०५ देवर्षि-पितृ-तर्पणम्

विश्वास-प्रस्तुतिः

देवर्षिपितृतर्पणक्रमः।

अथ “देवर्षिपितृतर्पणं करिष्य” इति सङ्कल्प्य,

धर्म-शास्त्रोक्त-क्रमेण ब्रह्मादयो ये देवास्
तान् देवांस्तर्पयामि,
सर्वान् देवांस् तर्पयामि,
सर्वदेवगणांस् तर्पयामि ।
सर्वदेवपत्नीस् तर्पयामि।
सर्वदेवगणपत्नीस् तर्पयामि ।

इति क्रमेण
प्रणव-पूर्वकं देवान् भगवद्-आत्मकान्
प्राङ्मुख-उपवीती

सप्रणवं भगवद्-आत्मकान् ऋषीन् काण्डऋषींश् च,

कृष्णद्वैपायनादयो ये ऋषयस्
तान् ऋषींस् तर्पयामि ।
सर्वान् ऋषींस् तर्पयामि ।
सर्वऋषिगणांस् तर्पयामि ।
सर्वर्षि-पत्नीस् तर्पयामि ।
सर्वर्षिगणपत्नीस् तर्पयामि ।

प्रजापतिं काण्डऋषिन् तर्पयामि ।
सोमं काण्डऋषिन्तर्पयामि ।
अग्निं काण्डऋषिन्तर्पयामि ।
विश्वान् देवान् काण्डऋषीँस्तपर्ययामि ।
साँहितीर्देवता उपनिषदस्तर्पयामि ।
याज्ञीकीर्देवता उपनिषदस्तर्पयामि ।
वारुणीर्देवता उपनिषदस्तर्पयामि ।

ब्रह्माणँ स्वयंभुवन्तर्पयामि ।
सदसस्पतिन्तर्पयामि ।

इत्य् उदङ्मुखो ऽङ्गुष्ठसक्त-निवीती,

सोमः पितृमान्
यमो ऽङ्गिरस्वानग्निः
कव्यवाहन इत्यादयो ये पितरः
तान् पितॄँस् तर्पयामि ।
सर्वान् पितॄँस्तर्पयामि ।
सर्वपितृगणांस्तर्पयामि।
सर्वपितृपत्नीस् तर्पयामि।
सर्वपितृगणपत्नीस् तर्पयामि ।

इति सप्रणवं भगवदात्मकान् पित्रादीन् दक्षिणामुखः प्राचीनावीती सन्तर्प्य,
उपवीती आचम्य,

मूलम्

देवर्षिपितृतर्पणक्रमः।

अथ “देवर्षिपितृतर्पणं करिष्य” इति सङ्कल्प्य,

धर्मशास्त्रोक्तक्रमेण ब्रह्मादयो ये देवास्तान् देवांस्तर्पयामि, सर्वान् देवांस्तर्पयामि, सर्वदेवगणांस्तर्पयामि । सर्वदेवपत्नीस्तर्पयामि। सर्वदेवगणपत्नीस् तर्पयामि ।

इति क्रमेण प्रणवपूर्वकं देवान् भगवदात्मकान् प्राङ्मुख-उपवीती सप्रणवं भगवद्-आत्मकान् ऋषीन् काण्डऋषींश्च, कृष्णद्वैपायनादयो ये ऋषयस्तानृषींस्तर्पयामि । सर्वानृषींस्तर्पयामि । सर्वऋषिगणांस्तर्पयामि । सर्वर्षि-पत्नीस्तर्पयामि । सर्वर्षिगणपत्नीस्तर्पयामि । प्रजापतिं काण्डऋषिन्तर्पयामि । सोमं काण्डऋषिन्तर्पयामि । अग्निं काण्डऋषिन्तर्पयामि । विश्वान् देवान् काण्डऋषीँस्तपर्ययामि । साँहितीर्देवता उपनिषदस्तर्पयामि । याज्ञीकीर्देवता उपनिषदस्तर्पयामि । वारुणीर्देवता उपनिषदस्तर्पयामि । ब्रह्माणँ स्वयंभुवन्तर्पयामि । सदसस्पतिन्तर्पयामि । इत्युदङ्मुखोऽङ्गुष्ठसक्तनिवीती, सोमः पितृमान्यमोङ्गिरस्वानग्निः कव्यवाहन इत्यादयो ये पितरः तान् पितॄँस्तर्पयामि । सर्वान् पितॄँस्तर्पयामि । सर्वपितृगणांस्तर्पयामि। सर्वपितृपत्नीस्तर्पयामि। सर्वपितृगणपत्नीस्तर्पयामि । इति सप्रणवं भगवदात्मकान् पित्रादीन् दक्षिणामुखः प्राचीनावीती सन्तर्प्य, उपवीती आचम्य,

आह्निकार्थप्रकाशिका

देवादितर्पणान्याह - देवर्षिपितृतर्पणम् इत्यादिना ।
तदुक्तम्

तत आधार-शक्त्यादि-पार्षदान्तान्
देवर्षिपितॄंश् च भगवदात्मकान् ध्यात्वा
प्रणवपूर्वकैस् तत्-तन्-नामभिस् सन्तर्प्य

इति ।

[[136]]

तत आधार-शक्त्य्-आदींस्
तर्पयित्वा स्वनामभिः ।
नमोऽन्तैः प्रणवोपेतैर्
निष्पीड्य स्नान-शाटिकाम् ॥

श्रुति-स्मृत्य्-उदितं कर्म
यावच्-छक्ति परात्मनः ।
आराधनत्वेनापाद्य
सोर्ध्व-पुण्ड्रश् च तर्पयेत् ॥ मन्त्रैर् आधारशक्त्यादि-
पारिषदान्तसंस्थितैः ।

इति वङ्गिवंशेश्वर-भट्टारक-वचनान्य् अत्रानुसन्धेयानि ।

नारायणात्मकान् देवान्
ऋषीन् सन्तर्पयेत् पितॄन् ।
तत आधारशक्त्यादीन्
सर्वान् पारिषदान्तकान् ॥

इति नारायण-मुन्युक्तौ
देवर्षि-पितृ-तर्पणानन्तरम्
आधारशक्त्य्-आदि-तर्पणावगमे ऽप्य्
आचार्यपादैः नाथ-यामुन-पूर्णादि-सम्प्रदायानुसारिभिर्
अनुगृहीत-प्रकारेणाधारशक्त्यादितर्पणानन्तरं देवादि-तर्पणोपदेशः ।

यत् तु कैश्चित् ब्रह्मयज्ञानन्तरं देवादितर्पणं कार्यम् इत्युक्तं;
तदाचार्यपाद-श्रीसूक्ति-विरुद्धम् इत्य् उपेक्ष्यम् ।

यजुश्शाखिनान्तु काण्डानुक्रमण्यां काण्डर्षितर्पणम् उक्तं -

अथ काण्डऋषीन् एतान्
उदकाञ्जलिभिश् शुचिः ।
अव्यग्रस्तर्पयेन् नित्यं
मन्त्रैः पर्वाष्टमीषु च ॥

अत्र कपर्दिस्वामी -

काण्डर्षितर्पणं नित्यम्
उपेतेन निवीतिना ।
वार्यञ्जलिभिर् अन्यैश् च
कार्यं पर्वाष्टमीषु च ॥
तर्पणन् तु द्विजः कुर्यात्
प्रत्यहं स्नातकस् ततः ।
देवेभ्यश्च ऋषिभ्यश्च
पितृभ्यश्च यथाक्रमम् ॥

इति शातातपादिभिर् उक्तेषु तर्पणीयेषु
यथास्वशाखं व्यवस्था ऽनुसन्धातव्या

इति रत्नाकरवचनान्यत्र भाव्यानि ।
यद् अपरोक्तं -

जीवपितृकस्य पितृतर्पणं न कार्यम् ।

कव्य-वाड् अनलस् सोमो
यमश्चैवार्यमा तथा ।
अग्निष्वात्तास् सोमपाश् च
तता बर्हिषदोऽपि च ।
यदि स्याज् जीव-पितृक
एतान् सन्तर्पयेन् नवा ॥

इति विकल्पोक्तेर् अननुष्ठाने प्रत्यवायाभावात्,

अक्रियावद्-अनर्थाय
तत्तु कर्म समाचरेत्

इति प्रपन्नान् प्रतिनियमात्

इति,
तद् अयुक्तं -
जीवपितृकेष्व् अपि
पितृतर्पणानुष्ठान-दर्शनेनोक्त-विकल्पस्याचार-व्यवस्थिततया
‘येनास्य पितरो याता’ इति वचनेनावश्यकतया ऽकरणे
प्रत्यवायस्य दुर्वारत्वात् ।

[[137]]

विश्वास-प्रस्तुतिः

निवीती

ये के चास्मत्कुले जाता
अपुत्रा गोत्रजा मृताः ।
ते गृह्णन्तु मया दत्तं
वस्त्र-निष्पीडनोदकम् ॥

इति स्नान-वस्त्रञ् चतुर्गुणीकृत्य
शुचौ देशे अपसव्यं निष्पीड्य,
वामप्रकोष्ठे विन्यस्योपवीती द्विराचम्य,

मूलम्

निवीती 1 ये के चास्मदिति स्नानवस्त्रञ्चतुर्गुणीकृत्य शुचौ देशे अपसव्यं निष्पीड्य, वामप्रकोष्ठे विन्यस्योपवीती द्विराचम्य,

आह्निकार्थप्रकाशिका

अथ वस्त्रनिष्पीडनमाह - निवीती ये के चास्मदित्यादिना । तदुक्तं -

शुचौ स्थले स्नान-वस्त्रं
निवीती निष्पीड्याचम्य

इति ।

ये के चास्मत्कुले जाता
इति मन्त्रेण मानवः

इति रत्नाकराद्युदाहृत-वचनाद् आचाराच्च
तन्-मन्त्र-करणकम् एव वस्त्रनिष्पीडनं कर्तव्यं,
स च मन्त्रः कार्ष्णाजनिनोक्त इति मुक्ताफलोदाहृतम् ।
एतेनामन्त्रकं वस्त्रनिष्पीडनम् इत्य् अन्योक्तं परास्तम् ।

विश्वास-प्रस्तुतिः

आवाहित-तीर्थ-मन्त्रान्,

हे आवाहित-तीर्थानि
तद्-अर्थ-मन्त्राश् च
ममात्मनि समागच्छत

इति आह्वानमुद्रया समाहरेत् ॥

मूलम्

आवाहिततीर्थमन्त्रान्,

हे आवाहिततीर्थानि तदर्थमन्त्राश्च ममात्मनि समागच्छत

इति आह्वानमुद्रया समाहरेत् ॥

आह्निकार्थप्रकाशिका

अथावाहिततीर्थमन्त्रसमाहरणमाह - आवाहिततीर्थमन्त्रानिति । तदुक्तं —

आवाहित-तीर्थमन्त्रांश् च स्वात्मनि समाहरेत्

इति ।

आवाहिताश्च गङ्गाद्यास्
तत्तन्मन्त्रगणास्तथा ।
अनुज्ञाप्य समारोप्य
स्वात्मन्येव समाहितः ॥

इति वङ्गिवंशेश्वरोक्तमिह भाव्यम्॥

[[138]]


  1. ये के चास्मत्कुले जाता अपुत्रा गोत्रजा मृताः ।
    ते गृह्णन्तु मया दत्तं वननिष्पीडनोदकम् ॥ ↩︎