विश्वास-प्रस्तुतिः
ततः द्विराचम्य,
मूलम्
ततः द्विराचम्य,
आह्निकार्थप्रकाशिका
प्रातस्सन्ध्योपास्तिप्रकारम् आह - तत इति ।
सन्ध्योपासन-नित्यत्व-प्रमाणानि
श्रीपाञ्चरात्ररक्षायां तत्तन्निबन्धनेषु च
बहुधा उदाहृतानि ।
पाद-प्रक्षालन-पूर्वकाचमन-द्वय-प्रमाणम्
आचमन-प्रकरणे
पूर्वं प्रदर्शितम् ।
कर्मप्रदीपे -
देवार्चने जपे होमे
स्वाध्याये श्राद्धकर्मणि ।
स्नाने दाने तथा ध्याने
प्राणायामास् त्रयस् त्रयः ॥
आदाव् अन्ते च गायत्र्याः
प्राणायामास् त्रयस् त्रयः ।
सन्ध्यायाम् अर्घ्यदाने च
प्राणायामैकम् उच्यते ॥अङ्गुष्ठानामिकाभ्यां तु
तथैव च कनिष्ठया ।
प्राणायामस् तु कर्तव्यो
मध्यमां तर्जनीं विना ॥
बृहस्पतिः -
बद्ध्वासनं नियम्यासून्
स्मृत्वा चर्ष्यादिकं तथा ।
सन्निमीलित-दृङ्-मौनी
प्राणायामं समाचरेत् ॥
संवर्त :-
प्रणवेन तु संयुक्ता
व्याहृतीस् सप्त नित्यशः ।
गायत्रीं शिरसा सार्धं
मनसा त्रिः पठेत् द्विजः ॥
योगयाज्ञवल्क्य :-
पूरकः कुम्भको रेच्यः
प्राणायामस् त्रिलक्षणः ।
नासिकाकृष्ट उच्छ्वासो
ध्मातः पूरक उच्यते ॥
कुम्भको निश्चलश्वासो
रेच्यमानस्तु रेचकः ।
कुम्भकेन जपं कुर्यात्
प्राणायामस्य लक्षणम् ॥
शनैर् नासापुटे वायुम्
उत्सृजेन् न तु वेगतः ।
न कम्पयेच् छरीरं तु
स योगः परमो मतः ॥
अत्रिः -
दक्षिणघ्राण-रन्ध्रेण
रेचयेत् प्रथमं द्विजः ।
प्राणायामेऽथ वामेन
नासारन्ध्रेण पूरयेत् ।
तं वायुं धारयेच् छक्यं
दक्षिणेनाथ रेचयेत् ॥
इत्यादीनि रत्नाकर-स्थ-वचनान्य् अत्र भाव्यानि ।
[[85]]
विश्वास-प्रस्तुतिः
“श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं प्रातस्सन्ध्यामुपासिष्य”
इति सङ्कल्प्य
“कृतञ्चे"त्यादि-सात्त्विकत्यागं कृत्वा,
भगवन्तं श्रीभूमिनीलासमेतं ध्यात्वा
मूलम्
श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं प्रातस्सन्ध्यामुपासिष्य इति सङ्कल्प्य कृतञ्चेत्यादिसात्त्विकत्यागं कृत्वा, भगवन्तं श्रीभूमिनीलासमेतं ध्यात्वा
आह्निकार्थप्रकाशिका
प्रातस्सन्ध्यामुपासिष्ये इति सङ्कल्प्येति ।
प्रीत्यर्थं देवदेवस्य
श्रीशस्य जगतीपतेः ।
नित्यकर्माणि कुर्वीत
तथा नैमित्तिकान्यपि ॥
ततस् सम्यक् द्विराचम्य
प्रणम्य गरुडध्वजम् ।
शुचौ देशे समासीनः
प्राङ्मुखोदङ्मुखोऽपि वा ॥
प्रातस्सन्ध्याम् उपासिष्ये
प्रीत्यर्थं श्रीपतेरहम्
इति सङ्कल्प्य मनसा
प्रातस्सन्ध्यां समाचरेत्
इति वासिष्ठसंहितावचनान्यत्रानुसन्धेयानि ।
आयम्यासून् करिष्ये सकलशुभकृते यज्ञसूत्र-प्रतिष्ठां
सङ्कल्प्येत्थम् …
इत्युक्त्वा
… विविध-मुनिमतां यज्ञसूत्रप्रतिष्ठाम्
इत्यभिधानात् धर्मशास्त्रसूत्रविहितकर्मसु
“तत्तत्कर्म करिष्ये” इति सङ्कल्प एवाचार्यपादाभिप्रेतः शिष्टाचारसिद्धश्च । तदुक्तम् -
स्वसूत्रविहितम् एव सन्ध्योपासनादिकं कर्तुम् उचितम्
इति ।
एतेन,
ओं
भगवन् नित्येन प्रातस्-सन्ध्योपासनेन भगवत्-कर्मणा
भगवन्तम् अर्चयिष्यामि+इति सङ्कल्पं,
बलमन्त्रं+++(=भगवतो बलेन, भगवतो वीर्येण …)+++,भगवान् एव स्वकीयेनैव कल्याणतमेन प्रातस्-सन्ध्योपासनेन
+अखिल-परिजन-परिच्छदान्वितं स्वात्मानं
स्वयम् एव प्रीतं कारयितुम् उपक्रमते,इति च सात्त्विकत्यागं कृत्वा,
एवं तत्र तत्र सङ्कल्प-सात्त्विकत्यागाव् अवगन्तव्याव्
इत्य् अपरोक्तं परास्तम् ।
विशुद्ध-परिवारस्य
-नित्यं शुद्धा हरेः क्रिया
इति शुद्ध-याजि-विचारे
स्वोदाहृत-भरद्वाज-संहिता-वचनेन
पूर्वं स्नान-प्रकरणोक्त-युक्त्या च
इज्यायाम् एव
परिजन-परिच्छदान्वित-प्रीत्य्-उद्देश्यकानुष्ठानावगमात्,
क्रियान्तरे भगवत्-प्रीत्य्-उद्देश्यकानुष्ठानस्य तत्र तत्राचार्यपादोद्घोषितत्वाच् च ।
[[86]]
भरद्वाजः -
प्रारभ्यातारकाज्योतिर्
आभानूदयदर्शनात् ।
प्रातस्-सन्ध्येत्य् अभिहिता
स्वाध्यायैश् च महर्षिभिः ॥सूर्यस्यास्तमयात् पूर्वम्
आरभ्यातारकोदयात् ।
सायं सन्ध्येति सा मध्यम्
एतयोर्मध्यमा स्मृता ॥
विष्णुपुराणे -
सन्ध्या मुहूर्तमात्रा वै
ह्रासवृद्धी न कारणम्
इति रत्नाकरस्थवचनानि । यत्तु
द्विघटी तूदयात्पूर्व-
प्रहरार्धं तथोपरि ।
सन्ध्याकालस् स विज्ञेयो
ह्य् अन्यथा लङ्घनं स्मृतम् ॥
इति तद्-गौण-कालाभ्यनुज्ञापरम् । तदाह वृद्धमनुः -
न प्रातर् न प्रदोषञ् च
सन्ध्याकालोऽतिपद्यते ।
मुख्यकल्पो ऽनुकल्पश् च
सर्वस्मिन् कर्मणि स्मृतः ॥
मध्याह्न-सन्ध्या-गौण-कालमाह दक्षः -
अध्यर्धयामाद् आसायं
सन्ध्या माध्याह्निकीष्यते ।
इत्याह्निक-काण्डस्थ-वचनानि चात्र भाव्यानि ।
विश्वास-प्रस्तुतिः
पूर्वं पुण्ड्राधारणे उदकोर्ध्वपुण्ड्रं धृत्वा
मूलम्
पूर्वं पुण्ड्राधारणे उदकोर्ध्वपुण्ड्रं धृत्वा
आह्निकार्थप्रकाशिका
कर्माङ्गोर्ध्व-पुण्ड्र-धारणानुपपत्तौ कर्तव्यम् आह पूर्वमित्यादिना ।
जपकाले मृदा धार्यं सन्ध्या-कालेषु वारिणा
इति ब्रह्मकैवर्तवचनम् अत्र प्रमाणम् ।
मार्जनम्
विश्वास-प्रस्तुतिः
आपोहिष्ठेति मन्त्रस्य
सिन्धुद्वीप ऋषिः, देवी गायत्री छन्दः, आपो देवता इति,
शिरो-जिह्वा-हृदयेषु
सर्वत्र ऋषि-छन्दो देवताः न्यसेत् ।
इत्युक्तरीत्या ऽनङ्गुष्ठाभिर् अङ्गुलीभिर् न्यस्य,
“प्रोक्षणे विनियोग” इत्य् उक्त्वा
वामहस्तेन तोयं संस्पृश्य,
देवतीर्थेनोर्ध्वमुखेन शिरसि प्रणवेनैकवारं,
समस्तव्याहृतिभिर् एकवारं,
गायत्र्या च एकवारं,
प्रणवादिभिः आपोहिष्ठेत्य्-आदिभिः प्रत्येकं सम्प्रोक्ष्य
“ओम् यस्य क्षयाय जिन्वथे"ति पादद्वये सम्प्रोक्ष्य,
“ओं आपो जनयथा च न” इति पुनश्शिरसि प्रोक्ष्य,
समस्तव्याहृतिभिर् आत्मानं परिषिच्य,
मूलम्
आपोहिष्ठेति मन्त्रस्य सिन्धुद्वीप ऋषिः, देवी गायत्री छन्दः, आपो देवता इति,
शिरोजिह्वाहृदयेषु सर्वत्र ऋषिछन्दो देवताः न्यसेत् ।
इत्युक्तरीत्यानङ्गुष्ठाभिरङ्गुलीभिर्न्यस्य, प्रोक्षणे विनियोग इत्युक्त्वा वामहस्तेन तोयं संस्पृश्य, देवतीर्थेनोर्ध्वमुखेन शिरसि प्रणवेनैकवारं, समस्तव्याहृतिभिरेकवारं, गायत्र्या च एकवारं, प्रणवादिभिः आपोहिष्ठेत्यादिभिः प्रत्येकं सम्प्रोक्ष्य ओम् यस्य क्षयाय जिन्वथेति पादद्वये सम्प्रोक्ष्य, ओं आपो जनयथा च न इति पुनश्शिरसि प्रोक्ष्य, समस्तव्याहृतिभिरात्मानं परिषिच्य,
[[88]]
आह्निकार्थप्रकाशिका
आपोहिष्ठेति मन्त्रस्येत्यादि । अत्र हारीतः -
मार्जनार्चन-बलि-कर्म-होम-भोजनानि देवतीर्थेन कुर्यात्
इति । एतेन विखनस्-सूत्रोक्ताग्नि-तीर्थेन वेत्यपरोक्तं परास्तं,
देवतीर्थेनैव शिष्टाचारात्
विखनस्-सूत्रोक्तस्य तत्-सूत्र-निष्ठ-विषयत्वाच् च ।
चतुर्विधं मार्जनमाह -
शिरसि मार्जनं कुर्यात्
सकुशोदकबिन्दुभिः ।
प्रणवो भूर्भुवः स्वश्च
गायत्री च तृतीयका ।
अब्दैवत्य-त्रयं चैव
चतुर्थम् इति मार्जनम् ॥
प्रणवेन प्रथमं,
भूर्भुवस्सुवरिति द्वितीयं,
गायत्र्या तृतीयं,
आपोहिष्ठेति त्र्यृचेन चतुर्थम् इति मार्जनक्रमः ।
त्र्यृचे विशेषम् आह शौनकः -
नवप्रणव-युक्तेन
आपोहिष्ठेत्यृचेन +++(←बहुव्रीहिः)+++ च ।
संवत्सरकृतं पापं
मार्जनान्ते विनश्यति ॥
आपोहिष्ठेत्यृचा कुर्यान्
मार्जनन्तु कुशोदकैः ।
प्रति-प्रणव-संयुक्तं
क्षिपेद् वारि पदे पदे ॥
विप्रुषो ऽष्टौ क्षिपेद् ऊर्ध्वम्
अधो “यस्य क्षयाय च” ॥
अधः = अधश्शरीरे इत्यर्थः ।
नवभिरिति नियमात् प्रत्र्य्-ऋचं+++(→पादं)+++ मार्जनं कार्यम् ।
भरद्वाजः -
आपोहिष्ठादिर्भिर् मन्त्रैः
शिरस् सन्मार्जयेद् द्विजः ।
सिन्धु-द्वीप-ऋषिश् छन्दो
गायत्र्य् आपो हि देवताः ।
मार्जने विनियोगस् तुसूर्यश्चेति जलं पिबेत् ।
अस्यानुवाकस्याग्निर् ऋ-
षिः छन्दो गायत्र्य् अंशुमान् ।
देवता विनियोगोऽपां
प्राशने, समुपस्पृशेत् ।आत्मानं प्रोक्षयेत् पश्चात्
दधिक्राविण्ण इत्यृचा ।
आपोहिष्ठादि-तिसृभिः
ऋग्भिस् सकुसुमैर् जलैः ।
दधिक्राविण्ण इत्यस्य
वामदेव ऋषिः स्मृतः ।छन्दो ऽनुष्टुब् विश्वे देवा
देवताः प्रोक्षणे स्मृताः ।ततोऽपसव्यं व्याहृत्या
परिषिच्य समस्तया ।पश्चादुभाभ्यां हस्ताभ्याम्
आदायापस् समाहितः ।
रवेर् अभिमुखस् तिष्ठन्
प्रणव-व्याहृति-पूर्वया ।
गायत्र्या चाभिमन्त्र्यापस्
त्रिः क्षिपेद्द्विजसत्तमः ।
[[89]]
आह्निकार्थप्रकाशिका
देवलः -
सन्ध्यातिक्रमे कृच्छ्रं कुर्यात् ।
बोधायनः -
सायम् अतिक्रमे रात्र्युपवासः ।
प्रातरतिक्रमे ऽहर् उपवासः ।
इति ।
अर्घ्यप्रदानतः पूर्वम्
उदयेऽस्तमयेऽपि वा ।
गायत्र्यष्टशतं जप्यं
प्रायश्चित्तं द्विजातिभिः ॥
पाद्मे –
परिषेकं ततः कुर्यात्
प्रादक्षिण्यं समाचरेत् ।
सन्तर्प्य केशवादींस् तान्
आचामन्तु समाचरेत् ॥
कौर्मे —
प्रातर् मन्त्रवद् आचम्य
प्रोक्ष्य, सूर्याय चाञ्जलिम् ।
दत्वा, प्रदक्षिणं कृत्वा,
द्विर् आचम्य यथाविधि ॥प्राक्-कूलेषु ततः स्थित्वा
दर्भेषु सुसमाहितः ।
प्राणायाम-त्रयं कृत्वा
ध्यायेत् सन्ध्याम् इति श्रुतिः ॥
अशक्तस्य मुख्य-कालातिक्रमे प्रायश्चित्तम् आह सङ्ग्रह-कारः -
आचान्तो विधिवत् प्राणान्
आयम्यार्घ्यं चतुर्थकम् ।
कालात्यय-विशुध्यर्थं
दत्वा सन्ध्यां समाचरेत् ॥
चतुर्थम् अर्घ्यं गायत्र्या
दद्याद् व्याहृति-संपुटम् ।
कालात्ययविशुध्यर्थं
त्रिसन्ध्यासु समाचरेत् ॥
प्राणायामत्रयं कृत्वा
सन्ध्याकर्म समाचरेत् ।
प्रातःकाले त्रयं कुर्यात्
सङ्गवे द्वादशोपरि ॥
षट्त्रिंशन् मध्यमे काले
ततो न प्राणसंयमः ॥
शङ्खोऽपि -
सन्ध्यादिनित्यलोपे तु
दिनम् एकम् अभोजनम् ।
दिनद्वये त्रिरात्रं स्यात्
कृच्छ्रार्धं तु दिनत्रये ॥
दशाहे कृच्छ्रम् एकं स्यात्
ऊर्ध्वं चान्द्रायणञ् चरेत् ।
चान्द्रायणं पराकं च
मासाद् ऊर्ध्वं विधीयते ।
ततोप्य् एवं प्रकल्प्यं स्याद्
व्यासस्य वचनं तथा ॥
इति रत्नाकरोदाहृतानि मुक्ताफलोदाहृतानि च वचनान्यत्र भाव्यानि ।
[[90]]
प्राशनम्, पुनर्-मार्जनम्
विश्वास-प्रस्तुतिः
सूर्यश्चेत्यनुवाकस्य
अग्निर् ऋषिः, देवीगायत्री-छन्दः, सूर्यो देवता ।
इति मुखादौ न्यस्य,
अपां प्राशने विनियोग इत्युक्त्वा,
[[87]]
मूलम्
सूर्यश्चेत्यनुवाकस्य
अग्निर् ऋषिः, देवीगायत्री-छन्दः, सूर्यो देवता ।
इति मुखादौ न्यस्य,
अपां प्राशने विनियोग इत्युक्त्वा,
[[87]]
विश्वास-प्रस्तुतिः
इत्य् अनुवाकेन भोजन-कालीनापोशनोक्त-नियम-सहितम् अपश् चुलकेन प्राश्याचम्य,
दधिक्रावण्ण इति मन्त्रस्य वामदेव ऋषिः,
अनुष्टुप्छन्दः,
दधिक्रावा देवता,
प्रोक्षणे विनियोग
इति पूर्ववत्कृत्वा,
दधिक्रावण्णो अकारिषम् । जिष्णोरश्वस्य वाजिनः, सुरभि नो मुखाकरत् । प्रण आयूँषि तारिषत् । “अपोहिष्ठा + अरङ्गमामवः”
इत्येकादशभिः शिरसि प्रोक्ष्य,
“यस्य क्षयाय जिन्वथे"ति पादयोः,
“आपो जनयथा च न” इति शिरसि च प्रोक्ष्य,
व्याहृतिभिर् आत्मानं परिषिच्य,
प्राणानायम्य,
मूलम्
इत्यनुवाकेन भोजनकालीनापोशनोक्तनियमसहितमपश्चुलकेन प्राश्याचम्य, दधिक्रावण्ण इति मन्त्रस्य वामदेव ऋषिः, अनुष्टुप्छन्दः, दधिक्रावा देवता, प्रोक्षणे विनियोग इति पूर्ववत्कृत्वा, दधिक्रावण्णो अकारिषम् । जिष्णोरश्वस्य वाजिनः, सुरभि नो मुखाकरत् । प्रण आयूँषि तारिषत् । “अपोहिष्ठा + अरङ्गमामवः” इत्येकादशभिः शिरसि प्रोक्ष्य, यस्य क्षयाय जिन्वथेति पादयोः, आपो जनयथा च न इति शिरसि च प्रोक्ष्य, व्याहृतिभिरात्मानं परिषिच्य, प्राणानायम्य,
अर्घ्यम्
विश्वास-प्रस्तुतिः
ओं अर्घ्यप्रदानमन्त्रस्य,
विश्वामित्र ऋषिः, देवी गायत्री छन्दः, सविता देवता, अर्घ्यप्रदाने विनियोगः,
इति पूर्ववत् कृत्वा,
सप्रणव-व्याहृतिक-गायत्र्या पार्ष्णि-द्वयम् उद्धरन्
आभ्रूमध्यं समुद्धृत्य
तर्जन्य्-अङ्गुष्ठ-संयोग-रूप-राक्षस-मुद्रा-रहिताञ्जलिना
तोयेनार्घ्य-त्रयम् आदित्यान्तर्वर्ति-भगवत्-पादारविन्दयोर् दत्वा,
अर्घ्यात् पूर्वम् उदये ऽस्तमये च
सन्ध्याकालातिक्रम-प्रायश्चित्तार्थं
तुरीयार्घ्य-प्रदानङ् करिष्य
इति सङ्कल्प्य,
(तुरीयार्घ्यप्रदानमन्त्रस्य
सान्दीपिनी ऋषिः,
देवीगायत्री छन्दः,
सविता देवता)
सप्तव्याहृति-सम्पुटित-गायत्र्या
तत्तत्सूत्रोक्तमन्त्रेण वा तुरीयार्घ्यं दत्वा,
तीरं गत्वा
समस्तव्याहृतिभिर् आत्मानं परिषिच्य,
+++(स्मृत्युक्तरीत्या)+++ मन्देहाख्यरक्षो-विधूनन-पाप्मावधूननार्थं प्रदक्षिणं परिक्रम्य,
“असावादित्यो ब्रह्मे"ति ध्यात्वाचम्य,
मूलम्
ओं अर्घ्यप्रदानमन्त्रस्य, विश्वामित्र ऋषिः, देवी गायत्री छन्दः, सविता देवता, अर्घ्यप्रदाने विनियोगः, इति पूर्ववत् कृत्वा, सप्रणवव्याहृतिकगायत्र्या पार्ष्णिद्वयमुद्धरन् आभ्रूमध्यं समुद्धृत्य तर्जन्यङ्गुष्ठसंयोगरूपराक्षसमुद्रारहिताञ्जलिना तोयेनार्घ्यत्रयमादित्यान्तर्वर्तिभगवत्पादारविन्दयोर्दत्वा, अर्घ्यात् पूर्वमुदयेऽस्तमये च सन्ध्याकालातिक्रमप्रायश्चित्तार्थं तुरीयार्घ्यप्रदानङ्करिष्य इति सङ्कल्प्य, (तुरीयार्घ्यप्रदानमन्त्रस्य सान्दीपिनी ऋषिः, देवीगायत्री छन्दः, सविता देवता) सप्तव्याहृतिसम्पुटितगायत्र्या तत्तत्सूत्रोक्तमन्त्रेण वा तुरीयार्घ्यं दत्वा, तीरं गत्वा समस्तव्याहृतिभिरात्मानं परिषिच्य, मन्देहाख्यरक्षोविधूननपाप्मावधूननाथं प्रदक्षिणं परिक्रम्य, “असावादित्यो ब्रह्मे"ति ध्यात्वाचम्य,
आह्निकार्थप्रकाशिका
यत्तु -
अत्र विशेषमाह पैठीनसिः,
सूतके सावित्र्या जलाञ्जलिं प्रक्षिप्य
सूर्यं ध्यायन् नमस्कुर्याद्इति, व्यासः -
सूतके मृतकेत्व् अर्घ्यं
गायत्रीं तु समुच्चरन् ।
दत्वा प्रदक्षिणं कुर्यात्
सूर्यं ध्यायन् ततो द्विजः ॥इति, अतोऽर्घ्यदाने वाचा मन्त्रोच्चारणं मार्जनादौ मनसा
+इति रत्नाकरोक्तं, तद् असङ्गतम् -
उदाहृत-व्यास-वचनस्य तत्-स्मृत्यादौ विज्ञानेश्वरीयादौ चादर्शनेन
चन्द्रिका-माधवीययोर् अर्घ्यदान-मन्त्र-वाचिकोच्चारण-कथनावसरे
उदाहृत-स्पष्टार्थक-व्यास-वचनम् अनुदाहृत्य,
उदाहृत-पैठीनसि-वाक्योदाहरणेन च
तस्य सन्दिग्धत्वात् ।
स्पष्टार्थप्रमाणसत्त्वे
तद् उपेक्ष्यास्पष्टार्थप्रमाणोदाहरणं
तस्य सन्दिग्धत्वज्ञापकम्
इति श्रीशतदूषण्यां यति-लिङ्ग-भङ्गेऽनुगृहीतम् ।
न च सूतके सावित्र्येत्य्-अत्र सन्ध्याविधाव् उक्तस्य सावित्र्य्-अनुवचनस्येह
पुनर्-वचनं मानसत्व-निवृत्त्य्-अर्थं,
तेन वाचोच्चारणं कार्यम् इति चन्द्रिकोक्तेः
कथं वाचिकत्व-निरास इति वाच्यम् ।
विज्ञानेश्वरीय-शतक-व्याख्याद्य्-उदाहृत-प्रमाण-गणेनाशौचे
सन्ध्योपासन-मन्त्रोच्चारण-निषेधात्
तद्-अपवादतया
मनसोच्चारयेन् मन्त्रान्
इति पुलस्त्य-वचनानुगुण्येन
मानस-गायत्री-करणक-जलाञ्जलि-विधि-परत्वस्यैवात्र
स्वीकार्यत्वेन
वाचिकत्व-विधि-परत्वासम्भवात् ।
अत एव श्रीपाञ्चरात्ररक्षा-तृतीयाधिकारे
गायत्री-स्मरण-पूर्वक-जलाञ्जलि-प्रक्षेप-न्यायेन
इत्य्-अनुगृहीतं सङ्गच्छते ।
आह्निकार्थप्रकाशिका
तद् उक्तम् -
मन्त्र-प्रोक्षण-मन्त्राचमन-पुनः-प्रोक्षण-स्वात्म-परिषेचनानि
स्वसूत्र-संहितोक्त-प्रकारेण कृत्वा
गायत्र्याभिमन्त्रितं जलम् आदित्यान्तःस्थिताय परमात्मने
ऽर्घ्यरूपं दद्यात् ।अत्र जलाञ्जलिप्रक्षेपस् त्रिरिति सनत्कुमाराय पितामहः प्राह -
उभाभ्यां तोयम् आदाय
हस्ताभ्यां सुसमाहितः ।
गायत्र्या चाभिमन्त्र्यापस्
तार-व्याहृतिपूर्वया ।
रवेर् अभिमुखस् तिष्ठन्न्
ऊर्ध्वं त्रिस्सन्ध्ययोः क्षिपेत् ॥ततो
वज्रीभूत-तज्-जल-निहत-मन्देहाख्य-रक्षो-निरसन-पाप्मावधूननार्थं
प्रदक्षिणं प्रक्रम्य
मार्गशीर्षादि-मासेशान् तत्-तन्-मन्त्रेण तर्पयित्वा
[[91]]
इति । अत्र मन्त्र-प्रोक्षणेत्य्-आद्य्-आचार्य-पाद-श्रीसूक्ति-यथावस्थितार्थः
मन्त्र-प्रोक्षणादिकम् अष्टाक्षरासंपुटित-तत्-तन्-मन्त्र-करणकम् एव कार्यम्
इति च सत्पथ-रक्षायां न्यदर्श्य् अस्माभिः ।+++(5)+++
तर्पणानि
विश्वास-प्रस्तुतिः
“ओं केशवं तर्पयामी"त्यादिक्रमेण
केशवादीन् मार्गशीर्षादि-मासेशान् द्वादश
सन्तर्प्याचामेत् ।
मूलम्
“ओं केशवं तर्पयामी"त्यादिक्रमेण
केशवादीन् मार्गशीर्षादिमासेशान् द्वादश
सन्तर्प्याचामेत् ।
पक्षान्तरम्
विश्वास-प्रस्तुतिः
प्रदक्षिण-परिक्रमणानन्तरं प्राक्-कूलेषु दर्भेषूपविश्य
त्रिः प्राणानाम्य
“असावादित्यो ब्रह्मे"ति सन्ध्यारूपं भगवन्तं ध्यायेद् इति केचित् ।
अर्घ्यदानात् पूर्वम् उदये ऽस्तमये वा
गायत्र्य्-अष्टशतं जपेत् -
एककालम् उपवसेदिति केचित्,
तुरीयार्घ्यप्रदानमिति केचित् ।
प्रातर् अतीते प्राणायामत्रयं,
सङ्गवे षट्कम्,
मध्याह्ने नवकं,
अपराह्णे द्वादश,
सायाह्ने षट्त्रिंशत् प्राणायामान् कुर्याद् इति केचित् ।
मूलम्
प्रदक्षिण-परिक्रमणानन्तरं प्राक्-कूलेषु दर्भेषूपविश्य
त्रिः प्राणानाम्य
“असावादित्यो ब्रह्मे"ति सन्ध्यारूपं भगवन्तं ध्यायेद् इति केचित् ।
अर्घ्यदानात् पूर्वम् उदये ऽस्तमये वा
गायत्र्य्-अष्टशतं जपेत् -
एककालम् उपवसेदिति केचित्,
तुरीयार्घ्यप्रदानमिति केचित् ।
प्रातर् अतीते प्राणायामत्रयं,
सङ्गवे षट्कम्,
मध्याह्ने नवकं,
अपराह्णे द्वादश,
सायाह्ने षट्त्रिंशत् प्राणायामान् कुर्याद् इति केचित् ।
जपः
विश्वास-प्रस्तुतिः
एवं स्वसूत्र-संहिताद्य्-उक्त-क्रमेण तर्पणान्तं कृत्वा,
विष्ण्वालयादि-जप-स्थाने प्रागग्रेषु दर्भेषु स्थित्वा
मूलम्
एवं स्वसूत्र-संहिताद्य्-उक्त-क्रमेण तर्पणान्तं कृत्वा, विष्ण्वालयादि-जप-स्थाने प्रागग्रेषु दर्भेषु स्थित्वा
आह्निकार्थप्रकाशिका
अथ जपस्थानादिकमाह - विष्ण्वालयादिजपस्थान इति । योगयाज्ञवल्क्यः -
गृहे त्व् एकगुणं प्रोक्तं
नद्यादौ द्विगुणं भवेत् ।
गवां गोष्ठे दशगुणम्
अग्न्य्-अगारे शताधिकम् ।
सिद्धिक्षेत्रेषु तीर्थेषु
देवतायाश्च सन्निधौ ।
सहस्र-शत-कोटिस् स्याद्
अनन्तं विष्णुसन्निधौ ।
यमः -
उपास्य सन्ध्यां पूर्वान्तु
शुचौ देशेऽवलोकिते ।
दर्भास्तृते शुचिस् तिष्ठन्
प्राणायामत्रयं चरेत् ॥
इति रत्नाकरस्थवचनान्यत्र ग्राह्याणि ।
विश्वास-प्रस्तुतिः
प्रणवस्य ऋषिर्ब्रह्मा, देवी गायत्री छन्दः, परमात्मा देवता ।
भूरादिसप्तव्याहृतीनां
अत्रि-भृगु-कुत्स-वसिष्ठ-गौतम-काश्यपाङ्गिरस ऋषयः ।
गायत्र्य्-उष्णिग्-अनुष्टुब्-बृहती-पङ्क्ति-त्रिष्टुब्-जगत्यश् छन्दांसि
अग्नि-वाय्व्-अर्क–वाग्-ईश–वरुणेन्द्र-विश्वेदेवा देवताः ।सावित्र्या ऋषिर्विश्वामित्रः ।
देवी गायत्री छन्दः ।
सविता देवता ।गायत्री शिरसो ब्रह्मा ऋषिः ।
अनुष्टुप्छन्दः।
परमात्मा देवता ।सर्वेषां प्राणायामे विनियोगः ।
ओं भूः (पादयोः)
ओं भुवः (जङ्घयोः)
ओं सुवः (जान्वोः)
ओं महः (उदरे)
ओं जनः (कण्ठे-हृदये)
ओं तपः (मुखे)
ओँ सत्यं (मस्तके)
न्यसेत् ।
श्वेत-श्याम-पीत-पिशङ्ग-रोहित-नील-कनक-वर्णाः
अभयाक्ष-स्रग्–अप्-पात्र–वर-हस्ताः
सपवित्रचतुर्हस्ताः
स्रक्-चन्दनाद्य्-अलङ्कृताः
सर्वाभरण-भूषिताः सोपवीताः सजटाः
ध्यात्वा,
“ओं तत्सवितुः” ज्ञानाय हृदयाय नमः ।
“वरेण्यं” ऐश्वर्याय शिरसे स्वाहा ।
“भर्गो देवस्य” शक्त्यै शिखायै वौषट् ।
“धीमहि” बलाय कवचाय हुम् ।
“धियो यो नः” तेजसे नेत्राभ्यां वौषट् ।
“प्रचोदयात्” वीर्यायास्त्राय फड्
इति न्यासः । ध्यानम् -
[[92]]
मुक्ता-विद्रुम-हेम-नील-धवल-च्छायैर् मुखैस् त्रीक्षणैर्
युक्ताम् इन्दु-कला-निबद्ध-मकुटां तत्त्वार्थ-वर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुश-कशाश् शुभ्रं कपालं गुणं
शङ्खं चक्रम् अथारविन्द-युगलं हस्तैर् वहन्तीं भजे ।
इति ध्यात्वा
ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम्
इति शिरोमन्त्रेण कराभ्यां शिरः-प्रभृति-पादान्तं व्यापक-न्यासं कृत्वा
अर्कमण्डलमध्यस्थं
सूर्यकोटिसमप्रभम् ।
ब्रह्मादिसेव्यपादाब्जं
नौमि ब्रह्मरमासखम् ।
इत्युक्त्वा त्रिः प्राणान् आयम्य ।
मूलम्
प्रणवस्य ऋषिर्ब्रह्मा, देवी गायत्री छन्दः परमात्मा देवता । भूरादिसप्तव्याहृतीनां अत्रिभृगुकुत्सवसिष्ठगौतमकाश्यपाङ्गिरस ऋषयः । गायत्र्युष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगत्यश्छन्दांसि अग्निवाय्वर्कवागीशवरुणेन्द्रविश्वेदेवा देवताः । सावित्र्या ऋषिर्विश्वामित्रः । देवी गायत्री छन्दः । सविता देवता । गायत्री शिरसो ब्रह्मा ऋषिः । अनुष्टुप्छन्दः। परमात्मा देवता । सर्वेषां प्राणायामे विनियोगः । ओं भूः (पादयोः) ओं भुवः (जङ्घयोः) ओं सुवः (जान्वोः) ओं महः (उदरे) ओं जनः (कण्ठे-हृदये) ओं तपः (मुखे) ओँ सत्यं (मस्तके) न्यसेत् । श्वेतश्यामपीतपिशङ्गरोहितनीलकनकवर्णाः अभयाक्षस्रगप्पात्रवरहस्ताः सपवित्रचतुर्हस्ताः स्रक्चन्दनाद्यलङ्कृताः सर्वाभरणभूषिताः सोपवीताः सजटाः ध्यात्वा, ओं तत्सवितुः ज्ञानाय हृदयाय नमः । वरेण्यं ऐश्वर्याय शिरसे स्वाहा । भर्गो देवस्य शक्त्यै शिखायै वौषट् । धीमहि बलाय कवचाय हुम् । धियो यो नः तेजसे नेत्राभ्यां वौषट् । प्रचोदयात् वीर्यायास्त्राय फडिति न्यासः । ध्यानम् ।
[[92]]
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणैर्युक्तामिन्दुकलानिबद्धमकुटां तत्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयांकुशकशाश्शुभ्रं कपालं गुणं शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ।
इति ध्यात्वा ओमापो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोमिति शिरोमन्त्रेण कराभ्यां शिरःप्रभृतिपादान्तं व्यापकन्यासं कृत्वा ।
अर्कमण्डलमध्यस्थं सूर्यकोटिसमप्रभम् ।
ब्रह्मादिसेव्यपादाब्जं नौमि ब्रह्मरमासखम् ।
इत्युक्त्वा त्रिः प्राणानायम्य ।
आह्निकार्थप्रकाशिका
प्रणवादीनाम् ऋष्यादिकं प्रतिपादयति प्रणवेत्यादिना ।
ऋष्यादिकमाह भरद्वाजः -
प्रणवस्य ऋषिर्ब्रह्मा
परमात्मा च देवता ।
छन्दश्च देवी गायत्री
विनियोगः क्रियावशः ॥
अत्र ब्रह्मा -
अत्रिर्भृगुश् च कुत्सश् च
वसिष्ठो गौतमस्तथा ।
काश्यपोऽङ्गिरसश्चैव
ऋषयस्स्युर् यथाक्रमम् ।गायत्र्युष्णिगनुष्टुप्च
बृहती पङ्क्तिरेव च ।
त्रिष्णुप्च जगती चैव
छंदांस्य् एतानि सप्त वै ।अग्निर्वायुस्तथार्कश्च
वागीशो वरुणस्तथा ।
इन्द्रश्च विश्वेदेवाश्च
देवतास्समुदाहृताः ।ब्राह्मी स्वाहा वाहिनी च
तथा नित्या विलासिनी ।
प्रभावनी च लोला च
सप्तव्याहृतिशक्तयः ।पीतं श्यामं पिशङ्गञ्च
नीलं लोहितमेव च ।
नीलं कनकवर्णं च
वर्णान्य् एतान्य् अनुक्रमात् ।प्रणवस्यैतयोर्+++(=गायत्रीशिरसोः)+++ वर्णः
शुद्धस्फटिक-सन्निभः ।
तत्त्वम् एषां त्रयाणान्तु
सर्वं तत्त्वमिति स्मृतम् ।
इत्येवम् उक्त्वा नत्वा च
प्राणायामान् समाचरेत् ।
एतयोर् = गायत्रीशिरसोः।
विश्वामित्रस् तु गायत्र्या
ऋषिश्छन्दः स्वयं स्मृतः ।
सविता देवता चैव
ब्रह्मा शिर इति स्मृतः ।
अनुष्टुप् चैव छन्दस् स्यात्
परमात्मा च देवता ।
प्राणायाम-प्रयोगे तु
विनियोग उदाहृतः ।
[[93]]
न्यासम् आह स एव —
पादयोर् जङ्घयोर् जान्वोस्
तथोर्वोर् जठरेऽपि च ।
मुखे चैव तथा मूर्ध्नि
क्रमेण व्याहृतीर्न्यसेत् ।हृदि तत्सवितुर्न् यस्य
न्यसेन् मूर्ध्नि वरेणियम् ।
भर्गो देवस्येति पदं
शिखायां तु ततो न्यसेत् ।
धीमहीति न्यसेद् वर्म
धियो योनश् च नेत्रयोः ।
प्रचोदयाद् इति पदम्
अस्त्रार्थे विनियुज्यते ।
शिरोन्यासस् तु सर्वाङ्गे
प्राणायामपरो न्यसेत् ॥
सप्तव्याहृतिध्यानम् -
स्व-स्वोक्त-वर्ण-तनवः
रूप-यौवन-संयुताः ।
क्षौम-वस्त्रपरीधानास्
सर्वाभरणभूषिताः ।
दिव्य-चन्दन-लिप्ताङ्गा
दिव्य-माल्यैर् अलङ्कृताः ।
सितोपवीत-हृदयाः
सपवित्रचतुष्कराः ।
उन्निद्र-वदनाम्भोज-
प्रभा-मण्डल-मण्डिताः ।
जटा-कला-पपूर्णेन्दु-
प्रभापूरितदिङ्मुखाः ।
अभयाक्ष-स्रग्-अप्-पात्र-
वरहस्त-सरोरुहाः ।
एवं होम-जपारम्भे
ध्येया व्याहृतयो द्विजैः ।
ध्यानम् -
मुक्ता-विद्रुम-हेम-नील-धवल-च्छायैर् मुखैस् त्रीक्षणैर्
युक्ताम् इन्दु-कला-निबद्ध-मकुटां तत्त्वार्थ-वर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुश-कशाश् शुभ्रं कपालं गुणं
शङ्खं चक्रम् अथारविन्द-युगलं हस्तैर् वहन्तीं भजे ।
इति रत्नाकरस्थ-वचनानीह चिन्तनीयानि ।
यत् तु — भरद्वाजः -
समाहित-मनाः प्राणान्
आयम्यैव तदाकृतिम् ।
जपित्वैव दशकृत्वः
प्राग्गायत्रीं ततो जपेत् ॥
स्मृत्यन्तरे -
सप्त-व्याहृति-संयुक्तां
गायत्रीं शिरसा सह ।
दश-वारं जपित्वैव
गायत्रीं तु ततो जपेत् ॥
इति रत्नाकरे दीर्घगायत्रीजपः कार्य इत्युक्तम्;
तत् केवल-धर्म-शास्त्र-विहितानुष्ठान-श्रद्धा-विजृम्भितम्;
न तु नाथ-यामुन-पूर्ण-भाष्यकार-शिष्य-प्रशिष्य-ग्रन्थानुसार्य्-आचार्य-पाद-श्री-सूक्त्य्-अनुगुणम्,
तत्-सम्प्रदाय-स्थानुष्ठानानुगुणं च ।
[[94]]
तद् उक्तं
सव्याहृतिं सप्रणवां
गायत्रीं शिरसा सह ।
त्रिः पठेद् आयतप्राणः
प्राणायामस्स उच्यते ।इत्य्-उक्तप्रकारेण प्राणायामत्रयं कृत्वा
गायत्रीम् आवाह्याष्टोत्तरसहस्रम्
इत्यादि,
दिग्-आदि-नमस्काराणाम् अपि
स्व-पूर्व-पूर्वोपदेशानुष्ठान-पारम्पर्यम् अस्ति चेत्
तत्रापि भगवद्-आत्मकत्व-ध्यान-पूर्वकं
प्रणमेत्
इति ।
दिगादि-नमस्कारेषु अनुष्ठान-पारम्पर्य–सद्-भाव–वचनम् अस्ति,
दीर्घ-गायत्री-जपे तन् नास्ति ।
स्व-सूत्र-विहितान् वापि निषेकादीन् समाचरेत्
इति नारदीय-वचनानुसारेण
स्व-सूत्र-विहितम् एव सन्ध्योपासनादिकं कर्तुम् उचितम्
इति सौत्र-सन्ध्योपासनानुष्ठानम् अनुगृहीतम् ।
गायत्री-जप-विषये
“प्राणायामेन शत-कृत्वः” इत्यादि
“बोधायनादयः स्मरन्ति” इति बोधायन-सूत्रोदित-ग्राह्यत्वम् अनुगृहीतम्।
स्वसूत्रे ऽविद्यमानेऽपि
परसूत्रेण वर्तते ।
बोधायनमतं कृत्वा
स्वसूत्रफलभाग् भवेत् ॥
इति रत्नाकर-स्थ-वृद्ध-मनु-वचनेन
आपस्तम्बानुक्त-सन्ध्योपासनं
तत्-सूत्र-निष्ठस्य बोधायनोक्तम् एव ग्राह्यम्
इत्यवगम्यते । बोधायनीये -
दर्भेष्वासीनो
दर्भान् धारयमाणः
सोदकेन पाणिना
प्रत्यङ्मुखस्
सावित्रीं सहस्रकृत्वः आवर्तयेत्
इत्यारभ्य
त्रिभिश् च प्राणायामैस् तां
ततो ब्रह्महृदयेन+++(=ॐकारेण??)+++
वारुणीभ्यां रात्रिम् उपतिष्ठते
इत्यादिना, एवमेव
प्रातः प्राङ्मुखस् तिष्ठन्
मैत्रीभ्याम् अहर् उपतिष्ठत
इत्यादिना च सायंप्रातस्-सन्ध्ययोः
गायत्रीजपोपस्थान-तन्मन्त्रा एव विहिताः,
न तु दीर्घगायत्रीजपः ।
माध्याह्निकसन्ध्योपास्ताव् अपि एवम् एवोक्तम् ।
भगवद्गुणदर्पणे
युधिष्ठिरः शान्तनवं
पुनरेवाभ्यभाषत
इत्येतद्-व्याख्याने
सन्तो ह्य् आचार्य-निष्ठाम् अन्विष्य
तद्-रुचि-परिगृहीतम् एव तत्त्वं हितं च रोचयन्ते।
न तु प्रामाणिकत्व-मात्रेण +++(5)+++
इति प्रामाणिकस्याप्य् आचार्यापरिगृहीतस्य सद्भिर् अग्राह्यत्वम् उक्तम् ।
अतः परमैकान्तिषु दीर्घगायत्रीजपस्य नावकाशः ।
केवल-धर्म-शास्त्र-मात्रोक्त-श्रद्धावन्तः
श्रीदेशिक-सूक्ति-विश्वास-हीनाः
दीर्घगायत्री-जपम् अनुतिष्ठन्तु नाम ।
विश्वास-टिप्पनी
“को धर्मः सर्वधर्माणां भवतः परमो मतः ?”
इति प्रश्नस्य सन्दर्भे - नाम धर्म-पारम्य-ज्ञानय् - हि पराशरभट्टेनाचार्य-निष्ठा-रोचनम् उक्तम्।
प्रामाणिकस्याप्य् आचार्यापरिगृहीतस्य सद्भिर् अग्राह्यत्वम् उक्तम्
इति न पराशरभट्टानुसारि - “पारम्येन” इत्य् अध्याहरेद् वा।
यथोक्तग्रहणे दोषः - अयं खल्व् आचार्यपरिग्रहाग्रहो ऽव्यवस्थाजनकः!
न खलु +आचार्यपुरुषो ऽपि सर्वज्ञस् स्यात् - स्युस् तस्यापि प्रमादाः परिग्रहे? यद्य् एतद् अङ्गीक्रियते, परे यद् वदेयुः - “श्राद्धं नाचारामः, घण्टां न वादयामः” इत्याद्य् अपि सङ्गतम् भवेत् तत्-तदाचार्यापरिग्रहम् आश्रित्य!
[[95]]
विश्वास-प्रस्तुतिः
अष्टोत्तर-सहस्रम् अष्टोत्तर-शतं दशवारम् ओदयाद् वा
गायत्रीजपं करिष्य
इति सङ्कल्प्य,
मूलम्
अष्टोत्तरसहस्रमष्टोत्तरशतं दशवारम् ओदयाद्वा गायत्रीजपं करिष्य इति सङ्कल्प्य,
आह्निकार्थप्रकाशिका
अथ गायत्रीजपसङ्कल्पमाह अष्टोत्तरसहस्रमित्यादिना ।
प्राणायामत्रयं कृत्वा गायत्रीमावाह्य
इत्याचार्यपादश्रीसूक्तौ जपसङ्कल्पाकथनेऽपि, उपस्थाने
पूर्ववत्कृतप्राणायामत्रयः सन्ध्योपस्थानसङ्कल्पपूर्वकम्
इत्युक्तरीत्या गायत्रीजपसङ्कल्पोऽपि तदभिमत इत्यभिप्रायेण तदुक्तिः । भरद्वाजः
अष्टोत्तरसहस्रं वा शतमष्टोत्तरन्तु वा ।
जप्त्वाष्टाविंशतिर्वापि बीजशक्तिक्रमाज्जपेत् ।
सहस्रपरमां देवीं शतमध्यां दशावराम् ॥
[[96]]
यत्तु रत्नाकरे योगयाज्ञवल्क्यः
ब्रह्मचार्याहिताग्निश्च शतमष्टोत्तरं जपेत् ।
वानप्रस्थो यतिश्चैव सहस्रादधिकं जपेत् ॥
तयोरनग्निकत्वेन होमकालानतिपत्तेरिति भावः ।
आहिताग्निग्रहणं एकाग्नेरप्युपलक्षणं तस्याप्युदयादनन्तरं होमविधानात्
इत्युक्तम् । तन्न चारु; आचार्यपादैस्सर्वाश्रमिसाधारण्येनाष्टोत्तरसहस्रमित्याद्यभिधानात् आहिताग्निषु सहस्रावृत्तिनिषेधाङ्गीकारेऽपि एकाग्नेः होमकालस्य षट् घटिकात्मकप्रातःकालरूपतया सहस्रजपानन्तरमपि होमस्य कर्तुं शक्यत्वात्, गृहस्थशिष्टेषु सहस्रसंख्याकगयात्रीजपानुष्ठानदर्शनाच्च । एतद्विस्तरः श्रीनिक्षेपचिन्तामणावनुसन्धेयः ।
विश्वास-प्रस्तुतिः
आयात्वित्यनुवाकस्य
वामदेव ऋषिः । अनुष्टुप्छन्दः । गायत्रीदेवता । गायत्र्यावाहने विनियोगः ।
रविमण्डले हृत्पद्मे वा रत्नसिंहासने
मूलम्
आयात्वित्यनुवाकस्य
वामदेव ऋषिः । अनुष्टुप्छन्दः । गायत्रीदेवता । गायत्र्यावाहने विनियोगः ।
रविमण्डले हृत्पद्मे वा रत्नसिंहासने
विश्वास-प्रस्तुतिः
इत्यनुवाकेनावाह्य ।
प्रातर्ध्यायामि गायत्रीं
रविमण्डलमध्यगाम् ।
ऋग्वेदम् उच्चारयन्तीं
रक्त-वर्णां कुमारिकाम् ॥
अक्षमाला-करां ब्रह्म-
दैवत्यां हंस-वाहनाम् ।मध्यन्दिने तु सावित्रीं
रविमण्डल-मध्यगाम् ।
यजुर्वेदं व्याहरन्तीं
श्वेतां शूलकरां शिवाम् ।
युवतीं रुद्रदेवत्यां
ध्यायामि वृष-वाहनाम् ।सायं सरस्वतीं श्यामां
रविमण्डलमध्यगाम् ।
सामवेदं व्याहरन्तीं
चक्रायुध-धरां शुभाम् ।
ध्यायामि विष्णुदैवत्यां
वृद्धाङ् गरुड-वाहनाम् ।
एवं ध्यात्वा
मूलम्
इत्यनुवाकेनावाह्य ।
प्रातर्ध्यायामि गायत्रीं रविमण्डलमध्यगाम् ।
ऋग्वेदमुच्चारयन्तीं रक्तवर्णां कुमारिकाम् ॥
अक्षमालाकरां ब्रह्मदैवत्यां हंसवाहनाम् ।
मध्यन्दिने तु सावित्रीं रविमण्डल-मध्यगाम् ।
यजुर्वेदं व्याहरन्तीं श्वेतां शूलकरां शिवाम् ।
युवतीं रुद्रदेवत्यां ध्यायामि वृषवाहनाम् ।
सायं सरस्वतीं श्यामां रविमण्डलमध्यगाम् ।
सामदेवं व्याहरन्तीं चक्रायुधधरां शुभाम् ।
ध्यायामि विष्णुदैवत्यां वृद्धाङ्गरुडवाहनाम् ।
एवं ध्यात्वा
आह्निकार्थप्रकाशिका
आयात्वित्य् अनुवाकस्येत्यादि । भरद्वाजः -
आयात्व्-इत्य्-अनुवाकेन
त्वावाह्य तु यथाविधि ।
गायत्रीं विमलां देवीं
हृदि वा सूर्यमण्डले ।
देवीमावाह्य गायत्रीं
ततो ध्यायेद्द्विजोत्तमः ॥
पितामहः -
आयात्वित्य् अनुवाकस्य
वामदेव ऋषिः स्मृतः ।
अनुष्टुब्जगती छन्दो
गायत्री देवता स्मृता ॥ गायत्रीं विमलां देवीं
हृदि वा सूर्यमण्डले ।
ध्यानयोगेन सम्पश्येत्
वर्णरूपसमन्विताम् ॥
योगयाज्ञवल्क्यः -
प्रातःकाले तु गायत्री
सायङ्काले सरस्वती ।
मध्यन्दिने तु सावित्री
उपास्या नामभेदतः ॥गायत्री तु भवेद्रक्ता
सावित्री शुद्धविग्रहा ।
सरस्वती कृष्णरूपा
उपास्या रूपभेदतः ॥गायत्री ब्रह्मरूपा तु
सावित्री रुद्ररूपिणी ।
सरस्वती विष्णुरूपा
उपास्या रूपभेदतः ॥उदये ब्रह्मरूपन्तु
मध्याह्ने तु महेश्वरम् ।
सायाह्ने विष्णुरूपन्तु
त्रिरूपं चैवमुच्यते ॥न-भिन्नां प्रतिपाद्येत
गायत्रीं ब्रह्मणा सह ।
“सा ऽहम् अस्मी"त्य् उपासीत
विधिना येन केनचित् ॥
इति विधिना रत्नाकरस्थवचनान्यत्रानुसन्धेयानि ।
[[97]]
गायत्री-कल्पानान् तु
लक्ष्मीविभूति-भूताया एव गायत्र्य्-आख्यायाः देवतायाः
सन्ध्याभेदेन वैष्णव्य्-आदि-समाख्यानुगुण-वाहन-रूपादि-परिग्रह-शक्त्या
माहात्म्य-वर्णने तात्पर्यं तत्र तत्र सुव्यक्तम्
इति श्रीचतुःश्लोकीभाष्ये ऽनुगृहीतत्वात्,
सन्ध्या-भेदेन नाम-रूप-वाहन-समाख्या-विशेष-विशिष्ट-गायत्री-शरीरक–परमात्म-ध्यानं
पारमैकान्त्याविरुद्धम् एव ।+++(5)+++
विश्वास-प्रस्तुतिः
आसनादि-षोडशोपचारान् मनसा प्रणवेन समर्प्य
प्रणवस्य ऋषिर्ब्रह्मा । देवीगायत्री छन्दः । परमात्मा देवता ।
भूरादिव्याहृति-त्रयस्यात्रि-भृगु-कुत्सा ऋषयः
गायत्रत्य्-उष्णिग्-अनुष्टुप् छन्दांसि ।
अग्नि-वाय्व्-अर्का देवताः ।
सावित्र्या ऋषिर्विश्वामित्रः । देवीगायत्री छन्दः । सविता देवता ।
प्रातस्सन्ध्याजपे विनियोग
इत्युक्त्वा
अस्त्रमन्त्रेण कर-तल–कर-पृष्ठयोश् शुद्धिं कृत्वा,
प्रणवेन प्रकोष्ठान्तं करद्वयेऽपि तलयोः पृष्ठयोः पर्यायेण परामृश्य,
करतलयोः प्रणवं न्यस्य
ओं भूः । ओं भुवः । ओं सुवः । ओं तत्सवितुर्वरेण्यम् । ओं भर्गोदेवस्य धीमहि । ओं धियो यो नः प्रचोदयात् ।
इति करन्यासं कृत्वा तथैवाङ्गन्यासञ्च कुर्यात् ।
विस्तृतन्यासादिकमन्यत्र द्रष्टव्यम् ।
मूलम्
आसनादिषोडशोपचारान्मनसा प्रणवेन समर्प्य । प्रणवस्य ऋषिर्ब्रह्मा । देवीगायत्री छन्दः । परमात्मा देवता । भूरादिव्याहृतित्रयस्यात्रिभृगुकुत्सा ऋषयः गायत्रत्युष्णिगनुष्टुप्छन्दांसि । अग्निवाय्वर्का देवताः । सावित्र्या ऋषिर्विश्वामित्रः । देवीगायत्री छन्दः । सविता देवता । प्रातस्सन्ध्याजपे विनियोग इत्युक्त्वा । अस्त्रमन्त्रेण करतलकरपृष्ठयोश्शुद्धिं कृत्वा, प्रणवेन प्रकोष्ठान्तं करद्वयेऽपि तलयोः पृष्ठयोः पर्यायेण परामृश्य, करतलयोः प्रणवं न्यस्य । ओं भूः । ओं भुवः । ओं सुवः । ओं तत्सवितुर्वरेण्यम् । ओं भर्गोदेवस्य धीमहि । ओं धियो यो नः प्रचोदयात् । इति करन्यासं कृत्वा तथैवाङ्गन्यासञ्च कुर्यात् । विस्तृतन्यासादिकमन्यत्र द्रष्टव्यम् ।
आह्निकार्थप्रकाशिका
आसनादिषोडशोपचारान् मनसा समर्प्य इति
हैमे सिह्मासने देवीं
स्थितां ध्यायेद् द्विजोत्तमः ।
पद्मपीठेऽथवा व्यूढे
नानारत्नविभूषिते ।
पद्मासनेऽथवा सौम्ये
तथा ध्यायेत् स्वचेतसा ।
पाद्यम् आचमनं चार्घ्यं
वस्त्रं यज्ञोपवीतकम् ।
चन्दनञ् चाक्षतं पुष्पं
धूपदीपौ निवेद्यकम् ।
करानुलेपं ताम्बूलं
दत्वाऽथो जपम् आचरेत् ।
प्रदक्षिण-प्रणामांश् च
यथाशक्त्य् अपि कारयेत् ॥
इति रत्नाकरस्थवचनान्यत्र द्रष्टव्यानि । अत्र भरद्वाजः -
प्रकोष्ठान्तं बहिः पाण्योस्
तलयोस् तलपृष्ठयोः ।
तलयोर्मध्यमे विप्रः
केवलं प्रणवं न्यसेत् ॥
व्यासः -
भूर् अङ्गुष्ठद्वये न्यस्य
भुवस् तर्जनिका-द्वये ।
ज्येष्ठाङ्गुलि-द्वये धीमान्
न्यसेत् तत्-पदम् अग्रतः ।
कनिष्ठिका-द्वये भर्गः
पाण्योर् मध्ये धियः पदम् ।करन्यासविधिं कृत्वा ऽङ्गन्यासं समाचरेत् ।
भूः पदं हृदि विन्यस्य
भुवश् शिरसि विन्यसेत् ।
शिखायां स्वपदं न्यस्य
कवचे तत्कवच्-एपदं न्यसेत् ।
अक्ष्णोः भर्गः पदं न्यस्य
न्यसेद् दिक्षु धियः पदम् ॥
[[98]]
भरद्वाजः -
हृन्-मस्तक-शिखा-गात्र-
नेत्र-प्रहरणानि षट् ।
हृन्-मन्त्रं हृदये, क+++(=शिरः)++++अन्ते
शिरो-मन्त्रं, शिखा-मनुम् ।
शिखायां, कवचं देहे,
दृक्-फालेषु च दृङ्–मनुम् ।
पार्श्वयोर् दश-दिक्ष्व् अस्त्र-
मन्त्रं कुर्याद् यथाक्रमम् ।अङ्गुलीभिश् चतसृभिः
द्वयोर् हृदय-शीर्षयोः ।
मुष्टेर् अङ्गुष्ठ-शिरसा
पश्चिमे तस्य वर्णतः ।बहिः कराभ्यां दृक्फाल-
मध्ये मध्याङ्गुलैस् त्रिभिः ।
अङ्गुष्ठ-तर्जन्य्-अग्राभ्यां
स-शब्दं दिक्षु पार्श्वयोः ।षड्-अङ्गं न्यासम् इत्युक्तम्
इदमेतत् प्रचोदितम् ।
एवं विन्यस्य गायत्रीम्
आवाह्य च यथाविधि ।
ध्यात्वोपचारं सकलं
कृत्वाथो जपमाचरेत् ॥
एवं षडङ्गन्यासम् इत्युक्त्वा, अनन्तरं जपविधानात्
नित्यजपे पुनर् एतावद् एव कार्यम् इति गम्यते ।
फलाधिक्यापेक्षायां
शक्तस्याक्षरन्यासादयः कार्याः
इति रत्नाकरोक्तमिहानुसन्धेयम् ।
विश्वास-प्रस्तुतिः
यो देवस्सवितास्माकं
धियो धर्मादिगोचराः ।
प्रेरयेत् तस्य यद् भर्गस्
तद् वरेण्यम् उपास्महे ।
इति गायत्र्यर्थं विचिन्त्य
आदित्य-मण्डले ध्यायेत्
परमात्मानम् अव्ययम् ।
विष्णुं चतुर्भुजं रत्न-
पङ्कजासन-मध्यगम् ।
किरीट-हार-केयूर-
कटकादि-विभूषितम् ।
श्रीवत्स-वनमाला श्री-
तुलसी-कौस्तुभोज्ज्वलम् ।
हरिं पीताम्बरधरं
शङ्खचक्रगदाधरम् ।
प्रसन्न-वदनं रत्न-
कुण्डलैर् मण्डिताननम् ।
सर्वरत्न-समायुक्तं
सर्वाभरणभूषितम् ।
एवं ध्यात्वा जपेन्
नित्यं मन्त्रम् अष्टोत्तरं शतम् ॥
इत्युक्त-प्रकारेण भगवन्तम् आदित्यमण्डले ध्यात्वा,
मूलम्
यो देवस्सवितास्माकं धियो धर्मादिगोचराः ।
प्रोरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे ।
इति गायत्र्यर्थं विचिन्त्य
आदित्यमण्डले ध्यायेत्परमात्मानमव्ययम् ।
विष्णुं चतुर्भुजं रत्नपङ्कजासनमध्यगम् ।
किरीटहारकेयूरकटकादिविभूषितम् ।
श्रीवत्सवनमाला श्रीतुलसीकौस्तुभोज्ज्वलम् ।
हरिं पीताम्बरधरं शङ्खचक्रगदाधरम् ।
प्रसन्नवदनं रत्नकुण्डलैर्मण्डिताननम् ।
सर्वरत्नसमायुक्तं सर्वाभरणभूषितम् ।
एवं ध्यात्वा जपेन्नित्यं मन्त्रमष्टोत्तरं शतम् ॥
इत्युक्तप्रकारेण भगवन्तमादित्यमण्डले ध्यात्वा,
आह्निकार्थप्रकाशिका
गायत्रीप्रतिपाद्यदेवताध्यानमाह - यो देवेत्यादिना ।
अत्र विश्वामित्रः
देवस्य सवितुस् तस्य
धियो यो नः प्रचोदयात् ।
भर्गो वरेण्यं तत् ब्रह्मा
धीमहीत्य् अर्थ उच्यते ।यो देवस् सविताऽस्माकं
धियो धर्मादिगोचराः ।
प्रेरयेत् तस्य यद् भर्गस्
तद्वरेण्यम् उपास्महे ।
अनयोर् वचनयोर् भर्गशब्दस्य तेजःपरत्वेन
यच्-छब्दस्य सवितृ-परत्वेन च व्याख्यानं कृतं वरदराजीये -
तच्-छब्द-श्रुतेर् यच्छब्दो ऽध्याहर्तव्यः ।
[[99]]
सवितुः जगतां प्रसवितुः,
सवि॒ता वै प्र॑स॒वाना॑मीशे,
उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒
इति श्रुतेः ।
वरेण्यं वृङ् संभक्तौ एण्यप्रत्ययः ।
सर्वेषां भजनीयं भर्गः तेजः ।
भञ्जनाद् भर्गः, प्रकाश-प्रदानेन जगतो बाह्यान्तर-तमो-भञ्जकत्वाद् वा,
भर्जनाद् वा कालात्मकतया सकल-कर्म-फल-पाक-हेतुत्वात्,
भरणाद् वा वृष्टि-प्रदानेन भूतानां भरण-हेतुत्वात् ।
देवस्य द्योतमानस्य धीमहि चिन्तयामः ।
“ध्यै चिन्तायाम्”।
देवस्य सवितुः वरेण्यं यद्भर्गः तत् ध्यायेम ।
आदित्यमण्डलान्तर्वर्तिनं तेजोमयं पुरुषम् अनुचिन्तयामः ।
य एषोऽन्तरादित्ये हिरण्मयः पुरुषः,
अथ य एष एतस्मिन् मण्डलेर्चिषि पुरुषः
इत्यादिश्रुतेः ।
यः सविता, नः अस्माकं,
धियः हानोपादान-विषय-ज्ञानानि,
प्रचोदयात् प्रचोदयति,
तत्सवितुः भर्गश् चिन्तयाम इति । विश्वामित्रः -
आदित्यमण्डलासीनं
रुक्माभं पुरुषं परम् ।
ध्यायञ् जपेत् तद् इत्य् एतां
निष्कामो मुच्यतेऽचिरात् ॥
सुप्रभं सत्यम् आनन्दं
हृदये मण्डलेऽपि च ।
ध्यायन् जपेत् तदित्येतां
निष्कामो मुच्यतेऽचिरात् ॥स यश्चायं पुरुषे यश् चासाव् आदित्ये स एकः
इति ध्यानार्थः
इति ।
अत्र जगत्कारणभूतं परं ब्रह्म
सर्वान्तर्यामी सूर्यमण्डलान्तर्वर्ती
तेजोमयः पुरुष
इति व्याख्यातम् ।
स तु पुरुषः पुण्डरीकाक्ष एव
य एषोऽन्तरादित्ये
हिरण्मयः पुरुषो दृश्यते
हिरण्य-श्मश्रुर् हिरण्य-केश
आप्रणखात् सर्व एव सुवर्णः
तस्य यथा कप्य्-आसं पुण्डरीकम् एवम् अक्षिणी
इति श्रुतेः । कं जलं पिबतीति कपिः,
सूर्यः तेन आस्यते विकास्यत इति कप्यासं
रवि-कर-विकसितम् इत्यर्थः ।
अन्तर्यामिपुरुषो नारायण एव
एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः
इति श्रुतेः ।
एवं च सवितृ-मण्डलान्तर्-वर्ति-पुण्डरीकाक्षं सकल-जगदाधारं विष्णुसंज्ञं
यद् भर्गस् तेजः
तत् तेजश् चिन्तयाम इति सिद्धम् ।
अत्र मैत्रावरुणीयश्रुतिः +++(=(मै.उ.६-३४))+++ -
एतत् सवितुर् वरेण्यं ध्रुवम् अचलम् अमृतं भर्गाख्यं विष्णुसंज्ञं सर्वाधारं धाम
इति ।
[[100]]
योगयाज्ञवलक्यः -
ईश्वरं पुरुषाख्यं च
सत्यधर्माणम् अच्युतम् ।
भर्गाख्यं विष्णुसंज्ञं यत्
ध्यात्वा ऽमृतम् उपाश्नुते ।अनेन धीमहीति ध्यान-विषयभूतो विष्णुर् एवेति सिद्धम् ।
अत एव सनत्-कुमार-स्मृतौ ध्येयो विष्णुर् एवेति निश्चितम् -आदित्यमण्डले ध्यायेत्
परमात्मानम् अव्ययम्
इत्यादि ।
एवं ध्यात्वा जपेन्नित्यं
मन्त्रमष्टोत्तरं शतम् ।
सर्वपापविशुद्धात्मा
जितक्रोधो जितेन्द्रियः ।
संसारार्णवम् उत्तीर्य
परां सिद्धिम् अवाप्नुयात् ॥
इत्येवं गायत्र्याः देवतात्वेन
आदित्य-मण्डलान्तर्वर्ति-पुरुषोत्तमस्यैव ध्येयत्वावधारणात्
अस्याः देवतान्तरत्वाशा-भिक्षोः
राज्ञः किरीटाशेव दुराशैव । अत्र भरद्वाजः -
अथाहम्-अर्थं गायत्र्याः
प्रवक्ष्यामि यथा तथा ।
द्विजोत्तमानां सद्-भक्त्या
जपादीति प्रकुर्वताम् ।
विश्वास-भक्ति-जनन-
मन्त्रार्थज्ञानम् उत्तमम् ।
तस्मादर्थं विजानीयाद्
उक्तेन जपकृन्नरः ।
विश्वास-भक्तिभ्यां द्वाभ्यां
जपादीनां महत्-तरम् ।
फलं भवेज्-जपकृताम्
इति वेदेषु भाषितम् ।
वृद्धयमस्मृतौ तृतीयाध्याये -
वरेण्यं विरलं जप्यं
जपकाले द्विजोत्तमैः ।
वरेण्यं संहिताकाले
वरेणीयं जपे स्मृतम् ॥
वरेण्यमिति यो ब्रूयाज्
जपकाले द्विजो यदि ।
स च पाप्मा महाघोरे
नरके पच्यतेऽग्निना ॥स्त्रीपुंसात्मक-गायत्रीं
वस्त्रेणाच्छाद्य वै जपेत् ।
उदये प्राङ्मुखस्तिष्ठन्
संख्यायैव जपेद् बुधः ॥
असंख्यया ऽपवित्रश् च
जपो निष्फलतामियात् ।
इति वचनान्यत्र भाव्यानि ।
न च
असंख्यातात् तु संख्यातः
सहस्रगुण ईरितःइति वचनेन असंख्यातस्यापि साफल्यप्रतीतेः
कथं तन्निषेध
इति वाच्यं,
वचनद्वयपर्यालोचने साफल्यं भवेन्नवेतीत्य् अर्थनिश्चयात् ।
[[101]]
यथा
आहृत्य याच्ञया तैर्वा,
… अधमं तु क्रयक्रीतं
याचितं त्वधमाधमम्
इति याचितकुसुमादेर् अभ्यनुज्ञानेऽपि
प्रतिग्रह-पुष्पे दातुरेव फलं,
कर्तुः किञ्चिद् भवेन् न वा
इति श्रीपाञ्चरात्र-रक्षायाम् अनुगृहीतं तद्वत् ।
पदानि दश मन्त्रस्य
तद्-आदीनि यथाक्रमम् ।
पद-प्रत्यय-निष्पत्तिः
सुस्पष्टं क्रियतेऽत्र तु ।
एषा हि स्तोतुर् गायत्री
सर्व-पाप-प्रणाशिनी ।
विज्ञातव्या प्रयत्नेन
द्विजैस् सर्व-शुभेप्सुभिः ।
जपस्यानन्तरे व्याख्या
स्मर्तव्या ऽहर् अहर् द्विजैः ।
स्मरणात् सर्वपापानि
प्रणश्यन्ति न संशयः ॥
इत्यादि-रत्नाकर-वाक्य-जातम् अत्रानुसन्धेयम् ।
प्रतिपुरुषम् अनेकाः, प्रत्य्-अवस्थं विचित्राश्
शुभ-गतिषु धियो नश् चोदयत्य् अञ्जसा नः ।
अखिल-चिद्-अचिद्-अन्तर्यामि-तद्-विष्णु-संज्ञं
सवितुर् अहम् उपासे तस्य देवस्य भर्गः ।तेजः परं तत्-सवितुर् वरेण्यं
धाम्ना परेणाप्रणखात् सुवर्णम् ।
त्वां पुण्डरीकेक्षणम् आमनन्ति
श्रीरङ्गनाथं समुपासिषीया ।
इति श्रीशतदूषणी-श्रीरङ्गराजस्तव-श्लोकावत्र भाव्यौ । अहिर्बुध्न्यसंहितायान्तु
सावित्रं नाम तज् ज्योतिः
तत् सावित्रीसमाह्वयम् ।
तस्य व्याख्याम् इमां सम्यग्
गदतो मे निशामय ।प्रतिसञ्चर-वेलायां
ताम् अयत्य्+++(←पदविग्रहः??)+++ एव तां पुनः ।
त्रायते तत्र तत्रैव
भूत्य्-अंशे धारकात्मना ।
प्रमाणत्वेन भूयश् च,
तत्-तद्-अर्थतया +++(→प्रमेयतया)+++ पुनः +++(प्रतिभाति?)+++ ।
अतस् तद् इति सङ्कल्पः
प्रोच्यते वैष्णवः परः ।प्रसौति सकलां चेष्टां
प्रसौति सकलं जगत् ।
अवतेर् गतिकान्त्य् अर्थात्
तरतेर् दानकर्मणः ।
गतो ह्य् अवति सर्वत्र
षड्भिः कान्तो गुणैः परम् ।
भोगापवर्गयोर् दाता
सवितेति निरुच्यते ।
वरैर् नेयं वरेण्यन् तु
वरदातार ईरिताः ।
वरेणियं वरेण्यं वा
वरं नयति तत्परम् ।[[102]]
भर्गस् तेजस् समाख्यातं
प्रभावः कर्तृरूपता । भरतीदं जगत्कृत्स्नं
सम्भरत्य् अपि चेश्वरान् ।
रमयत्य् अपि तत्सर्वं
राति चार्थम् अभीप्सितम् ।
गमयत्य् अपि तन् नाशं
स्मृति-बन्धम् अशेषतः ।
भर्गयत्य् अपि तत्-कष्टं
भर्गतस् तेन तत्तथा ।
अतो भर्गः परं विष्णोः
सङ्कल्पं विदुर् अद्भुतम् ।द्योतनस् सर्वभावानां
द्योतमानः स्वयं सदा ।
अज्ञानम् अखिलं चान्यच्
चोदयन्न् अखिलञ् जगत् ।
अयं सकलम् एवेदं
तथोतं मणि-सूत्रवत् ।
इन ईरण ईभ्यश् च
परितस् सकलं दधत् ।
देव इत्य् उच्यते विष्णुः
परमात्मा सनातनः ।धीमहीत्य् अधिविज्ञानं
मननं भावनं तथा ।
धियो धीपूर्विकाश् चेष्टाः
प्रेरणन् तु प्रचोदनम् ।यस् सर्व-शक्तिस् सविता
देवस् संविन्-मयश् च यः ।
यश् च सर्वदिगीशानो
धियस् तास् ताः प्रचोदयात् ।सृष्टि-स्थिति-लय-त्राण-
त्रिधा-करणम् अव्ययम् ।
तस्य देवस्य सङ्कल्पं
भर्ग-संज्ञम् उपास्महे ।गायतस् त्रायमाणायाः
गायत्र्या अर्थ ईदृशः ।
या सत्ता सर्वभूतानां
विष्णुशक्तिः परावरा ।सा भूर् इति समाख्याता
भरतीदं जगत्स्वयम् ।भू(त)त्वा शक्तिं समास्थाय
यावतीदं जगत् स्वयम् ।
सा भुवः कथिता सद्भिर्
अवती भावितं जगत् ।वसीयो भोग-मोक्षाख्यं
सूते या सततं सताम् ।
सा सुवः कथिता ब्रह्मन्
व्याहृती वाङ्मयी ततः ॥
इति गायत्री-व्याहृत्य्-अर्थाः प्रदर्शिता अनुसन्धेयाः ।
यद् अन्योक्तम् -
गायत्र्याश् शास्त्र-सिद्धम् एव देवता-द्वयं,
एका तु मन्त्राभिमानिनी,
अन्या तु प्रतिपाद्याआदित्य-मण्डलासीनं
रुक्माभं परुषं परम् ।
ध्यायन् जपेत् तद् इत्येतां
निष्कामो मुच्यतेऽचिरात् ॥इत्यादिभिः रत्नाकरस्थ-वचनैर् आदित्य-मण्डलान्तः-स्थ-भगवत एव निष्काम-ध्येयतोक्तेः,
गायत्री-रूप-मन्त्राभिमानि-देवता-ध्यानस्य सकाम-विषयत्वं सिद्धम् इति कालत्रयेऽपि नास्या ध्यानम्
इति,
[[103]]
तदयुक्तं;
पूर्वोदाहृत-गायत्री-देवता-ध्यानोपचार-बोधक-वचनेषु फलाश्रुतेः
नित्यत्वावश्यम्भावेन पूर्वोदाहृत-श्री-चतुः-श्लोकी-सूक्त्या च
स-प्रदक्षिणं भगवद्-आत्मक-सन्ध्यादि-पञ्चक-नमस्कारं कृत्वा
इत्य्-आचार्य-पादानुगृहीत-सन्ध्यादि-नमस्कारवत्
तस्याः कालत्रये ऽप्य् अवश्य-ध्येयत्वोक्तेः,
वासिष्ठसंहितायां
आवाह्य हृदये सूर्य-
बिम्बे वा वेदमातरम् ।
ततोऽभिवादयेद् देवीं
गायत्रीं वेदमातरम् ॥
इति गायत्री-मन्त्राभिमानि-देवतावाहन-नमस्कारोक्तेः,
श्रीकृत-कृत्य–साध्योपाय-शोधन–चरम-श्लोकाधिकारादि-बहु-प्रबन्धेष्व्
अनुगृहीत-प्रकारेण मन्त्राभिमानि-देवता-शरीरक-परमात्म-ध्यान-विधौ पर्यवसानेन
तद्-ध्याने पारमैकान्त्य-विरोधाभावात् ।
ध्यायन् जपेत् तद् इत्य् एतां
निष्कामो मुच्यतेऽचिरात्
इति वचने ध्यायन् जपेद् इति जपाङ्गतया ध्यानं विधाय
निष्काम-कर्तृक-ध्यान-पूर्वक-जपस्य
मुक्ति-रूपं फलम् उच्यमानं
सकाम-कर्तृक-ध्यानस्य तत्-तत्-फल-प्राप्तिं प्रमाणान्तर-सिद्धाम् अवगमयति,
न तु मन्त्र-प्रतिपाद्य-देवता-ध्यानस्य निष्काम-मात्र-कर्तव्यत्वम् -
श्रीचतुःश्लोकीभाष्ये -
लक्ष्मी-विभूति-भूताया एव गायत्र्याख्याया देवतायाः
इत्य्-अनुगृहीतत्वात्,
श्रीपाञ्चरात्ररक्षायां
प्राणायामत्रयं कृत्वा
गायत्रीमावाह्य
इति,
पूर्ववत्-कृत-प्राणायाम-त्रयः
उत्तमे शिखरे इति मन्त्रेण
गायत्रीम् अनुज्ञाप्य स्व-सूत्रोक्तैर् मन्त्रैर्
आदित्य-मण्डलान्तः-स्थितं भगवन्तम्
उपस्थाय
इति श्रीसूक्तिभिः
भगवद्-विभूति-भूत-गायत्र्य्-आख्य-देवता-वाहनोपस्थानयोः
गायत्री-प्रतिपाद्यादित्य-मण्डलान्तः-स्थित-भगवद्-उपस्थानस्य च
पृथक् प्रतीतेः,
श्रीरङ्गरामानुज-महादेशिकै
गायत्र्य्-आवाहनोपस्थान-मन्त्रयोर्
मन्त्राभिमानि-देवता-परतयैव व्याख्यातत्वाच् च,
शास्त्र-सम्प्रदाय-सिद्धस्य देवता-द्वय-ध्यानस्य दुस्-त्यजत्वात् ॥
एतेनापरोक्तो मन्त्र-प्रतिपाद्य-देवता-मात्र-ध्यान-पक्षो निरस्तः ।
[[104]]
विश्वास-प्रस्तुतिः
कनिष्ठा-मूलम् आरभ्य प्रादक्षिण्य-क्रमेण
गणनया यथासङ्कल्पं
मूलम्
कनिष्ठामूलमारभ्य प्रादक्षिण्य-क्रमेण गणनया यथासङ्कल्पं
आह्निकार्थप्रकाशिका
मन्त्रगणनाप्रकारमाह कनिष्ठामूलेत्यादिना।
गणनायां च कराक्षसूत्रयोर्
यथाशक्ति विकल्पतः करणत्वम् ।
उक्तं च जयाख्य-संहितायां,जपन्तु द्विविधं कुर्याद्
अक्षसूत्र-करार्पितम् ।अक्षसूत्रार्पितं करार्पितं वा इत्यर्थः ।
तदेव च विशेषितं श्रीसात्त्वते -स्फाटिकेनाक्षसूत्रेण
स्वकैर्वा करपर्वभिःइति ।
स्फाटिकेनेत्य्-अक्षमाला-वर्गोदाहरणं,
शास्त्रान्तरे पद्माक्ष-मालादीनाम् आधिक्य-स्मरणात् ।
फल-विशेषार्थं तु मणि-मुक्तामयाद्य्-अक्षमाला-भेदाः ।
प्रतिष्ठा-विशेषादि-नियमाश् च तत्र तत्र प्रपञ्च्यन्ते,
करेऽपि शङ्ख-पद्मादि-मुद्रा-भेदाश्च ।तत्रैष सारः
कनिष्ठामूलम् आरभ्य
प्रादक्षिण्यक्रमेण तु ।
अनामिकान्तं देवेश
जपेत् कोटिसहस्रकम् ॥इति । बोधायनीये तु श्रीमद्-अष्टाक्षर-विधाव् एवमुक्तम् –
क्रिया-यागाच् छतगुणो
जप-यज्ञः प्रकीर्तितः ।
उच्चाच् छतगुणो ज्ञेयः
उपांशुश् चेत् स्मृतस्सदा ।
उपांशोर् मानसः प्रोक्तः
सहस्रं गुणतोऽधिकः ॥इति । अन्यद् अपि तत्रोक्तम् —
जपमध्ये गुरुर् वापि
वैष्णवो यस् समागतः ।
सम्भाषणादि-पूजान् तु
तस्य कृत्वानुमान्य च ।
अनुज्ञाप्य ततः कृत्वा
जपशेषं समाहितः ।सर्वस्य प्रभवो यस्मात्
विष्णुपादाश्रया नराः ।
तन्-मूलतः क्रियास् सर्वाः
सफलास्तु भवन्ति हि ॥इति ।
[[105]]
नारदीये श्रीमद्-अष्टाक्षर-ब्रह्म-विद्यायां
सर्वस् सप्रणवो जप्यः
जपाद् अप्रणवाद् अपि ।
सहस्र इति विज्ञेयं
प्रणवो ह्य् अक्षरं परम् ॥
असङ्ख्याताच् च सङ्ख्यातः
सहस्रगुण उच्यते ।
सङ्ख्याताद् अपि साहस्रः
सोर्ध्वपुण्ड्रतनोर् जपः ॥
इत्यादि ।
विश्वास-प्रस्तुतिः
धर्मशास्त्रोक्तनियमेन
मूलम्
धर्मशास्त्रोक्तनियमेन
आह्निकार्थप्रकाशिका
जपकालनियमम् आह — धर्मशास्त्रोक्तनियमेनेत्यादिना । तदुक्तं –
न च क्रमन् न च हसन्
न पार्श्वम् अवलोकयन् ।
न पदा पदम् आक्रम्य
न चैव हि तथा करौ ।इत्यादयश् च जप-काल-नियमाः
इति ।
कृत्वोत्तानकरौ प्रातः
सायं चाधोमुखौ करौ ।
मध्ये स्कन्ध-भुजाभ्यां तु
जप एवम् उदाहृतः ।
अङ्गुलीर् न वियुञ्जीतकिञ्चिदाकुञ्चिते तले ।
अङ्गुलीनां वियोगे तु
छिद्रे तु स्रवते जपः ।मनः प्रहर्षणं शौचं
मौनं मन्त्रार्थचिन्तनम् ।
अव्यग्रत्वम् अनिर्वेदो
जपसम्पत्ति-हेतवः ।
निष्ठीवं जृम्भणं कोधो
निद्रालस्य-क्षुधा-मदः ।
पतित-श्वाऽन्त्यजालोकाः
दशैते जपवैरिणः ॥
सुमन्तुः -
नाधोरत्निर् नान्यमनाः
न च व्यत्यस्त-पत्-करः ।
अ-पवित्रकरो नग्नः
शिरसि प्रावृतो ऽपि वा ।प्रजल्पन् वा जपेद् यावत्
तावन् निष्फलम् उच्यते ।खण्ड-वस्त्रावृतस्यैव
वस्त्रार्धालम्भिनस् तथा ।
उत्तरीय-व्यतीतस्य
समस्ता निष्फलाः क्रियाः ॥
[[106]]
स्मृत्यर्थसारे –
सावित्र्यादिक्रियास् सर्वा
आदित्याभिमुखश् चरेत् ।
देवालयसमीपे तु
तम् एवाभिमुखश् चरेत् ।
जप-स्थानान् न निर्गच्छेत्
देवतासन्निधौ क्वचित् ।
प्रदक्षिण-नमस्कारं
न कुर्याद् देवतालये ॥
भारीतः -
आर्द्रावासा जले कुर्यात्
तर्पणाचमने जपम् ।
उपस्थानं न निर्गच्छेत्
वर्जयेच् च प्रदक्षिणम् ।
इत्यादीनि रत्नाकरादिस्थानि वचनान्यत्र भाव्यानि ।
आह्निककाण्डोदाहृतं च शौनकः -
अपवित्रकरोऽशुद्धः
प्रलपन् न जपेत् क्वचित् ।
अ-प्रावृत-करो वापि
शिरसि प्रावृतोऽपि च ॥
इति वचनमपीहानुसन्धेयम् ।
विश्वास-प्रस्तुतिः
पञ्चावसानजपं 1 कृत्वा,
मूलम्
पञ्चावसानजपं 1 कृत्वा,
आह्निकार्थप्रकाशिका - मुख्य-प्रभेद-चितिः
पञ्चावसानयुक्तं जपं कृत्वेति । पितामहः -
गायत्री त्रिपदा ज्ञेया
चतुष्पादा षडक्षरी ।
जपे तु त्रिपदा ज्ञेया
ह्यर्चने तु चतुष्पदा ॥
एवमुक्तत्वात् प्रतिपादं विच्छिद्य जपः कार्यः । अविच्छेदे तु -
अच्छिन्नपादा गायत्री
ब्रह्महत्यां प्रयच्छति ।
छिन्नपादा तु गायत्री
ब्रह्महत्यां व्यपोहति ॥
इति प्रत्यवायस्मृते; ।
व्यासः -
प्रणवव्याहृतीयुक्तां
गायत्रीं तु ततो जपेत् ।
बोधायनः –
प्रणवो व्याहृतयः सावित्री चेत्येते पञ्चब्रह्मयज्ञा
अहर् अहर्
ब्राह्मणं किल्बिषात् पावयन्ते
अत्र सङ्ख्या-नियमेन
व्याहृति-मध्ये, व्याहृत्य्-अनन्तरं, गायत्र्य्-आद्यन्तयोश् च
प्रणवप्रयोगो व्यवच्छिद्यते ।
दीर्घगायत्री-जपे गायत्र्य्-आदौ प्रणव-प्रयोगस् तु श्रुतिसिद्धः।
जपादिषु सर्वत्र ब्रह्मचारि-गृहस्थयोर् एक-प्रणवैव गायत्री ग्राह्या ।
अत्र स्मृति-सार-समुच्चये -
सम्पुटैक-षड्-ओङ्कारा
गायत्री त्रिविधा मता ।तत्रैक-प्रणवा ग्राह्या
गृहस्थैर् जप-कर्मणि ।सम्पुटा च षड्-ओङ्कारा
यतीनाम् ऊर्ध्व-रेतसाम् ।गृहस्थवत् तु जप्तव्या
गायत्री ब्रह्मचारिभिः ।
तत्रैक-प्रणवेनैव
गृह-स्थ-व्रतिनोः सदा ॥
[[107]]
सम्पुटमाह योगयाज्ञवल्क्यः —
ओंकारं पूर्वम् उच्चार्य
भूर्-भुवः-स्वस् तथैव च ।
गायत्रीं प्रणवञ् चान्ते
जप एवम् उदाहृतः ।
एषा सम्पुट-गायत्री
सर्व-पापप्रणाशिनी ।
मनुष् षडोङ्कारम् आह -
षडोंङ्काराञ् जपन् विप्रो
गायत्रीं मनसा शुचिः ।
अनेक-जन्म-जैः पापैर्
मुच्यते नात्र संशयः ।तिस्रो व्याहृतयः पूर्वाः
पृथग् ओङ्कार-संयुताः ।
पुनस्-संहत्य चोङ्कारं
मन्त्रस्याद्य्-अन्तयोस् तथा ॥
इति रत्नाकरवचनान्यत्र भाव्यानि । यत्त्वपरोक्तम् –
गृहस्थो ब्रह्मचारी च
प्रणवाद्याम् इमां जपेत् ।
अन्ते यः प्रणवं कुर्यात्
नासौ वृद्धिम् अवाप्नुयात् ॥इति निषेधः त्रैवर्गिकविषयः,
पूर्वा कार्या गृहस्थैस्तु
उत्तरा यतिभिर्विभो ।
गृहस्था वृद्धिम् इच्छन्ति
यतो मोक्षं यतीश्वराः ॥इति नारदीयादौ
वृद्धि-शब्दस्य त्रिवर्गपरत्व-दर्शनात्।
स च निषेधः तेषाम् अपि पाक्षिकः,
तान् अधिकृत्यैव बोधायनसूत्रेउभयतः प्रणवां सव्याहृतिकाम्
इति विहितत्वात् ।
एवं च
अन्तप्रणवहीना मुमुक्ष्व्-अनुपादेयैव;
उत्तरैकादशीवत् । एवं षडोङ्कारापि मुमुक्षूपादेयैव
इति - तन्मन्दं;
‘गृहस्था वृद्धिम् इच्छन्ती’त्य्-आदि-वचने
मोक्षस्य पृथग् उपादानात् वृद्धिशब्दस् त्रिवर्गपरः ।
‘अन्ते यः प्रणवं कुर्याद्’ इत्यादि-वचने
सङ्कोचकाभावात् वृद्धि-शब्दश् चतुर्-वर्गपर
इति स्वीकार्यम्।
पूर्वोदाहृत-फल-श्रवण-रहित-स्मृति-सार-समुच्चय-वचनतः
सम्पुट-षड्-ओङ्कार-गायत्र्योः नित्यतया यतिविषयत्वस्य
एक-प्रणवगायत्र्याः गृहस्थब्रह्मचारिविषयत्वस्य च
प्रतीयमानत्वात् । काश्यपस्मृतौ -
एक-प्रणव-संयुक्तां
गायत्रीं प्रजपेद् गृही ।
ब्रह्मचारी च सन्ध्यासु
नियतो नियतेन्द्रियः ।
वनी सम्पुट-गायत्रीं
यतिष् षड्-प्रणवान्विताम् ॥
इत्युक्तम् ।
[[108]]
वृद्धयमस्मृतौ तृतीयाध्याये -
एकोङ्कारा सम्पुटा च
षडोङ्कारेति सा त्रिधा ।आद्य्-अन्तोंकार-संयुक्ता
गायत्री संपुटा स्मृता ।सहोङ्कारा व्याहृतयः
पुनरोङ्कारसंयुताः ।
मनोर् आदावथाऽन्ते च
षडोङ्कारेयम् उच्यते ।आदाव् ओङ्कार-संयुक्ता
गायत्र्येका ह्य् उदाहृता ।
आद्योङ्कारा गृहस्थस्य
वर्णिनश्च तथैव च ।
वान-प्रस्थयतीनान्तु
षडोङ्कारा प्रशस्यते ।ओङ्कारं पूर्वमुच्चार्य
भूर्भुवः स्वस्ततः परम् ।
गायत्रीं च ततश् चोक्त्वा
जपकाले विशेषतः ॥
इति । ततश्च सम्पुट-षडोङ्कारयोर् मुमुक्षु-गृहस्थ-ग्राह्यत्वं न सम्भवति ।
पूर्वा कार्या गृहस्थैस्तु
इत्यादिवचने
गृहस्था वृद्धिमिच्छन्ति
इत्यादेर् अर्थवादतया
हेत्व्-अधिकरण-न्यायेन
पूर्वार्ध-प्रतिपन्न-विधि-शेषतया
उत्तरैकादश्याः मुमुक्षु-गृहस्थाग्राह्यत्व-विधि-परत्वासम्भवात् -
निष्कामस्तु गृही कुर्याद्
+++(वक्ष्यमाणाम्)+++ उत्तरैकादशीं सदा ।
सकामस्तु गृही पूर्वाम्
इति बोधायने मुनिः ॥
सम्पूर्णैकादशी यत्र
प्रभाते पुनर् एव सा ।
पूर्वाम् उपवसेत् कामी
निष्कामस् तूत्तरां सदा ॥
इति वचनाभ्याम् उत्तरैकादश्याः
मुमुक्षु-गृहस्थ-ग्राह्यत्व-विधानवद्
अत्र विधायकाभावात्,
भवद्-उक्त-व्यवस्था अयुक्तैव ।
बोधायनसूत्रे त्रिवर्गार्थिनो ऽधिकृत्य
उभयतः प्रणवां सव्याहृतिकाम्
इति विहितत्वाद्
इत्य् उक्तम् अत्यन्तायुक्तं –
तत्-सूत्र-प्रकरणाचार्य-पाद–श्रीसूक्ति-विरुद्धत्वात् ।
तत्-सूत्रे
प्रत्यङ्-मुखस् सावित्रीम् सहस्र-कृत्वः आवर्तयेत्
इति सहस्रसंङ्खाकगायत्रीजपं विधायाशक्तौ प्रत्याम्नायः
प्राणायामतो वा शतकृत्वः
उभयतः प्रणवां सव्याहृतिकां दशकृत्वः
इति विहितः ।
श्रीपाञ्चरात्ररक्षायाम् एतद् एव
प्राणायामेन शतकृत्वः
प्रणव-व्याहृति-सम्भेद-विशेषेण दश-कृत्वो [वा]
गायत्री-जपं सहस्र-तुल्यं
बोधायनादयः स्मरन्ति
इत्य् अनुगृहीतम् ।
तच्-छ्री-सूक्त्य्-अर्थः श्री-निक्षेप-चिन्तामण्य्-अनुगृहीतः
उत्तरत्र प्रपञ्चयिष्यते ।
अतो नोदाहृत-बोधायन-वचनं त्रैवर्गिकार्थिविषयं,
किन्तु नित्यजपे सहस्रावृत्त्य्-अशक्तौ
प्रत्याम्नाय-विधायकम् । एतेन
बोधायनश्च उभयतः प्रणवां सव्याहृतिकाम् इति ।
इदं वाक्यं संपुट-गायत्री-विधायकम्
इति रत्नाकरोक्तं परास्तम् ।
पूर्वोदाहृतेन ‘प्रणवो व्याहृतयः’
इत्य्-आदि-बोधायन-सूत्र-विषय-रत्नाकर-वाक्येन
ब्रह्म-चारि–गृह-स्थयोर् एक-प्रणव-गायत्रीजप एव कार्य
इति सिद्धम् ।
[[109]]
श्रीवैखानसे मरीचिग्रन्थे अष्टसप्ततितमे पटले -
ओं भूर्भुवस्सुवः,
तत्सवितुर् ॰
इति सावित्रीं शताष्टकां त्रिसन्ध्यासु मनसा जपेत्
इति फल-श्रवण-रहितः
एक-प्रणवयुक्त-गायत्री-जपो विहितः ।
आह्निकार्थप्रकाशिका - मूलमन्त्रादियोजनम्
यद् अप्य् अपरोक्तम् -
यथा सर्वेषां मन्त्राणां प्रणववैशिष्ट्येनोच्चारणं
न गुरूपदेश-सापेक्षं
तथा व्याहृति-त्रिक-सप्तक-द्विप्रणव-षट्प्रणव-मूल-मन्त्र-वैशिष्ट्येन गायत्रीजपोऽपि बोध्यः
इति,
तद् असाधु,+++(5)+++ श्रीपाश्चरात्ररक्षा-श्रीसूक्ति-विरोधात् -
स च प्रार्थनामन्त्रः
“त्वय्य् आराधन-कामो ऽयम्” इत्यादिकः
यथान्यायं देशिक-सकाशाद् अधीत्यात्रान्वहं प्रयोक्तव्यः ।
एवम् एव सर्वेषां मन्त्राणां समाधिः ।
विपर्यये नैष्फल्यम् ।
दृष्टादृष्ट-प्रत्यवायश् च तेषु तेषु शास्त्रेषु पठ्यते ।यदृच्छया श्रुतो मन्त्रश्
छन्नेनाथ छलेन वा ।
पत्रेक्षितो वा व्यर्थस् स्यात्
प्रत्युतानर्थदो भवेत् ॥इति ।
पारमेश्वर-संहितादिषु
परि-दृश्यमान-सन्ध्योपास्ति-भेदानाम् अपि
यथावद् उपदेशानुष्ठान-पारम्पर्यासिद्धेः
दिगादि-नमस्काराणाम् अपि
स्व-पूर्व-पूर्वोपदेशानुष्ठान-पारम्पर्यम् अस्ति चेत्
तत्रापि भगवद्-आत्मकत्व-ध्यान-पूर्वकं प्रणमेत्,
अतो यथाधिकारं यथा-शक्यम् अत्र श्रद्दधानैः
दयार्द्र-हृदय-देशिकोपदेश-पूर्वकं देशकालानुगुण्य
इत्यादिना
पाञ्चकालिक-धर्माणाम् आचार्योपदेशानुष्ठान-पारम्पर्यानुगुण्येनानुष्ठेयत्वानुग्रहात् ,
प्रणव-वैशिष्ट्येनोच्चारणे गुरूपदेश-निरपेक्षत्वस्यैवासिद्धतया
तद्-दृष्टान्तेन व्याहृति-प्रणव-मूल-मन्त्र-वैशिष्ट्येन गायत्री-जपे
मन्त्र-वैशिष्ट्येन गायत्री-जपे
गुरूपदेश-निरपेक्षत्वस्य दूरतो निरस्तत्वात् ।
मूल-मन्त्रादि-व्यापक-योजन-प्रमाणानां
पञ्चरात्र-विहित-दीक्षा-विशेष-युक्ताधिकारि-विषयत्वं
श्रीभाष्यकार-सम्प्रदाय-स्थ-सूत्र-निष्ठ-परमैकान्तिनां केवल-सौत्र-मन्त्र-करणक-सन्ध्याद्य्-अनुष्ठानं च
प्रमाणाचार्य-पाद-श्रीसूक्ति-सम्प्रदायोक्ति-शिष्टाचारैस्
सत्-पथ-रक्षायां नित्य-नैमित्तिक-विचारेऽस्माभिस् सम्यक् स्थापितं द्रष्टव्यम् ।
किं च श्रीपाञ्चरात्ररक्षायां
यद्य् अप्य् आर्षी वैष्णवी प्राजापत्येति त्रिधा सन्ध्योपास्ति-भेदाः
इत्य्-आरभ्य
प्रथम-परिगृहीत-परित्यागे निर्बन्धाभावात्
यथा-सूत्रम् अनुष्ठानेऽपि भगवत्-समाराधन-रूपत्व-सिद्धेः
स्वसूत्र-विहितम् एव सन्ध्योपासनादिकं कर्तुम् उचितम्
इत्य् अनुगृहीतम् । +++(5)+++
[[110]]
तत्र
प्रथम-परिगृहीत-परित्यागे निर्बन्धाभावात्
इत्य्-अस्यायम् अर्थः -
सूत्र-विहितोपनयन-दशायां
परिगृहीत-सौत्र-सन्ध्योपासनस्य
उपनयनानन्तर-भावि-पञ्चसंस्कार-रूप-वैष्णवत्व-प्राप्त्य्-अनन्तरं परित्यागे प्रमाणाभावात् — इति ।
श्री-सच्चरित्ररक्षायाम् –
उपरितने हि चतुर्थे पटले —
ब्रह्मचारी गृहस्थो वा
वानप्रस्थोऽथ भिक्षुकः ।
एते ह्य् आश्रमिणः प्रोक्ताश्
चत्वारः क्रम-योगतः ॥इत्यारभ्य
चक्रलिङ्ग-धरास् सर्वे
समय-व्रत-निष्ठिताःइति, भवेयुर् इति शेषः
इति ब्रह्मचार्यादि-धार्यं
समय-व्रत-चक्रादि-चिह्नादिकम् इत्य् अनुगृहीतम् ।
व्यापक-योजन-प्रमाणादिकं क्वाप्य् आचार्यपादश्रीसूक्तौ न दृश्यते ।
अतः स्वसूत्र-विहितम् एवेत्य् अनुगृहीतम् एवाचार्यैर् अनुसृतम् इति बोध्यम् ।
एतेन अन्योक्त-मूल-मन्त्रादि-योजन-पक्षोऽपि प्रत्युक्त इति ।
आह्निकार्थप्रकाशिका - जपविकल्पाः
प्राणायामेन शत-कृत्वः
प्रणव-व्याहृति-सम्भेद-विशेषेण दशकृत्वः
गायत्रीं सहस्र-तुल्यं बोधायनादयः स्मरन्ति
इत्य् आचार्यपादानुगृहीतं श्री-निक्षेप-चिन्तामणौ विवृतं
सहस्र-जपाशक्तौ प्रतिनिधिमाह - प्राणायामेनेति । बोधायनेति ।
दर्भेष्व् आसीनो दर्भान् धारयमाणः
सोदकेन पाणिना
प्रत्यङ्मुखस् सावित्रीं सहस्रकृत्वः आवर्तयेत्,
प्राणायामशो वा शतकृत्वः
उभयतः प्रणवां सप्त-व्याहृति-पूर्विकां मनसा वा दशकृत्वः
त्रिभिश् च प्राणायामैस् ताम् एवं प्रातः प्राङ्मुखस् तिष्ठन्इति बोधायन-स्मरणाद् इति भावः । आदिशब्देन
सहस्रकृत्वस् सावित्रीं
जपेद् अव्यग्र-मानसः ।
शत-कृत्वोऽपि वा सम्यक्
प्राणायाम-परो यदि ।
सप्त-व्याहृति-पूर्वां चेद्
आद्यन्त-प्रणवान्विताम् ।
मनसा वा जपेच् चैव
दशकृत्वो वरः स्मृतः ॥इति योगयाज्ञवल्क्य-वचन-ग्रहणम्
इति ।
सहस्र-जपवत् प्राणायाम-सम्पुटित-शत-सङ्ख्या-गायत्री-जपवत्
सप्त-व्याहृति-पूर्वाम् आद्य्-अन्त-प्रणवान्वितां वा गायत्रीं जपेद् यदि
एष दशकृत्वोऽपि जपः मुख्य इति उक्तवचनार्थः ।
[[111]]
आह्निकार्थप्रकाशिका - षडङ्ग-न्यास-नैयत्यम्
यद् अप्य् अपरोक्तं –
बृहस्पतिस्मृतौ
ऋषिश् छन्दो देवतां च
इत्य्-आदिवचने षड्-अङ्ग-न्यासाद्य्-अनुक्तेः
रत्नाकरे फलाधिक्यापेक्षायां शक्तस्याक्षर-न्यासादयः कार्या इति दर्शितहेतोः
षड्-अङ्ग-न्यासादाव् अपि तुल्यत्वात् षड्-अङ्ग-न्यासादिकं न नियतम् –
इति । तन्न, रत्नाकरोदाहृते,
एवं विन्यस्य गायत्रीम्
इत्यादि-भारद्वाज-वचने
फलाश्रुति-रूप-नित्यत्व-ग्राहक-प्रमाण-बलाच्
छिष्टाचाराच् च
सिद्धस्य षडङ्ग-न्यास-नैयत्यस्य
दृष्टान्तमात्रेणानिवार्यत्वात् ।
आह्निकार्थप्रकाशिका - यावत्सूर्यजपः
यदप्य् अपरोक्तम्
न चान्तरा व्याहरेद् वा विरमेद् वा
इति प्रमाणात् सङ्कल्पित-समाप्त्य्-अनन्तरम्
अनुदिते सूर्ये
आसूर्योदयं गायत्रीजप एव कार्यः,अर्धम् अर्धांश-संयुक्तम्
अधिकं वाग्रवर्तिनाम् ।
जप-काले तथा होमे
कर्तव्यं सिद्धिम् इच्छता ॥इति सङ्कल्पित-समाप्त्य्-अनन्तरम् अपि
यथाशक्ति जप-होमयोः पारमेश्वरादि-सिद्धत्वाच् च
इति - तन्न,
न चान्तरा व्याहरेद्वा विरमेद्वा
इति वचनस्य सङ्कल्पित-जप-मध्य-काल-विषयत्वात्,
असङ्ख्यातात् तु सङ्ख्यातः सहस्र-गुण उच्यते
इत्य्-आचार्य-पाद-प्रशंसित-सङ्ख्यात-जपानन्तरं
पूर्वोदाहृत-वृद्ध-यम-स्मृति-वचन-निषिद्धस्य
लोक-वार्तादिकं श्रुत्वा
दृष्ट्वा स्पृष्ट्वा प्रभाषिणम् ।
सङ्ख्यां विना च यज् जप्तं
तत् सर्वं निष्फलं भवेत् ॥
इति स्वाह्निकोदाहृत-वचन-निन्दितस्यासंख्यात-गायत्री-जपस्याप्रामाणिकत्वात्,
उदाहृतपारमेश्वरवचने “सिद्धिमिच्छते"ति फलार्थि-विषयत्वावगमेन निष्काम-जप-विषये तद्-अप्रसक्तेः ।
आह्निकार्थप्रकाशिका - तुरीय-गायत्री
रत्नाकरोक्त-तुरीय-गायत्री-जप-तद्-उपस्थानयोः
दर्शित-बोधायन-सूत्रे
श्री-भाष्य-कार-शिष्य-प्रशिष्य-ग्रन्थाचार्यपाद-श्रीसूक्तिष्व् अनुक्तेः।
तत्-सम्प्रदाय-स्थेष्व् अनुष्ठानादर्शनात् तदनुक्तिः ।
केषाञ्चित् तुरीय-गायत्री-जपादि-कथनं
धर्म-शास्त्र-श्रद्धा-विजृम्भितम् इति बोध्यम् ।
[[112]]
विश्वास-प्रस्तुतिः
त्रिः प्राणानायम्य
प्रातस्सन्ध्योपस्थानं करिष्य
इति सङ्कल्प्य
उत्तम इत्यनुवाकस्य
वामदेव ऋषिः । अनुष्टुप्छन्दः । गायत्री देवता ।
गायत्र्युद्वासने विनियोगः।
मूलम्
त्रिः प्राणानायम्य । प्रातस्सन्ध्योपस्थानं करिष्य इति सङ्कल्प्य उत्तम इत्यनुवाकस्य वामदेव ऋषिः । अनुष्टुप्छन्दः । गायत्री देवता । गायत्र्युद्वासने विनियोगः।
विश्वास-प्रस्तुतिः
इति गायत्रीम् उद्वास्य,
मित्रस्येति तृचस्य
विश्वामित्र ऋषिः
आद्यस्य भीरुट्-छन्दः ।
परयोर्गायत्री त्रिष्टुभौ छन्दसी।
मित्रो देवता ।
प्रातस्-सन्ध्योपस्थाने विनियोगः ।
मूलम्
उत्तमे शिखरे देवि भूम्यां पर्वतमूर्धनि ।
ब्राह्मणेभ्योभ्यनुज्ञानं गच्छ देवि यथासुखम् ॥
इति गायत्रीमुद्वास्य, मित्रस्येति तृचस्य विश्वामित्र ऋषिः आद्यस्य भीरुट्-छन्दः । परयोर्गायत्री त्रिष्टुभौ छन्दसी, मित्रो देवता । प्रातस्सन्ध्योपस्थाने विनियोगः ।
उपस्थानादि
विश्वास-प्रस्तुतिः
इति मन्त्रैस्
सहस्र-रश्मिं भगवन्तम् आदित्यमण्डलान्तः-स्थं
सन्धातृत्वेन सर्वेषां “सन्ध्ये"ति परिकीर्तितम् उपस्थाय,
सन्ध्यादि-पञ्च-देवतास् सप्रदक्षिणं
ओं सन्ध्यायै नमः, सावित्र्यै नमः, गायत्र्यै नमः, सरस्वत्यै नमः, सर्वाभ्यो देवताभ्यो नमो नमः
इति प्रणम्य
“कामोऽकार्षीन्मन्युरकार्षीद्” इति चोक्त्वा,
त्रयी-तनुं प्रणम्याभिवाद्य,
दिगादिनमस्कारम् अपि कृत्वा
स यश्चायं पुरुषे, यश्चासावादित्ये, स एकः
इत्यधीतं हृदयान्तःस्थितं भगवन्तम् अभिवादयेत् ।
मूलम्
इति मन्त्रैस्सहस्ररश्मिं भगवन्तमादित्यमण्डलान्तःस्थं सन्धातृत्वेन सर्वेषां सन्ध्येति परिकीर्तितमुपस्थाय, सन्ध्यादिपञ्चदेवतास्सप्रदक्षिणं
ओं सन्ध्यायै नमः, सावित्र्यै नमः, गायत्र्यै नमः, सरस्वत्यै नमः, सर्वाभ्यो देवताभ्यो नमो नमः
इति प्रणम्य कामोऽकार्षीन्मन्युरकार्षीदिति चोक्त्वा, त्रयीतनुं प्रणम्याभिवाद्य, दिगादिनमस्कारमपि कृत्वा
स यश्चायं पुरुषे, यश्चासावादित्ये, स एकः
इत्यधीतं हृदयान्तःस्थितं भगवन्तमभिवादयेत् ।
आह्निकार्थप्रकाशिका
आदावन्ते च गायत्र्याः प्राणायामास् त्रयस् त्रयः
इति पूर्वोदाहृत-वचन-विहित-प्राणायाम-त्रय-पूर्वकम् उपस्थानम् आह -
त्रिः प्राणानायम्येत्यादिना ।
[[113]]
तद् उक्तम्
एवम् आसूर्योदयात् पूर्वोत्तराशाभिमुखस्
त्व् अपरोत्तर-दिङ्मुखः
इत्य्-आदिस्मृत्य्-अनुसारेण
प्राङ्मुखः प्रागुदङ्मुखो वा तिष्ठन्
गायत्रीम् आवर्त्य
पूर्ववत् कृत-प्राणायाम-त्रयस्
सन्ध्योपस्थान-सङ्कल्प-पूर्वकम्
“उत्तमे शिखर” इति मन्त्रेण गायत्रीम् अनुज्ञाप्य
स्वसूत्रोक्तैर् मन्त्रैर् आदित्य-मण्डलान्तः-स्थितं भगवन्तम् उपस्थाय
सप्रदक्षिणं भगवद्-आत्मक-सन्ध्यादि-पञ्चक-नमस्कारं कृत्वा
स यश् चायं पुरुषे यश् चासावादित्ये
इत्यधीतं हृदयान्तःस्थितं परमात्मानम् अभिवाद्य
प्रणम्य
दिगादि-नमस्काराणाम् अपि
स्व-पूर्व-पूर्वोपदेशानुष्ठान-पारम्पर्यम् अस्ति चेत्
तत्रापि भगवद्-आत्मकत्व-ध्यान-पूर्वकं प्रणमेत् ।
एवन्तूपस्थानप्रकारं पितामहस् सनत्कुमारायाह
एताभिः प्राञ्जलिर् नित्यं
विस्पष्टोदित-मण्डलम् ।
सहस्र-रश्मिं भगवन्तम्
उपतिष्ठेद् दिवाकरम् ।
ततस् तस्मै नमस्कृत्वा
सन्ध्याद्याः पञ्चदेवताः ।
प्रदक्षिण-नमस्कारैर्
दिशश् चैवोपतिष्ठते ।
परमात्मानम् आत्मानं
भावयित्वा द्विजोत्तमम् ।
इति ।
उत्तमेत्यादिमनुना
देवीमुद्वासयेत्ततः ।अनुवाकस्य चैतस्य
वामदेवाह्वयो मुनिः ।
छन्दोऽनुष्टुप् च सावित्री
देवतोपास्थितो मुनिः ।ततः क्रमान् नमस्कुर्यात्
ततस् सन्ध्यादि-देवताः ।
सन्ध्या पुरस्ताद् गायत्री
सावित्री च सरस्वती ।
एतास् सन्ध्यादयः प्रोक्ताश्
चतस्रो देवताः क्रमात् ।
स्वस्वनाम चतुर्थ्यन्तं
प्रणवादिनमोन्तकम् ।मन्त्रम् आसाम् इह प्रोक्तं
प्रणमेत् स्वस्वमन्त्रतः ।
केचिद्धि मुनयः प्राहुः
प्रतिमन्त्रं प्रदक्षिणम् ।
कुर्वन् प्रणामं कुर्वीतेत्य्
एताभ्यो भक्तितो द्विजः ।मित्रस्येत्यादिभिर् ऋग्भिर्
विस्पष्टोदितमण्डलम् ।
आदित्यं तिसृभिर् देवम्
उपतिष्ठेत वै द्विजः ।
आसाम् ऋषिर्विश्वामित्रो
देवता वै दिवाकरः ।
भीरुड्गायत्रम् आदिस्तु
त्रिष्टुभाविह पश्चिमौ ।अथोपतिष्ठेद् आदित्यम्
उदयन्तं समाहितः ।
मन्त्रैश्च विविधैस् सौरैः
ऋग्यजुस्सामसम्भवैः ।इत्य् एवमुक्त्वोपस्थाय
ततस् तम् अभिवादयेत् ।
अभिवादन-मन्त्रेण
सद्भक्त्या लोकसाक्षिणम् ।
स्वगोत्र-नाम-शर्माहं
भोःपदैर् अभिवादयेत् ।
इत्येतद् भाषणं यत् तन्
मन्त्रम् अर्काभिवादने ।[[114]]
सर्वाभ्यो देवताभ्यश्चेत्य्
एतत्प्रणवसम्पुटम् ।
उक्त्वा नमो नम इति
प्रणमेत्सर्वदेवताः ।कामोकार्षीन् मन्युर् अकार्षीद्
इत्येतत् पूर्वमन्त्रवत् ।
उक्त्वा प्रदक्षिणेनैव
नमस्कुर्यात् त्रयीतनुम् ।प्राची च दक्षिणा चैव
प्रतीची चोत्तरोर्ध्वका ।
अधरा चान्तरिक्षं च
एतास् सप्तोदिता दिशः ।सन्ध्यादीनां यथा प्रोक्तं
मन्त्रम् आसान् तथैव च ।
ज्ञात्वा प्रदक्षिणेनैव
ताः प्रणमेत् स्वस्वमन्त्रतः ॥
इति रत्नाकरोदाहृतवचनान्यत्र भाव्यानि ।
प्रादक्षिण्यान् नमस्कुर्याच्
चतुस् सन्ध्यादिदेवताः ।
सन्ध्यादितश् च गायत्रीं
सावित्रीं च सरस्वतीम् ।
चतुर्थ्या च नमस्कुर्यात्
प्रणवादिनमोऽन्तकम् ।
सर्वाभ्यो देवताभ्यश्च
कामोऽकार्षीति सन्नमेत् ।दिशश् चतस्रः प्राच्याद्याः
प्रणवादिनमोऽन्तकम् ।
चतुर्थ्यान्तैर् नमस्कुर्याद्
ऊर्ध्वाधस्-संज्ञिके दिशौ ।
अन्तरिक्षं च भूम्यां च
दण्डवत् प्रणमेद्द्विजः ॥
इति वृद्धयमस्मृति-तृतीयाध्याय-वचन-सिद्धं,
“भूम्यै नमः विष्णवे नमः” इति नमस्कार-द्वयम्
आचारप्रमाण-सिद्धम् इत्य् अवधेयम् ।
उदाहृतप्रमाणेन गायत्र्य्-उपस्थानानन्तरं
सन्ध्यादिनमस्कारविधानेऽपि
पितामह-स्मृत्य्-आचारानुसार्य्-आचार्य-पादाभिहितः
सूर्योपस्थानानन्तरं सन्ध्यादिनमस्कार एव कार्य
इत्य् अभिप्रायेण तथोक्तम् ।
उदाहृत-वचने “कामोऽकार्षीद्” इति मन्त्रानन्तरं
त्रयी-तनु-नमस्कार-क्रम-प्रतीतेस्
ततस् तद्-अभिवादनम् उक्तम् ।
पितामहस्मृतौ दिङ्-नमस्कारानन्तरं
हृदयान्तः-स्थित-परमात्माभिवादन-विधानम् अनुसृत्य तथोक्तम् ।
यत् त्व् अन्योक्तं
कामोऽकार्षीन्मन्युरकार्षीत्
इत्यस्याचार्यपादानुक्तेर् नानुष्ठानम् –
इति ,
तद् अयुक्तं -
दिङ्नमस्कारोक्त-रीत्या पूर्व-पूर्वोपदेशानुष्ठान-पारम्पर्यवतां
तस्यावश्यानुष्ठेयत्वात् ,
कामोऽकार्षीन्, मन्युर् अकार्षीन्, नमो नम
इति “ध्येयस्सदे”ति पूर्वोक्तध्यानं कुर्यादिति शेषसंहिता-पञ्चमाध्यायवचनाच्च ।
[[115]]
यदुक्तमपराह्निके –
अथोपतिष्ठेद् आदित्यम्
उदयन्तं दिवाकरम् ।
मन्त्रैस्तु विविधैस् सौरैः
ऋग्यजुस्सामसम्भवैः ॥इति व्यासवचनेन
अष्टाक्षरं च पुंसूक्तम्
अवश्यं प्रत्यहञ् जपेत् ।
उपस्थाने ब्रह्मयज्ञे
श्राद्धे चैवार्चने हरेः ॥इति वरदराजीयोपात्त-शौनक-वचनेन च
मन्त्राणाम् अपि विहितत्वात्,
श्रीपाञ्चरात्ररक्षायांउपस्थाय स्वशाखोक्तेः
इति स्वशाखीय-मन्त्रणाम् अपि विहितत्वात्,
बोधायनसूत्रे द्वाभ्याम् इत्यस्य अन्य-व्यवच्छेद-परत्वाभावात्,
प्रसमित्रेत्यनेन पुंसूक्तादिना च उपतिष्ठेत -
इति । तन्मन्दम् - आचार्यपादैः
स्वसूत्रोक्तैर् मन्त्रैर् आदित्यमण्डलान्तःस्थितं भगवन्तम् उपस्थाय
इत्य् अनुगृहीतत्वात्,
बोधायनसूत्रे
मित्रस्येति द्वाभ्यां प्रातः
इत्य् उपस्थानविधेश् शिष्टाचाराच्च,
पुंसूक्तादिमन्त्रान्तर-करणकोपस्थानस्यासाम्प्रदायिकत्वात् ।
यदप्यपरोक्तं
सौरैस् सर्वैर् उपस्थानोक्तेः
ऋष्य्-आदि-स्मरणं प्रायिकम्
इति; तन् न -
सर्व-शाखा-प्रत्यय-न्यायेन
सर्व-स्मृत्यैक-कण्ठ्येन
पूर्वोदाहृत-वचन-विहित-ऋष्यादि-स्मरणस्याचार-सिद्धस्यावश्यकत्वेन प्रायिकत्वासम्भवात् ।
विश्वास-प्रस्तुतिः
जपादिमध्ये वाङ्नियमातिक्रमे “इदं विष्णुरि"ति ऋचं जपेत् ।
विष्णुं वा संस्मरेत् ।
श्रीकृष्णं वा ध्यात्वा कीर्तयेत् ।
मूलम्
जपादिमध्ये वाङ्नियमातिक्रमे “इदं विष्णुरि"ति ऋचं जपेत् । विष्णुं वा संस्मरेत् । श्रीकृष्णं वा ध्यात्वा कीर्तयेत् ।
[[116]]
आह्निकार्थप्रकाशिका
जपमध्ये वाङ्नियम-त्यागे कर्तव्यम् आह - जपादिमध्य इति ।
यदि वाग्-यम-लोपस् स्यात्
जपादिषु कथञ्चन ।
व्याहरेद् वैष्णवं सूक्तं
स्मरेद्वा विष्णुम् अव्ययम् ॥
इति योगयाज्ञवल्क्य-वचनम् इहाभिप्रेतम् ।
“कृष्णानुस्मरणं परम्”
“कृष्णेति मङ्गलन्नामे"ति
प्रमाणात् कृष्ण-ध्यान-कीर्तन-कथनम् ।
विश्वास-प्रस्तुतिः
जपमध्ये शूद्रान्त्यपतितश्वादिदर्शने आचम्य पुनर्जपेत् ॥
मूलम्
जपमध्ये शूद्रान्त्यपतितश्वादिदर्शने आचम्य पुनर्जपेत् ॥
आह्निकार्थप्रकाशिका
जपकालेऽनिरीक्ष्य-दर्शनादौ प्रतिविधानम् आह - जपमध्ये इति । नारदः -
श्वशूद्रपतितादींश्च
रासभं च रजस्वलाम् ।
दृष्ट्वा तोयम् उपस्पृश्याभाष्य स्नात्वा पुनर्जपेत् ॥
व्यासः -
चण्डालपतितांश् चैव
दृष्ट्वाचम्य पुनर् जपेत् ।
तैर् एव भाषणं कृत्वा
स्नात्वाचम्य पुनर्जपेत् ॥
इति रत्नकरस्थवचनद्वयमिहाभिप्रेतम् ।
[[117]]