०६ ब्रह्मयज्ञक्रमः

विश्वास-प्रस्तुतिः

अथ ब्रह्मयज्ञक्रमः

आचम्य, प्राणानायम्य,
“ब्रह्मयज्ञेन यक्ष्य” इति सङ्कल्प्य,

मूलम्

अथ ब्रह्मयज्ञक्रमः

आचम्य, प्राणानायम्य,
“ब्रह्मयज्ञेन यक्ष्य” इति सङ्कल्प्य,

विश्वास-प्रस्तुतिः

इत्य् अप उपस्पृश्य,
तूष्णीं त्रिर् अपः प्राश्य
द्विः परिमृज्य,
सकृद् उपस्पृश्य,
शिरस् सर्वाभिर् अङ्गुलीभिः
चक्षुषी अनामिकया
नासिके तर्जन्या
श्रोत्रे कनिष्ठिकया,
हृदयं तलेन चोपस्पृश्य

शुचौ देशे दर्भान् आस्तीर्य
तत्रासीनस् सपवित्र-पाणि-द्वन्द्वः
त्रिः प्राणानायम्य,
दक्षिणपादोत्तरम् उपस्थं कृत्वा,
दक्षिणजानुनि दक्षिणोत्तरौ पाणी कृत्वा,
ओं भूर्भुवस्सुवः इति व्याहृतित्रयम् उक्त्वा,

ओं तत्सवितुर्वरेण्यं,
ओं भर्गो देवस्य धीमहि,
ओं धियो यो नः प्रचोदयाद्

इति पादशः गायत्रीमुक्त्वा

तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि,
धियो यो नः प्रचोदयाद्

इत्यर्द्धर्चशश् च

ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयाद्

इत्य् अनवानं चोच्चरेत्,
इति श्रौतप्रक्रिया ।

अथ वा,

ओं भूः तत्सवितुर्वरेण्यं,
ओं भुवः भर्गोदेवस्य धीमहि,
ओं सुवः धियो यो नः प्रचोदयाद्

इति पादशः,

ओं भूः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि,
ओं भुवः धियो यो नः प्रचोदयात्

इत्यर्धशः,

ओं सुवः तत्सवितुः + चोदयात्

इत्यनवानं,

ओं भूर्भुवस्सवः तत्स + चोदयाद्

इति चोक्त्वा,

वेदादीन् उक्त्वा,

अधीत-क्रमेण स्वशाखायां प्रश्नम् अनुवाकं वा यथाशक्त्य् अधीत्य,
पुंसूक्तं, गायत्रीं दशकृत्वो वा ऽधीत्य,

ओं भूर्भुव॒स्सुवः॑।
स॒त्यं तपः॑ श्र॒द्धायां॑ जुहोमि

इत्युक्त्वा,

मूलम्

विद्युदसि विद्य मे पाप्मानमृतात्सत्यमुपैमीत्यप उपस्पृश्य, तूष्णीं त्रिरपः प्राश्य द्विः परिमृज्य, सकृदुपस्पृश्य, शिरस्सर्वाभिरङ्गुलीभिः चक्षुषी अनामिकया नासिके तर्जन्या श्रोत्रे कनिष्ठिकया, हृदयं तलेन चोपस्पृश्य शुचौ देशे दर्भानास्तीर्य तत्रासीनस्सपवित्रपाणिद्वन्द्वः त्रिः प्राणानायम्य, दक्षिणपादोत्तरमुपस्थं कृत्वा, दक्षिणजानुनि दक्षिणोत्तरौ पाणी कृत्वा, ओं भूर्भुवस्सुवः इति व्याहृतित्रयमुक्त्वा, ओं तत्सवितुर्वरेण्यं, ओं भर्गो देवस्य धीमहि, ओं धियो यो नः प्रचोदयादिति पादशः गायत्रीमुक्त्वा तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि, धियो यो नः प्रचोदयादित्यर्द्धर्चशश्च ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयादित्यनवानं चोच्चरेत्, इति श्रौतप्रक्रिया । अथ वा, ओं भूः तत्सवितुर्वरेण्यं, ओं भुवः भर्गोदेवस्य धीमहि, ओं सुवः धियो यो नः प्रचोदयादिति पादशः, ओं भूः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि, ओं भुवः धियो यो नः प्रचोदयात् इत्यर्धशः, ओं सुवः तत्सवितुः + चोदयात् इत्यनवानं, ओं भूर्भुवस्सवः तत्स + चोदयादिति चोक्त्वा, वेदादीनुक्त्वा, अधीतक्रमेण स्वशाखायां प्रश्नमनुवाकं वा यथाशक्त्यधीत्य, पुंसूक्तं गायत्रीं दशकृत्वो वाऽधीत्य, ओं भूर्भुवस्सुवस्सत्यं तपः श्रद्धायां जुहोमीत्युक्त्वा,

विश्वास-प्रस्तुतिः

इति त्रिरुक्त्वा,

मूलम्

इति त्रिरुक्त्वा,

विश्वास-प्रस्तुतिः

इत्यप उपस्पृश्याचामेत् ।

मूलम्

इत्यप उपस्पृश्याचामेत् ।

[[139]]

आह्निकार्थप्रकाशिका

ब्रह्मयज्ञं प्रतिजानीते — अथेति । तदुक्तं –

अथ ब्रह्मयज्ञं
प्रत्यक्ष-तैत्तरीय-श्रुत्याद्य्-अनुसारेण
उदित आदित्ये कुर्यात् ।
माध्यन्दिनानन्तरं वा
भोजनात् पूर्वं वा
यत्र कुत्रचिद् अवसरे वा ।

आदिपदेन स्मृति-परिग्रहः ।

ननु रत्नाकरादि-धर्म-शास्त्र-निबन्धनेषु
प्रातर् होमानन्तरं ब्रह्म-यज्ञानुष्ठानम् उक्तं,
अत्र कथं होमात् पूर्वं ब्रह्म-यज्ञ-कथनम्

इति चेन् न -
‘उदित आदित्य’ इति ‘प्रत्यक्ष-तैत्तिरीयादी’त्य्-आचार्यपादानुगृहीतत्वात् ।

‘उदिते सूर्ये प्रातर्जुहोती’ति प्रत्यक्ष-श्रुतौ
प्रातश् शब्दस्य षड्घटिकात्मक-काल-परतया
ब्रह्मयज्ञानन्तरम् अपि
होम-काल-सत्त्वेन कर्तुं शक्यत्वात्,
अनुष्ठान-प्रकार-तद्-अङ्गादि-प्रतिपादक-ब्रह्म-यज्ञ-विधायक-श्रुतेः बलीयस्त्वात् ।
‘अङ्गेषु यथाश्रय-भावः’ इत्य् अधिकरण-श्रीभाष्यं –

यथोद्गीथादयः उपासनाश्रयाः क्रत्व्-अङ्गतया
प्रयोग-विधिना नियमेनोपादीयन्ते

इति । तत्र श्रुत-प्रकाशिका -

प्रयोग-विधिः अनुष्ठापकत्व-दशापन्न-विधिः,
न तु ज्ञापकावस्थः

इति ।
अत्र प्रयोगविधेः ज्ञापकत्वदशापन्नविध्यपेक्षया प्राबल्यमवगतम् । शिष्टाचारेणापि होमात्पूर्वं ब्रह्मयज्ञानुष्ठानमेव सिद्धम् । होमानन्तरं ब्रह्मयज्ञविधायकस्मृतिवचनान्युदाहृतश्रुतिविरुद्धतया विरोधाधिकरणनयेन दुर्बलानि । एतेन इतराह्निकोक्तं प्रातर्होमानन्तरं ब्रह्मयज्ञानुष्ठानं प्रत्युक्तम् ।

ब्रह्मयज्ञेन यक्ष्यमाणः प्राच्यान्दिशि ग्रामादच्छदिर्दर्श उदीच्यां प्रागुदीच्यां वोदित आदित्य

इत्यादिश्रुतिः । अछदिर्दर्शेछदिर्दर्शनरहिते देशे । छदिश्शब्दः गृहाच्छादकतृणादिपरः । ‘अथ पटलं छदि’रिति निघण्टुः ।

अत्र कात्यायनः -

यश्च श्रुतिजपः प्रोक्तो ब्रह्मयज्ञस्स उच्यते

ततो वेद एव ब्रह्मयज्ञेऽध्येतव्यः,

पैठीनसिः -

स्वशाखाध्ययनं यत्तत् ब्रह्मयज्ञस्स उच्यते ।
ब्रह्मयज्ञपरो विप्रो ब्रह्मलोके महीयते ॥

अत्र स्वशाखेति विशेषितत्वादधीतमपि वेदान्तरं ब्रह्मयज्ञे नाध्येतव्यमिति सिद्धम् ।

[[140]]

कौर्मेऽपि —

यदि स्यात्तर्पणादर्वाक् ब्रह्मयज्ञः कृतो न हि ।
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमारभेत् ॥

शौनकः -

प्राणायामैर्दग्धदोषश्शुक्लाम्बरधरश्शुचिः ।
यथाविध्यप आचम्य आहरेद्दर्भसंस्तरम् ॥
पवित्रपाणी कृत्वा तु उपस्थे दक्षिणोत्तरौ + ब्रह्म यज्ञस्यापि महायज्ञत्वात्

सर्वेषु यज्ञक्रतुष्विति । होष्यन्नप उपस्पृशेत् । विद्युदसि विद्य मे पाप्मानमिति । अथ हुत्वोपस्पृशेत् । वृष्टिरसि वृश्चमे पाप्मानम्

इति श्रुतेरत्रापि विद्युद्वृष्टी भवतः । ब्रह्मयज्ञेन यक्ष्य

इत्यादिकं,

दर्भास्तरितशुचौ देशे उपस्थं कृत्वा प्राङासीनः त्रिः प्राणानायम्य सपवित्रौ दक्षिणोत्तरौ करौ कृत्वा तत्सवितुरिति पच्छोर्ध्वर्चशः ततस्सर्वा व्याहृतीः विहृताः पादादिष्वन्तेषु वा तथार्चयोरुत्तमां कृत्स्नायामिति ब्रह्मोपदेशोक्तक्रमेण सप्रणवमुच्चार्य

इत्यादि

स्मृतिरत्नावल्यां -

प्रणवं व्याहृतीश्चैव गायत्रीं च जपेत् क्रमात् ।
पच्छोऽर्ध्वर्चश उच्छ्वासात् वेदादींश्चतुरो जपेत् ॥

शौनकश्च -

ओंपूर्वया व्याहृत्या सावित्रीमन्वाह पच्छोऽर्ध्वर्चशस्सर्वामिति द्यावापृथिव्यास्समीक्ष्यमाणः सम्मील्य वा । यथा युक्तमात्मानं मन्येत तथा युक्तोऽधीयीत ।

विष्णुश्च -

ओङ्कारं व्याहृतीस्तिस्रो गायत्रीं च तदित्र्यचम् ।
मनस्येताननुस्मृत्य वेदादीन् समुपक्रमेत् ।
एवं नित्यं प्रश्नमधीत्य ओं नमो ब्रह्मणे ।
इति परिधानीयां त्रिरन्वाह । ततो वृष्टिरसीत्युक्त्वा अप उपस्पृश्य गृहानेति ।

अत्र मनुः -

आहैव स नखाग्रेभ्यः परमं तप्यते तपः ।
यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥

आनखाग्रेभ्य इत्यन्वयः । हेति प्रसिद्धौ । तप्यत एव । स्रग्वीति स्वैराचारं दर्शयति । तथा यदधीतेऽन्वहं शक्त्येति च । भूर्भुवस्सुवस्सत्यं तपश्श्रद्धायां जुहोमीत्युक्त्वा, परिधानीयां त्रिः जपेत् । ब्रह्मयज्ञविहीनश्च ब्रह्महा कीर्तितो बुधैरिति प्रत्यवायस्मृतेः । अनधीतवेदेनापि ब्रह्मयज्ञे गायत्री यथाशक्ति जप्तव्या ।

[[141]]

तथा मनुः -

अपां समीपे नितयो नैत्यकं विधिमास्थितः ।
गायत्रीमप्यधीयीत गत्वारण्यं समाहितः ॥

श्रीविष्णुधर्मोत्तरे -

ब्रह्मयज्ञे जपेत्सूक्तं पौरुषं चिन्तयन् हरिम् ।
स सर्वान् जपते वेदान् साङ्गोपाङ्गान् समाहितः ॥

अतोऽनधीतवेदोऽशक्तो वा ब्रह्मयज्ञे पुरुषसूक्तमेव जपेत् इत्युक्तं रत्नाकरवाक्यजातमनुसन्धेयम् ।

यदपरोक्तं — वरदराजीय इत्यादिना विष्णुगायत्र्यष्टाक्षरद्वादशाक्षरषडक्षरमन्त्ररत्नतद्विष्णोरिति सूक्तानां ब्रह्मयज्ञे जप्यत्वं वेदादिपदेन विवक्षितम् । स्मृत्यन्तरे

वेदधर्मपुराणानि सेतिहासानि शक्तितः ।
ब्रह्मयज्ञप्रसिध्यर्थं विद्यां चाध्यात्मिकां जपेत् ॥

एतेन ब्रह्मयज्ञे च ‘वेदाश्चतुरो जपे’दित्यत्र तद्गुणसंविज्ञानो बहुव्रीहिरिति सिद्धमिति । तदयुक्तं – शिष्टेषु वेदगायत्रीपुंसूक्तव्यतिरिक्तानां विष्णुगायत्र्यादीनां जपानुष्ठानाभावात् । ‘वेदादींश्चतुर’ इत्यत्र तद्गुणसंविज्ञानबहुव्रीहिसमासाश्रयणमप्ययुक्तं ‘वेदधर्मपुराणानी’ति वचने वेदधर्मशास्त्रपुराणेतिहासाध्यात्मविद्यानां पञ्चानां जप्यत्वावगमेन ‘चतुर’ इत्यनन्वयप्रसङ्गात् । वेदानामादयः वेदादयः, तानिति तत्पुरुषसमास एव चतुर इत्यस्यान्वयोपपत्तेः । न च पूर्वोदाहृतरत्नाकरस्थवचनात् स्वशाखामात्रस्य ब्रह्मयज्ञोऽध्येतव्यत्वं सिद्धं, तत्कथं वेदादीनां चतुर्णां जप्यत्वमिति वाच्यं;

वेदादींश्चतुरो जपेत्,
ओङ्कारं व्याहृतीस्तिस्रो गायत्रीं च तदित्र्यचम् ।
मनसैताननुस्मृत्य वेदादीन् समुप्रक्रमेत् ॥

इति रत्नाकरोदाहृतवचनतः वेदादिभागजप्यत्वविधानात्, शिष्टाचाराच्च स्वशाखाव्यतिरिक्ताध्ययननिषेधस्य प्रश्नानुवाकादिविषयत्वस्य वक्तव्यत्वात् ।

यदप्यपराह्निके - अयं च यतिभिः कार्यः -

वेदान्तज्ञाननिष्ठो वा पञ्च यज्ञान् समाहितः ।
कुर्यादहरहः स्नात्वा भिक्षान्नेन चरेद्बहिः ॥
स्वाध्यायञ्चान्वहङ्कुर्यात् सावित्रीं सन्ध्ययोर्जपेत् ।
अभ्यसेत्सततं वेदं प्रणवारव्यं सनातनम् ॥

इति व्यासस्मरणादित्युक्तम् । तदत्यन्तमसाधु । उदाहृतवचनयोः व्यासस्मृतौ प्रसिद्धनिबन्धनेषु चादर्शनात् ।

[[142]]

पञ्चसूना गृहस्थस्य वर्तन्तेऽहरहस्सदा ।
पेषिणी खण्डिनी छुल्ली उदकुम्भ उपस्करः ॥
एताभिर्वाहयन्विप्रो बध्यते च मुहुर्मुहुः ।

व्यासः -

पञ्चयज्ञांश्च यो मोहान्न करोति गृहाश्रमी ।
तस्य नायं न च परो लोको भवति धर्मतः ॥

इत्यादिभिः रत्नाकराद्युदाहृतवचनैः पञ्चयज्ञविधानस्य गृहस्थाधिकारित्वावगमात् ।

नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कथञ्चन

इति यतिधर्मसमुच्चयसप्तमपर्वस्थवचनेन यतेर्वेदाध्ययनादिनिषेधाच्च । वर्णाश्रमकाण्डे व्यासः –

अभ्यसेत्सततं वेदं प्रणवाख्यं सनातनम् ।
नाध्येतव्यं न वक्तव्यं न श्रोतव्यं कथञ्चन ॥

‘नाध्येतव्य’मित्यादिकर्मकाण्डविषया, ‘उपनिषदमावर्तये’दित्यादिश्रुतेरिति कर्मकाण्डाध्ययनत्यागोक्तेश्च । श्रीभाष्ये

ऊर्ध्वरेतसो यज्ञाद्यभावात् तदङ्गिका विद्या न सम्भवतीत्याशङ्क्याह अत एव चाग्नीन्धनाद्यनपेक्षा ।

तेषु विद्या केवलस्वाश्रमविहितकर्मापेक्षेत्यर्थः । र्सापेक्षा च यज्ञादिश्रुतेरश्ववत् । यदि विद्या यज्ञाद्यनपेक्षैवामृतत्वं साधयति तर्हि गृहस्थेष्वपि तदनपेक्षैव साधयितुमर्हतीति यतेः यज्ञाभावोऽनुगृहीतः । न च यज्ञशब्दः पञ्चमहायज्ञव्यतिरिक्तविषय इति वाच्यंं; लघुसिद्धान्ते तल्लब्धिः विवेकविमोकाभ्यासक्रियेत्यादिवाक्यस्थक्रियाशब्दस्य “पञ्चमहायज्ञाद्यनुष्ठानं शक्तितः क्रिये"ति निर्वचनं,

क्रियावानेष ब्रह्मविदां वरिष्ठः, तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसा नाशकेन

इति पञ्चमहायज्ञादिपरत्वस्यानुगृहीतत्वात् ।

त्यक्ते यज्ञादिधर्मे परभजनविधेरूर्ध्वरेतस्सु दृष्ट्या

इति श्रीसारावलीश्रीसूक्त्या

यज्ञेन दानेन तपसा नाशकेन

इति यज्ञादेर्ब्रह्मविद्याङ्गत्वेनोपदेशात् यज्ञाद्यनधिकृतेषूर्ध्वरेतस्सु यज्ञादिधर्मपरित्यागेऽपि परभजनविधेः दृष्टत्वात्

इत्यादिकया अधिकरणचिन्तामणिश्रीसूक्त्या चोपदर्शितश्रीभाष्यार्थस्यैव प्रदर्शितत्वात् ।

[[143]]

श्रीतत्त्वटीकायां -

यज्ञोपादानं गृहस्थोऽपि विमुच्यत इति स्मृतिसूचनार्थम्

इति पञ्चमहायज्ञादीनां गृहस्थैकान्तत्वं ह्यनुगृहीतम् । पञ्चमहायज्ञानां गृहस्थधर्मत्वं

लब्ध्वानुज्ञां गुरोस्स्नात्वा सम्प्राप्य विधिवत्स्त्रियम् ।
तया सह चरेद्धर्मं नित्यं स्वाध्यायतत्परः ।
स्नातकव्रतशाली च पञ्चयज्ञपरायणः ॥

इत्यहिर्बुध्न्यसंहितापञ्चदशाध्यायवचनसिद्धम् । यतिषु पञ्चमहायज्ञाचारः क्वापि नास्ति । अतः प्राचीनसत्पथान्यधाकरणसम्भ्रमोऽज्ञानविजृम्भितः । यतेः प्रमाणाचार्यश्रीसूक्तिविरुद्धमिति पञ्चमहायज्ञानुष्ठानकथनं सद्भिरुपेक्ष्यम् । यदप्यपराह्निके - विधुराद्यैरपि ब्रह्मयज्ञः कार्यः अनाश्रमिणामपि विद्यानुग्रहः स्मर्यते –

जप्येनापि च संसिध्येत् ब्राह्मणो नात्र संशयः ।
कुर्यादन्यं न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥

इति । संसिध्येत् = जपाद्यनुगृहीतया विद्यया सिद्धो भवतीत्यर्थ इति श्रीभाष्ये भाषितत्वात् इदं मनुवचनं ब्रह्मयज्ञपरं;

ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥

इति तत्पूर्ववचनम् । ‘‘अयज्ञो वा एषः । योऽपत्नीकः” इति श्रुतौ यज्ञशब्दोऽग्निसाध्ययज्ञपरः, अन्यथा

कुर्यात् प्रतिदिनं वर्णी ब्रह्मयज्ञं च तर्पणम्

इति स्मृतेरुक्तश्रुतिविरुद्धत्वेनाप्रामाण्यात् ब्रह्मचारिणोऽपि न स्यात् इति ब्रह्मयज्ञस्य विधुरादिकार्यत्वमुक्तम् । तदाग्रहमूलकभ्रममूलं; श्रीभाष्यादिविरुद्धत्वात् ।

अन्तरा चापि तु तद्दृष्टेः

इत्यधिकरणश्रीभाष्ये

न चाश्रमधर्मैरेव विद्यानुग्रह इति शक्यते वक्तुं, यज्ञेन दानेन तपसा नाशकेनेति दानादीनामाश्रमेष्वनैकान्तिकानामप्यनुग्राहकत्वश्रवणात् । तथानाश्रमिष्वपि विद्यादर्शनात् आश्रमानियतैर्जपोपवासदानदेवताराधनादिभिर्विद्यानुग्रहश्शक्यते कर्तुम्

इति आश्रमानियतजपोपवासादिभिरनाश्रमिणां विद्यानिष्पत्तिमभिधाय

अपि स्मर्यते । अनाश्रमिणामपि जपादिभिरेव विद्यानुग्रहः स्मर्यते ।

[[144]]

जप्येनापि च संसिध्ये’दिति मनुवचनमुदाहृत्य

संसिध्येत् - जपाद्यनुगृहीतया विद्यया सिद्धो भवति

इत्यनुगृहीतम् । ब्रह्मयज्ञः नाश्रमानियतः; उदाहृततत्त्वटीकाश्रीसूक्त्यहिर्बुध्न्यसंहितावचनादिभिस्तस्याश्रमनियतत्वावगमात् । श्रीतत्त्वटीकायां ‘क्रियावाने ब्रह्मविदा’मिति श्रुत्यर्थविचारे

मत्वर्थीयस्य भूमपरतया विधुरादिब्रह्मयज्ञविद्याव्यावृत्तिपरं वा तेषां हि वर्णधर्ममात्रयोगित्वादरत्वम् अतस्त्वितरज्ज्यायो लिङ्गाच्चेति सूत्रसिद्धम्

इत्यादिना

क्रियाशब्दस्य चित्तसमाधानादिमात्रव्यावृत्त्यैवमेतमित्याद्युपात्तम्

इत्यन्तेन वाक्येन,

दारालाभे विरक्तेर्मृदिमनि च भवेदन्तरेणाश्रमान्यस्तस्मिन् निश्शेषधर्मत्यजि भवतु कथं ब्रह्मविद्येति चेन्न ।
सामान्यैर्वर्णधर्मैर्गुणनियतियुतैस्साहि तत्रापि साङ्गा

इति श्रीसारावलीश्रीसूक्त्या च विधुरादीनां वर्णधर्ममात्रयोगित्वं ह्यनुगृहीतम् । उदाहृतमनुवचनस्थजप्यशब्दो न ब्रह्मयज्ञपरः प्रकरणव्याख्यादिविरोधात् । तत्स्मृतिद्वितीयाध्याये –

विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशुस्स्याच्छतगुणस्सहस्रो मानसः स्मृतः ॥

इति जपयज्ञस्य क्रियारूपयज्ञात् श्रैष्ठ्यमुपांशुमानसजपफलभेदञ्चाभिधाय

ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः ।
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥

इति पूर्ववचनप्रतिपन्नजपयज्ञं प्रशस्य ‘जप्येनापि च संसिध्ये’दित्यनेनाश्रमविशेषानियतजपाद्यनुगृहीतविद्यया ब्रह्मप्राप्तिरभिहिता । मनुस्मृतिव्याख्याने उदाहृतमनुवचनमेवं व्याख्यातं - जप्येनेति । ब्राह्मणः जप्येनैव निस्सन्देहां सिद्धिं लभते । मोक्षप्राप्तियोग्यो भवति । अन्यत् यागादिकं करोतु न करोतु वा । यस्मान्मैत्रो ब्राह्मणः । ब्रह्मणस्सम्बन्धी । ब्रह्मणि नियत इत्यागमेषूच्यते । मित्रमेव मैत्रः । स्वार्थेऽण् प्रत्ययः । यागादिषु पशुबीजादिवधान्न सर्वप्राणिप्रियता भवति । तस्माद्यागादिना विनापि प्रणवादिजपनिष्ठो निस्तरतीति जपप्रशंसा । न तु यागादीनां निषेधः । तेषामपि शास्त्रीयत्वादिति ।

[[145]]

हारीतस्मृतौ चतुर्थेऽध्याये -

प्राणायामत्रयं धीमान् यथान्यायमतन्द्रितः ।
जपयज्ञं ततः कुर्यात् गायत्रीं वेदमातरम् ॥
त्रिविधा जपयज्ञस्स्यात्तस्य तत्त्वं निबोधत ।
वाचकश्च उपांशुश्च मानसश्च त्रिधा मतः ।
त्रयाणामपि यज्ञानां श्रैष्ठ्यं स्यादुत्तरोत्तरम् ॥

इति जपयज्ञशब्दः मन्त्रजप एव प्रयुक्तः । अत्रिस्मृतौ द्वितीयेऽध्याये –

आलम्भयज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ।
उपांशुस्स्याच्छतगुणस्सहस्रो मानसः स्मृतः ॥

इति जपयज्ञपदं मन्त्रावर्तनपरं प्रयुक्तम् । भगवद्गुणदर्पणे ‘किञ्जपन्मुच्यते जन्तु’रित्येतद्व्याख्याने नियमविशेषवन्मन्त्राद्यावर्तनं जपः ।

जप्येनापि च संसिध्येत् ब्राह्मणो नात्र संशयः ।
कुर्यादन्यन्न वा कुर्यात् मैत्रो ब्राह्मण उच्यते ॥
द्रव्ययज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः ॥

‘यज्ञानां जपयज्ञोऽस्मी’ति जपश्रैष्ठ्या’दित्यादिना उदाहृतमनुवचनस्थजप्यपदस्य ब्रह्मयज्ञव्यतिरिक्तजपपरत्वमुपवर्णितम् । अतोऽत्र जप्यपदं न ब्रह्मयज्ञपरम् । किन्तु तद्व्यतिरिक्तमन्त्राद्यावर्तनपरमेवेति । यच्चोक्तं – ‘अयज्ञो वा एषः योऽपत्नीक’ इति श्रुतौ अग्निब्दोऽग्निसाध्ययज्ञपरः । अन्यथा

कुर्यात् प्रतिदिनं वर्णी ब्रह्मयज्ञं च तर्पणम्

इति स्मृतेरुक्तश्रुतिविरोधेन ब्रह्मचारिणोऽपि ब्रह्मयज्ञो न स्यादिति । तन्मन्दं पूर्वोपदर्शितश्रीभाष्यलघुसिद्धान्तश्रीसूक्त्यनुसारेण पञ्चमहायज्ञसाधारणतयावगतस्य यज्ञशब्दस्य यज्ञविशेषे संकोचाभावात् । उक्तश्रुतेरपत्नीकसामान्यविषयतया कुर्यात् प्रतिदिनमिति विशेषशास्त्रविहितब्रह्मयज्ञस्य ब्रह्मचारिणि निराबाधात् । अहो भवतां महत्त्वं मीमांसकत्वस्य; यदुत्सर्गेणापवादबाधवर्णने प्रवर्तयति ।

[[146]]

विरोधाधिकरणस्य स्पष्टार्थं श्रुतिविषयत्वाद्

इति श्रीस्तोत्रभाष्येऽनुगृहीतत्वेनोक्तसामान्यश्रुत्योक्तस्मृतिविशेषबाधवर्णनस्य हास्यत्वात् । रत्नाकरे — विधुरं प्रकृत्यत्रिः -

साग्निकः पितृयज्ञान्तं बलिकर्म समाचरेत् ।
अनग्निर्हुतशेषन्तु बलिं काकबलिं हरेत् ।
पुरुषयज्ञादृते नान्यदनग्नेस्तु महामखे ।

तुशब्दाभ्यां देवादियज्ञचतुष्टयं व्यावर्त्यते । स्वाध्यायाविस्मृत्यर्थं वेदमधीयीत, न ब्रह्मयज्ञं कुर्यादिति विशेष्यते ।

पञ्चकॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम्

इति पराशरेण पञ्चमहायज्ञानां गृहमेधिविषयत्वस्मरणात् । मनुष्येभ्यो दानमिति न विरोधः । इति अनाश्रमिणां ब्रह्मयज्ञनिषेधः स्थापितः । भवदभिमतवैकुण्ठदीक्षितीये —

अयज्ञो वा एषः योऽपत्नीकः

इति श्रुतिं प्रस्तुत्य पाणिग्रहणादधिगृहमेधिनो व्रतमित्यादिभिः पञ्चमहायज्ञानां गृहमेधिविषयशिष्टत्वात् अपत्नीकस्यायज्ञत्वश्रुतेश्च न विधुरस्य ब्रह्मयज्ञप्रसङ्गः । ब्रह्मचारिभिस्तु ब्रह्मयज्ञः कर्तव्य एव । तथा च नारदीये –

सायं प्रातस्त्वग्निकार्यं यथाकालं जितेन्द्रियः ।
कुर्यात् प्रतिदिनं वर्णी ब्रह्मयज्ञं च तर्पणम् ॥

इति रत्नाकरपक्ष एवादृतः । अतः प्रमाणाचार्यश्रीसूक्तिशिष्टानुष्ठानविरुद्धं विधुरादिब्रह्मयज्ञानुष्ठानवर्णनमिति सद्भिर्विभावनीयम् ।

विश्वास-प्रस्तुतिः

प्रातर् ब्रह्मयज्ञाकरणे
माध्याह्निकानन्तरं तर्पणात् पूर्वं
वैश्वदेवावसाने वा
ब्रह्मयज्ञं कुर्यात् ।

मूलम्

प्रातर्ब्रह्मयज्ञाकरणे माध्याह्निकानन्तरं तर्पणात्पूर्वं वैश्वदेवावसाने वा ब्रह्मयज्ञं कुर्यात् ।

आह्निकार्थप्रकाशिका

श्रुत्युक्तकाले ब्रह्मयज्ञानुष्ठानासम्भवे कालान्तरे तत्करणमाह - प्रातर् इत्यादिना ।

माध्याह्निकानन्तरं तर्पणात् पूर्वमिति । अत्र “अथ ब्रह्मयज्ञं प्रचक्षते तैत्तरीये"त्याद्याचार्यपादश्रीसूक्तिः पूर्वं प्रदर्शिता ।

[[147]]

व्यासस्मृतौ -

ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत्

इत्युपक्रम्य,

प्रदक्षिणं समावृत्य नमस्कुर्यात्ततः क्षितौ ।
निष्पीड्य स्नानवस्त्रं तु द्विराचम्य… ॥

इत्यन्तैर्वचनैर्माध्याह्निकस्नानसन्ध्योपासनगायत्रीजपप्रदक्षिणनमस्कारवस्त्रनिष्पीडनान्युक्त्वा

ततस्सन्तर्पयेद्देवान् ऋषीन् पितृगणानपि ।
आदावोङ्कारमुच्चार्य नामान्ते तर्पयामि च ॥
देवान् ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः ।
तिलोदकैः पितॄन् भक्त्या सूत्रोक्तविधिना ततः ॥

इत्यादिना देवर्षितर्पणं विहितम् । श्रीपाञ्चरात्ररक्षायां श्रीपञ्चरात्रव्यासस्मृत्यैककण्ठ्यसमर्थनावसरे ततस्तृतीयकालकर्तव्यमाह -

ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत्

इत्यादिना ।

स्नाने चैवं भगवदनुसन्धानमाह

अभिमन्त्र्य जलं मन्त्रैरब्लिङ्गैर्वारुणैश्शुभैः ।
भावपूतं तदव्यग्रं ध्यायन्वै विष्णुमव्ययम् ॥
आपो नारायणोद्भूतास्ता एवास्यायनं पुनः ।
तस्मान्नारायणं देवं स्नानकाले स्मरेद्बुधः ॥

इत्यादिना स्नानेब्लिङ्गवारुणादिमन्त्रकरणकत्वनारायणस्मरणादिकं विधाय ‘तर्पणे’ ‘आदावोङ्कारमुच्चार्ये’त्यादि सार्द्धश्लोकमुदाहृत्य

अत्र प्रणवपूर्वकत्वेन भगवदात्मकत्वानुसन्धानं विहितम् । तदेव नित्ये भाष्यकारैरपि दर्शितम् । देवान् ऋषीन् पितॄन् भगवदात्मकान् ध्यात्वा सन्तर्प्य

इति माध्याह्निकानन्तरकर्तव्यदेवर्षितर्पणं भाष्यकारानुगृहीतमिति दर्शितम् ।

[[148]]

तत्स्मृतावुत्तरत्र वैश्वदेवपञ्चमहायज्ञादिकं प्रतिपाद्य

यदि स्यात्तर्पणादर्वाक् ब्रह्मयज्ञः कृतो॒ न हि ।
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्वायमारभेत् ॥

इति तर्पणात् पूर्वं ब्रह्मयज्ञाकरणे मनुष्ययज्ञानन्तरं ब्रह्मयज्ञो विहित इति तर्पणात्पूर्वमपि ब्रह्मयज्ञानुष्ठानकालोऽस्तीति प्रतीयते । एवं रत्नाकरादिनिबन्धनेषु तर्पणात्पूर्वं ब्रह्मयज्ञविधायकानि वचनानि प्रदर्शितानि । एवञ्च माध्याह्निकसन्ध्योपास्त्यनन्तरं व्यासस्मृतिविहितदेवर्षिपितृतर्पणानामाचार्यपादानुगृहीतत्वादुक्ततर्पणानुष्ठानं नास्तीति कस्यचित् वचनमविमर्शकृतमेवेति बोध्यम् ।

सन्ध्योपासनानन्तरकृत्यञ्चैवं विवृतं —

अभिवाद्य गुरून् वृद्धान् तथा भागवतान् क्रमात् ।
प्रविश्य स्वाश्रमं देवमभिगम्य यथाविधि ॥

इत्याचार्यपादानुगृहीतत्वेन सन्ध्योपास्त्यनन्तरं गुर्वादिवन्दनं कार्यम् । यदुक्तं गोविन्दराजीये -

विनीतवदुपागम्य राघवौ प्रणिपत्य च

इति रामायणश्लोके । अत्र भिक्षुरूपस्य हनुमतः गृहस्थश्रीरामप्रणामावगमात् अन्यत्रापि भिक्षुणा गृहस्थवन्दनं कार्यमिति विज्ञायते । संन्यासिनो गृहस्थादिप्रणामनिषेधकवचनानि अनभिज्ञगृहस्थविषयाणीति मन्तव्यानि । यदि हि ज्ञानाधिकं गृहस्थं दृष्ट्वा कर्ममात्रेणाधिको यतिर्न प्रणमेत्, तर्हि

विप्राणां ज्ञानतो ज्यैष्ठ्यम्

इति मनुवचनं विरुध्येत । न हि तत्प्रणामनिषेधकमनुवचनं किञ्चिद्दृश्यते, किन्तु अनारभ्याधीतमदृष्टाकरं यत्किञ्चित् यतिप्रणामनिषेधकवचनं किंवदन्तीसिद्धं, तस्य विषयोऽज्ञगृहस्थादिरूपः

इति । तदसङ्गतं तत्र भिक्षुपदस्य याचकपरत्वेन यतिपरत्वासम्भवात् । तथा हि -

कृत्येषु वाली मेधावी राजानो बहुदर्शनाः ।
भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः ॥

इति श्लोकः एवं गोविन्दराजीये व्याख्यातः

कृत्येष्विति । कृत्येषु कर्तव्यकार्येषु वाली मेघावी दूरदर्शी । स्वभावश्चायं राज्ञामित्याह - राजान इति । बहुदर्शनाः बहूपायज्ञाः । परहन्तारो भवन्ति, ते प्राकृतैः दीनवेषधरैः ज्ञेयाः । तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गम

इति ।

[[149]]

तत्र गोविन्दराजीयव्याख्या ‘प्राकृतेन प्राकृतवेषेणे’ति । उदाहृतश्लोकव्याख्यानुसारेणा उत्तरस्य

कपिरूपं परित्यज्य हनुमान्मारुतात्मजः ।
भिक्षुरूपं ततो भेजे शठबुद्धितया कपिः ॥

इति श्लोकस्यार्थपरामर्शे श्रीरामलक्ष्मणदर्शनभीतेन महाराजेन ‘ते ज्ञेयाः प्राकृतैर्नरै’रिति राजनीतिं प्रदर्श्य’ ‘तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवङ्गमे’त्याज्ञप्तो हनुमान् कपिरूपं परित्यज्य भिक्षुरूपं भेज इत्यर्थलाभात् प्राकृतशब्दस्थानपठितं भिक्षुपदं दीनवेषधरचारपरमिति प्रतीयते । न हि प्राकृतशब्दः सन्यासिपरो युक्तः, ‘प्राकृतस्तब्ध’ इति श्रीगीतास्थप्राकृतपदं ह्यनधिगतविद्य इति श्रीगीताभाष्ये विवृतम् । नह्यज्ञस्य सन्न्यासेऽधिकारः ।

इतिहासपुराणाभ्यां श्रुत्या च प्रतिबोधितः ।
यतते परमं स्थानं यतनात्स यतिर्भवेत् ।
चीर्णवेदव्रतो विद्वान् ब्राह्मणो मोक्षमाश्रयेत् ॥

इत्यादिभिः यतिधर्मसमुच्चय-द्वितीयपर्वस्थवचनैः,

प्रवृत्तिलक्षणो योगो ज्ञानं सन्न्यासलक्षणम् ।
तस्मात् ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ॥

इत्याश्वमेधिकपर्वत्रयस्त्रिंशाध्यायवचनेन चेतिहासपुराणश्रवणाधीनज्ञानवेदव्रतादिविशिष्टस्य ज्ञानं पुरस्कृत्य सतः संन्यासाधिकारावगमात् । ‘दीनवेषधरै’रिति स्वव्याख्याविरोधाच्च ।

निस्वस्तुदुर्विधो दीनो दरिद्रो दुर्गतश्च स

इति निखण्डुः । ‘कच्चित्सर्गस्थस्य कच्चिदष्टादशान्येष्वि’ति श्लोकस्य व्याख्याने -

तथोक्तं नीतिशास्त्रे

चारान्विचारयेत्तीर्थेष्वात्मनश्च परस्य च ।
पाषण्डादीनविज्ञाता नन्योन्य[[??]]मितरैरपि ॥

इति स्वेनैव पाषण्डादिरूपत्वं चाराणामुक्तम् ।

[[150]]

श्रीभागवते चतुर्थस्कन्धे एकोनविंशेऽध्याये -

कपालखट्वाङ्गधरं वीरो नैनमबाधत ।
यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया ।
तानि पापस्य षण्डानि लिङ्गं पाषण्डमुच्यते ।
एवमिन्द्रो भरत्यश्वं वैरियज्ञजिघांसया ।
तद्गृहीतविसृष्टेषु पाषण्डेषु मतिर्नृणाम् ।
धर्म इत्युपधर्मेषु नग्नरत्नपटादिषु ।
प्रायेण सज्जते भ्रान्त्या…….,

इत्यादिवचनैः पाषण्डवेषः रक्तवस्त्रकपालधारणरूपः प्रतीयते । विज्ञानेश्वरीयप्रायश्चित्तप्रकरणे - ‘पाषण्डानाश्रिता’ इत्येतद्व्याख्याने –

नरशिरःकपालादिश्रुतिबाह्यलिङ्गधारणं पाषण्डम् । तद्येषान्ते पाषण्डिनः

इत्युक्तम् । मुद्राराक्षसनाटके प्रथमाङ्के –

प्रयुक्ताश्च स्वपक्षपरपक्षयोरनुरक्तापरक्तजनजिज्ञासया बहुविधवेषभाषाचारसञ्चारवेदिनो नानाव्यञ्जनाः प्रणिधयः

इत्यादेः ‘स मया क्षपणकलिङ्गधारी’त्यन्ताद्वाक्याच्चास्य क्षपणकलिङ्गधारणं प्रतीयते । लोकेऽपि राजकलहकाले देशसञ्चारिणो याचकान् तद्वेषधरचारत्वभ्रान्त्या कारागारे रुन्धन्ति । नहि यतेः भगवदवतारतया स्मृतिसिद्धस्य पाषण्डादिरूपत्वं भवति । अत्र

भिक्षुरूपं ततो भेजे, भिक्षुरूपप्रतिच्छन्नं, भिक्षुरूपं परित्यज्य

इति भिक्षुपदान्येव प्रयुक्तानि ।

परिव्राजकरूपधृक् श्लक्ष्णकाषायसंवीतश्शिखी छत्री उपानही ।
वामे चांसेऽवसज्ज्याथ शुभे यष्टिकमण्डलू ॥

इति परिव्राजकयष्टिकमण्डल्वादिपदानि रावणे प्रयुज्यन्ते, न हनूमति ।

[[151]]

मर्यादानां च लोकस्य कर्ता कारयिता

इति प्रशंसितेन श्रीरामरूपभगवताऽत्रिभरद्वाजसुतीक्ष्णागस्त्यविषय इव तत्सहधर्मचारिण्या वैदेह्या रावणमुद्दिश्येव हनुमतः संन्यासित्वे तत्प्रणामादिकं कृतं स्यात्, न तथा ग्रन्थे दृश्यते ।

‘विप्राणामि’ति मनुवचनं न यतेः गृहस्थप्रणामविधायकं, येन तत्प्रणामनिषेधवचनानामज्ञगृहस्थविषयता स्यात् । किन्तु विप्राणां ज्ञानहीनापेक्षया ज्ञानिनः श्रैष्ठ्यपरम् । यतेः गृहस्थप्रणामनिषेधकमनुवचनं नास्तीति यतेर्गृहस्थप्रणामस्सिध्यतीति कथनमप्यसङ्गतं,

स्वधर्मस्थान् यतीन् वृद्धान् देवांश्च प्रणमेद्यतिः ।
नान्यमाश्रमिणं कञ्चित् प्रशस्तमपि तन्नमेत् ॥

इति यतिधर्मसमुच्चयनवमपर्वोपात्तवसिष्ठ-वचनेन प्रशस्तगृहस्थनमस्कारस्य निषिद्धात् [[निषेधात्??]] । मनुस्मृतिनिषेधवचनमेवापेक्षितमिति नियमाभावात् । विस्तरस्तु श्रीपरकालस्वाम्यात्रेयवेङ्कटाध्वरिकृतयतिप्रतिवन्दनखण्डनयोरनुसन्धेयः । अतो यतेः गृहस्थवन्दनकथनं श्रीरामायणश्लोकपूर्वोत्तरस्वव्याख्याराजनीतिधर्मशास्त्रलोकवृत्तान्तविरुद्धमिति बोध्यम् ।