विश्वास-प्रस्तुतिः
अथाष्टाक्षरजपविधिः ॥
मूलम्
अथाष्टाक्षरजपविधिः ॥
आह्निकार्थप्रकाशिका
ततोऽष्टाक्षरजपम् आह – अथाष्टाक्षरजप इति ।
मया प्रदर्श्यत इति शेषः ।
आचमन-प्रकरणोदाहृत-वचनानुसारेण
सन्ध्यान्ताचमनम् एकं कृत्वा
मूल-मन्त्र-जपः कार्य इति बोध्यम् ।
तदुक्तं –
मद्-भक्ता ये नर-श्रेष्ठा
मद्गता मत्परायणाः ।
मद्-याजिनो मन्-नियमास्
तान् प्रयत्नेन पूजयेत् ॥
तेषान्तु पावनायाहं
नित्यम् एव युधिष्ठिर ।
उभे सन्ध्ये ऽधितिष्ठामि
ह्य् अस्कन्नं तद्-व्रतम् मम ॥
तस्माद् अष्टाक्षरम् मन्त्रं
मद्-भक्तैर् वीत-कल्मषैः ।
सन्ध्या-कालेषु जप्तव्यं,
सततञ् चात्म-शुद्धये ॥
इति श्रीवैष्णव-धर्म-शास्त्रोक्तश्रीमदष्टाक्षरजपोपि सन्ध्यायामवसरे कार्यः इति ।
विश्वास-प्रस्तुतिः
उदयात् पूर्वं सङ्कल्पित-सङ्ख्या-समाप्तौ
उदयानन्तरं करिष्यमाणोपस्थानस्य च कालाभावेनावसर-लाभे
ऽष्टाक्षरजपं कुर्यात् ।
अवसरालाभे उदयानन्तरम् उपस्थाय
ततो ऽष्टाक्षरजपं कुर्यात् ।
मूलम्
उदयात्पूर्वं सङ्कल्पितसङ्ख्यासमाप्तौ उदयानन्तरं करिष्यमाणोपस्थानस्य च कालाभावेनावसरलाभेऽष्टाक्षरजपं कुर्यात् । अवसरालाभे उदयानन्तरमुपस्थाय ततोऽष्टाक्षरजपं कुर्यात् ।
[[118]]
आह्निकार्थप्रकाशिका
अत्र गायत्र्य्-उपस्थानात् पूर्वम् एवाष्टाक्षर-जपः आचार्य-पादाभिमत इत्येकेतरोक्तं
प्रमाण-न्यायाचार्यपाद-श्रीसूक्ति-विरुद्धम् इति
हृदि निधाय
उदाहृताचार्य-पाद-श्रीसूक्त्य्-अभिप्रेतार्थम् आह - उदयात्पूर्वमित्यादिना ।
न च
सङ्कल्पित-सङ्ख्यात-गायत्री-जपानन्तरम्
उपस्थानान्तम् असङ्ख्यात-गायत्रीजपोऽनुष्ठेयः ।
अतो नाष्टाक्षरजपावसर
इति वाच्यम् -
असङ्ख्यात-गायत्री-जप-नैष्फल्यस्य गायत्री-जप-प्रकरणे समर्थितत्वेन
तत्परित्यागेनाष्टाक्षर-जपस्य कार्यत्वात् ।
अत्र वक्तव्यं सर्वं श्रीनिक्षेप-चिन्तामणौ सम्यग् अनुगृहीतम्।
तद्-अभिप्रेतार्थाः केचन प्रदर्श्यन्ते।
निक्षेप-चिन्तामणिः
“तस्माद् अष्टाक्षरं मन्त्रम्”-इत्यादि-वचन-विहिताष्टाक्षर-जपः
नित्यः उत काम्य इति विवेचनीयम्,
एकेतराह्निकपक्षः
सन्ध्या-काल-विहितस् तज्-जपो नित्यः
सततम् इति विहितः काम्यः,सततं चात्मशुद्धये
इति तत्रैवात्म-शुद्धि-रूप-फल-श्रवणाद् इति ।
तन्मन्दम् - आचार्यपाद-श्रीसूक्त्य्-अभिप्राय-न्याय-विरोधात्,
श्री-सच्-चरित्र-रक्षायां
कामाधिकारत्वे सम्भवति
नित्यत्व-कल्पनायोगात्
इति,
तत्-तद्-वाक्य-प्रकृत-फल-विशेषापेक्षया निषेध
इत्य् आसत्तेर् व्यवस्थाप्यम्
इति चानुगृहीतं,
प्रकृते आत्म-शुद्धि-कामाधिकारत्वे सम्भवति
नित्यत्व-कल्पनं न न्याय्यम्।
यथा +ऊर्ध्वपुण्ड्रविधौ मध्यमा-कनिष्ठिका-निषेधस्य
निषेध-बोधक-वाक्य-समभिव्याहृत–
वाक्यावगताङ्गुल्य्-अन्तर-फल-विषयत्वम् आसत्तेर् व्यवस्थापितं,
सन्ध्याकालेषु जप्तव्यम् इत्य्-अत्रापि
विधेस् समभिव्याहृत-वाक्य-प्रतिपन्नात्म-शुद्धि-फल-विषयत्वम्
आसत्तेर् व्यवस्थाप्यम् इति,
तत्रापि काम्य-विधिरेव ।
यद् अपरोक्तं –
तेषान्तु पावनायाहं
नित्यम् एव युधिष्ठिर ।
उभे सन्ध्ये ऽधितिष्ठामि
ह्य् अस्कन्नं तद्-व्रतम् मम ॥
तस्माद् अष्टाक्षरम् मन्त्रं
मद्-भक्तैर् वीत-कल्मषैः ।
सन्ध्या-कालेषु जप्तव्यं,
सततञ् चात्म-शुद्धये ॥इत्यत्र, शाबरभाष्ये -
यावज्-जीवम् अग्निहोत्रं जुहोतीत्य् अत्र
जीवन-रूप-निमित्त-नैयत्येनाग्निहोत्रं नियतम्इति भाषित-रीत्या सन्ध्याकालयोर् भगवद्-अधिष्ठान-रूप-निमित्तस्य नियतत्त्वेन
तन्-निमित्तक-श्रीमद्-अष्टाक्षर-जपस्यापि नियत-तमत्वं
सन्ध्या-कालयोस् सिद्धम्
इति, तन् न -
दृष्टान्ते फलाश्रुतेः ‘यावज्जीवम्’ इति श्रुतेश् च
निमित्त-नियतत्वाधीन-नित्यत्व-सिद्धाव् अपि,
‘तेषान्तु पावनाये’त्य्-आदिवचने
पावनत्व-फलार्थ-सन्ध्या-काल-भगवद्-अधिष्ठान-रूप-
निमित्त-नैयत्यावगमेन दृष्टान्त-वैषम्यात्,
[[119]]
तस्य निमित्तस्य
तस्माद् अष्टाक्षरं मन्त्रम्
इत्यत्र तच्-छब्देन परामर्शात्,
तद्-धेतुकस्य सन्ध्या-कालाष्टाक्षर-जपस्यात्म-शुद्धि-कामनाधिकारत्वस्य शब्द-स्वरस-सिद्धत्वात्,
अन्यथा पावनार्थ-सन्ध्याधिष्ठानं, ‘तस्मादि’ति तच्-छब्देन परामृश्य
तद्धेतुक-सन्ध्या-कालिकाष्टाक्षर-जप-विधानेऽपि नित्यत्वाङ्गीकारे
तद्-वाक्यं जरद्-गवादि-वाक्यवद् अनन्वितार्थकं स्यात् ।
न चात्मशुद्धिफलकत्वं नित्यत्व-पर्यवसायीति वाच्यं – श्रुतिस्मृतिविरोधात् ।
वैश्वानरं द्वादशकपालं निर्वपेत्
पुत्रे जाते यद् अष्टाकपालो भवति
इत्यारभ्य,
यस्मिन् जात एताम् इष्टिं निर्वपति
पूत एव तेजस्व्य् अन्नाद इन्द्रियावी पशुमान् भवति
इत्यन्तेन काम्य-फलानि प्रतिपाद्य,
अप वा एष सुवर्गाल् लोकाच् छिद्यत
इति प्रत्यवाय-परिहारं श्रुतिर् आह,
एतच्-छ्रुति-विहित-जातेष्टि-विषयम् अधिकारं
प्रत्यवायपरीहारे
फलान्तरसमन्विते ।
तत्र संवलितं प्राहुर्
अधिकारं विचक्षणाः ॥
इति शास्त्रीयनियमनाधिकारे ऽन्वगृह्णन् ।
एतत्-कारिकार्थः श्रीसारास्वादिन्याम् अवलोकनीयः ।
अत्र पूतत्वं काम्यफलतयोक्तम् -
स्मृतिरत्नाकरे -
येषां जपैश्च होमैश्च पूयन्ते
इत्युपक्रमात्,
एतानि जप्यानि पुनन्ति जन्तून्
इत्युपसंहाराच्च एते जपाः काम्या इति
मध्याह्न-सन्ध्यायां गायत्री-व्यतिरिक्त-मन्त्राणां परिशुद्धि-फल-श्रवणेन काम्यत्वोक्तेः,
अत्रापि काम्यत्वस्यैव वाच्यत्वात् ।
आश्वमेधिके पञ्चाशीतितमेऽध्याये श्रीवैष्णव-धर्मशास्त्रे युधिष्ठिरः -
वृथा च कति जन्मानि
वृथा दानानि कानि च ।
वृथा च जीवितं केषां
नराणां पुरुषोत्तम ॥
इति वृथा जन्म-दानादिकं पप्रच्छ ।
श्रीभगवान् वृथा जन्म-दानादिकं विस्तरेण प्रतिपाद्य
सत्-पात्र-दान-फल-कथनावसरे
आत्म-शुद्धि-फलक-सन्ध्या-काल-तद्-इतर-कालिकाष्टाक्षर-जपं विधायाध्यायान्ते
एवं सर्वास्व् अवस्थासु
सर्वदानानि पाण्डव ।
मद्भक्तेभ्यः प्रदत्तानि स्वर्गमार्गप्रदानि वै ॥
इति दानफलमेव प्रतिपादितम् ।
उपरितनाध्यायेषु च,
आचार-दोष-ब्राह्मणादि-गुण-दोष-दान-विशेष-फलादिकम् एव प्रपञ्चितम् ।
[[120]]
तत्रैक-नवतितमेऽध्याये –
गायत्रीं च यथाशक्ति
जप्त्वा सूक्तं च मामकम् ।
मन्मयानि च सामानि
पौरुषं व्रतमेव तत् ॥
ततश् चालोकयेद् अर्कं
“हँसश् शुचिषद्” इत्यपि ।
प्रदक्षिणं समावृत्य
नमस्कृत्य दिवाकरम् ॥
इति गायत्री-साम-मन्व्-अशेष-जपानन्तरम्
उपस्थान-प्रदक्षिण-नमस्कारादिकम् एव क्रमात् प्रतिपादितं,
मध्ये नाष्टाक्षर-जपो विहितः ।
एवं च प्रकरणानुगुण्येनात्मशुद्धि-कामनायां
सन्ध्याकालेषु सततं चाष्टाक्षरजपः कार्य इति सिद्धम् ।
ततः परं चाध्ययनं
जपं भागवतो यदा ।
कुर्यात् स्वाध्यायकालोऽसौ
कीर्तितो मुनिपुङ्गव ॥
अर्चयांश् च ततो देवं
ततो मन्त्रान् जपन्न् अपि ।
ध्यायन्न् अपि परं देवं
कालेषूक्तेषु पञ्चसु ॥
स्वाध्यायश्च
श्रुति-स्मृतीतिहास–
मन्त्र-जप–
सत्-संवाद+
अध्यात्म-शास्त्र-श्रवण-प्रवचनाद्य्-आत्मा,
अत्र परिपूर्ण-ज्ञानस्य उपबृंहण-निरपेक्षस्याधिकारि-विशेषस्य
द्वि-षड्–अष्ट–षड्-अक्षर–द्वयादि-जप एव स्वाध्याय इति,
तत्र तद्-विधिः,
अत एव रहस्याम्नाये वेदान्तर-निषेधेन द्वि-षट्क-मात्र-स्वाध्याय-विधानं निर्व्यूढं,
सङ्ग्रह-रुचीनां महामन्त्र-सक्तानां च
सर्व-सार-भूत-व्यापक-मन्त्र-जपोपदेशः
इति नारदीय-संहिता-वचन–वङ्गिवंशेश्वरकारिका–श्रीपाञ्चरात्ररक्षावाक्यैः
स्वाध्यायकाल एवाष्टाक्षर-जपो नित्य इत्य् अवगम्यते,
फलाश्रवणात् ।+++(5)+++
श्रीचरम-श्लोकाधिकारे
तस्माद् अष्टाक्षरं मन्त्रम्
इति कृत्स्नवचनम् उपादाय -
இப்புடைகளிலுள்ள வைகளெல்லாம் अवश्यकर्तव्य ங்களான नित्यनैमित्तिक ங்களுக்கு विरोध ம் வாராதபடி அவற்றுக்குப் போக்கிமிக்க காலத்திலேயாகக் கடவது
इति तस्यावश्य-कर्तव्य-सन्ध्याद्य्-अनविरुद्ध-काल-कर्तव्यत्वाभिधानात् । उपरि
श्रौत-स्मार्ताविरुद्धेषु कालेषु जपमाचरेत्
என்று நாரதாதிகளுஞ் சொன்னார்கள்
इति श्रीसूक्त्यापि
श्रुति-स्मृति-विहित-सन्ध्याद्यनविरुद्धकाल एव
भारतेतिहासाश्वमेधिक-पर्व-स्थ–
श्रीवैष्णव-धर्म-शास्त्र-विहिताष्टाक्षर-जपाचरणं न्याय्यम् इति प्रतीयते ।
श्रीन्यायपरिशुद्धौ
आचारे धर्मशास्त्राणि
इत्य् अनुगृहीतत्वेनाधिकृत-धर्म-शास्त्र-विहित–सान्ध्य-कर्माद्य्-उपरोधेनाचार+अनधिकृतेतिहास-विहिताष्टाक्षर-जपो नाचार्य-पादाभिमतः ।+++(4)+++
स्मृत्यधिकरण-श्रीभाष्ये धर्मशास्त्रस्य
कर्मभागोपबृंहणत्वस्य+ इतिहास-पुराणयोर् वेदान्तोपबृंहणत्वस्यानुगृहीतत्वाच् चायम् अर्थस् सिद्धः ।
[[121]]
श्रीपाञ्चरात्ररक्षायां गायत्रीजपविध्य्-अनन्तरं
न च क्रमन्न च हसन्
इत्यादिना
इत्यादयश्च जपकालनियमाः
इति जपकाल-नियमम् उक्त्वा
मद्भक्ता ये नरश्रेष्ठाः
इत्यादिना
श्रीवैष्णव-धर्मशास्त्रोक्त-श्रीमद्-अष्टाक्षर-जपोऽपि
यथाशक्ति सन्ध्यायाम् अवसरे कार्यः
इति अष्टाक्षरजपं प्रसङ्गाद् अभिधाय,
‘प्राणायामेने’त्यादिना गायत्री-जप-विशेषम् उक्त्वा,
गायत्र्य्-अष्टाक्षरादि-जप-साधारण्येन
जपस्थान-गणन-साधन–तत्-प्रकार–जप-प्रभाव–
जप-मध्य-गत-गुरु-वैष्णवीय-सम्भाषणादि-पूजानुमति–
सप्रणव-सङ्ख्यात-मानस-जपादिकं कथितम् ।
उपस्थानात् पूर्वम् एवाष्टाक्षरजपः आचार्यपादाभिमत
इति वदद्भिः पाठ-क्रम एव नियामक इति वक्तव्यम् ।
प्राङ्मुखः प्राग्-उदङ्-मुखो वा तिष्ठन्
गायत्रीम् आवर्त्य
पूर्ववत् कृत-प्राणायाम-त्रयः
सन्ध्योपस्थान-सङ्कल्प-पूर्वकम्
उत्तमे शिखर इति मन्त्रेण
गायत्रीम् अनुज्ञाप्य
इत्य्-आदि-श्रीसूक्तौ क्त्वा-श्रुत्या गायत्र्य्-अनन्तरम् उपस्थानक्रमः प्रतीतः ।
अयं च क्रमः श्रीपाञ्चरात्ररक्षायां
स्वसूत्रविहितम् एव सन्ध्योपासनादिकं कर्तृम् उचितम्
इत्यत्र साधकतया उदाहृतैः,
पाद्मे च शौचाचमन-दन्त-धावन-स्नानानि यथा-क्रमं विधायानन्तरम् एवं सन्ध्योपासनम् उक्तम्
आचम्य प्रोक्षयेद् दर्भ-
वारिभिर् मन्त्रवत् तनुम् ।
इत्य्-आद्य्-उदाहृतैः
तर्पयेद् उपविश्याथ
तत्तन्-मन्त्रम् उदीरयन् ।
देवादीन् सलिले तिष्ठन्
सावित्रीं प्राङ्मुखो जपेत् ॥
यावत्-सूर्योदयं दृष्ट्वा
प्राञ्जलिस् तिमिरापहम् ।
उपस्थाय स्वशाखोक्तैः
मन्त्रैर्ध्येयं हृदि स्थितम् ॥
इति वचनैः,
[[122]]
प्राङ्मुखस् सावित्रीं सहस्रकृत्वः आवर्तयेद्
इत्यादिभिः
त्रिभिश्च प्राणायामैस्
तांस् ततो ब्रह्म-हृदयेन
वारुणीभ्यां सायम् उपतिष्ठते
“इमं मे वरुण”, “तत्त्वायामी"ति द्वाभ्यां,
एवं प्राङ्मुखः प्रातस् तिष्ठन्
मैत्रीभ्याम् अहर् अहर् उपतिष्ठते,
“मित्रस्य चर्षणीधृतः” “मित्रो जनान् यातयती"ति द्वाभ्यां,
दर्भेष्व् आसीनो दर्भान् धारयमाणः
सावित्रीं सहस्रकृत्वः आवर्तयेत्
शतकृत्वो ऽपरिमितकृत्वो वा, दशवारम् ।
अथादित्यम् उपतिष्ठते,
“उद् वयन् तमसस्परि, उदुत्यं चित्रं, तच्चक्षुर् देवहितं, य उदगात्”
इति बोधायन-धर्म-सूत्र-वाक्यैश् च
श्रौत-क्रमेण प्रतिपादितम् ।
गायत्री-जपोपस्थान-क्रमम् अनुसृत्याचार्यपादानुगृहीतः ।
आचार्यपादोदाहृतेषु
गायत्री-जप-पर्यन्तं
मन्त्राचमन-पूर्वकम् ।
सान्ध्यं कर्माखिलं साधु
समाप्य च यथाविधि ॥ततः स्व-कर्म-भोक्तारम्
आदित्यान्तर्-अवस्थितम् ।
उपस्थाय स्वकैर्मन्त्रैर्
नारायणम् अतन्द्रितः ॥
आदित्यान्तः-स्थितस्यार्घ्यं
वितीर्य परमात्मनः ।
प्रतिपादिकया विष्णोः
सावित्र्या तं जपेद्-धरिम् ॥ध्यायन् जप्त्वोपतिष्ठेत
तम् एव पुरुषोत्तमम् ।
इति वङ्गिवंशेश्वर-नारायणमुनिवचनेषु जप्त्वा
‘ततः’ इति श्रुत्यैव गायत्री-जपानन्तरम् उपस्थानक्रमोऽवगतः ।
एवं जपित्वा गायत्रीम्
उपस्थाय दिवाकरम् ।
सूर्यस्याभिमुखं जप्त्वा
गायत्रीं नियतात्मवान् ॥
उपस्थानं ततः कृत्वा
नमस्कुर्यात् ततो हरिम् ।
एवं जप्त्वा यथाशक्ति
ह्युदिते तु दिवाकरे ॥
उत्तमेत्यनुवाकेन
उद्वास्य तु यथागतम्
इति वासिष्ठसंहिता-वृद्धहारीत-स्मृतिरत्नाकर-स्थ-वचनैः
श्रौतक्रमेण गायत्री-जपानन्तर्यम्
उपस्थाने प्रतीयते ।
पाठक्रमात् श्रौतक्रमस्य बलीयस्त्वं सर्वमीमांसकसम्मतम्,
अनुगृहीतं च श्रीभाष्ये अर्चिरादिपादे ।
[[123]]
यद्य्-अष्टाक्षर-जपः उपस्थानात् पूर्वं नियमेनाचार्यपादाभिप्रेतः, तदा
प्राङ्मुखः प्राग्-उदङ्मुखो वा तिष्ठन्
गायत्रीमावर्त्य
इत्यनन्तरं,
अष्टाक्षरं जप्त्वा पूर्ववत् कृत-प्राणायामत्रयः
इत्यादिवाक्यं रचनीयं स्यात्, न तथा रचितम् ।
सन्ध्याकालेषु जप्तव्यम्
इति वचन-विहिताष्टाक्षर-जपस्योदयात् पूर्वं सङ्कल्पित-समाप्तौ
उदयानन्तरं पूर्वोपदर्शितार्ध-प्रहर-पर्यन्त-सन्ध्याकाल-करणेऽपि विधेश् चारितार्थ्य-सम्भवात्,
तद्-वचन-बलेन
पञ्चरात्र-स्मृति-वचन-सम्प्रदायोक्त्य्-आचार्य-पाद-श्री-सूक्त्य्-अवगत-
प्रदर्शित-श्रौत-क्रम-बाधो न युक्त एव । किं बहुना स्मृतिरत्नकरे –
किञ्चिद् अभ्युदिते रवौ
इति विहित-माघ-स्नानं स्त्री-शूद्रादि-विषयम् इति व्यवस्थाप्योक्तं —
विप्रादि-विषये तु सन्ध्यातिक्रम-दोषो दुर्वारस् स्यात्,
मार्जनाद्य्-उपस्थानान्तम् एक-कर्मत्वेन
मध्ये कर्मान्तरानुष्ठानायोगात्,
‘उदयन्तं दिवाकरम्’ इति उदय-काल-सूर्योपस्थान-विधानाच् च
किञ्चिद्-अभ्युदिते स्नात्वा ऽनुष्ठाने
मासं +++(यावत्)+++ सन्ध्यातिक्रमेणाशुचित्व-कर्मानर्हत्व-शूद्रत्वादिदोषाः प्रसज्येरन्
इति
मार्जनाद्य्-उपस्थानान्तम् एकं कर्म +इति
मध्ये माघस्नानादि-क्रियानुष्ठाने दोषाश् च
प्रतिपादिताः ।
इतराह्निके -
माघस्नानस्य नित्यत्वात्
किञ्चिदभ्युदिते रवौ ।
स्त्रीणां स्मृतं द्विजानान्तु
प्रागादित्योदयाद् इति ।
किञ्चिद्-अभ्युदिते भानौ
माघस्नाने कृते द्विजैः ।
सन्ध्यातिक्रम-दोषेण
महान् दाषो भवेद् ध्रुवम् ।
प्रोक्षणादेर् उपस्थानान्तस्यैकत्वेन कर्मणः ॥
इति रत्नाकरानुसारः कृतः ।
न हि “कर्मणि क्रियान्तरम्” इति मीमांसक-घोषितम् ।
श्रीमद्-अष्टाक्षर-जपः
न श्रुति-स्मृति-विहित-सान्ध्य-कर्माङ्गाद्य्-अन्तर्-भूतः, मानाभावात् ।
[[124]]
अत
उपस्थानान्त-सान्ध्य-कर्म-मध्ये
उपस्थानोपरोधेन क्रियान्तराष्टाक्षर-जप-कर्तव्यत्व-कथनं
प्रमाणाचार्य-पाद-श्रीसूक्ति–स्व-मूल-ग्रन्थ–स्वोक्ति–मीमांसक-वाक्य-विरुद्धम्
इति,
उपस्थानात् पूर्वम् एवाष्टाक्षर-जप-पक्षः आचार्यपादाभिमत
इति कथनम् अविमर्श-कृतम्
इति सद्-उपदेश–पूर्वकाचार्यपाद-सर्व-श्रीसूक्ति–मीमांसा-न्याय-विमर्श-कृद्भिर् अनुसन्धेयम् ।
अष्टाक्षर-जप-प्रभावादिकं तत्र तत्रोक्तं द्रष्टव्यम् ।
सङ्कल्पादि
विश्वास-प्रस्तुतिः
तत्-प्रकारः -
भगवन्तं प्रणम्य,
मूलमन्त्रेण पञ्च-विंशत्य्-अभ्यस्तेन त्रिः प्राणान् आयम्य,
“प्रातस्-सन्ध्यायाम् अष्टाक्षर-जपं करिष्य” इति सङ्कल्प्य,
श्रीमद्-अष्टाक्षर-महामन्त्रस्य
अन्तर्यामी नारायण ऋषिः,
बदरिकाश्रमवासी नारायण ऋषिर् वा,
देवी गायत्री छन्दः,
परमात्मा श्रीमन्नारायणो देवता, (श्रीर् अधिष्ठानदेवता)
अं बीजं, आय शक्तिः, मं कीलकं, ह्रीं शक्तिः, ऐं अस्त्रं,
शुक्लादिर् वर्णः,
उदात्तादिः स्वरः,
बुद्धिस् तत्त्वं,
श्रीवैकुण्ठः क्षेत्रं,
जीव-परयोः स्व-स्वामि-भावस् सम्बन्धः ।
श्रीमन्नारायणप्रीत्यर्थे जपे विनियोगः ।
मूलम्
तत्प्रकारः - भगवन्तं प्रणम्य, मूलमन्त्रेण पञ्चविंशत्यभ्यस्तेन त्रिःप्राणानायम्य, प्रातस्सन्ध्यायामष्टाक्षरजपं करिष्य सति सङ्कल्प्य, श्रीमदष्टाक्षरमहामन्त्रस्य अन्तर्यामी नारायण ऋषिः, बदरिकाश्रमवासी नारायण ऋषिर्वा, देवी गायत्री छन्दः, परमात्मा श्रीमन्नारायणो देवता, (श्रीरधिष्ठानदेवता) अं बीजं, आय शक्तिः, मं कीलकं, ह्रीं शक्तिः, ऐं अस्त्रं, शुक्लादिर्वर्णः, उदात्तादिः स्वरः, बुद्धिस्तत्वं, श्रीवैकुण्ठः क्षेत्रं, जीवपरयोः स्वस्वामिभावस्सम्बन्धः । श्रीमन्नारायणप्रीत्यर्थे जपे विनियोगः ।
करन्यासः
विश्वास-प्रस्तुतिः
मूल-मन्त्रेण कूर्परम् आरभ्याङ्गुल्य्-अग्र-पर्यन्तं
स्वहस्तौ परस्परं त्रिः परामृश्य,
ततश् शुद्धयोर् हस्तयोः मन्त्रस्य व्यापक-न्यासं कृत्वा,
“ओम् ओम्” इति दक्षिण-तर्जनी-मध्यम-पर्वणि न्यस्य,
आद्य्-अन्त-पर्वणोः “ओम्” इति प्रणवं न्यसेत् ।
एवं “ओं नम्” इति मध्यमाया मध्यमपर्वणि,
“ओम्” इत्य् आद्य्-अन्त-पर्वणोः प्रणवं न्यसेत् ।
“ओम् ओम्” इत्य् आनामिका-मध्यम-पर्वणि
“ओम्” इत्य् आद्य्-अन्तयोः।
“ओं नाम्” इति कनिष्ठिका-मध्यम-पर्वणि
“ओम्” इत्य् आद्य्-अन्तयोः।
“ॐ राम्”, “ओम्” इति वामतर्जन्यां पूर्ववत् ।
“ओं यम्” “ओम्” इति वाम-मध्यमायाम् ।
“ओं णाम्”, “ओम्” इति वामानामिकायाम् ।
[[125]]
“ओं यम्”, “ओम्” इति वाम-कनिष्ठिकायां च
पूर्ववन् मध्यमाद्य्-अन्त-क्रमेण न्यसेत् ।
एष स्थिति-न्यासो गृहस्थस्य ।
वाम-तर्जन्य्-आदि-दक्षिण-तर्जन्यन्तम् अष्टानामङ्गुलीनां मध्यमपर्वसु
प्रणवोपेतस्य नादान्तस्य मन्त्राक्षरस्य,
आद्यन्त-पर्वसु प्रणवस्य च
क्रमेण न्यासस् संहाराख्यो यतीनां वानप्रस्थानां च ।
दक्षिण-तर्जन्य्-आदि-वामतर्जन्यन्तं सृष्टि-न्यासो ब्रह्मचारिणाम् ।
मूलम्
मूलमन्त्रेण कूर्परमारभ्याङ्गुल्यग्रपर्यन्तं स्वहस्तौ परस्परं त्रिः परामृश्य, ततश्शुद्धयोर्हस्तयोः मन्त्रस्य व्यापकन्यासं कृत्वा, ओमोमिति दक्षिणतर्जनीमध्यमपर्वणि न्यस्य, आद्यन्तपर्वणोः ओमिति प्रणवं न्यसेत् । एवं ओं नमिति मध्यमाया मध्यमपर्वणि, ओमित्याद्यन्तपर्वणोः प्रणवं न्यसेत् । ओमोमित्यानामिकामध्यमपर्वणि ओमित्याद्यन्तयोः। ओं नामिति कनिष्ठिकामध्यमपर्वणि ओमित्याद्यन्तयोः । औं रां ओमिति वामतर्जन्यां पूर्ववत् । ओं यं ओमिति वाममध्यमायाम् । ओं णां ओमिति वामानामिकायाम् ।
[[125]]
ओं यं ओमिति वामकनिष्ठिकायां च पूर्ववन्मध्यमाद्यन्तक्रमेण न्यसेत् । एष स्थितिन्यासो गृहस्थस्य । वामतर्जन्यादिदक्षिणतर्जन्यन्तम् अष्टानामङ्गुलीनां मध्यमपर्वसु प्रणवोपेतस्य नादान्तस्य मन्त्राक्षरस्य आद्यन्तपर्वसु प्रणवस्य च क्रमेण न्यासस्संहाराख्यो यतीनां वानप्रस्थानां च । दक्षिणतर्जन्यादिवामतर्जन्यन्तं सृष्टिन्यासो ब्रह्मचारिणाम् ।
आह्निकार्थप्रकाशिका
अथाष्टाक्षरजपप्रकारमाह तत्प्रकार इत्यादिना ।
पाद्मे चर्यापादे तृतीयाध्याये -
तलं पृष्ठं च करयोश्शोधयित्वास्त्रविद्यया ।
अङ्गुलीनां च सर्वासां पर्वस्वाद्यन्तवर्तिषु ॥
इष्यते प्रणवन्यासः मध्यमेषु च पर्वसु ।
मन्त्राक्षराणि विन्यस्य न्यास एष सनातनः ॥
पर्वदक्षिणतर्जन्याः प्रक्रम्याङ्गुलिपर्वसु ।
दक्षिणेतरतर्जन्याः पर्वान्तं साधकोत्तमः ॥
सृष्टिन्यासमिमं कुर्यात् व्यत्यासे न तु संहृतिः ।
प्रक्रम्य तर्जनीपर्वकनिष्ठापर्वविश्रमः ॥
स्थितावष्टाक्षरस्यैष मन्त्रन्यास उदीरितः ।
ताभ्यां पादादिमूर्द्धान्तं देहे न्यस्येत्समन्ततः ॥
व्यापकं कञ्चुकं यद्वत् मन्त्रस्त्वक्षरशस्ततः ।
मूर्ध्नि नेत्रे मुखे चित्ते नाभ्यां गुह्ये च जानुनि ॥[[130]]
चरणौ क्रमशः सृष्टौ न्यासो मन्त्रस्य इष्यते ।
विपरीतक्रमो ज्ञेयः संहृतौ पालने पुनः ॥
नाभ्यादिहृदयान्तेषु न्यासोऽङ्गेषु प्रकीर्तितः ।
अष्टाक्षरस्य मन्त्रस्य स्थानान्येतानि, तानि च …॥
मूर्ध्नि मध्यमयाङ्गुल्या तर्जन्या सा च चक्षुषोः ।
न्यसेन्मुखेऽनामिकया चाङ्गुष्ठेन च मन्त्रवित् ॥
अङ्गुष्ठतर्जनीभ्यान्तु हृदये न्यसनं भवेत् ।
तथाङ्गुष्ठकनिष्ठाभ्यां नाभौ न्यासः प्रशस्यते ॥
विनाङ्गुष्ठेन शेषाभिः गुह्ये जानुनि चोभयोः ।
समस्ताभिश्चरणयोरित्यष्टाक्षरभूमयः ॥
इति सङ्ग्रहेण करन्यासाङ्गन्यासभेदाः प्रदर्शिताः ।
पराशरसंहितायाम् –
अष्टाक्षरस्य मन्त्रस्य
नरनारायणेति च ।
ऋषिं चोक्त्वा ततो देवं
नरनारायणेति च ॥
वासिष्ठसंहितायाम्
अष्टाक्षरस्य मन्त्रस्य
ऋषिर्नारायणः स्मृतः ।
छन्दश्च देवी गायत्री
देवो नारायणस्स्वयम् ॥
इति ऋष्यादिकं प्रदर्शितम् ।
ऋषयेऽष्टाक्षरस्यान्तर्यामिणे हरये नमः
इति वङ्गिवंशेश्वरोक्तेः अन्तर्यामी नारायण ऋषिरित्युक्तम् ।
भाष्यकारानुक्तो मन्त्र-न्यासस्
तच्-छिष्याद्य्-उक्त-प्रकारेणानुष्ठेय
इति ज्ञापनाय इत्य्
आचार्यपाद-श्रीसूक्तेर्
वङ्गिवंशेश्वरोक्त-न्यासादिकम् अत्रानुगृहीतम् ।
करन्यासान्तरम्
विश्वास-प्रस्तुतिः
अथ
“ओम् ओं ज्ञानाय हृदयाय नम” इति दक्षिणतर्जन्या दक्षिणाङ्गुष्ठे न्यस्य
“ओं नं ऐश्वर्याय शिरसे स्वाहा” इति दक्षिणतर्जन्यां दक्षिणाङ्गुष्ठेन न्यस्य
“ओम् ओं शक्त्यै शिखायै वौषट्” इति दक्षिणमध्यमायां,
“ओं नां बलाय कवचाय हुं” इति दक्षिणानामिकायां,
“ओं रां वीर्यायास्त्राय फड्” इति दक्षिणकनिष्ठिकायां क्रमेण दक्षिणाङ्गुष्ठेन दक्षिणतर्जन्यादि-तत्-कनिष्ठान्तास्व् अङ्गुलीषु न्यस्य,
“ओं यं तेजसे नेत्राभ्यां नमः” इति वामतर्जन्या वामाङ्गुष्ठे न्यस्य,
“ओं णां तेजसे उदराय नमः” इति वामतर्जन्यां,
“ओं यं तेजसे पृष्ठाभ्यां नमः” इति वाममध्यमायां,
“ओं यं तेजसे बाहुभ्यां नमः” इति वामानामिकायां,
“ओं यं तेजसे ऊरुभ्यां नमः” इति वामकनिष्ठिकायां
क्रमेण वामाङ्गुष्ठेन तर्जन्यादिकनिष्ठान्तास्व् अङ्गुलीषु न्यस्य,
“ओं यं तेजसे जानुभ्यां नम” इति दक्षिणाङ्गुष्ठेन तदितराङ्गुलि-नख-मुखेषु न्यस्य,
“ओं यं तेजसे पादाभ्यां नम” इति वामाङ्गुष्ठेन तदितराङ्गुलिनखमुखेषु न्यसेत् ।
एष स्थितिन्यासः ।
[[126]]
वामाङ्गुष्ठादि-दक्षिणाङ्गुष्ठान्तं तथैव नखमुखेऽपि न्यासस् संहारः ।
दक्षिणाङ्गुष्ठादिवामाङ्गुष्ठान्तं तथैव नखमुखेषु न्यासस् सृष्टि-न्यासः ।
मूलम्
अथ ओमों ज्ञानाय हृदयाय नम इति दक्षिणतर्जन्यां दक्षिणाङ्गुष्ठेन न्यस्य ओं नं ऐश्वर्याय शिरसे स्वाहा इति दक्षिणतर्जन्यां दक्षिणाङ्गुष्ठेन न्यस्य ओ मों शक्त्यै शिखायै वौषट् इति दक्षिणमध्यमायां, ओं नां बलाय कवचाय हुं इति दक्षिणानामिकायां, ओं रां वीर्यायास्त्राय फडिति दक्षिणकनिष्ठिकायां क्रमेण दक्षिणाङ्गुष्ठेन दक्षिणतर्जन्यादितत्कनिष्ठान्तास्वङ्गुलीषु न्यस्य, ओं यं तेजसे नेत्राभ्यां नमः इति वामतर्जन्या वामाङ्गुष्ठे न्यस्य, ओं णां तेजसे उदराय नमः इति वामतर्जन्यां, ओं यं तेजसे पृष्ठाभ्यां नमः इति वाममध्यमायां, ओं यं तेजसे बाहुभ्यां नमः इति वामानामिकायां, ओं यं तेजसे ऊरुभ्यां नमः इति, वामकनिष्ठिकायां क्रमेण वामाङ्गुष्ठेन तर्जन्यादिकनिष्ठान्तास्वङ्गुलीषु न्यस्य, ओं यं तेजसे जानुभ्यां नम इति दक्षिणाङ्गुष्ठेन तदितराङ्गुलिनखमुखेषु न्यस्य, ओं यं तेजसे पादाभ्यां नम इति वामाङ्गुष्ठेन तदितराङ्गुलिनखमुखेषु न्यसेत् । एष स्थितिन्यासः ।
[[126]]
वामाङ्गुष्ठादिदक्षिणाङ्गुष्ठान्तं तथैव नखमुखेऽपि न्यासस्संहारः । दक्षिणाङ्गुष्ठादिवामाङ्गुष्ठान्तं तथैव नखमुखेषु न्यासस्सृष्टिन्यासः ।
अङ्गन्यासः
विश्वास-प्रस्तुतिः
अथाङ्गन्यासः॥
मूलमन्त्रेण पाणिभ्यां स्वशिरःप्रभृतिपादान्तं
वर्म-वेष्टनवत् स्वपार्श्वयोः स्पर्शनरूपं व्यापकन्यासं कृत्वा,
“ओं ओम्” इति दक्षिणाङ्गुष्ठ-कनिष्ठिकाभ्यां नाभौ विन्यस्य,
“ओं नम्, ओम् मम्” इत्यक्षरद्वयं व्यङ्गुष्ठाभिर् अङ्गुलीभिर् गुह्ये जान्वोश् च क्रमेण न्यस्य
“ओं नाम्” इति साङ्गुष्ठाभिरङ्गुलीभिः पादयोः,
“ओं राम्” इति मध्यमाङ्गुल्या शिरसि,
“ओं यम्” इति तर्जनी-मध्यमाभ्यां नेत्रयोः,
“ओं णाम्” इति साङ्गुष्ठानामिकया मुखमध्ये घ्राणस्य पुरतः,
“ओं यम्” इति साङ्गुष्ठ-तर्जन्य्-अग्रेण हृदये न्यसेत् ।
अयं स्थितिन्यासः ।
तत्रापि शिरःप्रभृतिपादान्त-न्यासस् सृष्टिः,
पादादि-शिरोऽन्तं न्यासस् संहारन्यासः ।
“ओम् ओं ज्ञानाय हृदयाय नम” इति अङ्गुष्ठयुक्ततर्जन्या हृदये,
“ओं नं ऐश्वर्याय शिरसे स्वाहे"ति अनङ्गुष्ठाङ्गुलीभिर् मस्तके
“ओंम् ओं शक्त्यै शिखायै वौषड्” इति अङ्गुष्ठनालेन मुष्टिना शिखामध्ये
“ओं नां बलाय कवचाय हुम्” इति कण्ठादि-कट्यन्तं तनुं पाणिभ्यां वर्मवत् स्पृष्ट्वा,
“ओं रां वीर्यायास्त्राय फड्” इति साङ्गुष्ठतर्जन्यांसयोः क्रमेण शब्दयेत् ।
“ओं यं तेजसे नेत्राभ्यां नम” इति तर्जनीमध्यमाभ्यां युगपन् नेत्र-द्वये,
“ओं णां तेजसे उदराय नम” इति नाभ्याम् अङ्गुलीभिर्न्यस्य,
“ओं यं तेजसे पृष्ठाभ्यां नम” इति पृष्ठयोः,
“ओं यं तेजसे बाहुभ्यां नम” इति बाह्वोः,
“ओं यं तेजसे ऊरुभ्यां नम” इत्यूर्वोः,
“ओं यं तेजसे जानुभ्यां नम” इति जान्वोः,
“ओं यं तेजसे पादाभ्यां नम” इति पादयोः अङ्गुलीभिर् न्यसेत् ।
ततः सास्त्र-च्छोटेन साङ्गुष्ठ-तर्जन्य्-अग्रेण
पूर्वाद्या दिशः, पूर्वं पश्चात्, वह्न्य्-आद्या विदिशश् च बध्नीयात्,
साङ्गुष्ठ-तर्जन्य्-अग्रेण भ्रामयन् सन्न्
आत्मनः प्राकारं कुर्यात् ।
“ओं बलाय कवचाय हुम्” इति देहावकुण्ठनं कुर्यात् ।
मूलम्
अथाङ्गन्यासः मूलमन्त्रेण पाणिभ्यां स्वशिरःप्रभृतिपादान्तं वर्मवेष्टनवत् स्वपार्श्वयोः स्पर्शनरूपं व्यापकन्यासं कृत्वा, ओं ओमिति दक्षिणाङ्गुष्ठकनिष्ठिकाभ्यां नाभौ विन्यस्य, ओं नं ओमोमित्यक्षरद्वयं व्यङ्गुष्ठाभिरङ्गुलीभिर्गुह्ये जान्वोश्च क्रमेण न्यस्य ओं नामिति साङ्गुष्ठाभिरङ्गुलीभिः पादयोः, ओं रामिति मध्यमाङ्गुल्या शिरसि, ओं यमिति तर्जनी-मध्यमाभ्यां नेत्रयोः, ओं णामिति साङ्गुष्ठानामिकया मुखमध्ये घ्राणस्य पुरतः, ओं यमिति साङ्गुष्ठतर्जन्यग्रेण हृदये न्यसेत् । अयं स्थितिन्यासः । तत्रापि शिरःप्रभृतिपादान्तन्यासस्सृष्टिः, पादादिशिरोन्तं न्यासस्संहारन्यासः । ओं ओं ज्ञानाय हृदयाय नम इति अङ्गुष्ठयुक्ततर्जन्या हृदये, ओं नं ऐश्वर्याय शिरसे स्वाहेति अनङ्गुष्ठाङ्गुलीभिर्मस्तके ओंमों शक्त्यै शिखायै वौषडिति अङ्गुष्ठनालेन मुष्टिना शिखामध्ये ओं नां बलाय कवचाय हुमिति कण्ठादिकट्यन्तं तनुं पाणिभ्यां वर्मवत् स्पृष्ट्वा, ओं रां वीर्यायास्त्राय फडिति साङ्गुष्ठतर्जन्यांसयोः क्रमेण शब्दयेत् । ओं यं तेजसे नेत्राभ्यां नम इति तर्जनीमध्यमाभ्यां युगपन्नेत्रद्वये, ओं णां तेजसे उदराय नम इति नाभ्यामङ्गुलीभिर्न्यस्य, ओं यं तेजसे पृष्ठाभ्यां नम इति पृष्ठयोः, ओं यं तेजसे बाहुभ्यां नम इति बाह्वोः, ओं यं तेजसे ऊरुभ्यां नम इत्यूर्वोः, ओं यं तेजसे जानुभ्यां नम इति जान्वोः, ओं यं तेजसे पादाभ्यां नम इति पादयोः अङ्गुलीभिर्न्यसेत् । ततः सास्त्रच्छोटेन साङ्गुष्ठतर्जन्यग्रेण पूर्वाद्या दिशः पूर्वं पश्चात् वह्न्याद्या विदिशश्च बध्नीयात्, साङ्गुष्ठतर्जन्यग्रेण भ्रामयन् सन्नात्मनः प्राकारं कुर्यात् । ओं बलाय कवचाय हुमिति देहावकुण्ठनं कुर्यात् ।
ऋष्यादि-नमनम्
विश्वास-प्रस्तुतिः
[[127]]
ततः,
मूलम्
[[127]]
ततः,
विश्वास-प्रस्तुतिः
इति गुर्वादीन् प्रणम्य,
मनसा गन्धाद्यैर् अभिपूज्य,
मूलम्
इति गुर्वादीन् प्रणम्य,
मनसा गन्धाद्यैर् अभिपूज्य,
विश्वास-प्रस्तुतिः
इति ध्यात्वा
[[128]]
मूलम्
इति ध्यात्वा
[[128]]
विश्वास-प्रस्तुतिः
[[129]]
इति करिकादर्पणोक्तक्रमेण निगमान्तदेशिकोक्तमन्त्रार्थमपि चिन्तयन् यथाशक्ति मूलमन्त्रं जपेत् ॥
मूलम्
[[129]] इति करिकादर्पणोक्तक्रमेण निगमान्तदेशिकोक्तमन्त्रार्थमपि चिन्तयन् यथाशक्ति मूलमन्त्रं जपेत् ॥
[[131]]