकभगवदाराधने प्राप्तेऽभिगमनोपादानादिसङ्कोचेननिमित्तक्रमेण कुर्यात् ।
आह्निकार्थप्रकाशिका
एकदिवसेऽनेकनिमित्ताधीनानेकाराधनप्राप्तौ कर्तव्यमाह - एकस्मिन्नेवेति । उक्तार्थद्वयमपि श्रीपाञ्चरात्ररक्षाश्रीसूक्तिसिद्धम् ।
भिक्षां च भिक्षवे दद्यात् विधिवत् ब्रह्मचारिणे ।
यतिश्च ब्रह्मचारी च पक्वान्नस्वामिनावुभौ ।
तयोरन्नमदत्वा तु भुत्वा [[भुक्त्वा??]] चान्द्रायणं चरेत् ॥
इति मनुविहितभिक्षादानं गृहिभिः कार्यम् ।
विश्वास-प्रस्तुतिः
ततो गोदोहनमात्रमतिथिं दिदृक्षुस्स्थित्वा अतिथिकुमारादीन् प्रथमं भोजयित्वा,
मूलम्
ततो गोदोहनमात्रमतिथिं दिदृक्षुस्स्थित्वा अतिथिकुमारादीन् प्रथमं भोजयित्वा,
आह्निकार्थप्रकाशिका
अथातिथिप्रतीक्षादिकमाह — ततो गोदाहनमात्रमिति । शङ्खः “गोदोहमात्रमंकणेऽतिथिं प्रतीक्षमाण आसीत, पुराणे “नाडिकायाश्चतुर्भागं गोदोहं ब्रुवते बुधाः” स्मृत्यन्तरे –
सुवासिनीं कुमारांश्च रोगिणो गर्भिणीं तथा ।
अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ॥
एकरात्रन्तु निवसन्नतिथिर्ब्राह्मणः स्मृतः ।
अनित्याहि तिथिर्यस्मात्तस्मादतिथिरुच्यते ॥
अभ्यागतो ज्ञातपूर्वस्त्वज्ञातोऽतिथिरुच्यते ।
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥
यतिहस्ते जलं दद्यात् भैक्षं दद्यात् पुर्नजलम् ।
तद्भैक्षं मेरुणा तुल्यं तज्जलं सागरोपम् ॥
यतिर्यस्य गृहे भुङ्क्ते तस्य भुङ्क्ते हरिस्स्वयम् ।
हरिर्यस्य गृहे भुङ्क्ते तस्य भुङ्क्ते जगत्त्रयम् ॥
वैश्वदेवकृतं पापं भिक्षुरेको व्यपोहति ।
न भिक्षुणा कृतं पापं वैश्वदेवो व्यपोहति ॥
ततश्च वैश्वदेवात् प्रागेव भिक्षौ समागते भिक्षैव देया । वैश्वदेवाकरणे न दोष इति भावः । एतदेकभाण्डपक्वविषयम् । पृथक्पाके वैश्वदेवः कार्यः । मनुः –
प्रोषितस्य दरिद्रस्य कुटुम्बात् प्रच्युतस्य च ।
अध्वानं वा प्रपन्नस्य भिक्षाचर्या विधीयते ॥
तदेवं
यतये काञ्चनं दद्यात् तण्डुलं ब्रह्मचारिणे ।
पक्कान्नं तु गृहस्थाय दाता दुर्गाणि गच्छति ॥
इत्युक्तदोषो नास्तीति भावः । चन्द्रिकायां
माधूकरं य आदाय ब्राह्मणेभ्यः प्रयच्छति ।
दाता तु नरकं याति भोक्ता भुञ्जीत किल्बिषम् ॥
अतो नान्यार्थं भिक्षेत । ब्रह्मचारी यतिर्वा नाधिकमाहरेदिति प्राह यमः –
आहारमात्रादधिकं न किश्चित् भैक्षमाचरेत् ।
युज्यते स्तेयदोषेण कामतोधिकमाचरन् ।
तस्मान्नोपहरेद्भैक्षमतिरिक्तं यतिर्व्रती ॥
व्रती = वर्णी, “कामत इत्युक्तेः अकामतो न दोषः” इत्यादीनि रत्नाकरोदाहृतवचनान्यत्र भाव्यानि — वैष्णवेभ्यः मन्त्रपूर्वं भगवन्निवेदितं देयम्, अन्येभ्योऽतिथ्यादिभ्योऽनवेदितमेव देयमिति निष्कर्षः । मन्त्रपूर्वं निवेदितस्यावैष्णस्त्रीशूद्रादिभ्यो दाने प्रायश्चित्तविशेषस्य श्रीसच्चरित्ररक्षा श्रीसूक्तिसिद्धत्वात् ।
[[240]]
विश्वास-प्रस्तुतिः
सुप्रक्षालितपाणिपादो द्विराचम्य
मूलम्
सुप्रक्षालितपाणिपादो द्विराचम्य
आह्निकार्थप्रकाशिका
अथ “प्राणाग्निहवनन्नामत्वनुयागं तदष्टम"मित्युक्तानुयागं वक्तुमुपक्रमते – सुप्रक्षालितेति ।
ततः प्रक्षाल्य पादौ च पाण्यास्यानि द्विजोत्तमः ।
प्राङ्मुखोदङ्मुखो वापि भुञ्जीत नियमैस्सह ॥
इति वासिष्ठसंहितावचनं, आपस्तम्बः - ‘भोक्ष्यमाणस्तु प्रयतोपि द्विराचामेत्’ स्मृत्यन्तरे -
यस्तु भोजनशालायां भोक्तुकाम उपस्पृशेत् ।
आसनस्थो न चान्यत्र स विप्रः पङ्क्तिदूषकः ॥
भोक्तुकामो यदा विप्रः अचान्तोऽप्यासने स्थितः ।
अभिवादं करोत्यस्य पुनराचमनं चरेत् ॥
इत्यादिरत्नाकरस्थवचनजातं द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
प्रणवेन गोमयजलेन च चतुरश्रं मण्डलं कृत्वा,
मूलम्
प्रणवेन गोमयजलेन च चतुरश्रं मण्डलं कृत्वा,
आह्निकार्थप्रकाशिका
प्रणवेन गोमयजलेन चतुरश्रं मण्डलं कृत्वेति । बोधायनः -
मन्त्रेणैव द्विराचम्य गोमयेनोपलेपिते ।
भस्मना वारिणा वापि मण्डलं कारयेत्ततः ॥
इति । मन्त्रः प्रणव इति स्मृतिरत्ने” इत्याह्निककाण्डस्थवाक्यमिहानुसन्धेयम् । वृद्धात्रेयः –
चतुरश्रं ब्राह्मणस्य त्रिकोणं क्षत्रियस्य च ।
वर्तुलं चैव वैश्यस्य शूद्रस्याभ्युक्षणं स्मृतम् ॥
यातुधानाः पिशाचाश्च असुरा राक्षसा अपि ।
घ्नन्ति वै बलमन्नस्य मण्डलेन विवर्जितम्[[??]] ॥
पिशाचा यातुधानाद्या अन्नादास्स्युरमण्डले ।
पात्रावस्थानतो न्यूनमधिकं वा न कारयेत् ॥
इत्यादिरत्नाकरवचनान्यनुसन्धेयानि ।
विश्वास-प्रस्तुतिः
शास्त्रोक्तपात्रं निधाय,
मूलम्
शास्त्रोक्तपात्रं निधाय,
आह्निकार्थप्रकाशिका
शास्त्रोक्तप[[पा??]]त्रं निधायेति । स्मृतिमाधवीये —
प्रशस्तशुद्धपात्रेषु भुञ्जीताकुपितो द्विजः ।
सौवर्णे राजते कांस्ये पद्मपत्रपलाशयोः ।
भोजने भोजने चैव त्रिरात्रफलमश्नुते ॥
ब्रह्मपत्रे तु यो भुङ्क्ते मासमेकं निरन्तरम् ।
त्रिभिश्चान्द्रायणैस्तुल्यं महापातकनाशनम् ॥
ब्रह्मपत्रं पिशाचोदुम्बरम् । (பேத்தி) । स्मृत्यन्तरे –
पनसाम्रनालिकेरकदलीबिल्पपत्रके ।
उहीनाकुञ्चिपत्रे च चान्द्रायणफलं लभेत् ॥
[[241]]
मनुः —
वटाश्वत्थार्कपत्रेषु कुम्भीतिन्दुकपत्रयोः ।
कोविदारकरञ्जेषु भुक्त्वा चान्द्रायणं चरेत् ॥
व्यासः –
पलाशपद्मपत्रेषु गृही भुक्त्वैन्दवं चरेत् ।
यतिश्च ब्रह्मचारी च लभते चैन्दवं फलम् ॥
अत्र माधवीये पलाशपद्मपत्रयोः व्यवस्था दर्शिता ।
वल्लीपलाशपत्रे च स्थलजे पौष्करे तथा ।
गृहस्थश्चेत्समश्नीयाच्छुध्यै चान्द्रायणं चरेत् ॥
स्मृतिरत्ने -
कदलीगर्भपत्रे च पद्मपत्रे जलास्पृशि ।
वल्लीपलाशपत्रे च भुक्त्वा चान्द्रायणं चरेत् ॥
ततश्च तद्व्यतिरक्ति[[रिक्त??]]पलाशपत्रविषयो विधिः द्रष्टव्यः । सर्वत्रापवादपरिहारेण उत्सर्गप्रवृत्तेरिति रत्नाकरवचनान्यत्र भाव्यानि ।
विश्वास-प्रस्तुतिः
प्राङ्मुखादिनियमयुक्तः
मूलम्
प्राङ्मुखादिनियमयुक्तः
आह्निकार्थप्रकाशिका
प्राङ्मुखादिनियमयुक्त इति । अत्रिः - “प्राङ्मुखोऽन्नानि भुञ्जीते"ति । नियमविधिरयं, अन्यस्तु काम्य इत्यादिकं रत्नकरोक्तमिहानुसन्धेयम् ।
विश्वास-प्रस्तुतिः
वर्तुलपवित्रधारी
मूलम्
वर्तुलपवित्रधारी
आह्निकार्थप्रकाशिका
वर्तुलपवित्रधारीति । ‘भोजने वर्तुलं प्रोक्त’मिति पवित्रप्रकरणोदाहृताह्निककाण्डस्थवचनमनुसन्धेयम् ।
विश्वास-प्रस्तुतिः
पत्न्यादिभिर्दर्व्यादिना परिविष्टम् अन्नं दृष्ट्वा प्राञ्जलिः “अस्माकं नित्यमस्त्वेतत्” इत्युक्त्वा,
मूलम्
पत्न्यादिभिर्दर्व्यादिना परिविष्टम् अन्नं दृष्ट्वा प्राञ्जलिः “अस्माकं नित्यमस्त्वेतत्” इत्युक्त्वा,
आह्निकार्थप्रकाशिका
पत्न्यादिभिः दर्व्यादिना परिविष्टमनं दृष्ट्वेति । सुमन्तुः –
अन्नं निधाप्य दर्व्या तु न हस्तेन कदाचन ।
पूजयित्वा तदन्नं चापोशनं तु समन्त्रकम् ॥
इति रत्नाकरस्थवचनम्, ‘अन्नमादौ नमस्कृत्य प्रहृष्टेनान्तरात्मना’ इति हारीतस्मृतिचतुर्थाध्यायवचनं, ‘पत्न्यादिभिर्दत्तमन्नं वासुदेवार्पितं शुभम्’ इति वैकुण्ठदीक्षितीयस्थवचनं चात्र भाव्यम् ।
विश्वास-प्रस्तुतिः
अन्तर्यामिणे निवेद्य, परगृह
मूलम्
अन्तर्यामिणे निवेद्य, परगृह
[[242]]
आह्निकार्थप्रकाशिका
पाद्येन शुद्धजलेन वा व्याहृतिभिः प्रोक्ष्येति । शाण्डिल्यः -
नावश्यं भोजने मौनं कुटम्बाश्रमवासिनाम् ।
वाचोपचारः कर्तव्यो भुञ्जतां सह भोजने ॥
भगवत्पादतोयेन प्रोक्षयित्वामृतौदनम् ।
ध्यायन्नन्नगतं देवं जपेन्मन्त्रं चतुर्गुणम् ॥
अर्घ्येण परिषिच्यान्नं कर्मारम्भेण मन्त्रवित् ।
इदमन्नं जपेन्मन्त्रं स्पृष्ट्वा भोज्यमनाकुलम् ॥
धातारं हृदयान्तःस्थं ध्यात्वा पादाम्बुपूर्वकम् ।
तदास्ये जुहुयादन्नं तत्तन्मन्त्रैस्समाहितः ॥
ध्यायन्नेव परं ब्रह्म भोक्तारं हृदये स्थितम् ।
अश्नीयादत्वरो मन्त्री भोज्यं सर्वमकुत्सयन् ॥
विशिष्टभोज्यमायातमनिवेदितमन्तरा ।
अर्चापयेदनेनान्तस्सुतशिष्यादिभिः परम् ॥
क्षुद्रं वस्तु समायातं मनसा तन्निवेद्य च ।
अश्नीयान्मिश्रितं कृत्वा साक्षात्पूर्वन्निवेदितैः ॥
निष्कल्मषो भवेत् भक्तः एवं शुद्धान्नभोजनात् ।
प्रसीदन्तीन्द्रियाण्याशु सत्त्वं च परिवर्द्धते ॥
अन्नशुध्यैव वत्स्वस्य विवृद्धिस्सर्वदेहिनाम् ।
सत्त्ववृद्ध्यैव सत्कर्मनिरतो वर्जयत्यसत् ॥
आरोग्यं रूपवत्ता च कीर्तिः श्रीर्ज्ञानमेव च ।
शान्तिस्सत्कर्मणि श्रद्धा शुद्धान्नेन भवन्ति हि ॥
कामः क्रोधस्तथा लोभः परहिंसारुचिस्तथा ।
निद्रालस्यादयो दोषा अमेध्यान्ननिषेवणात् ॥
अशुद्धान्नाशनात्पुंसां रोगा बाह्यास्तथान्तराः ।
शत्रुपीडागृहद्रोहतामसी गतिरेव च ॥
परदारपरद्रव्यसंसक्तिर्दुष्टभोजनात् ।
कार्यबुद्ध्यैव कालेन क्रियन्ते तैः कुनीतिभिः ॥
शनैश्शनैः क्रियासाध्वी विगलत्यवशादिह ।
अत्यन्तामेध्यभोज्यानि भोक्तुं मृगयते नरः ॥
पथ्यं मितं च शुद्धं च रस्यं हृदयनन्दनम् ।
स्निग्धं दृष्टिप्रियं कोष्णमन्नं भोज्यं मनीषिभिः ॥
भगवद्यागयोग्यं यत्तदेवाशनकर्मणि ।
भोजनार्हमिदं देव यागाङ्गमिति नेष्यते ॥
न भर्त्स्ययन्[[??]] बालवृद्धान् विवदन्न च भार्यया ।
अन्येभ्यो दापयेत् द्रव्याण्यश्नीयात् बान्धवैस्सह ॥
अद्यादाद्यन्तयोरार्द्रं मध्ये स्विन्नमिवौदनम् ।
अन्नोपदंशपानीयैस्त्रिभागमुदरं भवेत् ॥
भोजनं भगवत्कर्म यद्यपि स्यान्मनीषिभिः ।
न कार्यं भगवद्देहे विशेषाद्देवसन्निधौ ॥
इति ।
विश्वास-प्रस्तुतिः
अन्तर्यामिणे निवेद्य, परगृहे चेत् स्वार्चायै निवेद्य, पुनश्च स्वान्तर्यामिणे निवेद्य, व्याहृतिभिः परिषिच्य, सम्प्रदायोऽस्ति चेत् सर्षिच्छन्दो देवतादिप्राणाग्निहोत्रमन्त्रक्रियाप्रकार
मूलम्
अन्तर्यामिणे निवेद्य, परगृहे चेत् स्वार्चायै निवेद्य, पुनश्च स्वान्तर्यामिणे निवेद्य, व्याहृतिभिः परिषिच्य, सम्प्रदायोऽस्ति चेत् सर्षिच्छन्दो देवतादिप्राणाग्निहोत्रमन्त्रक्रियाप्रकार
[[243]]
आह्निकार्थप्रकाशिका
अन्तर्यामिणे निवेद्येति । श्रीसच्चरित्ररक्षातृतीयाधिकारे
नन्वन्तरात्मनिवेदनमन्तरेण न भोक्तव्यं, तत्र बहिर्वृत्त्यादिवृत्तिस्थानावस्थितस्य भगवतो निवेदितमन्तरात्मतया हृदयावस्थितस्य तस्यैव निवेदनीयं चेत् निवेदितनिवेदनाख्यो दोषस्स्यात् । एकस्मिन् समाराधने निवेदितानां सर्वेषामपि भोगानामपि शेषेण समाराधनान्तरेऽपि निवेदनप्रसङ्गः
इत्यादिना
श्रीपौष्करे च स्थिराणामेव समाराधनान्तरेऽनुवृत्तिः ।
अस्थिराणां तु परित्याग एव
इति स्फुटमुक्तं, तथा हि श्राद्धाध्याये
दर्भतिलोदकादीनां द्रव्याणां प्रतिकर्मणि ।
जायते च प्रविष्टानामुपशान्तिश्च तैजसी ॥ अत एवोपयुक्तानां भोगानां कमलोद्भव ।
विरुद्धस्सङ्ग्रहो भूयस्त्वन्यस्मिन् हि क्रियान्तरे ॥
इत्यादिना च भगवन्निवेदितस्यान्तर्यामिनिवेदनमाक्षिप्य
यदि पुनरस्थिरस्यापि विधिबलात् क्वचिदभ्युपगमः तदन्यत्रापि तुल्यम् । अस्ति च विधिः यथा रहस्याम्नाये - कर्मावर्तप्रकरणे
इत्यादिना महता ग्रन्थेन बहिर्यागनिवेदितस्यान्तर्यामिनिवेदनं व्यवस्थापितम् । तत्रैव “हृदि ध्यायन् हरिं तस्मै निवेद्यान्नं समाहितः” इत्यादीनि भगवद्यामुनेयोपात्तानि कर्मकाण्डस्थव्यासवचनान्युदाहृतानि । भोजनमध्ये समागतानां दधिक्षीरादीनां पूर्वमनिवेदितानां मनसा निवेद्यैव भोजनं रहस्याम्नायभगवच्छास्त्रसिद्धमित्यनुगृहीतम्, अतो भगवन्निवेदितस्यान्तर्यामिनिवेदनं शास्त्रसिद्धम् । एतद्व्यतिरिक्तविषयं
निवेदितस्य हविषो भूयश्चापि निवेदनम् ।
स्नानपूर्वार्चनं मूलमन्त्रस्यापि जपस्तथा ॥
इति वचनमिति हृदयम् ।
विश्वास-प्रस्तुतिः
परगृहे चेत् स्वार्चायै निवेद्य, पुनश्च स्वान्तर्यामिणे निवेद्य,
मूलम्
परगृहे चेत् स्वार्चायै निवेद्य, पुनश्च स्वान्तर्यामिणे निवेद्य,
आह्निकार्थप्रकाशिका
परगृहे चेत् स्वार्चायै निवेद्येति । शाण्डिल्यः –
प्रापणं भगवद्भुक्तं लब्धं भागवतेन तु ।
पुनरिष्ट्वैव भोक्तव्यं दानं तस्य न चेष्यते ॥
इदं मानसिकाभिप्रायम् । तथा तेनैवोक्तं
मूर्त्यैन्तरेण [[मूर्त्यन्तरेण??]] सम्भुक्तमयत्नेन समागतम् ।
स्वमन्त्रमूर्त्यै सञ्चिन्त्य मनसा तत्समर्पयेत् ॥
अनर्चितं भगवते स्वाराध्याय स्वमन्त्रतः ।
यद्भुक्त्वा कुरुते कर्म तत् द्रव्यं यस्य तस्य तत् ॥
कर्मणा मनसा वाचा यथाकालं यथाबलम् ।
स्वाराध्याय निवेद्यैव सर्वं भुञ्जीत बुद्धिमान् ॥
इति वैकुण्ठदीक्षितीयोक्तमिह ग्राह्यम् ।
[[244]]
विश्वास-प्रस्तुतिः
व्याहृतिभिः परिषिच्य,
मूलम्
व्याहृतिभिः परिषिच्य,
आह्निकार्थप्रकाशिका
व्याहृतिभिः परिषिच्येति । बोधायनः –
महाव्याहृदिभिः प्रदक्षिणमन्नमुदकं परिषिच्य सव्येनामुञ्चन्निति सव्येन हस्तेन अमुञ्चन् पात्रं स्पृशन्नित्यर्थ इति रत्नाकरस्थवाक्यमनुसन्धेयम् ।
विश्वास-प्रस्तुतिः
सम्प्रदायोऽस्ति चेत् सर्षिच्छन्दो देवतादिप्राणाग्निहोत्रमन्त्रक्रियाप्रकारमप्यनुष्ठाय
मूलम्
सम्प्रदायोऽस्ति चेत् सर्षिच्छन्दो देवतादिप्राणाग्निहोत्रमन्त्रक्रियाप्रकारमप्यनुष्ठाय
आह्निकार्थप्रकाशिका
सम्प्रदायोऽस्ति चेत् सर्षिच्छन्दो देवतादिप्राणाग्निहोत्रप्रक्रियामप्यनुष्ठायेति । “अत्र प्राणाग्निहोत्रमन्त्रा ऋषिश्छन्दो देवताश्च सदुपदेशतो लभ्या इति नात्र विलिख्यन्ते” इति रत्नाकरोक्तम् । अतो यथोपदेशमनुष्ठानमिति भावः ।
विश्वास-प्रस्तुतिः
भार्यादिदत्तेनार्घ्यजलेन सत्यं त्वर्तेन [[??]] परिषिञ्चामीति पुनः परिषिच्य,
मूलम्
भार्यादिदत्तेनार्घ्यजलेन सत्यं त्वर्तेन [[??]] परिषिञ्चामीति पुनः परिषिच्य,
आह्निकार्थप्रकाशिका
भार्यादिदत्तेनार्घ्यजलेनेति । ‘अर्घ्येन परिषिच्यान्न’मिति शाण्डिल्यवचनं पूर्वमुदाहृतम् । पराशरश्च
ततो महाव्याहृतिभिः पात्रं तत्परिषिच्य च ।
सत्यं त्वर्तेन चाद्भिश्च हस्तं प्रक्षालयेत्ततः ॥
इति रत्नाकरस्थवचनं,
विष्णुपादोदकेनैव कुर्यादापोशनं ततः ।
आपोशनं न कुर्वीत विष्णुपादोदकं विना ॥
अन्योदकेन यः कुर्यात् विष्णुपादोदकं विना ।
त्यक्त्वा स तु महापापी पतत्येव न संशयः ॥
विष्णुपादोदकेनैव कुर्यादापोशनद्वयम् ।
इति वासिष्ठसंहितावचनं चात्र भाव्यम् ।
विश्वास-प्रस्तुतिः
पादाभ्यां पादेन वा भूमिं स्पृष्ट्वा वामहस्ताङ्गुष्ठतर्जनीमध्यमाभिर्वामभागे पात्रं स्पृष्ट्वा, परदत्तेन पाद्येन अमृतोपस्तरणमसीत्यापोशनं कृत्वा, साङ्गुष्ठमध्यमानामिकाभ्यां ओं प्राणाय स्वाहेत्यादिभिः सप्रणवैः पञ्च प्राणाहुतीर्हुत्वा,

पादाभ्यां पादेन वा भूमिं स्पृष्ट्वेति ।
पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः ।
अन्नं पूर्वं नमस्कुर्यात् प्रहृष्टेनान्तरात्मना ॥
इति श्रीवैष्णवधर्मशास्त्रवचनं, उशना अपि - “सत्यंत्वर्तेनेत्यनेन उदकं परिषिच्यामृतोपस्तरणमसीति प्राशयेदि"ति, स्मृत्यर्थसारे –
आपोशनं वामभागे सुरापानसमं भवेत् ।
तदेव दक्षिणे भागे सोमपानसमं भवेत् ॥
मार्कण्डेयः -
आपोशनं सोमपानं यावदन्नं न लङ्घितम् ।
हस्तेन लङ्घितं चान्नमभोज्यं मनुरब्रवीत् ॥
चिन्तामणौ –
अङ्गुष्ठस्तर्जनी चैव मध्यमा च तृतीयका ।
तिस्रो नामाङ्गुली चैव प्रशस्ताः पात्रधारणे ॥
[[245]]
शाण्डिल्यः -
भोजनाद्यन्तयोर्दिव्यपादाब्वेकं[[??]] समन्त्रकम् ।
पिबेदवश्यं सद्भक्तो मिश्रितं वार्हणादिभिः ॥
आपस्तम्बः – “नापजिहीतापजिहीतवा” इति ।
आभोजनान्तं वामेन पात्रं स्पृशन् भुञ्जीत । न पात्रं मुञ्चेत् । प्राणाहुत्यूर्ध्वं त्यजेद्वा,
स्मृत्यर्थसारे –
प्राणाहुतिषु सर्वासु हुतास्वेवं त्यजेद्गृही ।
पात्रस्य धारणं मौनं यावत्सिद्धिर्भवेद्भुजैः ॥
आस्येवान्नस्य निक्षेपो मन्त्रैः प्राणादिसंज्ञकैः ।
तदेव भोजनं ज्ञेयं तत्रैव नियमाः स्मृताः ॥
अतोऽवश्यं पात्रस्पर्शः कर्तव्यः ।
समुत्थितस्तु यो भुङ्क्ते यो भुङ्क्ते मुक्तभाजने ।
एवं वैवस्वतः प्राह भुक्त्वा सान्तपनं चरेत् ॥
इति प्रायश्चित्तस्मृतेः । मुक्तभाजने वामहस्तेनेति शेषः । समुत्थितः उत्तरापोशनमकृत्वा मध्ये चोत्थाय पुनरुपविश्य यो भुङ्क्त इत्यर्थः । स्मृत्यन्तरे —
कार्ये हस्तमपोशाने प्रक्षाल्यैव समन्त्रकम् ।
जलं पीत्वा ततः पञ्च हुत्वा भुञ्जीत चाहुतिः ॥
आश्वमेधिके – “कुर्यात् प्राणाहुतीः पञ्च समादाय समन्तत” इति । आगमप्रामाण्ये —
हृदि ध्यायन् हरिं तस्मै निवेद्यान्नं समाहितः ।
मध्यमानामिकाङ्गुष्ठैः जुहुयादाहुतीः क्रमात् ॥
इदं सर्वाश्रमसाधारणम्,
आपोशनेनोपरिष्टादधस्ताच्चैव भुञ्जता ।
अनग्नममृतं चैव कार्यमन्नं द्विजन्मना ॥
इति भुञ्जता कर्तव्यत्वविधानात् द्विजन्मत्वानपायादेषु वचनेषु अधिकारिविशेषानुक्तेश्च । सुमन्तुः -
पञ्च प्राणाहुतीः कुर्यात् शुद्धान्नैरभिघा[[??]]रितैः ।
उच्छिष्टे न घृतं दद्यात् प्राग्घुतेर्लवणान्वितम् ॥
प्राणाहुतेः पश्चादेव लवणान्वितं व्यञ्जनादिकं दद्यादित्यर्थः । प्राणाहुतिस्तु शुद्धान्नेनैव कार्येत्यादिरत्नाकरवाक्यान्यत्रानुसन्धेयानि । आह्निककाण्डे -
क्षीरं लवणसंमिश्रमुच्छिष्टेपि च यद्धृतम् ।
रजस्वलामुखास्वादः सुरापानसमं त्रयम् ॥
इदं प्राग्घृताभावविषयम् । यतस्स एव
प्राणाहुतौ घृताभावे पश्चाद्भुञ्जीत नो घृतम् ।
प्राग्घुतेर्घृतसद्भावे भुक्तिमध्ये न दुष्यति ॥
इति उच्छिष्टघृतव्यवस्था प्रदर्शिता ज्ञेया । भोज्याभोज्यवस्तुव्यवस्था भोजननियमादिकं रत्नाकरादौ विस्तरेणाभिहितं द्रष्टव्यम् ।
श्रीभाष्यकारशिष्यपरम्पराप्रविष्टपरमैकान्तिनां प्राणापानादिमन्त्रैरेवाहुतिकर्तव्यत्वं व्यापकमन्त्रादिकरणकान्नाहुत्यादेः पञ्चरात्रविहितचक्राब्जमण्डलादिदीक्षितविषयत्वं च प्रमाणाचार्यश्रीसूक्तिसम्प्रदायैः सत्पथरक्षायामस्माभिः परपक्षप्रतिक्षेपपुरस्सरं स्थापितं द्रष्टव्यम् ।
[[246]]
विश्वास-प्रस्तुतिः
मनसा प्राणायेदं नममेत्युद्देश्यत्यागमपि तदा तदा कृत्वा, वामहस्तं प्रक्षाल्य प्रतिकबलं गोविन्दं स्मरन् शास्त्रानुमतव्यञ्जनोपदंशसहितं शास्त्रोक्तनियमयुक्तस्सन् भुक्त्वामृतापिधानमसीति मन्त्रेण परदत्तभगवत्पादोदकं सशेषं पीत्वा शेषं
रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् ।
अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु ॥
इति मन्त्रेण भोजनपात्रस्य वामतः देव तीर्थेन भुवि निःस्राव्य, पवित्रं विसृज्य, भूमौ निरस्य उत्थाय, त्रीन् गण्डूपान् कृत्वा, माषादिचूर्णैः मृद्भिर्वा हस्तं संशोध्य, पुनश्च त्रयोदशगण्डूषान् दन्तशोधनञ्च कुर्यात् । अथवा पूर्वमेव षोडश गण्डूषान् कृत्वा मृद्घर्षणादिभिर्हस्तप्रक्षालनं कृत्वा, ततो मुखप्रक्षालनं कुर्यात् ॥
ततः पादौ प्रक्षाल्य द्विराचम्य,
प्राणानां ग्रन्धि[[न्थि??]]रसि रुद्रो माविशान्तकस्तेनान्नेनाप्यायस्व
इति हृदयमालभ्य,
अङ्गुष्ठमात्रः पुरुषोऽङ्गुष्ठञ्च समाश्रितः ।
ईशस्सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् ॥
इति दक्षिणपादाङ्गुष्ठे ऊर्ध्वदक्षिणहस्तेन जलं निस्राव्य,
श्रद्धायां प्राणे निविश्यांमृतँहुतं प्राणमन्नेनाप्यायस्व ।
अपाने निविश्यामृतँहुतमपानमन्नेनाप्यायस्व ।
व्याने निविश्यामृतँहुतं व्यानमन्नेनाप्यायस्व ।
उदाने निविश्यामृतँहुतमुदानमन्नेनाप्यायस्व ।
समाने निविश्यामृतँहुतँसमानमन्नेनाप्यायस्व ।
ब्रह्मणिम[[??]] आत्मामृतत्वाय
इति हुतमभिमन्त्र्य, सूर्यमभिवीक्षेत रात्रौ दीपमवलोकयेत् । “उदुत्यं + सूर्य"मित्यादित्यमुपतिष्ठेत । ततः
विष्णुरता तथैवान्नं परिणामश्च वै सदा ।
सत्येन तेन मे भुक्तं जीर्यत्वन्नमिदं ततः ॥
इत्युच्चार्य, उदरं परिमृज्य, ओं इति ब्रह्मणि स्वात्मानं योजयेत् । अथ ताम्बूलशोधितास्यः

मनसा प्राणायेदन्न ममेति उद्देश्यत्यागमपि तदा तदा कृत्वेति । पूर्वोदाहृतैः पञ्चप्राणाहुतिमन्त्रव्यतिरिक्तविषये मौनविधानात् मनसा उद्देश्यत्यागोक्तिः । श्रीपाञ्चरात्ररक्षायां – ‘भुञ्जंश्चिन्तय गोविन्द’मित्यनुगृहीतमिह भाव्यम् ।
श्रीगीतायाम् —
आयुस्सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहारास्सात्त्विकप्रियाः ॥
तत्र भाष्यं -
“सत्त्वगुणोपेतस्य सत्त्वमया आहाराः प्रिया भवन्ति” इत्यादि ““रस्याः मधुररसोपेताः” स्निग्धा स्नेहयुक्ताः” । श्रीतात्पर्यचन्द्रिकायां —
रस्यन्त इति वा रस्याः तत्र मधुररसोपेता इति कारणोक्तिः । माधुर्यं हि रसान्तरेभ्यः शरीरस्थितौ विशेषेण हेतुर्भवति । यथोक्तं बाहटेन -
रसाः स्वाद्वम्ललवणतिक्ततीक्ष्णकषायकाः ।
षट् द्रव्यमाश्रितास्ते च यथापूर्वं बलावहाः ॥इति, भोजनं च स्वस्थस्य मधुररसप्रायतया नियम्यते । षड्रसान्मधुरप्रायान्नातिद्रुतविलम्बितमिति + एवं स्नेहयुक्ताहारोऽपि रौक्ष्यविरोधीरूक्षेण वायुना शरीरस्यापि विशरारुतां वारयतीत्यप्यायुर्वेदावसितम्
कट्वम्लवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥
[[247]]
तत्र भाष्यं — कटुरसाः, अ[[आ??]]म्लरसाः, लवणोत्कटाः, अत्युष्णाः अतितीक्ष्णाः रूक्षाः विदाहिनश्चेति ।
कट्वम्लवणात्युष्णतीक्ष्णरूपविदाहिनः ।
अतिशैत्यातितैक्ष्ण्यादिना दुरुपयोगाः तीक्ष्णाः, शोषकराः रूक्षाः, तापकराः विदाहिनः, एवंविधा आहाराः रासजस्येष्टाः
इत्यादि
यातयामं गतरसं पूतिपर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥
इत्यादि । “अतो हितैषिभिस्सत्त्वविवृद्धये सात्त्विकाहारस्सेव्यः” इति ‘युक्ताहारविहारस्ये’त्यत्र तात्पर्यचन्द्रिका । ‘यद्ध्यात्मसम्मितमन्नं तदवति तन्न हिनस्ति तद्यत्कनीयो न तदवती’ति । स्मरन्ति च –
उरस्या[[स्य??]]र्धमन्नस्य तृतीयमुदकस्य तु ।
वायोस्सञ्चरणार्धन्तु चतुर्थमवशेषयेत् ॥
इति । व्यासः —
पात्रशिष्टन्तु यत्तोयं पाने पादावनेजने ।
भूमौ तदम्बु निस्राव्य शेषं तत्पातुमर्हति ॥
अत्रिः —
आस्येन न पिबेत्तोयं तिष्ठन्नाञ्जलिना पिबेत् ।
वामहस्तेन शय्यायां तथैवान्यकरेण वा ॥
तोयं पाणिनखस्पृष्टं ब्राह्मणो न पिबेत् क्वचित् ।
वामहस्तेन यो भुङ्क्ते योपः पिबति वा द्विजः ॥
सुरापानेन तुल्यं स्यादित्येवं मनुरब्रवीत् ।
अत्र वामहस्तभोजननिषेधः दक्षिणहस्तशक्यत्वे ।
नालिकेरोदकं कांस्ये ताम्रपात्रे स्थितं मधु ।
गव्यं च ताम्रपात्रस्थं मद्यतुल्यं घृतं विना ॥
हस्तेन न पिबेत्तोयं भुक्तौ तु द्विजसत्तमः ।
अन्येन कांस्यपात्रेण पिबेदन्यैश्च साधनैः ॥
भुक्तिग्रहणादन्यत्र पाणिना पाने न दोषः । अखण्डादर्शे —
अन्नस्य वा निषेधार्थमुपदंशस्य वा पुनः ।
धर्मार्थां विसृजेद्वाचं नासद्वाचं कदाचन ॥
अत्रिः –
शब्देनापोशनं कृत्वा शब्देन घृतपायसम् ।
शब्देनाचमनं कृत्वा सुरापानसमं भवेत् ॥
और्वः –
अश्नीयात्तन्मयो भूत्वा पूर्वं च मधुरं रसम् ।
लवणाम्लौ तथा मध्ये कटुतिक्तादि चान्ततः ॥
प्राक् द्रवं पुरुषोऽश्नन्वै मध्ये तु कठिनाशनः ।
अन्ते पुनर्द्रवाशी तु बलारोग्येन मुञ्चति ॥
ग्रहणन्तु भवेदिन्दोः प्रथमादधियामतः ।
भुञ्जीतावर्तनात्पूर्वं प्रथमे प्रथमादधः ॥
प्रथमे यामे ग्रहणे दिवा प्रथमयामादधो भुञ्जीत ।
[[248]]
अन्यत्रावर्तनादधः व्यासः -
नाद्यात्सूर्यग्रहात्पूर्वं सायाह्नेन शशिग्रहात् ।
ग्रहकाले तु नाश्नीयात् स्नात्वाश्नीयात्तु भोजने ॥
मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा ।
अमुक्तयोरस्तगयोरद्याद्दृष्ट्वापरेऽहनि ॥
तथा वृद्धगौतमः -
चन्द्रसूर्यग्रहे नाद्यात्तस्मिन्नहनि पूर्वतः ।
राहोर्विमुक्तिं विज्ञाय स्नात्वा कुर्वीत भोजनम् ॥
ग्रस्तास्तमये कालद्वये न भुञ्जीतेति भावः । विष्णुधर्मोत्तरे —
अहोरात्रं न भुञ्जीत चन्द्रसूर्यग्रहेऽस्तगे ।
मुक्तिं दृष्ट्वा तु भोक्तव्यं स्नानं कृत्वा ततः परम् ॥
वैकुण्ठदीक्षितीये देवलः -
पित्रोर्मृताहपूर्वेद्युः भानुवारे च संक्रमे ।
तता चतुर्दश्यष्टम्योर्व्रतेषु च महोत्सवे ॥
श्रोत्रिये मरणं प्राप्ते गुरूणां दुःखसम्भवे ।
पितरि व्याधिना ग्रस्ते महाराजनिपातने ॥
उक्तेष्वेतेषु सर्वेष्वन्येषु व्रतपर्वसु ।
न द्विवारं समश्नीयाद्विप्रो धर्मपरायणः ॥
सङ्ग्रहे —
अर्कद्विपर्वरात्रीषु चतुर्दश्यष्टमी दिवा ।
एकादश्यामहोरात्रं भुक्त्वा चान्द्रायणं चरेत् ॥
हेमाद्रौ –
शम्भोर्निवेदितं भक्तं तत्तीर्थं शाकमेव वा ।
विप्रः कदा न भुञ्जीत भुक्त्वा तप्तं समाचरेत् ॥
व्यासः –
निहन्त्यन्नं मनः प्राणान् चक्षुः श्रोत्रे तथैव च ।
स्मृतिं मेधां धृतिं शुक्लं पारक्यं योऽन्नमश्नुते ॥
परपाकान्नपुष्टस्य सततं गृहमेधिनः ।
इष्टं सत्तं तपोऽधीतं यस्यान्नं तस्य तद्भवेत् ॥
स्मृतिदीपिकायां —
यो भुङ्क्तेऽनुपनीतेन यो भुङ्क्ते च त्रिया सह ।
यो भुङ्क्ते कन्यया सार्धं द्विजश्चान्द्रायणं चरेत् ॥
दक्षः –
किल्बिषं हि मनुष्याणामन्नमाश्रित्य तिष्ठति ।
यो यस्यान्नं समश्नाति स तस्याश्नाति दुष्कृतम् ॥
शिष्टान्नं भोज्यमेव । तथा व्यासः -
सदाचारस्य विप्रस्य तथा वेदान्तवेदिनः ।
भुक्त्वान्नं मुच्यते पापात् पावनं नात्र संशयः ॥
[[249]]
तथान्यत्र च –
महापातकसंप्राप्तौ श्रोत्रियस्य गृहं व्रजेत् ।
याचयेदन्नममृतं तदभावे जलं पिबेत् ॥
माघमाहात्म्ये श्रीकुलदूतसंवादे –
प्रार्थयेत् वैष्णवस्यान्नं प्रयत्नेन विचक्षणः ।
सर्वपापविशुद्ध्यर्थं तदभावे जलं पिबेत् ॥
आपस्तम्बः –
अष्टौ ग्रासा मुनेर्भोज्याष्षोडशारण्यवासिनः ।
द्वात्रिंशच्च गृहस्थस्ये ह्यमितं ब्रह्मचारिणः ॥
भरद्वाजः –
भुक्त्वामृतापिधानमसीति च निपीयकम् ।
आचान्तः पुनराचामेत् यावन्मण्डलशोधनम् ॥
भुक्त्वा ग्रन्धिं विमुच्याथ तेन पीत्वा जलं सह ।
तत्पवित्रं त्यजेद्भूमावथ मन्त्रेण जातुचित् ॥
विस्मृत्य भुवि पात्रे तु पवित्रं विसृजेद्यदि ।
प्रायश्चित्तं चरेत्कृच्छ्रं तत्किल्बिषविशुद्धये ॥
मार्कण्डेयः —
गण्डूषकरणाद्यस्तु हस्तं प्रक्षालयेद्द्विजः ।
हरं दैवं च पित्र्यं ह्यात्मानं चोपघातयेत् ॥
गण्डूषमत्र उत्तरापोशनम् । यतस्स एवाह –
अर्धं पिबति गण्डूषमर्धं त्यजति भूतले ।
प्रीणन्ति पितरस्सर्वे ये चान्ये भूमिदेवताः ॥
गण्डूषाद् त्यागमन्त्रमाह स एव –
रौरवेऽपुण्यनिलये पद्मार्बुदनिवासिनाम् ।
अर्थिनामुदकं दत्तमक्षय्यमुपतिष्ठतु ॥
इति ।
पवित्रग्रन्थिमुत्सृज्य मण्डले भुवि निक्षिपेत् ।
पात्रे च निक्षिपेद्यस्तु स विप्रः पङ्क्तिदूषकः ॥
शाण्डिल्यः –
माषादिचूर्णैर्मृद्भिर्वा प्रक्षाल्य करयोर्युगम् ।
प्रक्षाल्य जानुपादौ च काष्ठैर्दन्तान्विशोधयेत् ॥
स्मृत्यन्तरे –
मूत्रे पुरीषे भुक्त्यन्ते तथैवाभोज्यभक्षणे ।
चतुरष्टद्विषड् द्व्यष्टगण्डूषैस्तु विशुध्यति ॥
विप्रस्य दक्षिणे भागे देवास्तिष्ठन्ति सर्वदा ।
आसीन एव गण्डूषान् वामपर्श्वे विसर्जयेत् ॥
बोधायनः –
आसीन एव गण्डूषान् वामभागे विसर्जयेत् ।
आसीनस्त्रिराचामेत् ।
सङ्ग्रहे —
भुक्त्वोच्छिष्टस्त्वनाचान्तः शूद्रादीन्यदि पश्यति ।
ज्ञानतोऽज्ञानतो वापि तैस्सार्धं भुक्तवानसौ ॥
[[250]]
कुत्सः –
आचान्तो नाभिदेशन्तु प्राणानां ग्रन्धिरसीति ।
विमृश्यादित्यमीक्षेत रात्रौ दीपमुखं ततः ॥
व्यासः -
अमृतापिधानमसीत्युपरिष्टादपः पिबेत् ।
आचम्याङ्गुष्ठमात्रेति पादाङ्गुष्ठे तु दक्षिणे ॥
निस्रावयेद्धस्तजलमूर्ध्वहस्तस्समाहितः ।
हुतानुमन्त्रणं कुर्यात् श्रद्धायामिति मन्त्रतः ॥
अथाक्षरेण स्वात्मानं योजयेत् ब्रह्मणीतिहि ॥
इति । अक्षरेण एतस्य वाक्षरस्येत्याम्नातेन ब्रह्मणि म आत्मामृतत्वायेति योजयेत् । विष्णुरत्ता तथैवान्नं परिणामश्च वै यतः ।
सत्वेन तेन मे भुक्तं जीर्यत्वन्नमिदं ततः ॥
इत्युच्चार्य स्वहस्तेन परिमृज्य तथोदरम् । लिखितः –
भुक्त्वोपस्थाय मार्ताण्डं पुराणानि सदा पठेत् ।
भावशुध्या हरौ भक्तिः पुराणश्रवणाद्भवेत् ॥
संग्रहकारः –
भुक्त्वा तु सुखमासीनस्ताम्बूलेनास्य शोधनम् ।
शुण्ठ्यामलकधातूनामेकेनापि विशोधनम् ॥
तथान्यत्र –
सुपूगं च सुपत्रं च सुधया च समन्वितम् ।
प्रदद्याद्द्विजदेवेभ्यस्ताम्बूलं भक्षयेद्बुधः ॥
एकं पूगं सदारोग्यं द्विपूगं निष्पलं भवेत् ।
अतिश्रेष्ठं त्रिपूगं च अधिकं नैव दुष्यति ॥
पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसम्भवः ।
पूर्णपत्रं हरत्यायुस्सिरा बुद्धिविनाशिनी ॥
तस्मादग्रं च मूलं च सिराश्चैव विशेषतः ।
चूर्णपर्णं वर्जयित्वा ताम्बूलं खादयेद्द्विजः ॥
अखण्डितं च क्रमुकं पत्रमक्षालितं तथा ।
अशोधितं च यच्चूर्णं भक्षयन् सर्वदोषभाक् ॥
अनिधाय मुखे पत्रं पूगं खादति यो नरः ।
सप्तजन्मदरिद्रस्स्यात् नरकेषु निमज्जति ॥
इत्यादिरत्नाकरवाक्यान्यत्रानुसन्धेयानि ।
उत्तरापोशनं कुर्यात् विष्णुपादोदकेन तु ।
तत उत्थाय सम्मृज्य पत्रं चासं स्पृशन् द्विजः ॥
शोधयेन्मुखहस्तौ च मृद्भिस्सङ्घर्षणैरपि ।
द्विरष्टवारं गण्डूषं भोजनान्ते समाचरेत् ॥
इति वासिष्ठसंहितावचनानुसारेण षोडशगण्डूषक्रम उक्तः ।
[[251]]
वैकुण्ठदीक्षितीये गौतमः –
अमाश्राद्धादिकालेषु यस्ताम्बूलादि खादयेत् ।
तस्य दोषविशुद्ध्यर्थं जपेदष्टोत्तवरं [[जपेदष्टोत्तरं??]] बुधः ॥
हेमाद्रौ —
अमायां श्राद्धदिवसे तीर्थयात्रासु सर्वदा ।
क्षयाशौचे बन्धुमृतौ पर्वद्वये हरेर्दिने ॥
अनिशं मार्गमध्ये च सन्ध्ययोरुभयोरपि ।
देवालये सभास्थाने तथा कर्मसु भाषणे ॥
दुःखोद्धते बहुजने तथैवोत्पातदर्शने ।
राजभागप्रजादक्षगुरुदेवार्चनेषु च ॥
व्रताचरणकाले तु पुराणश्रवणे तथा ।
ताम्बूलं भक्षयेद्यस्तु विष्ठासममिदं भवेत् ॥
इति वचनजातमत्र भाव्यम् । अत्र भक्ष्याभक्ष्यभक्षणप्रायश्चित्तप्रमाणादिकं रत्नाकरादौ विस्तरेणोक्तं द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
भगवानेव + इज्याख्यं कर्म + कारितवानिति सात्त्विकत्यागं कृत्वा,
मूलम्
भगवानेव + इज्याख्यं कर्म + कारितवानिति सात्त्विकत्यागं कृत्वा,
आह्निकार्थप्रकाशिका
अथेज्यान्ते सात्त्विकत्यागमाह — भगवानेवेत्यादिना ।
विश्वास-प्रस्तुतिः
कृतञ्च करिष्यामि + इज्यया भगवत्कर्मणा भगवान् प्रीयतां वासुदेव इतीज्यां समापयेत् ।
मूलम्
कृतञ्च करिष्यामि + इज्यया भगवत्कर्मणा भगवान् प्रीयतां वासुदेव इतीज्यां समापयेत् ।
आह्निकार्थप्रकाशिका
इज्याकाले भगवत्परिचर्यायाः भगवति समन्त्रकसमर्पणप्रकारामह - कृतञ्च करिष्यामीत्यादिना ।
[[252]]