१५ देवर्षिपितृतर्पणं

विश्वास-प्रस्तुतिः

अथ सन्ध्यावन्दनम् ।

मूलम्

अथ सन्ध्यावन्दनम् ।

आह्निकार्थप्रकाशिका

सर्वकर्माङ्गोर्ध्व-पुण्ड्र-विधानं समाप्यानन्तरकर्तव्यं प्रतिजानीते -
अथ सन्ध्यावन्दनम् इति ।

सर्वकर्माङ्गं पवित्रम् अवश्यं धार्यम् ।
शातातपः

कौशेयं बिभृयान् नित्यं
पवित्रं दक्षिणे करे ।
भुञ्जानस् तु विशेषेण
नान्न-दोषेण लिप्यते ॥ +++(5)+++

[[81]]

अत्रिः -

उभाभ्याम् एव हस्ताभ्यां
विप्रैर्दर्भपवित्रके ।
धारणीये प्रयत्नेन
ब्रह्मग्रन्थिसमन्विते ॥
यज्ञोपवीते मौञ्ज्यां च
तथा कुश-पवित्रके ।
ब्रह्म-ग्रन्थिं विजानीयाद्
अन्यत्र तु यथारुचि ॥
ब्रह्मयज्ञे जपे चैव
ब्रह्मग्रन्थिर्विधीयते ।
भोजने वर्तुलः प्रोक्तः
एवं धर्मो न हीयते ॥

संवर्तः -

उभाभ्याम् अपि हस्ताभ्यां
पवित्रन् धारयेद् द्विजः ।
दैवे कर्मणि पित्र्ये च
ब्रह्मग्रन्थिसमन्वितम् ॥

स्मृतिभास्करे -

सप्तभिर् दर्भपुञ्जीलैः
ब्राह्मणस्य पवित्रकम् ।

मार्कण्डेयः -

चतुर्भिर्दर्भपुञ्जीलैः
ब्राह्मणस्य पवित्रकम् ।
एकैकन्यूनम् उद्दिष्टं
वर्णतस् तु यथाक्रमम् ॥
सपवित्रस् सदर्भश् च
कर्माङ्गाचमनं चरेत् ।
नोच्चिष्टं तत् स दर्भश् च
भुक्त्वोच्छिष्टं तु वर्जयेत् ॥

कूर्चेण वा पवित्रेण
येन कर्माणि कारयेत् ।
तस्य ग्रन्थिं विसृज्यैव
कर्मान्ते तु ततस्त्यजेत् ॥ पवित्र-कूर्चयोस् त्यागे
सग्रन्थ्यास्तु प्रमादतः ।
उपवासं चरेद् एकम्
उपवासत्रयं तु वा ॥

कौशिकः -

गवां वाल-पवित्रस्य
सुवर्णस्य तथैव च ।
न ब्रह्म-ग्रन्थि-नियमः
धारयेत्तु यथा तथम् ॥

“न ब्रह्मग्रन्थिनाचामेत्" इत्यादिनिषेधः केवलाचमनविषयः,

सपवित्रेण हस्तेन
कर्माङ्गाचमनं स्मृतम्

इति कर्माङ्गाचमनस्य ब्रह्म-ग्रन्थि-सहित-हस्तेन कर्तव्यत्व-स्मरणात्, आचाराच् च
+इति स्मृतिरत्नाकरादाव् अभिप्रेतः ।

पवित्रनिर्माणम् उक्तं पारिजाते

तर्जन्य्-अङ्गुष्ठयोर् अग्रं
योजितं तु यथा भवेत् ।
ज्ञानमुद्रा तया कार्यं
कूर्चवद् ग्रन्थि-बन्धनम् ॥

स्मृतिरत्ने -

अङ्गुष्ठं घर्षयेद् ऊर्ध्वं
तर्जन्या तु पुनः पुनः ।
ज्ञान-मुद्राम् अधः कृत्वा
कूर्चवद् ग्रन्थि-बन्धनम् ॥
साग्राभ्याम् ऋजु-दर्भाभ्यां
प्रादक्षिण्येन मध्यतः ।
मूलाग्राव् उद्धृतौ कृत्वा
कुर्यात् ग्रन्थिञ् च मन्त्रवत् ॥
तारेण कुर्यात् तं ग्रन्थिं
पवित्रस्य द्विजोत्तमः ॥

[[82]]

स्मृतिभास्करे -

चतुर्-अङ्गुलम् ऊर्ध्वाग्रं
ग्रन्थिर् एकाङ्गुलन् तथा ।
वलयं द्व्य्-अङ्गुलञ् चैव
पवित्रस्य तु लक्षणम् ॥

इत्य् आह्निक-काण्ड-स्थ-वचनानि,

सकृत्-प्रदक्षिणी-कृत्य
पवित्रम् अभिधीयते
तद् एव द्वि-गुणी-कृत्य
ब्रह्म-ग्रन्थिर् विधीयते

इति रत्नाकरस्थवचनानि चात्र भाव्यानि ।

विश्वास-प्रस्तुतिः

आचम्य प्राणानायम्य,

श्रीभगवद्-आज्ञया भगवत्-प्रीत्यर्थं
स्नानाङ्गं देवर्षिपितृ-तर्पणं करिष्य

इति सङ्कल्प्य,

ओं ब्रह्मादयो ये देवा

इत्यादिक्रमेण उपवीती निवीती प्राचीनावीती च
क्रमेण देवर्षिपितृतर्पणं
तत्तत्तीर्थेन कुर्यात् ।

“भगवान् एवे"त्यादि “प्रातःस्नानाख्यं कर्म कारितवान्” इत्यनुसन्दधीत ।

मूलम्

आचम्य प्राणानायम्य, श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं स्नानाङ्गं देवर्षिपितृतर्पणं करिष्य इति सङ्कल्प्य, ओं ब्रह्मादयो ये देवा इत्यादिक्रमेण उपवीती निवीती प्राचीनावीती च क्रमेण देवर्षिपितृतर्पणं तत्तत्तीर्थेन कुर्यात् । भगवानेवेत्यादि प्रातःस्नानाख्यं कर्म कारितवानित्यनुसन्दधीत ।

आह्निकार्थप्रकाशिका

स्नानाङ्गतर्पणप्रकारमाह - आचम्येति । तदुक्तं

तर्पणे

आदावोङ्कारम् उच्चार्य
नामान्ते तर्पयामि च ।
देवान् ब्रह्मऋषींश्चैव
तर्पयेद् अक्षतोदकैः ।
तिलोदकैः पितॄन् भक्त्या
सूत्रोक्तविधिना ततः ॥

इति ।
अत्र प्रणव-पूर्वकत्वेन भगवद्-आत्मकत्वानुसन्धानं विहितम् ।
एतद् एव च नित्ये भाष्यकारैर् अपि दर्शितम् - “देवान् ऋषीन् पितॄन् भगवद्-आत्मकान् ध्यात्वा सन्तर्प्ये"ति ।
इदं च व्यासेन मध्याह्नविहितम् अपि प्रातःस्नानाङ्गतयापि विहितम् ।
तदुक्तम् -

एवं स्नातः कृतोर्ध्वपुण्ड्रः
स्नानाङ्गं भगवद्-आत्मक-देव-र्षि-पितृ-तर्पणं कृत्वा

इति ।

धृतोर्ध्वपुण्ड्रो देवर्षिपितॄन् सन्तर्प्य मन्त्रतः

इति वङ्गिवंशेश्वरैरुक्तम् ।

नित्यं स्नात्वा शुचिः कुर्यात्
देवर्षिपितृतर्पणम्

इति मनूक्तेः,
प्रातःस्नानाङ्गमपि तर्पणं भवति ।

अहिर्बुध्न्यसंहितायाम् अष्टाविंशेऽध्याये -

तत उत्तीर्य चाचम्य
धृत्वा वस्त्रोत्तरीयके ।
धृतोर्ध्वपुण्ड्रः स्वाचान्तो
देवादीन् अच्युतात्मकान् ॥
ध्यात्वा सन्तर्पयेद् अन्यद्
आह्निकं विधिवच्चरेत् ।

इति वचनानुसारेण वङ्गिवंशेश्वरोक्तम् ऊर्ध्वपुण्ड्रधारणानन्तरं स्नानाङ्गतर्पणम् आचार्यपादानुगृहीतम् ।
एतेन केषाञ्चिद् ऊर्ध्व-पुण्ड्र-धारणात् पूर्वं
स्नानाङ्ग-तर्पण-कथनम् असाम्प्रदायिकम् इति बोध्यम् ।

[[83]]

माधवीये -

नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते ।
तर्पणं तु भवेत् तस्याङ्गत्वेन परिकीर्तितम् ॥

कार्ष्णाजनिः -

देवान् देवगणांश्चापि
ऋषीन् ऋषिगणानपि ।
अव्यग्रस् तर्पयेन्नित्यं
मन्त्रैरेव स्वनामभिः ।
पितॄन् पितृगणांश्चापि
नित्यं सन्तर्पयेत्ततः ॥

भरद्वाजः -

तर्पणे देवतादिभ्यः
तत्-तत्-तीर्थेन तर्पयेत् ।
गो-शृङ्ग-मात्रम् उद्धृत्य
जलमध्ये जलं क्षिपेत् ॥
येन तीर्थेन गृह्णीयात्
तेन दद्याज् जलाञ्जलिम् ।
अन्यतीर्थेन गृह्णीयात्
तत्तोयं रुधिरं भवेत् ॥
पूर्वाशाभिमुखो देवान्
उत्तराभिमुखांस् त्व् ऋषीन् ।
पितॄंस्तु दक्षिणास्यस् तु
जलमध्ये तु तर्पयेत् ॥
यज्ञोपवीती देवानां
निवीती ऋषितर्पणे ।
प्राचीनावीती पित्र्येषु
तेन तीर्थेन तर्पयेत् ॥

मनुः -

मनुष्यतर्पणे स्नान-
वस्त्रनिष्पीडने तथा ।
निवीती तु भवेद् विप्रस्
तथा मूत्रपुरीषयोः ॥
अङ्गुष्ठमूलान्तरतो
रेखायां ब्राह्मम् उच्यते ।
अन्तराङ्गुष्ठ-देशिन्योः
पितॄणां तीर्थमुच्यते ॥
कनिष्ठामूलतः पश्चात्
प्राजापत्यं प्रचक्षते ।
अङ्गुल्य्-अग्रे स्मृतं दैवं
तथैवार्षं प्रकीर्तितम् ॥
मूले वा दैवम् आर्षं स्याद्
आग्नेयं मध्यमं स्मृतम् +++(=??)+++।
तदेव सौमिकं तीर्थम्
एतत् ज्ञात्वा न मुह्यति ॥

इत्याह्निककाण्डोदाहृतानि,

सर्वदेवान् सर्वगणान्
पतिपत्नीसहेति च ।
तिलोदकैस् तर्पयित्वा
पितॄन् अथ पितामहान् ।
प्रपितामह-संज्ञांश् च
सदारान् अनुतर्पयेत् ॥

इति पराशरपारमेश्वरसंहितादि-वचनानि चात्रानुसन्धेयानि ।

[[84]]