२१ देवालयगमनादि

देवालयगतिः

विश्वास-प्रस्तुतिः

अथ तीर्थासन्न-विष्ण्व्-आयतनं विविक्षुः+++(←विश्)+++

प्रासादं देवदेवीयम्
आचार्यं पाञ्चरात्रिकम् ।
अश्वत्थं च वटं धेनुं
सत्समूहं गुरोर् गृहम् ।
दूरात् प्रदक्षिणी कुर्यान्
निकटे प्रतिमां विभोः ।
दण्डवत् प्रणिपातैश् च
नमस् कुर्याच् चतुर् दिशम् ॥

इत्युक्तरीत्या प्रदक्षिणीकृत्य
दण्डवच् चतुर्दिक्षु युग्मान् प्रणामान् कृत्वा,

विष्वक्सेनं द्वारपालांश् च प्रणम्यानुज्ञाप्य,
भगवन्-मन्दिरं प्रविशेत् ।

[[152]]

ततो भगवन्तम् अष्टाङ्गादि-प्रणामेन
यथार्हं प्रणम्य,
भगवतः पुरतः शास्त्रोक्त-द्वात्रिंशद्-अपचारादि-गन्ध-रहितो
दक्षिणतः स्थित्वा,
गुरु-परम्परया भगवन्तं शरणम् उपगम्य +++(5)+++
पावन-मनो-हस्त-दर्शनानन्द-बृंहित-सर्वाङ्गस्
तादृश-शरणागति-फल-भूत–
तत्-कालोत्पन्न-भगवत्-प्रेम-परीवाह-रूपाणि
स्तव्य–स्तव-प्रिय–वशी-करणानि स्तोत्राणि पठेत् ।

तत्र च भगवत्-प्रसाद-लब्ध-तुलसी-दल-पादोदकादिकं
यत्-किञ्चिद् अपि प्रणिपात-पुरस्-सरं सहर्षोत्फुल्ल-कपोलः
शिरसा सम्भाव्य
यथार्हम् उपयुञ्जीत ।

एवं भगवत्-सेवया आत्मानं कृतार्थं मन्यमानः
भगवद्-अनुज्ञया क्वचिन्-निभृतम् उपविश्य
जपादिभिर् उपासीत ।

ततः

चक्रवत् भ्रामयेन् नाङ्गं
पृष्ठभागं न दर्शयेत् ।
पश्चाद्-भागेन निर्गच्छेद्
देवतासन्निधौ सुधीः ॥

इत्युक्तनियमविशिष्टः परिहृतापचारः
प्रणम्य
विष्वक्सेनादीन् अप्यनुज्ञाप्य
निर्गत्य

मूलम्

अथ तीर्थासन्नविष्ण्वायतनं विविक्षुः

प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम् ।
अश्वत्थं च वटं धेनुं सत्समूहं गुरोर्गृहम् ।
दूरात् प्रदक्षिणीकुर्यान्निकटे प्रतिमां विभोः ।
दण्डवत् प्रणिपातैश्च नमस्कुर्याच्चतुर्दिशम् ॥

इत्युक्तरीत्या प्रदक्षिणीकृत्य दण्डवच्चतुर्दिक्षु युग्मान् प्रणामान् कृत्वा, विष्वक्सेनं द्वारपालांश्च प्रणम्यानुज्ञाप्य, भगवन्मन्दिरं प्रविशेत् ।

[[152]]

ततो भगवन्तमष्टाङ्गादिप्रणामेन यथार्हं प्रणम्य, भगवतः पुरतः शास्त्रोक्तद्वात्रिंशदपचारादिगन्धरहितो दक्षिणतः स्थित्वा, गुरुपरम्परया भगवन्तं शरणमुपगम्य पावनमनोहस्तदर्शनानन्दबृंहितसर्वाङ्गस्तादृशशरणागतिफलभूतत त्कालोत्पन्नभगवत्प्रेमपरीवाहरूपाणि स्तव्यस्तवप्रियवशीकरणानि स्तोत्राणि पठेत् । तत्र च भगवत्प्रसादलब्धतुलसीदलपादोदकादिकं यत्किञ्चिदपि प्रणिपातपुरस्सरं सहर्षोत्फुल्लकपोलः शिरसा सम्भाव्य यथार्हमुपयुञ्जीत । एवं भगवत्सेवया आत्मानं कृतार्थं मन्यमानः भगवदनुज्ञया क्वचिन्निभृतमुपविश्य जपादिभिरुपासीत । ततः

चक्रवत् भ्रामयेन्नाङ्गं पृष्ठभागं न दर्शयेत् ।
पश्चाद्भागेन निर्गच्छेद्देवतासन्निधौ सुधीः ॥

इत्युक्तनियमविशिष्टः परिहृतापचारः प्रणम्य विष्वक्सेनादीनप्यनुज्ञाप्य निर्गत्य

आह्निकार्थप्रवेशिका

ततः तीर्थासन्नभगवदालयप्रवेशादिकमाह - अथ तीर्थासन्नेत्यादिना । तदुक्तं -

तीर्थस्नानसमनन्तरं महाभारतोक्तप्रकारेण तीर्थासन्नविष्ण्वायतनं च नमस्कुर्यात्

इत्यादिना, प्रवेशे निर्गमे चैव विष्वक्सेननतिं चरेत्आ आचार्यदर्शने भगवन्नामग्रहणे चाञ्जलिबन्धादिकं तत्र तत्रोक्तं ग्राह्यम् । दर्शितश्चायमाचारः सम्भवपर्वणि व्यासप्रस्तावे –

महर्षेः कीर्तनात्तस्य भीष्मः प्राञ्जलिरब्रवीत्

इत्यादिना ।

[[153]]

श्रीशाण्डिल्यस्मृतौ –

निधाय दण्डवद्देहं प्रसार्य चरणौ करौ ।
बध्वा मुकुलवत्पाणी प्रणामो दण्डसंज्ञिकः ॥
पादौ शिरस्तथा हस्तौ निकुञ्न्य[[??]] मुकुलाकृती ।
मनोबुध्यभिमानैश्च प्रणामोऽष्टाङ्गसंज्ञितः ॥
समस्तिष्क-प्रणामस्स्यादञ्जलिं मस्तके न्यसेत् ।
प्रणामस्सम्पुटस्स [[??]] स्यात् हृदयेऽञ्जलिमर्पयेत् ॥
प्रह्लाङ्गस्सम्पुटं कुर्यात्सा प्रह्वाङ्गनमस्क्रिया ।
मस्तिष्कं सम्पुटं चैव प्रह्वाङ्गं च त्रयं बुधैः ॥
कृतयोरनयोः कार्यमन्यथा विकलं भवेत् ।

श्रीसात्त्वते -

मनोबुध्यभिमानेन सह न्यस्य धरातले ।
कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् ॥

इति ।

प्रदक्षिणसमेतेन त्वेवंरूपेण सर्वदा ।
अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतो विभोः ॥

इति

भगवतीव सम्यक् ज्ञानप्रदातृष्वपि भक्तिप्रकर्षादीदृशाः प्रणमा [[णा??]] उपपद्यन्ते ।

भगवद्वन्दनं स्वाद्यं गुरुवन्दनपूर्वकम् ।
क्षीरं शर्करया युक्तं स्वदते हि विशेषतः ॥
नमस्कारोऽत्र विज्ञेयः प्रणिपातपुरस्सरः ।
आचार्यादन्यतो ज्ञेया या केवलनमस्क्रिया ॥

इति श्रीस्तोत्रभाष्यस्थश्रीसूक्तयोऽनुसन्धेयाः । एतद्विस्तरस्तत्र तत्र श्रीपाञ्चरात्ररक्षायां च द्रष्टव्यः । भगवदपचारभेदप्रमाणानि श्रीपाञ्चरात्ररक्षादौ विस्तरेण प्रदर्शितानि ।

भगवदालयलब्धतुलसीपादोदकादिकं यथार्हमुपयुञ्जीत

इति श्रीपाञ्चरात्ररक्षोक्तेरालयलब्धचन्दनकुसुमादिकमुपवासदिने धार्यमिति केषाञ्चिदुक्तिः परास्ता ।

[[154]]

श्रीपौष्करसप्तत्रिंशाध्यायवचनानि

ततः प्रदक्षिणीकृत्य द्विचतुस्सङ्ख्ययाब्जज ।
नैकत्रिपञ्चसप्ताख्यगणना विषमं हि यत् ॥
यतस्समो हि भगवान् देवस्सर्वस्य वै स्वयम् ।
स्मरन्नष्टाक्षरं बुध्या असकृद्वितते क्षितौ ॥
सङ्कटे सति भूभागे भगवत्यग्रतः स्थितः ।
यथा तु भक्तितः कुर्याद्वध्वा तु करसम्पुटम् ॥

इत्यन्तानि; पारमेश्वराष्ठा[[??]]ध्यायस्थवचनानि च

द्विधा प्रदक्षिणं कुर्यात् प्रणामं च तथाविधम् ।
नैकत्रिपञ्चसप्ताख्यगणनाविषमं हि यत् ।
यतस्समो हि भगवान् देवस्सर्वस्य वै हरिः ॥

इत्यादीन्यत्रानुसन्धेयानि ।

आचार्यैस्सह भगवदालयगमने आचार्यानुवर्तनमेव कार्यम् । न भगवदनुवर्तनम् ।

आचार्योपासनं शौचम् । देवमिवाचार्यमुपासीत

इत्यादिप्रमाणप्रतिपन्नाचार्योपासनस्य प्राचार्यसन्निधौ यथा अपवादोऽस्ति तथापवादाभावात् आचार्यानुशासने सति भगवदनुवर्तनं कार्यं,

तमिमं सर्वसंपन्नमित्यादि களில்படியே सर्वपरमाचार्य னான सर्वेश्वरन्सन्निधि யில் आचार्यानुशिष्ट மான भगवदनुवर्तनं प्रधानम्

इति श्रीप्रधानशतकश्रीसूक्तेः । आचार्यप्राचार्यसमवाये प्राचार्यानुवर्तनविधाय्यपवादशास्त्रादाचार्यानुवर्तनविधायिशास्त्रं तदाचार्यसन्निधानव्यतिरिक्तविषयम् । तद्वत् आचार्यानुशासनं भगवत्सन्निधावाचार्यानुवर्तनापवादरूपमिति हृदम् ।

[[155]]

न च श्रीपाञ्चरात्ररक्षायां — ‘अप्रणामस्तदग्रत’ इति भगवदग्रे प्रणामाकरणस्यापचारत्वावगमात् आचार्यसन्निधौ तदनुशासनाभावेऽपि भगवत्प्रणामादिकं कार्यमिति वाच्यम् । तस्याचार्यासन्निधिविषयत्वस्याङ्गीकार्यत्वात् । भगवदाचार्यकैङ्कर्ययोः युगपदनुष्ठानविरोधे भगवत्कैङ्कर्यत्यागे नाचार्यकैङ्कर्याङ्गीकारस्य

அவ்விரண்டிலும் प्रधान ம் आचार्यकैङ्कर्य ம். भगवान् பக்கலிலே போலே

इत्यादि

आचार्यकैङ्कर्य த்தைவிட்டு भगवत्कैङ्कर्यादि களிலே இழியக் கடவனல்லன்

इति रहस्यरत्नावलीतद्धृदयप्रतिपादितप्रमाणसहितन्यायस्य भगवदाचार्यप्रणामविषयेऽपि तुल्यत्वात् । तथैव सत्सम्प्रदायस्थाचार्यशिक्षितशिष्टाचारदर्शनाच्च ।

औपासनादि

विश्वास-प्रस्तुतिः

वारि-पूरितं सुवर्ण-रजत-ताम्रादि-पात्रम् आदाय,
पाषण्डादि-दर्शनालाप-वर्जितः
गृहम् आगत्य सुप्रक्षालित-पाणि-पादः
स्वयं पूर्वाहृतेन मणिक-स्थेन वा वारिणा
स्वगृहं सम्प्रोक्ष्य स्वसूत्रोक्त-प्रकारेण
औपासनाग्निं भगवद्-आत्मकं हुत्वा,
स्रक्-चन्दन-वासो-भूषण-ताम्बूलाद्य्-अलङ्कृतः
सुप्रक्षालित-पाणिपादो

मूलम्

वारिपूरितं सुवर्णरजतताम्रादिपात्रमादाय, पाषण्डादिदर्शनालापवर्जितः गृहमागत्य सुप्रक्षालितपाणिपादः स्वयं पूर्वाहृतेन मणिकस्थेन वा वारिणा स्वगृहं सम्प्रोक्ष्य स्वसूत्रोक्तप्रकारेण औपासनाग्निं भगवदात्मकं हुत्वा, स्रक्चन्दनवासोभूषणताम्बूलाद्यलङ्कृतः सुप्रक्षालितपाणिपादो

[[156]]

आह्निकार्थप्रकाशिका

पाषण्डादिदर्शनालापादिवर्जितः गृहमागत्येति ।

पाषण्डावेक्षणादीनि
वर्जयेद् यत्नतः पथि ।
पाषण्डादिभिर् आलाप-
दर्शनादीनि वर्जयेत् ॥

इति वङ्गिवंशेश-नारायण-मुन्य्-उक्तम् इहानुसन्धेयम् ।
यद् अपरोक्तं –

अवैष्णवैः सम्भाषणादिकं न कार्यं,

सम्प्रश्नासन-दानानि
न कुर्याद् आनृशंस्यत

इति भरद्वाजसंहितोक्तेर्

इति, तन्न -

अवैष्णवं न वन्देत
नार्चयेद् विधि-पूर्वकम् ।
सम्प्रश्नासन-दानानि
कुर्याद् वाप्य् आनृशंस्यतः ॥
अभक्तम् अच्युतस्यापि
नावमन्येत कञ्चन ।
हितं वा बोधयेत् साधोर्
दद्याद् वा किञ्चिद् ईप्सितम् ॥

इति भरद्वाज-संहिता-वचनानां प्राचीनानेक-कोश-स्थत्वेन
हित-बोधनेप्सित-किञ्चिद्-दान-प्रतिपादनात् सम्प्रश्नादेर् विहितत्वात्,
‘सम्प्रश्नासनदानानि न कुर्याद्’ इति
तत्र पाठस्याप्रामाणिकत्वात्
पूर्वोत्तरद्-द्विरुद्धत्वाच् च । +++(5)+++

विस्तारः (द्रष्टुं नोद्यम्)

यद् अपरोक्तं – “स्थालीपाकवत् दैवतं सौरी पूर्वाहुतिः प्रातरित्येक” इत्यापस्तम्बसूत्रस्वारस्येन प्रातराहुतौ अग्नये स्वाहेति मन्त्रेणाग्निदेवताकाहुतिर् एव कर्तव्येति ।

[[158]]

तन्न, उदाहृतसूत्रे वैकल्पिकदेवताभेदावगमेन
‘येनास्य पितरो याता’ इत्यादिप्रमाणानुसारेण
प्राचीनपरिगृहीत-वैकल्पिकस्यैव ग्राह्यताया आचार्यापादानुगृहीतत्वात्;
प्रातस्-सूर्य-देवताकाहुतेः शिष्टेषु दर्शनात् अग्निदेवताकाहुतेरदर्शनाच्च ।

प्रबोधनादि

विश्वास-प्रस्तुतिः

याग-गृहं प्रविश्य
दूरात् द्वारपालान् प्रणम्यानुज्ञाप्य
निकटे गत्वा

कौसल्या-सुप्रजा-राम
पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल
कर्तव्यं दैवमाह्निकम् ॥

वीर सौम्य प्रबुध्यस्व
कौसल्यानन्दवर्धन ।
जगद्धि सर्वं स्वपिति
त्वयि सुप्ते नराधिप ॥

यामिन्य्-अपैति यदु-नाथ विमुञ्च निद्राम्
उन्मेषम् ऋच्छति तवोन्मिषितेन विश्वम् ।
जातः स्वयं खलु जगद्-धितमेव कर्तुं
धर्म-प्रवर्द्धन-धिया धरणी-तले ऽस्मिन् ॥

सुखाय सुप्राप्तम् इदं तवास्तु
जगत्पते जागृहि नन्दसूनो ।
अम्भोजम्-अन्तश्-शय-मञ्जु-तार-
लोलम्बम् उन्मीलतु लोचनन् ते ॥

इत्य्-आदिभिर् भगवन्तं प्रबोध्य,
पत्र-पुष्प-फलादिभिर् देश-कालानुगुण्येनार्चयित्वा,
अष्टाङ्गेन प्रणम्य
भक्ति-भारावनमितस् सन् द्वयम् उच्चार्य,
तद्-अर्थविवरण-रूप-मित-गद्यम् अनुसन्धाय

मूलम्

यागगृहं प्रविश्य दूरात् द्वारपालान् प्रणम्यानुज्ञाप्य निकटे गत्वा

कौसल्यासुप्रजाराम पूर्वा सन्ध्या प्रवर्तते ।
उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥
वीर सौम्य प्रबुध्यस्व कौसल्यानन्दवर्धन ।
जगद्धि सर्वं स्वपिति त्वयि सुप्ते नराधिप ॥

यामिन्यपैति यदुनाथ विमुञ्च निद्रामुन्मेषमृच्छति तवोन्मिषितेन विश्वम् ।
जातः स्वयं खलु जगद्धितमेव कर्तुं धर्मप्रवर्द्धनधिया धरणीतलेऽस्मिन् ॥

सुखाय सुप्रातमिदं तवास्तु जगत्पते जागृहि नन्दसूनो ।
अम्भोजमन्तश्शयमञ्जुतारलोलम्बमुन्मीलतु लोचनन्ते ॥

इत्यादिभिर्भगवन्तं प्रबोध्य, पत्रपुष्पफलादिभिर्देशकालानुगुण्येनार्चयित्वा, अष्टाङ्गेन प्रणम्य भक्तिभारावनमितस्सन् द्वयमुच्चार्य, तदर्थविवरणरूपमितगद्यमनुसन्धाय

विस्तारः (द्रष्टुं नोद्यम्)

सुखाय सुप्रातरिति ।
भगवद्–आलय–निर्गमन–गृहागमनाभ्युक्षण–
स्वसूत्रोक्त-स्वाग्नि-होत्रादि-होम–भगवद्-आराधन–भगवत्-प्रपदनादिकं
वङ्गिवंशेश्वरादि-सम्प्रदाय-प्रदर्शन-पुरस्सरम्
आचार्यपादैर् एव सम्यग् अनुगृहीतं द्रष्टव्यम् ।

विस्तारः (द्रष्टुं नोद्यम्)

यद् अप्य् अपरोक्तम् -

अभिगमनाराधनाङ्गम्
अग्नि-मध्ये आसन-कल्पन-पूर्वक-भगवच्-छास्त्र-विहित-होम-बलि-दानादिकं
परमैकान्ति-कर्तव्यम्

इति । तदुपेक्ष्यम् । आचार्यपादैः

स्वसूत्रविधिना स्वाग्निं भगवदात्मकं हुत्वा
देवगृहम् आगत्य दूरात् प्रणमेत्

इत्यारभ्य
वङ्गिवंशेश्वर-नारायण-मुनि-निबन्धनोदाहरणावसरे
इज्याङ्ग-होम-बलिदानानुक्तेः,
तृतीयाधिकारोपक्रमे भाष्यकार-शिष्य-प्रशिष्य-ग्रन्थ-तन्-मूल-संहिताद्य्-अनुसारस्य
प्रतिज्ञातत्वेन सम्प्रदाय-ग्रन्थानुक्तेज्याङ्ग-होमादेर् आचार्यपादानभिमतत्वात् ।

अपराह्निकोदाहृतेज्याङ्ग-होम-बलिदान-प्रमाणान्य् आलय-विषयाणि
दीक्षितविषयाणि चेति
सत्-पथ-रक्षायाम् अस्माभिः प्रपञ्चितम् ।

आनुकूल्यसङ्कल्पादिसहिता प्रपत्तिः

विस्तारः (द्रष्टुं नोद्यम्)

यदन्योक्तम् -

अभिगमने भगवद्-आराधनम् एवाङ्गी, न प्रपदनम्

इति - तद् अतिमन्दम् -
श्रीनिक्षेपचिन्तामणाव् आचार्यपाद-श्रीसूक्तिमुखेन प्रपदनस्यैवाङ्गित्व-समर्थनात् । विस्तरस् तद्ग्रन्थ एव द्रष्टव्यः ।

मङ्गलद्रव्यवीक्षणादि

विश्वास-प्रस्तुतिः

[[157]]

इति प्रपदनं कुर्यात् ।

दर्पणादिमङ्गलद्रव्यवीक्षणं, ततः

सौरभेयास् सर्व-हिताः
पवित्राः पुण्यराशयः ।
प्रतिगृह्णन्तु मे ग्रासं
गावस् त्रैलोक्य-मातरः ॥

इति मन्त्रेण पर-गवे ग्रास-मुष्टि-प्रदानं कुर्यात् ।

ततो गुरूणां वृद्धानां चाभिवादनं,
गुरूपासनं,
वेदाध्ययन–तद्-धारण–तद्-अर्थ-विचारण–वेदाङ्गावेक्षणादिकं प्रथमयामे कुर्यात् ।

मूलम्

[[157]]

इति प्रपदनं कुर्यात् । दर्पणादिमङ्गलद्रव्यवीक्षणं, ततः

सौरभेयास्सर्वहिताः पवित्राः पुण्यराशयः ।
प्रतिगृह्णन्तु मे ग्रासं गावस्त्रैलोक्यमातरः ॥

इति मन्त्रेण परगवे ग्रासमुष्टिप्रदानं कुर्यात् । ततो गुरूणां वृद्धानां चाभिवादनं, गुरूपासनं, वेदाध्ययनतद्धारणतदर्थविचारणवेदाङ्गावेक्षणादिकं प्रथमयामे कुर्यात् ।

आपदि

विश्वास-प्रस्तुतिः

साङ्ग-प्रपदन-रूपाभिगमनाशक्तौ
स्वगुरोः पादारविन्दे स्वभरं न्यसेत् ।
तस्याप्य् असम्भवे करण-त्रयैक-रूप्येण
जप-ध्यानार्चन-स्तोत्र-कथन-सङ्कीर्तन-प्रणामाञ्जलि-बन्धादिकं स्वशक्यं कुर्यात् ।
सूतकाशौचाद्य्-अप्रायत्य-कालेऽपि मनसाभिगमनं,
भाषा-प्रबन्ध-स्तोत्रादिकं दूरतोऽवस्थाय
प्रणामाञ्जलि-बन्धादिकं कार्यमेव ।

मूलम्

साङ्गप्रपदनरूपाभिगमनाशक्तौ स्वगुरोः पादारविन्दे स्वभरं न्यसेत् । तस्याप्यसम्भवे करणत्रयैकरूप्येण जपध्यानार्चनस्तोत्रकथनसङ्कीर्तनप्रणामाञ्जलिबन्धादिकं स्वशक्यं कुर्यात् । सूतकाशौचाद्यप्रायत्यकालेऽपि मनसाभिगमनं, भाषाप्रबन्धस्तोत्रादिकं दूरतोऽवस्थाय प्रणामाञ्जलिबन्धादिकं कार्यमेव ।

आह्निकार्थप्रकाशिका

यद् अपि परमकारणिकत्वम् इत्यत्र करुणापर-दुःख-दुःखितं,
भगवद्गुणदर्पणे - “करणं कारणं कर्ता विकर्ते"त्य्-एतद्-व्याख्याने

तथा स्वतन्त्रः कर्ता अधिकारी फली जीवोऽपि हि स्वयं स्वस्य यथा सुखदुःखाभिमानी तथा तदतिशयेन वा तदवस्थाभिमानी हि भगवान् । यथा

व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ।
उत्सवेषु च सर्वेषु पितेव परितुष्यति ॥

“बहु स्यां प्रजायेय” इति च । पृथगभिमानित्वे हि न “बहु स्याम्” इति स्यात् । अत एव तत्फलभोगेन हर्षशोकादिभिर्विकुर्वाणः विकर्ता स्वार्थशोकहर्षाद्यभावेऽपि परार्थतत्प्रसक्तिरदोषः । अन्यथा परदुःखदुःखित्वदयादिगुणाः कथमस्य स्युरित्युक्तेः ।

““परदुःखदुःखित्वात्मकदयादयो गुणा” इति तदर्थ” इति । तदसङ्गतम् । उदाहृतभगवद्गुणदर्पणसूक्तिपूर्वापरवाक्यप्रमाणपूर्वाचार्यश्रीसूक्तिविरुद्धत्वात् । तथा हि परदुःखदुःखित्वदयादीत्यत्र परदुःखदुःखित्वाय दया परदुःखदुःखित्वदयेत्येवार्थः । सुखदुःखाभिमानीत्यत्र सुखदुःखाभिनयवानित्यर्थः । “व्यसनेषु मनुष्याणां” ‘बहुस्या’मिति प्रमाणोदाहरणात् । व्यसनेष्विति श्लोकः गोविन्दराजीये एवं व्याख्यातः -

मनुष्याणाम् = आढ्यदरिद्रद्विजातितारतम्यानादरेण मनुष्यजात्याक्रान्तानां व्यसनेषु अल्पानल्पविचारमन्तरेण व्यसनपदार्थेषु, भृशं व्यसनवतः यादृशं तादृशं न, किन्तु पङ्कमग्नगज इव स्वमाहात्म्यानुगुणं यावत्सत्ताकं च दुःखितो भवति । न तु दिनक्रमेण विस्मरति । इदं दुःखं मत्परिपालनवैगुण्येन खल्वागतमिति नितरां दुःखितो भवति । ह्रीरेषा हि ममातुलेति वक्ष्यति । उत्सवेषु पुत्रजननादिषु सर्वेषु पुत्रीजननाद्यादरविरहेण द्वारि चूतकि सलयमालाबन्धनमुपधीकृत्य प्रवृत्तेष्वित्यर्थः । पितेव पुत्रादीनां पुत्र्याद्युत्सवेषु यः पितुः परितोषो जायते स द्विविधः । पामराणामर्थलाभः लौकिकसहायनिमित्तः, पण्डितानां स्वोत्तारकत्वनिमित्तश्च, एवमुभयविधपरितोषो रामस्यास्ति ।

[[162]]

प्रनृत्यन्ति पितामहाः, यद्येकोऽपि गयां व्रजेत्

इतिवत् ।

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये ।
बहुजन्मसहस्रान्ते दिष्ट्या यस्तु प्रवर्तते ॥

इति प्रत्याशासम्भवात् । अत्र परिशब्दो वीप्सायां वर्तते । अत्रापि भृशमित्यनुवर्तत

इति । न चात्र मनुष्यपदमुपलक्षणं सर्वभूतविषयेऽपि परदुःखदुःखित्वरूपदयैवात्र विवक्षितेति वाच्यं, ‘उत्सवे’ष्वित्यत्रापि सर्वभूतोत्सवेष्वित्यर्थस्य वाच्यतया मनुष्यव्यतिरिक्तानामुत्सवाभावेनान्वयासङ्गत्यापत्तेः, उत्सवशब्दस्य स्मृतिपुराणभगवच्छास्त्रादिषु देवोत्सवमनुष्योत्सवादितिर्यक्स्थाव[[??]]व्यतिरिक्तकर्तव्यव्यापारविशेष एव प्रयोगनियमेन रूढतया केवलसन्तोषपरत्वस्य लक्षणाप्रसङ्गेनासम्भवात्, ‘पितेव परितुष्यती’त्यस्यासाङ्गत्यापत्तेश्च । पशुपक्ष्यादीनां पितृत्वनिर्णयायोगेन तद्धेतुकसन्तोषायोगात् । भगवद्गुणदर्पणे - ‘पवित्रं मङ्गलं पर’मित्यत्र स्वतन्त्र एवाशेषदोषपरिपन्थिशान्तानन्तापरिमितानुकूलतमस्वयम्प्रभा(नन्दा)त्मानुभवनिबन्धननिरङ्कुशानन्दन्यत्कृतनिस्तरङ्गस्तिमितामृतमहोदधिन्यायया परावस्थयैव निरपेक्षो नित्यतृप्तश्चेति शक्यनिरूपणो भगवान्, न्यरूपि च

आनन्दमयोऽभ्यासात्, आनन्दादयः प्रधानस्य, अक्षरधियां त्ववरोधः

इत्यादौ

इत्युक्तम् । अत्र आनन्दमयाधिकरणमुक्तार्थोपष्टम्भकतयोदाहृतम् । तत्र श्रीभाष्यश्रुतप्रकाशिकयोः भगवति दुःखाभाववत्त्वं स्थापितम् । अक्षरध्यधिकरणे अमलत्वं स्थापितम् । पूर्वपक्षोदाहृतभगवद्गुणदर्पणवाक्ये

स्वार्थशोकहर्षाद्यभावेऽपि परार्थतत्प्रवृत्तिरदोषः

इत्यत्र परार्थतत्प्रवृत्तिरभिनयमात्रमित्यर्थः; ‘‘सुतन्तुस्तन्तुवर्धनः” इत्यत्र शोभनोऽनतिलङ्घनीयः, तद्ग्रहणवागुरातन्तुः कृत्रिमशान्त्यादिरूपो यस्येति सुतन्तु’रिति वाक्यैकार्थ्यात् ।

[[163]]

‘यतस्सर्वाणि भूतानी’त्येतद्व्याख्याने

न च जगदुपादानत्वात् भगवति विकारादिदोषप्रसक्तिः, स्वशरीरतया परिगृहीतप्रकृत्याद्येकदेशद्वारकत्वात् परिणामादेरूर्णनाभिदृष्टान्तेनोपपादयन्ती तत्रभवती श्रुतिरेव पर्यहार्षीत्

इति वाक्यात् पूर्वपक्षोदाहृत “बहुस्यां प्रजायेये’त्यत्र तदवस्थाभिमानीत्युक्तावस्थाविशेषणगतैव न तु विशेष्यगतेति स्पष्टमवगम्यते । कूरकुलाधिपैरेवान्तरधिकरणश्रुतप्रकाशिकायां

जीवानुप्रवेशेषु शोकादयः साक्षादवतारेषु अभिनयमात्रमिति ‘व्यसनेषु मनुष्याणा’मित्येतदर्थ अभिनयरूप

इति सुस्पष्टमुक्तम् ।

ईशन्नपि महायोगी सर्वस्य जगतः प्रभुः ।
कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः ॥
तेन वञ्चयते लोकान् मायायोगेन केशवः ।
ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ॥
कृत्वा भारावतरणं पृथिव्याः पृथुलोचनः ।
मोहयित्वा जगत्सर्वं गतः स्वं स्थानमुत्तमम् ॥
मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते ।
लीला जगत्पतेस्तस्य छन्दतस्सम्प्रवर्तते ॥

इति श्रीसाध्योपायशोधनाधिकारोदाहृतमहर्षिवचनैरवतारेषु दुःखाद्यभिनयमात्रं प्रतीयते । दया परदुःखदुःखित्वमिति श्रीभाष्यादौ क्वापि नोक्तम् ।

दया नाम स्वार्थनिरपेक्षा परदुःखासहिष्णुता

इत्युक्तम् । सा च परदुःखनिराकरणेच्छा । श्रुतप्रकाशिकायां शेषत्वविचारे दया नाम स्वार्थनिरपेक्षा परदुःखासहिष्णुतेत्युक्त्वार्थादिकामनया परदुःखशिशमयिषोः परदुःखानुवृत्तिरनिष्टा स्यादिति तद्व्युदासाय स्थार्थानपेक्षशब्द इत्युक्तम् । भावान्तराभाववादिसिद्धान्तिमते परदुःखनिराकरणेच्छा परदुःखासहिष्णुता चैकैवेति । गोग्रासप्रदानादिकं तत्तच्छब्दयुक्तकर्मसु भगवदेकाराधनत्वं, व्यासस्मृत्याद्युक्तदेवतानमस्कारोपहारनिवेदनपुष्पादिदानवृद्धाभिवादनगुरूपासनवेदाङ्गावेक्षणादीनि चाचार्यपादैरेवानुगृहीतानि ।

विश्वास-प्रस्तुतिः

भगवानेव … अभिगमनाख्यं कर्म कारितवानिति सात्त्विकत्यागं कृत्वा,
कृतञ्च करिष्यामि … अभिगमनेन भगवत्कर्मणा भगवान् प्रीयतां वासुदेव
इति भगवति समर्पयेत् ।

मूलम्

भगवानेव + अभिगमनाख्यं कर्म कारितवानिति सात्त्विकत्यागं कृत्वा, कृतञ्च करिष्यामि + अभिगमनेन भगवत्कर्मणा भगवान् प्रीयतां वासुदेव इति भगवति समर्पयेत् ।

आह्निकार्थप्रकाशिका

एवमभिगमनं साङ्गं प्रतिपाद्य सात्त्विकत्यागपूर्वकं भगवति समर्पणप्रकारमाह — भगवानेवेति । एतत्तत्त्वं पूर्वमेव प्रपञ्चितम् ।

[[164]]