०३ उपादानम्

विश्वास-प्रस्तुतिः

अथोपादानम् ।

मूलम्

अथोपादानम् ।

आह्निकार्थप्रकाशिका

अभिगमनानन्तरकृत्यं प्रतिजानीते – अथोपादानमिति । मया प्रदर्श्यत इति शेषः ।

विश्वास-प्रस्तुतिः

अथोपादानम् ।

द्वितीययामे

कृतञ्च करिष्यामि + उपादानेन भगवत्कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि

इति सङ्कल्प्य बलमन्त्रं चानुसन्धाय, भगवानेवेति पूर्वोक्तप्रकारेण उपादानाख्यं कर्म कारयतीति सात्त्विकत्यागं कृत्वा,

अह्नोर्द्वितीयभागेन कृष्णाराधनतत्परः ।
द्रव्याण्याराधनार्थानि शास्त्रीयाणि समार्जयेत् ॥
प्रभूतानि विशुद्धानि शुद्धदेशोद्भवानि च ।
अरौद्राण्यनिषिद्धानि संगृहीतानि वैष्णवैः ॥
सुगन्धीनि मनोज्ञानि पुष्पाण्यभिमुखानि च ।
वासांसि धनधान्यानि चन्दनाद्यनुलेपनम् ॥
अन्यानि हविरर्थानि तानि मूलफलानि च ।
संक्षालितानि बहुशो देवभोग्यानि यानि च ॥
दधिक्षीराज्यमुख्यानि द्रव्याणि च विशेषतः ।
उत्तमानुपदंशांश्च मुद्गमाषादिकान्यपि ॥
ताम्बूलादीनि चान्यानि सर्वाण्यादाय सादरम् ।
यथार्हं तानि संस्कृत्य प्रक्रमेतार्चनं ततः ॥
प्रातरुत्थाय चिन्वीयात् स्वारामात् स्वयमेव हि ।
पूजार्थमस्त्रमन्त्रेण पुष्पादीन् यत्नतः पथि ॥
यायादरण्यमथ वा निर्बाधं हि तदार्जने ।
अकण्टकद्रुमोत्थाश्च कण्टकद्रुमजा अपि ॥
हृद्यास्सुगन्धाः कर्मण्या ग्राह्यास्सर्वे सितादयः ।
उग्रगन्धाह्यकर्मण्यास्त्वप्रसिद्धास्तथैव च ॥
चतुष्पथशिवावासश्मानावनिमध्यजाः ।
क्षता अशनिवाताद्यैः कृमिकीटसमावृताः ॥
वर्जनीयाः प्रयत्नेन पत्रपुष्पफलादयः ।
अम्बुजानि सुगन्धीनि सितरक्तानि कानिचित् ॥
योक्तव्यानि पवित्राणि स्वयमाराधने तु वै ।
साङ्कुराणि च पत्राणि प्रभूतान्येवमेव हि ॥
विहितान्यर्चने नित्यं यथर्तुप्रभवानि च ।
न गृहे करवीरोत्थैः कुसुमैरर्चनं हितम् ।
विशेषतस्सकामस्य सिद्धिभूतियुतस्य च ॥

[[165]]

इत्यादि शास्त्राणि पर्यालोच्य हेयोपादेयविभागमपि विविच्य

स्वप्रयत्नकृतं शस्तं मध्यमं वन्यमुच्यते ।
अधमं तु क्रयक्रीतं याचितं त्वधमाधमम् ॥

इत्याद्युक्तोत्तमादिविभागमपि विविच्य, आराधनोपयुक्तद्रव्यमार्जयेत् । समित्पुष्पकुशादीनामस्त्रमन्त्रेणार्जनं कुर्यात् । तत्र स्वारामात् स्वार्जितमुत्तमम् । वन्यं मध्यमम् । क्रयक्रीतमधमम् । प्रतिग्रहलब्धे दातुरेव फलं, कर्तुः किञ्चिद्भवेन्न वा ।

तुलसीग्रहणे वर्ज्यदिनानि -

आरवारे च शुक्रे च मन्वादिषु युगादिषु ।
नाहरेत्तुलसीपत्रं मध्याह्नात्परतोऽहनि ॥
सङ्क्रान्त्यां पक्षयोरन्ते द्वाश्यां निशि सन्ध्ययोः ।
तुलसीं ये विचिन्वन्ति ते कृन्तन्ति हरेश्शिरः ॥

इत्यादीनि । अतः अनिषिद्धदिनेषु

तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये ।
केशवार्थं लुनामि त्वां वरदा भव शोभने ॥
मोक्षैकहेतो धरणिप्रसूते विष्णोस्समस्तस्य गुरोः प्रिये ते । आराधनार्थं पुरुषोत्तमस्य लुनामि पत्रं तुलसि क्षमस्व ॥
प्रसीद मम देवेशि प्रसीद हरिवल्लभे । क्षीरोदमथनोद्भूते तुलसि त्वं प्रसीद मे ॥

इति मन्त्रैः

कालप्रदर्शनपूर्वकं सङ्कल्पसात्त्विकत्यागावाह - द्वितीययामे कृतं च करिष्यामीत्यादिना । प्रातरुत्थायेत्यादिवचनानि श्रीसात्त्वतस्थानि ।

तदुक्तं -

श्रीसात्त्वते

प्रातरुत्थाय चिन्वीयात् स्वारामात् स्वयमेव हि

इत्यादि

तदिदं नियमपरिच्छेदानुशिष्टत्वात् विपर्ययानर्हमवधातव्यं, शक्तमधिकृत्य चात्र स्वारसिकं स्वयं प्रवृत्तत्वादिकमुपदिश्यते,पक्षान्तरस्यापि अन्यत्रानुज्ञानात् । अत्र वै शेषिकार्चनादिषु कदाचित् प्रातश्शब्दस्य मुख्यार्थता । अन्यथात्वभिगमनविधिना प्रातःकालोपरोधात् । अन्येषु च सर्वेषु शास्त्रेषु द्वितीयकाल एव द्रव्यार्जनविधानात् प्रातश्शब्देन सन्निकर्षवशात् त्वरातिशयसिद्ध्यर्थं तदुचितकालो लक्ष्यते ।

[[166]]

सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितम्

इतिवत् । अत एवात्रत्यमुत्थानं च न स्वप्नानन्तरभावि; अपि तु

ततः पुष्पफलादीनामुत्थायार्जनमाचरेत्

इति जयाख्यसंहितोक्तमभिगमनानन्तरं देवसन्निधेरुत्थानम्

इति ।

सर्वेषामपि पुष्पाणां सहस्रगुणमुत्पलम् ।
तस्मात्पद्मं तथा राजन् पद्मात्तु शतपत्रकम् ॥
तस्मात्सहस्रपत्रं तु पुण्डरीकमतः परम् ।
पुण्डरीकसहस्रात्तु तुलसी गुणतोऽधिका ॥
बकपुष्पं ततस्तु स्यात्सौवर्णं तु ततोऽधिकम् ।
सौवर्णाच्च प्रसूनात्तु मत्प्रियं नास्ति पाण्डव ॥

इत्याचार्यपादोदाहृतानि वचनान्यत्रानुसन्धेयानि ।

पाद्मे त्वेवं विचित्रद्रव्योपार्जनमुक्तम्

इत्यादिना

नीत्वोपादानसमयमित्थं तदनु प्रपूजयेत्

इत्यन्तेनोक्तं सर्वमवगन्तव्यम् ।

अस्यां संहितायां संहितान्तरेषु पुष्पप्रकरणहविःप्रकरणादिषु च हेयोपादेयसमस्तद्रव्यविभागो द्रष्टव्यः

इति,

भोजराजस्त्वेवं पुष्पेषु सात्त्विकराजसतामसादिविभागं पुष्पाङ्कुरपत्रमूलधूपदीपवस्त्राभरणेषु वर्ज्यावर्ज्यविभागं सञ्जग्राह

इत्यारभ्य

तदेतन्नानासंहितापरामर्शसमुद्धृतं सारम्

इत्यन्तेनानुगृहीतः पुष्पादिनियमो ग्राह्यः । तत्र स्वारामेत्यनेनान्यारामनिषेधः तत्स्थितपुष्पादिग्रहणे तस्करत्वमपि स्यादित्याचार्यपादश्रीसूक्तेः । पद्मोत्पलादीनां जलजानां दिनद्वयानन्तरं पर्युषितत्वं,

सद्योहृतानां विहितमम्लानानां यथाक्रमम्

इत्यादिना स्थलजानामेकदिनात्परं पर्युषितत्वं सिद्धं,

सूत्रेण ग्रथितं पुष्पमस्नेहाक्तं तथोदनम् ।
अवालुकायुतं तोयं सर्वं पर्युषितं भवेत् ॥

इत्याद्यपि द्रष्टव्यम् ।

[[167]]

विश्वास-प्रस्तुतिः

साङ्कुरां चतुःपत्रां षट्पत्रां वा तुलसीं गृह्णीयात् ।

मूलम्

साङ्कुरां चतुःपत्रां षट्पत्रां वा तुलसीं गृह्णीयात् ।

आह्निकार्थप्रकाशिका

साङ्कुरां षट्पत्रां चतुःपत्रां वा तुलसीं गृह्णीयादिति ।

षट्पत्रां वा चतुःपत्रां तुलसीमञ्जरीं हरेत्

इति श्रीवैष्णवधर्मशास्त्रोक्तमिह भाव्यम् । तुलसीग्रहणे वर्ज्यदिनान्यङ्गीकृत्य द्वादशीव्यतिरिक्तदिनेषु तुलसीग्राह्येत्यपरोक्तं न चारु, तथा शिष्टाचारविरहात् ।

“तुलसीप्रस्ताव” इत्युपक्रम्य

शुष्कं पर्युषितं चार्द्रं काष्ठं वा तुलसीदलम् ।
अर्चने वासुदेवस्य लक्षकोटिगुणं भवेत् ॥

इति रत्नाकरोदाहृतवचनेन शुष्कतुलस्याद्यभ्यनुज्ञानेन उपचारार्थमुख्यद्रव्याभावे सर्वार्थतोयस्य प्रतिनिधितया भवद्भिरङ्गीकृतत्वेन च वर्ज्यदिने तुलसीग्रहणनिर्बन्धस्यावक्तव्यत्वात् । निषिद्धकालेषु फलाश्रवणयुक्ततुलसीग्रहणनिषेधवचनानां बहुत्वेन ग्रहणविधायकाल्पवचनस्य भवदाह्निकस्थत्वेन भूयसां न्यायेन निषेधस्यैव ग्राह्यतया सकामविषयत्वव्यवस्थापनत्वस्यायुक्तत्वात् । यत्तु

स्नानं कृत्वा तु ये केचित् पुष्पं गृह्णन्ति वै द्विज ।
देवतास्तं न गृह्णन्ति तन्न गृह्णन्ति मानुषाः ॥
पितरस्तं न गृह्णन्ति भस्मीभवति काष्ठवत्

इति तन्मध्याह्नस्नानाभिप्रायं,

स्नानं कृत्वा तु मध्याह्ने पुष्पाणि न समाहरेत्

इति रत्नाकरोक्तेः ।

[[168]]

कुशाहरणविधिः

विश्वास-प्रस्तुतिः

कुशाहरणविधिः ।

शुचौ देशे शुचिर्भूत्वा स्थित्वा पूर्वोत्तरामुखः ।
हुङ्कारेणैव मन्त्रेण कुशाः स्पृश्या द्विजोत्तमैः ॥

इत्युक्तरीत्या स्पृष्ट्वा

विरिञ्चेन सहोत्पन्नपरमेष्ठिनिसर्गज ।
नुद सर्वाणि पापानि दर्भ स्वस्तिकरो (मम) भव ॥

इति मन्त्रेण दर्भलवनं कुर्यात् ।

कुशाहरणप्रकारमाह - कुशाहरणविधिरिति । अत्र कालमाह हारीतः -

माघे नभस्यमावास्या तस्यां दर्भोच्चयो मतः ।
अयातयामास्ते दर्भाः नियोज्यास्स्युः पुनः पुनः ॥

वृद्धवसिष्ठः -

काशस्तु रौद्रो विख्यातः कुशो ब्राह्मस्तथा स्मृतः ।
आर्षोदर्भ इति ख्यातो विश्वामित्रस्तु वैष्णवः ॥
नवभिस्सप्तभिर्दर्भैः पञ्चभिश्च क्रमात् कृतः ।
कूर्चः श्रेष्ठो मध्यमश्च कनीयानिति च स्मृतः ॥

स्मृतिरत्ने -

अहन्यहनि कर्मार्थं कुशोद्धारः प्रशस्यते ।
न पूर्वेषूद्धृतकुशा योग्याश्चैवोत्तरेषु च ॥
कुशाः काशास्तथा दूर्वा यवा व्रीहय एव वा (च) ।
बल्बजाः पुण्डरीकाणि सप्तधा बर्हिरुच्यते ॥

इति रत्नाकरस्थवचनान्यत्र भाव्यानि ।

विश्वास-प्रस्तुतिः

कुलटाषण्डपतितवैरिभ्यः काकिणीमपि ।
उद्यतामपि गृह्णीयान्नापद्यपि कदाचन ॥
तस्करात्कितवात् (पतितात्) षण्डात् डम्भलोभमदान्वितात् ।
मात्रा वित्तं न गृह्णीयादभक्तादपचारतः ॥

[[169]]

इत्यादिभगवच्छास्त्रधर्मशास्त्रतः प्रतिग्रहनियमस्सम्यगवलोकनीयः । आपद्वशेनासत्परिग्रहे सम्भावितेऽपि

दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति ।
प्रतिग्रहीतृभिश्चैव न ते मद्विषयोपगा ॥

इति शौनकोपात्तयमोक्तमन्त्रविशेषमुच्चार्य सदसत्प्रतिग्रहः कार्यः । बलादि-मन्त्रनिष्ठानां बलादिमन्त्रैरपि प्रतिग्रहः कार्यः । तदिह साक्षाद्वा परम्परया वा समाराधनोपकरणभूतशास्त्रीयसमस्तद्रव्योपयोगेषु स्वशक्येषु ध्यानादि-विरोधिकायक्लेशकरबह्वायासरहितेषु न्यायतः प्रवर्ततेत्युपादानसङ्ग्रहः ।

एवं बाह्योपकरणवदनन्तरभावीज्यानर्हत्वापादकाष्टादशचण्डालषड्वृषल संज्ञिकाऽनात्मगुणतिरस्कारकतया इज्योपयोगित्वात्, परमात्मसम्प्रीणनेषु

अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।
सर्वभूत-दया पुष्पं क्षमा पुष्पं विशेषतः ॥
ज्ञानं पुष्पं तपः पुष्पं ध्यानं पुष्पं तथैव च ।
सत्यमष्टविधं पुष्पं विष्णोः प्रीतिकरं भवेत् ॥

इत्यादिना प्रधानतमतयोपदेशात् ज्ञानवृद्धिहेतुभूतसदाचार्यसेवासम्भाषणादिभिः अमानित्वादिगुणानामान्तराणां सम्पादनमप्युपादानकोटौ निविशते । पूर्वसिद्धबाह्योपकरणस्यापि पुंसः आन्तरोपकरणसंवर्द्धकवेदान्तकालक्षेपस्याप्युपादानरूपतया तत्काले तेन कालयापनं कुर्यात् । एकस्मिन् दिने विष्वयनादिनिमित्तवशेनानेकेज्याप्रसक्तौ

अङ्गगुणविरोधे च तादर्थ्यात्

इति न्यायेन उपादानाभिगमनकालसङ्कोचः । तस्मात्समाराधनोपयुक्तं बाह्यमान्तरञ्चोपादद्यादित्युपादानष्कर्षः [[??]] ।

कुलटादिद्रव्यप्रतिग्रहप्रतिषेधमाह - कुलटेत्यादिना । तदुक्तं स्मर्यते च

केशवार्चा गृहे यस्य न तिष्ठति महीपते ।
तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् ॥

इति ।

[[170]]

तत्र पक्कमपक्कं वा केशवार्चारूपनित्यधर्मरहिते गृहे न प्रतिग्राह्यम् । उभयत्रान्नशब्दप्रयोगात्, अन्यथा पक्वान्नमिति विशेषेण प्रयोगानुपपत्तेः । प्रतिग्रहगुणदोषविस्तरश्च धर्मशास्त्रेषु पठितव्यः

इत्यादि,

एवं वृत्त्यर्थतयानुज्ञातैरध्यापनयाजनादिभिरपि यथाशास्त्रं प्रयुक्तैः समुचितानि समाराधनोपकरणानि सम्पादयेत् । पूर्वनिष्पन्नसम्पूर्णद्रव्यं तु न प्रतिग्रहादिषु प्रवर्तेत । आपत्स्वनन्तरावृत्तिरिति अनुज्ञातेष्वपि वृत्तिं प्राप्य विरमेदिति स्मरणान्न नित्यं प्रवर्तेत । कृषिवाणिज्ये च स्वयं कृते कुसीदं चैव माद्यमपि गत्यन्तरासम्भवे

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः

इत्याद्युक्तनन्दनवनकरणादियतनमपि पुष्पफलादिपूजोपकरणार्थतया उपादानकोटौ निविशते

इत्यादि । सप्तर्षिसंवादे -

आकिञ्चन्यञ्चैव राज्यं च तुलायां समतोलयन् । अकिञ्चनत्वमधिकं राज्यादपि जितात्मनः ॥
यस्य धर्मार्थमर्थेहा तस्यानीहैव शोभना ।
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥

इति रत्नाकरस्थवचनान्यनुसन्धेयानि । शेषं श्रीपाञ्चरात्रादिषु द्रष्टव्यम् ।

विश्वास-प्रस्तुतिः

अथ भगवानेव + उपादानाख्यं कर्म कारितवानिति सात्त्विकत्यागं कृत्वा, कृतञ्च करिष्यामि उपादानाख्येन भगवत्कर्मणा भगवान् प्रीयतां वासुदेव इति भगवति समर्पयेत् । इत्युपादानम् ।

मूलम्

अथ भगवानेव + उपादानाख्यं कर्म कारितवानिति सात्त्विकत्यागं कृत्वा, कृतञ्च करिष्यामि उपादानाख्येन भगवत्कर्मणा भगवान् प्रीयतां वासुदेव इति भगवति समर्पयेत् । इत्युपादानम् ।

आह्निकार्थप्रकाशिका

अथोपादानस्य सात्त्विकत्यागपूर्वकं भगवति समर्पणमाह - अथ भगवानेवेत्यादिना ।

[[171]]