१४ पुण्ड्रधारणम्

विश्वास-प्रस्तुतिः

ततः अस्त्र-मन्त्रेण वाम-पाणि-तलं संशोध्य,
प्रणवेन मृदं निधाय जलमादाय,

गन्धद्वारां दुराधर्षां
नित्यपुष्टां करीषिणीम् ।
ईश्वरीँ सर्वभूतानां
ताम् +++(त्वाम्)+++ इहोपह्वये श्रियम् ॥

इति श्वेत-मृत्-सेचनं कृत्वा,
अस्त्र-मन्त्रेण दश-दिक्षु रक्षां कृत्वा,
प्रणवेन संमिश्रं कृत्वा,
मूल-मन्त्रेणाभिमन्त्र्य
यथासम्प्रदायं नृसिंहबीजं विलिख्य,

भगवान् पवित्रं,
वासुदेवः पवित्रं,
शतधारं सहस्रधारम् अपरिमित-धारम्
अरिष्टम् अच्छिद्रम् अच्युतम् अनन्तम् अक्षयम् अव्ययं
परमं पवित्रं,
भगवान् वासुदेवः पुनातु

इति जलं निस्-स्राव्य
भगवत्-पाद-युगलं स्मृत्वा
तर्जन्या मृदञ् जलं चैकीकृत्य,

विश्वास-प्रस्तुतिः

इति मन्त्रेण पञ्चोपनिषन्-मन्त्रैर् मूलमन्त्रेण चाभिमन्त्र्य
द्वादशाक्षरेणेष्टं प्रार्थ्य,

मूलम्

इति मन्त्रेण पञ्चोपनिषन्मन्त्रैर्मूलमन्त्रेण चाभिमन्त्र्य द्वादशाक्षरेणेष्टं प्रार्थ्य,

विश्वास-प्रस्तुतिः

इति सप्तभिर् वैष्णवैर् मन्त्रैश् चाभिमन्त्र्य,
तर्जन्या प्रणवेन मूर्ध्नि किञ्चिन् न्यस्य,

मूलम्

इति सप्तभिर्वैष्णवैर्मन्त्रैश्चाभिमन्त्र्य, तर्जन्या प्रणवेन मूर्ध्नि किञ्चिन्न्यस्य,

आह्निकार्थप्रकाशिका

अथ ऊर्ध्वपुण्ड्रधारणम् आह अस्त्रमन्त्रेणेत्यादिना ।
ऊर्ध्व-पुण्ड्र-धारण-तद्-अधिकारि– मृद्-वर्णाकृत्य्-आदिकं सप्रमाणं
श्री-सच्-चरित्र-रक्षायां स्पष्टम् अनुगृहीतम् ।

यत् तु आह्निक-काण्डे +++(वैद्यनाथदीक्षितीये)+++ ब्राह्मणादीनां
त्रिपुण्ड्र-धारण-प्रतिपादकानि चन्द्रिका-माधवीयाद्य्-अनुदाहृतानि वचनानि
ब्राह्मणस्य त्रिपुण्ड्र-निषेध-पराणि सम्प्रतिपन्न-वचनानि
चोदाहृत्योक्तम्

एवम्-आदि-त्रि-पुण्ड्र-निषेध-वचनानि
पाशुपतादि-तन्त्र-दीक्षा-प्रविष्ट-ब्राह्मण-निन्दा-पराणि ।
अत एव वाराहे गौतमः +++(पाठोऽयं न लब्धः।)+++ -

शशाप तान् जटा-भस्म-
दीक्षा-व्रत-धरांस् तथा ।
त्रि-पुण्ड्र-धारिणो नित्यं
भस्मोद्धूलन-तत्-पराः ॥
भविष्यथ त्रयी-बाह्या
मिथ्या-ज्ञान-प्रलापिनः ।
बौद्धे चाप्य् आर्हते चैव
तथा पाशुपतेऽपि च ॥
शाम्भवे दीक्षिता यूयं
भवत ब्राह्मणाधमाः ।

इत्युक्तम् ।

[[68]]

तद् अयुक्तम् -
“ब्राह्मणस् त्रिपुण्ड्रं न धारयेद्”
इत्य्-आदीनां स्वोदाहृतानां आचार्यपादोदाहृतानां पठ्यमान-स्मृति-पुराण-वचनानां
शैव-पाशुपतादि-दीक्षा-प्रविष्ट-ब्राह्मण-निन्दा-परत्वस्यायुक्तत्वात् ।

न तावच् छ्रुति-लिङ्गादिभिर् अयम् अर्थो ऽवगम्यते -
भवद्-उदाहृत-वचनेन त्रि-पुण्ड्र-धारण-भस्मोद्धूलन-मिथ्या-ज्ञान-प्रलापानां
शाप-ग्रस्त-विषयत्वावगमेन
त्रि-पुण्ड्रादेस् तद्-धार्यत्वे
तद्-व्यतिरिक्ताधार्यत्व-परत्वेन च लिङ्ग-दर्शनात् ।

अपच्छेदाधिकरण-न्यायेन निषेधस्य बलीयस्त्व-वादिनः अद्वैतिनः ।

प्रायश्चित्त-काण्डे श्राद्ध-शिष्ट-भोजन-विधि-सत्त्वेऽपि
निषेधस्य बलीयस्त्वात्
तद्-अभोज्यत्वं वदतः वैद्यनाथस्य
ब्राह्मण-त्रि-पुण्ड्र-निषेध-बलीयस्त्वस्यावश्याङ्गीकार्यत्वात् -
निषेध-वचनानां शैव-दीक्षा-प्रविष्ट-ब्राह्मण-निन्दा-परत्व-वर्णनं
स्व-मत-स्थैकदेशि-दुराचार-स्थापनाभिनिवेश-मूलकम् इति
सद्भिर् विभावनीयम् इति ।

तद् उक्तम् -

आदौ तु लक्षणोपेतां
सुगन्धां सात्त्विकीं शुभाम् ।
वामे ऽस्त्र-शोधिते हस्ते
वाग्यतः प्रणवेन तु ॥
निधाय जलम् आदाय
गन्धद्वारेति सेचयेत्
अस्त्र-मन्त्रेण रक्षां च
कृत्वा दशसु दिक्ष्व् अपि ॥
तार-मन्त्रेण सम्मिश्रं
मूल-मन्त्रेण मन्त्रयेत्
नृसिंह-बीजञ् च लिखेत्
रक्षार्थं दोष-शान्तये ॥
शत-धारेति मन्त्रेण
तीर्थ-तोयञ् च निक्षिपेत्
ताम् एकीकृत्य तर्जन्या
स्मृत्वा मम पद-द्वयम् ॥
विष्णोर्नुकेन मन्त्रेण
मन्त्रयित्वा यथाक्रमम् ।
पञ्चोपनिषदैर् मन्त्रैर्
मूल-मन्त्रेण मन्त्रयेत् ॥
द्वादशाक्षरम् उच्चार्य
प्रार्थयेद् इष्ट-सिद्धये ।
सप्तभिर् वैष्णवैर् मन्त्रैर्
मन्त्रयेन् मोक्ष-सिद्धये ॥
मृदं प्राक् तार-मन्त्रेण
तर्जन्या मूर्ध्नि विन्यसेत्

इति ।
“इष्टसिद्धये" इत्यत्र “सत्-समृद्धिञ् च युक्ताम्" इत्य्
अनुगृहीत-भगवद्-भागवत-समृद्धिर् विवक्षिता,
प्रपन्नानां “त्रैवर्गिकांस् त्यजेद् धर्मान्” इति काम्यान्तर-निषेधात् ।

“मोक्ष-सिद्धये” इत्यत्र अनन्य-प्रयोजन-कैङ्कर्य-सिद्धिर् विवक्षिता,
प्रपन्नानां मोक्षार्थं कर्तव्यान्तराभावात् ।+++(5)+++

विश्वास-प्रस्तुतिः

गृहस्थस्यानामिकया, ब्राह्मणस्यानामिकया,

इत्य्-आद्य्-उक्ताश्रम-वर्ण-विशेष-चोदिताङ्गुल्या

मूलम्

गृहस्थस्यानामिकया, ब्राह्मणस्यानामिकया,

इत्याद्युक्ताश्रमवर्णविशेषचोदिताङ्गुल्या

[[69]]

आह्निकार्थप्रकाशिका

अथ पुण्ड्र-धारण-साधनम् आह -
गृहस्थस्यानामिकयेत्य्-आदिना । तद् उक्तं

ब्राह्मणस्य विशेषेण
कल्पिता ऽऽनामिका स्मृता ।
अङ्गुष्ठम् एव राज्ञश् च
तर्जनी विश एव च ॥
शूद्रस्य मध्यमा प्रोक्ता
सर्वेषां वाप्य् अनामिका
तर्जनी भिक्षुकस्यैव
वनस्थस्य तु मध्यमा
अनामिका गृहस्थस्याङ्गुष्ठाग्रमथापि वा ।
अङ्गुष्ठेन ब्रह्मचारी सर्वेषां स्याद् अनामिका

इति ।

यद् अपरोक्तं स्कान्दे मार्गशीर्ष-माहात्म्ये
ब्रह्म-चारि–यत्य्-आदीन् अधिकृत्य दर्पणविधेः
तेषान् तु दर्पण-निषेधो ऽन्यविषयः ।
तत्रैव रात्रौ दर्पण-विधेः
तत्र दर्पण-निषेधो ऽन्यविषयः -
तत्रैव दर्पणाभावे जलावलोकन-विधानात् ।

जले प्रतिबिम्बावलोकन-निषेधोऽपि तथा +इति - तदसङ्गतम् -
निबन्धनेषु तद्-वचनान् उदाहरणेनाचार-विरहाच् च ।

यतीनां सर्वदा इतरेषां रात्रौ
दर्पणावलोकनस्य जलावलोकन-पूर्व-पुण्ड्र-धारणस्य
चाननुष्ठान-पराहतत्वात् । यद् अप्य् अपरोक्तं

अङ्गुष्ठं पुष्टिदं प्रोक्तं
मध्यमा ऽऽयुष्करी तथा ।
अनामिका ऽन्नदा नित्यं
मुक्तिदा च प्रदेशिनी
एतैर् अङ्गुलिभेदैस् तु
कारयेन्, न नखैर् लिखेत् ॥

इति श्री-सच्-चरित्र-रक्षोक्त–तत्-तद्-अङ्गुलि-फल–निरपेक्षाणां
तत्-तत्-कर्माङ्गत्वादि-मात्रेणोर्ध्व-पुण्ड्र-करण-दशायाम्

अनामिका ब्राह्मणस्य
गृहस्थस्यानामिका

इत्य्-आदिवर्णाश्रम-विषय-व्यवस्था-वचनानीति
देशिक-चरणैः कण्ठतो व्यवस्थापितत्वात्,
मोक्षापेक्षावद्भिः भगवत्-प्रीत्य्-अर्थम् ऊर्ध्व-पुण्ड्र-करणे
प्रदेशिन्य्+++(=तर्जनी)+++ एव देशिक-सम्मता ।

[[70]]

तया ऽऽर्जवादि-गुणासम्भवे
तद्-अनुगुणया यया कयाचिद् अङ्गुल्या धार्याणि ।+++(4)+++

यथाकामन् तु सर्वाभिः
न नखैरिति केचन

इत्य्-उक्तत्वात् ।
स्मृति-चन्द्रिकायां -

स्वयं-धौतेन कर्तव्यं
कारु-धौतं विवर्जयेत्

इत्यत्र स्वयं-धौतेनेत्य् एव सिद्धे
कारु-धौत-निषेधेन
कारु-धौत-व्यतिरिक्त-धौतम् अभ्यनुज्ञातम्।

इत्य् उक्त-रीत्या
“न नखैर् लिखेद्” इति निषेधेन
नख-व्यतिरिक्तं पुण्ड्र-धारणे
ऽभ्यनुज्ञातं भवति -

येनोर्ध्वपुण्ड्रं सौम्यं स्याद्
आर्जवं च कृतं भवेत् ।
तेन कुर्यात् प्रकारेण
तादृशं फलदं भवेत् ॥

इति नारदीय-वचने येन तेनेति सामान्योक्तेश् च । एवञ्चाङ्गुल्यैव धारणीयानीति निर्बन्धो न कर्तव्य इति । तदत्यन्तमसङ्गतम् । आचार्यपादश्रीसूक्तिन्यायविरुद्धत्वात् ।

या चात्र वर्णाश्रम-मात्र-विषयतया
ऽङ्गुलि-व्यवस्था
सा तत्-तत्-फल-विशेष-निरपेक्षाणां
तत्-तत्-कर्माङ्गत्वादि-मात्रेणोर्ध्व-पुण्ड्र-करण-दशायाम्
इति मन्तव्यम्

इति श्रीसूक्तौ पूर्वोदाहृत-वचनावगत-मोक्ष-तद्-इतर-फल-कामना-रहितानां
तत्-तत्-कर्माङ्गत्वादिनोर्ध्व-पुण्ड्र-धारणे वर्णाश्रमाङ्गुलि-व्यवस्थेति प्रतीयते ।
कर्माङ्गत्वादीत्यादि-पदेन

यच् छरीरं मनुष्याणाम्
ऊर्ध्व-पुण्ड्रं विना भवेत् ।
द्रष्टव्यन् नैव तद्-देहं
श्मशान-सदृशं स्मृतम् ॥ +++(4)+++

इत्य्-अकरणे दोष-श्रवणेन
करणे प्रत्यवाय-परिहारस्य,

प्रातर्-मध्यन्-दिने सायम्
ऊर्ध्वपुण्ड्रेण केशवः ।
अकृतैर् वा कृतैर् वापि
तैस् तैः प्रीणाति माधवः ॥

इति भारद्वाज-वचनावगत-भगवत्-प्रीति-विशेषस्य च सङ्ग्रहः ।
मात्र-पदेन पूर्वोदाहृत-वचनावगत-फलाभिसन्धि-व्यवच्छेदः ।
एवं च तत्-तत्-कर्माङ्गत्वेन
“अ-क्रिया-वद् अनर्थाय" इति
लक्ष्मी-तन्त्र-वचन+आचार्यपाद-श्रीसूक्तावगत–
प्रत्यवाय-परिहारार्थत्वेन +उपदर्शित-भगवत्-प्रीत्य्-उद्देशेन
चोर्ध्व-पुण्ड्र-करण-दशायां वर्णाश्रमाङ्गुलि-व्यवस्थेत्य् उक्तं भवति ।

फलाश्रुतेर् वीप्सया वा
तन् नित्यम् उदितं बुधैः,
अस्य चैवम् अकामोपाधि-निबद्ध-विधि-प्राप्तत्वात्
नित्यत्वं सिद्धम्

इति प्रमाण-श्री-सच्-चरित्र-रक्षा-श्रीसूक्त्य्-अनुसारेणात्र
नित्य-विधि-परत्वस्याङ्गीकार्यत्वात् ।
अयम् अर्थः

अतस् सिद्धं कर्माङ्गत्वादिभिर् ऊर्ध्व-पुण्ड्रस्यावश्यधार्यत्वम्,
कर्मङ्गत्वादिना ऊर्ध्व-पुण्ड्र-ग्रहणम् इह भवेत्

इत्य् आचार्यपादश्रीसूक्त्य्-अभिप्रेतश्च -

[[71]]

ज्योतिष्टोमेन स्वर्गकामो यजेत,
वृष्टिकामः कारीर्या यजेत,
श्येनेनाभिचरन् यजेत

इत्यादौ तत्-तत्-फल-कामना-रूपाधिकारवतस्
तत्-तत्-फलोद्देशेन तत्-तत्-कर्म-विधिर् इति
मीमांसक-सिद्धान्तितत्वात्,
ऊर्ध्व-पुण्ड्र-विषयक-फल-साधनाङ्गुलि-विधीनाम् अपि
तथैवार्थ-वर्णनौचित्यात् ।

“मुक्तिदा च प्रदेशिनी" इत्य्-अत्र
मुक्ति-रूप-फलोद्देशेनानुष्ठान एव प्रदेशिनी-विधानम् इति
न तद्-वाक्येन भगवत्-प्रीत्यर्थम् ऊर्ध्व-पुण्ड्रधारणं विधीयते -
फल-साधन-वाक्यस्य नित्य-विधित्वासम्भवात् ,
श्री-सच्-चरित्र-रक्षा-प्रथमाधिकारे

कामाधिकारत्वे सम्भवति
नित्यत्व-कल्पनायोगात्

इत्य्-अनुगृहीतत्वाच्च ।

यद् अपि स्मृति-चन्द्रिकोक्त-दृष्टान्तेनाङ्गुली-व्यतिरिक्तस्यापि
पुण्ड्र-धारण-साधनत्वम् उक्तम्,
तद् अपि मन्दम् -
दृष्टान्त-वैषम्यात्।

स्वयं धौतेन कर्तव्यं
कारुधौतं विवर्जयेत्

इत्य्-अत्र विशेष-निषेधेन
शेषाभ्यनुज्ञानात्
कारु-धौत-व्यतिरिक्त-धौताभ्यनुज्ञानम् इति चन्द्रिकोक्तम् ।

आचार्यपादोदाहृते तु “ऊर्ध्वपुण्ड्र-विधौ मोक्षम्" इत्य्-आदिषु भरद्वाज-वचनेषु
पञ्चाङ्गुलीन् विधाय
“न चान्येन विधीयीत” इत्य् अङ्गुलि-व्यतिरिक्त-निषेधात् ।

“न नखैरिति केचन" इति वचनस्य शेषाभ्यनुज्ञान्यायेन
शलाकाभ्यनुज्ञा-परत्वस्य
कतिपय-सम्मतत्वेन भूयसां न्यायेन
प्रत्यवाय-श्रवण-सहित-सामान्य-निषेधस्य प्रबलत्वात् शिष्टाचाराच्च,
उदाहृत-दृष्टान्त-वैषम्येणाङ्गुलीनाम् एव पुण्ड्र-धारण-करणत्वम् अङ्गीकार्यम्

श्रीसच्चरित्ररक्षाप्रथमाधिकारे

ब्राह्मणस्य विशेषेण
वैष्णवस्य विशेषतः ।

इत्य् अपि वचनं
न ब्राह्मणमात्रस्यावश्य-कर्तव्यत्व-प्रतिक्षेप-परम् -
अपि तु अकरणे प्रत्यवाय-लाघव-परम् ।+++(5)+++
अतः अङ्गुल्यैव पुण्ड्राणि धारणीयानीति सिद्धम् । एतेन

“येनोर्ध्व-पुण्ड्रम्” इत्य्-आदि-वचने
येन तेनेति सामान्य-निर्देशाद्
अङ्गुलिव्यतिरिक्तस्यापि पुण्ड्र-धारण-करणत्वम् अनुमतम्
इत्युक्तं परास्तम् ।
उपात्त-वचने येन तेनेति पद-द्वयस्य
विशेष्य-समर्पकं प्रकारेणेति पदं प्रयुक्तम् ।
प्रकारशब्दो ऽपृथक्-सिद्ध-विशेषण-परस् सन्
अवयव-संस्थान-रूपं प्रकारम् अभिधत्ते -
श्रीभाष्यादौ प्रकारत्वं विशेषणत्वम् इति बहुधाभिहितत्वात् ।

[[72]]

श्रीन्यायसिद्धाञ्जनोपक्रमे

अशेष-चिद्-अचित्-प्रकारं
ब्रह्मैकम् एव तत्त्वं,
तत्र प्रकार-प्रकारिणोः प्रकाराणाञ् चात्यन्त-भेदेऽपि
विशिष्टैक्यादि-विवक्षया
एकत्व-व्यपदेश

इति चिद्-अचितोः भगवत्-प्रकारत्व-प्रतिपादनात् ।
अतः समीचीनावयव-सन्निवेश-विशिष्ट-पुण्ड्रधारणम् उक्त-वचनाभिप्रेतम् इति ।

मुमुक्षुदर्पणे “न नखाद्यैश्च” आद्यशब्दात्
शलाकादिभिर् अपि न कुर्यादित्यर्थ इत्युक्तम् ।

अतः प्रकारेणेत्य् एतत्-परित्यज्य
येन तेनेत्य्-अस्याङ्गुलि-व्यतिरिक्त-साधन-परत्व-वर्णनम्
आग्रह-मूलमेव ।

अतस् सुष्ठूक्तम् “गृहस्थस्यानामिकया” इत्यादिकमिति बोध्यम् ।

विश्वास-प्रस्तुतिः

ललाटे चतुर्-अङ्गुलम् ऊर्ध्वं
द्व्यङ्गुलं त्र्य्-अङ्गुलं वा विस्तृतं,

कुक्षौ नाभ्यादि-द्वादशाङ्गुलम् ऊर्ध्वं
त्र्य्-अङ्गुलं विस्तृतं,

हृदये प्रादेशमात्रम् +++(=१२-आङ्गुलम्)+++ अष्टाङ्गुलं वा ऊर्ध्वं
चतुरङ्गुलं विस्तृतं,

मूलम्

ललाटे चतुरङ्गुलमूर्ध्वं द्व्यङ्गुलं त्र्यङ्गुलं वा विस्तृतं, कुक्षौ नाभ्यादिद्वादशाङ्गुलमूर्ध्वं त्र्यङ्गुलं विस्तृतं, हृदये प्रादेशमात्रमष्टाङ्गुलं वा ऊर्ध्वं चतुरङ्गुलं विस्तृतं,

आह्निकार्थप्रकाशिका

पार्श्वयोर् घन-विन्यासम्
ऊर्ध्वपुण्ड्रम् इहोच्यते ।
यथा चर्म न दृश्येत
तथोर्ध्वं पुण्ड्रम् आचरेत् ॥ इषुपात-स्थितैर् ग्राह्यम्
ऊर्ध्वपुण्ड्रं समाचरेत्

पार्श्वम् अङ्गुलि-मानं स्यान् +++(रेखामध्यवर्तिनि)+++ मध्यमे द्व्यङ्गुलं भवेत् ॥

त्रिधा सर्वत्र विस्तारश्
चतुस्-त्रि-द्व्य्-अङ्गुलं क्रमात् ।
उत्तमो मध्यमो हीनः,

पार्श्वाव् +++(रेखे)+++ आङ्गुलिकौ स्मृतौ ॥

वर्तुलं तिर्यग् अच्छिद्रं
ह्रस्वं दीर्घं ततन् तनु ।
वक्रं विरूपं बद्धाग्रं
भिन्नमूलं पद-च्युतम् ॥
अशुभ्रं रूक्षम् आसक्तं
तथानङ्गुलि-कल्पितम् ।
विगन्धम् अपसव्यञ् च
पुण्ड्रम् आहुर् अनर्थकम्

आसीनो ऽङ्गुलिभिर् दद्याद्
ऊर्ध्वपुण्ड्रान् स्वयं क्रमात् ।

पार्श्वम् अङ्गुलिमात्रन् तु
मध्ये छिद्रं प्रकल्पयेत्
पार्श्वम् अङ्गुलिमात्रन्तु
विन्यसेद् द्विजसत्तमः ।

सपवित्रेण हस्तेन
नोर्ध्वपुण्ड्राणि धारयेत् ॥
चन्दनालेपनञ्चैव
तद् दानञ् चैव वर्जयेत् ॥

इति श्रीसच्चरित्ररक्षोदाहृत-
वसिष्ठ-भरद्वाज-पराशर-संहिता–
वृद्ध-हारीत-वसिष्ठ-स्मृति-वचनान्य्
अनुसन्धेयानि ।

आचार्यपादानां पारमेष्ठ्य-संहिता-वचनानाम् एव
चरमोपात्तत्वेनाभिमतत्वात्
प्रायशस् तद्-अनुसारेण
पूर्वाचार्यानुष्ठितोर्ध्वपुण्ड्र-धारण-प्रकारम् आह
ललाटे चतुरङ्गुलमित्यादिना ।

चतुरङ्गुलमिति ।

ऊर्ध्वपुण्ड्रं ललाटे तु
कुर्वीत चतुरङ्गुलम्

इति भरद्वाजवचनमनुरुध्योक्तम् ।

भ्रुवोर् अधस्ताद् आरभ्य
रेखाद्वयसमन्वितम् ।
केशान्तं विन्यसेत् पुण्ड्रम्
ऊर्ध्वं नित्यं द्विजोत्तमः ॥

इति वासिष्ठ-संहिता-वचनम् अप्य् अत्र भाव्यम् ।

[[73]]

यत्तु

नासिकामूलम् आरभ्य
ललाटे प्रथमन् न्यसेत्

इत्याचार्यपादोदाहृत-वचनादौ नासामूले ललाट-पुण्ड्रविधिर् इति -
तन् न,
यतस् तत्र नासिका-मूलस्य मर्यादात्वम् एव,
न त्व् अभिविधित्वं,
“भ्रुवोर् अधस्ताद् आरभ्ये"त्य् उदाहृत-वासिष्ठ-वचनानुरोधात् ।

“विस्तारन् त्र्य्-अङ्गुलम्"
इत्य्-आद्य्-आचार्य-पादोदाहृत-वचनावगत-
त्र्य्-अङ्गुलादि-विस्तारस्य नासामूलेऽसम्भावितत्वेन,
नासा-मूलोपरि भ्रुवोर्-अधः ललाट-पुण्ड्र-धारणम् एव युक्तम्
इति बोध्यम् ।

विस्तारं त्र्यङ्गुलं प्रोक्तं
द्व्यङ्गुलं वा ललाटके

इति पारमेष्ठ्य-संहिता-वचन-विहित-द्व्य्-अङ्गुल-पक्षे
पूर्वोक्त-पार्श्वाङ्गुलि-मान-मध्य-छिद्रयोर् असम्भावितत्वात्,
मध्यच्छिद्रार्थं पार्श्वाङ्गुलिमान-सङ्कोचस् स्याद् इत्य् अस्वरसाद् आह - त्र्यङ्गुलं वेति ।
त्र्यङ्गुलपक्षे नोक्तानुपपत्तिर् इति बोध्यम् ।

स्तनान्तरे ऽपि च तथा
कुर्यात् प्रादेशम् आयतम्

इति पारमेष्ठ्यसंहितावगतप्रादेशपरिमाणस्य

कुक्षौ तु नाभेरूर्ध्वं स्याद्द्वादशाङ्गुलमायतम्

इत्युक्तद्वादशाङ्गुलोर्ध्वप्रदेशसम्भाव्यतया क्वचित् प्रादेशप्रमाणासम्भवमभिप्रेत्य “अष्टाङ्गुलं वे"त्युक्तम् ।

वक्षःस्थले माधवञ्च न्यसेदष्टाङ्गुलायतम् ।
हृदये माधवायेति धारयेदङ्गुलाष्टकम् ॥

इति वासिष्ठसंहिताब्रह्मरात्रादिवचनजातमिह भाव्यम् ।

विश्वास-प्रस्तुतिः

कण्ठे चतुर्-अङ्गुलम् ऊर्ध्वं
द्व्यङ्गुलं विस्तृतम्,

दक्षिण-कुक्षि-पार्श्वे द्वादशाङ्गुलम् ऊर्ध्वं
त्र्यङ्गुलं विस्तृतं,

मूलम्

कण्ठे चतुरङ्गुलमूर्ध्वं द्व्यङ्गुलं विस्तृतम्, दक्षिणकुक्षिपार्श्वे द्वादशाङ्गुलमूर्ध्वं त्र्यङ्गुलं विस्तृतं,

आह्निकार्थप्रकाशिका

कण्ठे चतुरङ्गुलमूर्ध्वं द्व्यङ्गुलं विस्तृतमिति ।

ललाटे कण्ठदेशे तु
स्कन्धयोश्त्रिके+++(=मेरुदण्डाधोभागे)+++ तथा ।
चतुर्-अङ्गुलमानानि
पञ्च पुण्ड्राणि धारयेत् ॥

इत्य् आचार्यपादोदाहृत-ब्राह्म-रात्र-वचनाद्य्-अभिप्रायेण
कण्ठ-पुरोभागे “चतुर्-अङ्गुलम्-ऊर्ध्वम्” इत्य् उक्तम् ।

द्व्यङ्गुलं विस्तृतं रम्यं चतुरङ्गुलम् आयतम्

इत्याचार्यपाद-प्रदर्शित-वचनात् द्व्यङ्गुलं विस्तृतम् इत्य् उक्तम् ।

द्व्य्-अङ्गुलपक्षे मध्ये छिद्रार्थं पार्श्वाङ्गुलि-मान-सङ्कोचः कार्यः,
तद्-असङ्कोचेच्छायां

कण्ठ-कूपेऽपि च तथा
त्र्यङ्गुलायत-विस्तृतम्

इति पारमेष्ठ्य-संहितोक्तं ग्राह्यम् ।

आह्निके ऽप्य् एतद् अभिप्रेतम्,
इतर-पुण्ड्रेषु पारमेष्ठ्य-संहितोक्त-विस्ताराद्य्-अभिधानात् ।

[[74]]

विश्वास-प्रस्तुतिः

दक्षिण-बाहु-मूले दशाङ्गुलम् ऊर्ध्वं
त्र्यङ्गुलं विस्तृतं,

मूलम्

दक्षिणबाहुमूले दशाङ्गुलमूर्ध्वं त्र्यङ्गुलं विस्तृतं,

आह्निकार्थप्रकाशिका

दक्षिणबाहुमूले दशाङ्गुलम् ऊर्ध्वम् इति ।
श्रीसच्चरित्ररक्षायां प्रथमाधिकारे

बाहुमूले सुदर्शन-पाञ्चजन्य-चिह्न-धारण-विधानात् हेतुत्वात्
सद्-गृहीतेर्
इतर-परिहृतेर्
द्रावणात् किङ्करादेर्
धार्यं चक्रादि-चिह्नम्

इत्य् उक्त-हेतु-त्रयस्य
तच्-चिह्न-प्रकाशाधीनत्वात् ,

हृदये चोदरे चैव
पार्श्वयोः पृष्ठ एव च ।
बाह्वोर् मध्ये च सप्त स्युः …

दक्षिणे बाहुमध्ये तु
चिन्तयेन् मधुसूदनम् ।
तत्पार्श्वे बाहुमध्ये तु
मधुसूदन इष्यते ॥

इत्याचार्यपादोदाहृत-वचन-पारमेश्वर-वचनतः
बाहु-मध्य-देशस्य पुण्ड्र-स्थानत्वावगतेः,
बाहुमूल-शब्दस्य सुदर्शनादि-धारणाश्रय-व्यतिरिक्त-बाहु-मूल-परत्वम् आश्रयणीयम्,
श्रीवैखानस-शास्त्रे मरीचिप्रोक्ते पञ्च-सप्तति-पटले

दक्षिणबाहुमध्ये मधुसूदनाय,
वामबाहुमध्ये श्रीधराय

इति, बाहुमध्य एव पुण्ड्रधारणं विहितम् -

आचार्यार्चा-चित्र-लिखित-विग्रहेषु
सुदर्शनादि-चिह्नाद् अधः-प्रदेश एव बाहु-पुण्ड्र-दर्शनात्
तथैवास्मद्-आचार्य-प्राचार्य-तच्-छिष्य-प्रशिष्यानुष्ठान-दर्शनाच् च।

तथैव बाहुपुण्ड्रधारणं युक्तम् ।
यद् अन्योक्तं -

बाह्वोर् द्वादशाङ्गुल-पुण्ड्र-धारणं पारमेष्ठ्य-संहितोक्तम्

इति,
तन्न, बहुषु श्रीसच्चरित्ररक्षा-श्रीकोशेषु ग्रन्थ-मुद्राक्षर-तच्-छ्रीकोशेषु च

दक्षिणे तु भुजे कुर्याद्
आयतन्तु दशाङ्गुलम् ।

इति तत्-संहिता-वचन-दर्शनात्,

तत्-परिमाणस्य

दशाङ्गुल-प्रमाणन् तु
उत्तमोत्तमम् उच्यते

इत्य्-आचार्य-पादोपात्त-वचन-प्रशंसितत्वाच् च।
बहुष्व् असंकीर्णाह्निक-कोशेषु

दक्षिणबाहौ दशाङ्गुलमूर्ध्वम्

इत्येव पाठोऽस्ति ।
क्वचित् “द्वादशाङ्गुलम्” इति पाठः,
उदाहृत-प्रमाण-विरोधात् मानाभावाच् छोपेक्ष्यः ।

एवञ्च कूर्पर-प्रभृति-पञ्च-दशाङ्गुल-परिमिते बाहौ
अधः द्व्य्-अङ्गुलं परित्यज्य
उपरि दशाङ्गुल-पुण्ड्र-धारणे
त्र्य्-अङ्गुलं परित्यज्य
त्र्य्-अङ्गुल-बाहु-मूल-प्रदेशः सुदर्शन-पाञ्च-जन्य–प्रकाश-योग्यस् स्यात्,
एवं सति, सर्व-प्रमाण-श्रीसूक्त्य्-आचारानुगुण्यं भवति ।

[[75]]

एतेन कूर्परादुपरि चतुर्-अङ्गुल-त्र्य्-अङ्गुलाद् वा ऊर्ध्वं
द्वादशाङ्गुलं, दशाङ्गुलं, नवाङ्गुलं, अष्टाङ्गुलं वा, आयतं
बाहु-पुण्ड्रम् इत्य् अपरोक्तं परास्तम् -

नवाङ्गुलं मध्यमं स्याद्
अष्टाङ्गुलम् अथाधमम्

इति निन्दित-नवाङ्गुलाष्टाङ्गुल-परिमाणयोः
पूर्व-प्रशंसित-दशाङ्गुल-परिमाणेन तुल्य-विकल्प-कथनस्यानुचितत्वात्,
पञ्च-दशाङ्गुले बाहौ अधश् चतुर्-अङ्गुल-त्यागे द्वादशाङ्गुल-पुण्ड्र-धारण-स्थला-भावात्,
दशाङ्गुल-नवाङ्गुल-पुण्ड्र-धारणे सुदर्शनाद्य्-अङ्कन-छादनापत्त्या
तत्-प्रकाशाधीनस्य “हेतुत्वात् सद्गृहीतेर्” इत्यादि-हेतु-त्रयस्यासम्भव-प्रसङ्गात्,
त्र्यङ्गुलाद् ऊर्ध्वं द्वादशाङ्गुल-पुण्ड्रधारणेऽपि तद्-दोष-तादवस्थ्याच् च ।

एतेन, इतर-पराङ्गीकृतः अष्टाङ्गुल-बाहु-पुण्ड्र-पक्षः प्रत्य्-उक्तः,
“अष्टाङ्गुलम् अथाधमम्" इति तन्-निन्दनात् ।

न चैवं हृदये ऽष्टाङ्गुल-पुण्ड्राधार्यत्वं स्याद् इति वाच्यम्,
पूर्वोक्तरीत्या तत्रागत्याष्टाङ्गुल-पुण्ड्रस्यैव धार्यत्वात्,
यत्र दशाङ्गुल-विधेर् अवकाश-सम्भवश् च
तत्रैवाष्टाङ्गुल-निन्दनस्य स्वीकार्यत्वात् ।

विश्वास-प्रस्तुतिः

जत्रौ दक्षिण-कण्ठ-पार्श्वे चतुरङ्गुलम् ऊर्ध्वं विस्तृतं,

वाम-कुक्षिपार्श्वे वामबाहुमूले वामजत्रौ दक्षिणवत्,
जघनोपरि पृष्ठ-भागे त्र्यङ्गुलम् आयतं विस्तृतञ्च,
ककुदे त्र्यङ्गुलमायतं विस्तृतञ् च,

मूलम्

जत्रौ दक्षिणकण्ठपार्श्वे चतुरङ्गुलमूर्ध्वं विस्तृतं, वामकुक्षिपार्श्वे वामबाहुमूले वामजत्रौ दक्षिणवत्, जघनोपरि पृष्ठभागे त्र्यङ्गुलमायतं विस्तृतञ्च, ककुदे त्र्यङ्गुलमायतं विस्तृतञ्च,

आह्निकार्थप्रकाशिका

जत्रौ दक्षिणकण्ठपार्श्वे इति ।

जत्रौ त्र्यङ्गुलम् आयामं विस्तरञ्च तथैव च

इति पारमेष्ठ्य-संहितावचनमनुसृत्य जत्रावित्युक्तम् ।

त्रिविक्रमेति मन्त्रेण
धारयेद्दक्षिणे गले ।
हृषीकेशेति मन्त्रेण
धारयेद् वामकण्ठके ।
त्रिविक्रमं च तत्-स्कन्दे
वामपार्श्वे तु वामनम् ।
श्रीधरं बाहुके वामे
हृषीकेशन्तु स्कन्धके ॥

इत्याचार्यपादोदाहृतवचनतः

தெளிவுடைவாளுருவிக் கரங்களிலீரண்டேந்தி வலக்கழுத்தும், என்னிருடீகேசனிறைக் கீழிடக் கழுத்தென்றிவற்றில்

इति द्वादशनाम-गाथा-वाक्याच् च।

दक्षिण-वाम-कण्ठयोर् एव पुण्ड्र-स्थानत्वावगमात्
“जत्राव्" इत्यस्य जत्रुस्थानम् आरभ्येत्य् अर्थो ग्राह्यः,
एवं “वाम जत्राव्" इत्यत्रापि बोध्यम् ।

[[76]]

अतः केषाञ्चित् जत्राव् एव पुण्ड्रधारणञ् चिन्त्यम्।

इति +ऊर्ध्व-पुण्ड्र-विषय-स्थान-परिमाण-प्रमाणोपपत्ति-पर-पक्ष-प्रतिक्षेपादेः
बहुधा प्रदर्शितत्वात्
पार्श्वयोर्
अङ्गुलि-परिमाण-न्यूनाधिक-
चोदित-स्थान-च्युतातिदीर्घातिह्रस्व- मध्य-छिद्ररहित-बद्धाग्र-
शलाकादि-कल्पित-पुण्ड्राण्य्
अनर्थकानीति बोध्यम् ।

विश्वास-प्रस्तुतिः

भगवत्-पादाकृतीन् पुण्ड्रान्,

मूलम्

भगवत्पादाकृतीन् पुण्ड्रान्,

आह्निकार्थप्रकाशिका

भगवत्-पादाकृतीन् पुण्ड्रान् इति । तदुक्तम्

क्रियमाणस्य चोर्ध्वपुण्ड्रस्य
हरि-पाद-संस्थानवत्त्वं सान्तरालत्वञ्च
“हरेः पादाकृतिम्” इत्यादिकया श्रुत्या
प्राग्-उपात्तया प्रदर्शितम् ।
सन्ति च पुराणादिष्व् अपि तथात्वे वचांसि

इत्यादिना

अतः श्रुत्य्-आदि-विहित-हरि-पादसंस्थानम् एव
भागवतैर् उपादेयम् इति स्थितम्

इत्य्-अन्तेन
हरि-पाद-संस्थानस्यैव भागवतैर् उपादेयत्वम्,
अन्याकृतीनाम् एकान्ति-व्यतिरिक्त-ग्राह्यत्वम् अनुगृहीतम् ।+++(4)+++

भगवल्-ललाटे न तत्-पादाकृति-पुण्ड्रं,
मन्त्र-विशेष-करणक–
ध्यान-विशेष-युक्त-
श्वेतमृदादि-धारणस्यैव पुण्ड्रत्वाद् ।
तत्र शोभार्थम् अलङ्कार-विशेषः
पुण्ड्र-सदृशः तिलक-सदृशो वा
यथा शोभाभिमानं क्रियत

इत्य् आचार्य-पादानुगृहीतञ् च ग्राह्यम् ।

एतेन पुण्ड्र-मूल-भागे त्र्य्-अङ्गुल-द्व्य्-अङ्गुल-परिमाणम्,
ऊर्ध्व-भागे द्व्य्-अङ्गुलैकाङ्गुल-परिमाणं पुण्ड्रं कैश्चित् क्रियमाणं,
तस्य वेणु-पत्र–दीप-शिखाद्य्-आकृतित्व-कथनञ् च
पारमैकान्त्याननुगुणम् इति बोध्यम् ।

[[77]]

आह्निकार्थप्रकाशिका

ऊर्ध्व-पुण्ड्र-धारण-दशायां तत्-तत्-पुण्ड्र-देवता-ध्यानम्
आह - चतुश्चक्रन्नमस्यामीत्यादिना

वासुदेवमुपासेहं पूर्णेन्द्वयुतसन्निभम्

इत्यन्तेन ।

वासुदेवम्-इत्यादि-त्रयोदश-पुण्ड्र-पक्षाभिप्रायेण ।

“ललाटे चतुर्-अङ्गुलम् ऊर्ध्वम्” इत्यादिना
“ककुदे त्र्यङ्गुलमायतं विस्तृतञ्” चेत्यभिधानात् चरमोपात्त-पारमेष्ठ्य-संहिता-वचनेषु
द्वादश-नाम-गाथासु च द्वादशपुण्ड्र-धारणावगमात्,

मोक्षार्थी च विशेषेण
द्वादशाक्षर-विद्यया ।
द्वादशैतानि पुण्ड्राणि
कुर्यात् द्वादशनामभिः ॥

इति इन्द्ररात्र-वचनेऽपि तथावगमाच्च
द्वादश-पुण्ड्र-पक्ष एवाचार्यपाद-सम्मतः ।

द्वादशाक्षर-विद्यया = शेष-शिरो-धारण-मन्त्र-रूपया सह,
द्वादशनामभिः एतानि =

चतुश्चक्रधरं मान्तु
स्मृत्वा जाम्बूनद-प्रभम्

इत्यादिभिः

दामोदराय मन्त्रेण
धारयेत्पश्चिमे गले

इत्यन्तैः पूर्वोदाहृतवचनैः
प्रतिपादितानि द्वादशपुण्ड्राणि मोक्षार्थी
विशेषेण कुर्याद्
इत्य् उदाहृतवचनार्थः ।

यत् त्व् अन्योक्तं “द्वादशाक्षर-मन्त्रेण शिरोधारणन्” तु

त्रयोदशम् अधो मूर्ध्नि
धारयेद् ऊर्ध्वपुण्ड्रकम्

इत्य्-उक्त-त्रयोदशपुण्ड्रपक्षे वेदितव्यम्।

द्वादशाक्षरमन्त्रेण
मूर्ध्नि दत्वा मृदन्ततः

इत्यादिप्रमाणात्,
द्वादश-पुण्ड्रपक्षे -
“तत्प्रक्षालनतोयेन वासुदेवेति मूर्धनि” इति वचन-विहितेन “वासुदेवाय नम” इति मन्त्रेण
शेष-शिरो-धारणम् +++(पूर्णपुण्ड्रस्य)+++ इति +++(केचित्)+++।
तद् असङ्गतम् – श्रीसच्चरित्ररक्षायां

त्रयोदशम् अधो मूर्ध्नि
धारयेद् ऊर्ध्वपुण्ड्रकम्

इत्येतदनन्तरं

द्वादशाक्षर-मन्त्रेण
मूर्ध्नि दत्वा+++(दद्याद् इति पाठभेदः)+++ मृदन् ततः

इति वचनसत्त्वात्,

द्वादशेति च यः पक्षः
तस्मिन् शिरसि वर्जयेत् ।
अष्टौ वेति च यः पक्षः
शिर-आदीनि वर्जयेत् ॥

तत्र मन्त्रं प्रवक्ष्यामि
ऊर्ध्वपुण्ड्रस्य धारणे

इत्यादिना
द्वादशनामान्य् उक्त्वा,

द्वादशाक्षर-मन्त्रेण
मूर्ध्नि दत्वा मृदन्ततः

इत्याचार्यपादश्रीसूक्त्या
द्वादशपुण्ड्र-पक्ष एव
द्वादशाक्षर-मन्त्र-करणक-देश-शिरो-धारणावगमात्,
मोक्षार्थी चेति पूर्वोदाहृत-वचनेनाप्य् अस्यार्थस्य सिद्धत्वाच् च,

द्वादश-पुण्ड्र-प्रकरणे “तत्-प्रक्षालन-तोयेन” इत्यादिवचनस्यासत्त्वेन
तत्-पक्षे “वासुदेवाय नम” इति मन्त्रेण शिरःपुण्ड्रधारणस्य वक्तव्यत्वासम्भवात्,

ब्रह्माण्डे “ललाटे केशवं ध्यायेद्” इत्यारभ्य
“तत्-प्रक्षालन-तोयेन वासुदेवेति मूर्धनि" इत्यन्तस्य वचनजातस्योदाहृतत्वात्,
परिशेषात् त्रयोदशपुण्ड्रपक्ष एव
“वासुदेवाय नम” इति शिरःपुण्ड्रधारणस्य स्वीकार्यत्वात् ।

एतेन +++(द्वादशपक्षे)+++ तत्-प्रक्षालन-तोयेन द्वादशाक्षरेण मूर्ध्नि
चतुर्-अङ्गुलं पुण्ड्रं धार्यम् इत्य् अपरोक्तं निरस्तम् ।

[[78]]

विश्वास-प्रस्तुतिः

इत्यादि-ध्यान-पुरस्सरम्
“ओं केशवाय नम” इत्यादि-मन्त्रैर् ललाटादिस्थानेषु क्रमेण धृत्वा
शेषं द्वादशाक्षरेण मूर्ध्नि धारयेत् ।

मूलम्

इत्यादिध्यानपुरस्सरम् ओं केशवाय नम इत्यादिमन्त्रैर्ललाटादिस्थानेषु क्रमेण धृत्वा शेषं द्वादशाक्षरेण मूर्ध्नि धारयेत् ।

आह्निकार्थप्रकाशिका

इत्यादि ध्यानपुरस्सरमित्यादि ।

चतुश्चक्रधरं मां तु
स्मृत्वा जाम्बूनदप्रभम् ।
ललाटे केशवायेति
धारयेद् ऊर्ध्वपुण्ड्रकम् ॥

इत्यादीनि

द्वादशाक्षरम् उच्चार्य
शेषं मूर्धनि विन्यसेत्

इत्यन्तानि ध्यानविधायकानि ।
तत्-तद्-ध्यानस्यावश्यम्भावित्वम् उक्तम् ।

ध्यानं तत् संप्रवक्ष्यामि
ऊर्ध्वपुण्ड्रस्य धारणे ।
येन नाम्ना च यत्कुर्यात्
तन्नामार्थं विचिन्तयेत् ॥
विना कृतन्तु ध्यानेन
ऊर्ध्वपुण्ड्रन्तु निष्फलम् ।

इति देशिकचरणोदाहृतवचनान्यत्र भाव्यानि ।

श्रीचूर्णम्

विश्वास-प्रस्तुतिः

विष्णु-गात्र-परा-मृष्ट-हरिद्रा-चूर्णं
श्री-मन्त्रैस् सर्व-पुण्ड्रमध्ये धृत्वा,

मूलम्

विष्णुगात्रपरामृष्टहरिद्राचूर्णं श्रीमन्त्रैस्सर्वपुण्ड्रमध्ये धृत्वा,

आह्निकार्थप्रकाशिका

अथ श्रीचूर्णधारणमाह विष्णुगात्रपरामृष्टमित्यादिना ।
तद् उक्तम् यथेश्वर-संहितायामेव

कुङ्कुमञ् चन्दनञ् चैव
कर्पूरञ् चानुलेपनम् ।
विष्णुगात्र-परामृष्टं
तद्वै पावनपावनम् ॥

तथा पाद्मोद्भवे

विष्णुदेहपरामृष्टं
यः चूर्णं शिरसा वहेत् ।
सोऽश्वमेधफलं प्राप्य
विष्णुलोके महीयते ॥

इत्यादि । तथान्यत्र

विष्णुगात्रच्युतं चूर्णं
ललाटे धारयेत् द्विजः ।
अपोह्य पातकान्याशु
मोदते दिवि देववत् ॥

इति । ललाट इत्युपलक्षणम् ।

तत्तन्मन्त्रेण तन्मूर्तिं
ध्यात्वा पुण्ड्राणि धारयेत् ।

अन्तराले तु सर्वेषां
हरिद्रान्धारयेच्छ्रियम् ॥
कुङ्कुमं वापि हारिद्रं
चूर्णं विष्ण्व्-अभिषेचितम् ।
ऊर्ध्व-पुण्ड्रस्य मध्ये तु
धारयेद् दीपवत् द्विजः ॥

श्रीचूर्ण-रहितं पुण्ड्रं
कदाचिन्नैव धारयेत् ।
धारयेद् यदि मोहेन
तत् पुण्ड्रं स्यादनर्थकम् ॥

ब्रह्मचारिगृहस्थानां
यतीनां वनिनामपि ।
सुवासिनीनां कन्यानां
विधवानामपि द्विजाः ॥
श्रीचूर्णं सततं धार्यम्
ऊर्ध्वपुण्ड्रस्य मध्यतः ।
धात्री+++(=अमलक)+++पत्रसमं धार्यं
श्रीचूर्णं ब्रह्मवादिनाम् ॥
अन्येषां क्षत्रियादीनां
तिन्त्रिणी+++(=tamarind)+++-दल-सम्मितम् ।
कूश्माण्ड-बीजवत् स्त्रीणाम्
इतरेषां यथारुचि ॥

द्रव्यान्तर-विहीनन्तु
ललाटे धारयेद् द्विजः ।
तावद् भवति चण्डालो
यावन् न स्नाति दुर्मतिः +++(तथा ऽकुर्वन्)+++ ॥

इत्यादीनि प्रमाणान्यत्र द्रष्टव्यानि । द्रव्यान्तरं = शालितण्डुलादिचूर्णम्।

श्रीदेवी प्रथमं नाम
द्वितीयम् अमृतोद्भवा ।
तृतीयं कमला प्रोक्ता
चतुर्थं चन्द्रशोभिनी ॥
पञ्चमं विष्णुपत्नी स्यात्
वैष्णवी षष्ठमेव च ।
सप्तमं तु वरारोहा
अष्टमं हरिवल्लभा ॥
नवमं शार्ङ्गिणी प्रोक्ता
दशमं देवदेविका ।
एकादशं महालक्ष्मीः
द्वादशं सुरसुन्दरी ॥

इति प्रमाणानुसारेण श्रियै नमः इत्यादिभिः मन्त्रैर्धार्यम् ॥

[[79]]

स्पर्शः

विश्वास-प्रस्तुतिः

“ओं केशवाय नम” इत्यादिक्रमेण पुण्ड्रान् अङ्गुलीभिः स्पृष्ट्वा,
अञ्जलिं च कुर्यात् ।

मूलम्

ओं केशवाय नम इत्यादिक्रमेण पुण्ड्रानङ्गुलीभिः स्पृष्ट्वा, अञ्जलिं च कुर्यात् ।

आह्निकार्थप्रकाशिका

अथ पुण्ड्रस्पर्शनादिकमाह — ओं केशवाय नम इत्यादिना । तदुक्तम्

धृतोर्ध्वपुण्ड्रो विधिवन्
न्यस्य नामानि द्वादश ।
नमोऽन्तान्यञ्जलिं कुर्यान्
नामान्युक्त्वा यथाक्रमम् ॥

इति । पुण्ड्रश्रीचूर्णधारणानन्तरं
साञ्जलिस्सन्
“चतुश्चक्रं नमस्यामी"त्यादिक्रमेण ध्यायेद्
इति परोक्तं तु पूर्वोदाहृतप्रमाणाचार्यपादश्रीसूक्तिविरुद्धम्
इत्य् उपेक्ष्यम् ।

एकपुण्ड्रपक्षः

विश्वास-प्रस्तुतिः

एकपुण्ड्रपक्षे पूर्ववत्सकलं कृत्वा,

उद्धृतासि वराहेण
कृष्णेन शतबाहुना ।
भूमिर् धेनुर् धरणी
लोकधारिणी ।
मृत्तिके हन मे पापं
यन् मया दुष्कृतं कृतम् ।
त्वया हतेन पापेन
जीवामि शरदश्शतम् ॥
मृत्तिके देहि मे पुष्टिं
त्वयि सर्वं प्रतिष्ठितम् ।

इति मन्त्रेण प्रणवेन वा

दामोदरं केशवं च
पुण्ड्रेषु न परित्यजेत्

इत्युक्तरीत्या ललाटे ककुदे च पुण्ड्रं धृत्वा,
श्रीचूर्णम् अपि धृत्वा
केशव-दामोदर-मन्त्राभ्यां केशवदामोदरौ ध्यायेत् ।

मूलम्

एकपुण्ड्रपक्षे पूर्ववत्सकलं कृत्वा,

उद्धृतासि वराहेण कृष्णेन शतबाहुना ।
भूमिर्धेनुर्धरणी लोकधारिणी ।
मृत्तिके हन मे पापं यन्मया दुष्कृतं कृतम् ।
त्वया हतेन पापेन जीवामि शरदश्शतम् ॥
मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् ।

इति मन्त्रेण प्रणवेन वा

दामोदरं केशवं च पुण्ड्रेषु न परित्यजेत्

इत्युक्तरीत्या ललाटे ककुदे च पुण्ड्रं धृत्वा, श्रीचूर्णमपि धृत्वा केशवदामोदरमन्त्राभ्यां केशवदामोदरौ ध्यायेत् ।

आह्निकार्थप्रकाशिका

एक-पुण्ड्र-धारण-क्रम् अमाह -
एकपुण्ड्रपक्ष इति । तद् उक्तम् -

अत्र च पुण्ड्र-सङ्ख्यानुरूप-मन्त्र-विशेष-निर्देश-दर्शनात् ।
ब्रह्मरात्रोक्तं प्रणवेन ललाटे धारणं,
ब्रह्माण्डोक्तं “उद्धृतासी"ति मन्त्रेण धारणं
चैक-सङ्ख्या-विषयं मन्तव्यम्

इति ।

“दामोदरं केशवं” चेत्यादि वासिष्ठ-संहिता-वचनस्योत्तरार्द्धं

यदि त्यजेत् तु मोहेन
तन् मुखं नावलोकयेत्

इति । एतेन

द्विपुण्ड्रधारणे चिन्त्यं
वचनं द्विजसत्तमैः

इतीतरोक्तम् अपास्तम् ।

[[80]]

द्वादशैक-चतुः-पुण्ड्रैः
भूषितास् स्युः सदा द्विजाः

इति पारमेश्वर-वचनस्याचार्यपादोक्तत्वात्

अष्टौ षट् चतुरः पुण्ड्रान्
अनाचारान् न धारयेत्

इतीतरोक्त-चतुः-पुण्ड्र-निराकरणम् अपास्तम् -
अष्ट-षट्-पुण्ड्राणां काम्यत्वाभिधानात्
परमैकान्त्य्-अधार्यत्वे ऽपि
चतुःपुण्ड्रेषु फलाश्रुतेः नित्यत्वेन निष्कामधार्यत्वात्।

गुरु-लघु-विकल्पस्य एकस्मिन्न् असम्भवात्,
गुरोर् एव मुख्यत्वं सिद्धम् ।
यत्र तु कर्म-विशेषाङ्गतया वा
फल-विशेषम् उद्दिश्य वा
न्यूनसंङ्ख्या-विधानं
तत्र विशेषवचन-बलात् न्यूनतयैव तत्-परिग्रहः ।
अन्यत्र त्व् अधिक-परिग्रह एव मुख्यः ।
द्रव्यालाभासामर्थ्यादि-दशासु
गत्य्-अभावान् न्यून-परिग्रहः,
अत्यन्ताकरणाद् यथा-शक्ति-करणस्य नित्येषु शास्त्रीयत्वात् +++(5)+++

इत्य्-आचार्यपाद-श्रीसूक्त्या
त्रयोदश-पुण्ड्रस्य मुख्यत्वावगमे ऽपि
द्वादश-पुण्ड्र-पक्ष एव मुमुक्षु-ग्राह्यः इत्य्-आचार्यपादोदाहृत-प्रमाण-सिद्ध इति
पूर्वम् एव प्रतिपादितम् ।
अतस्स एव पक्षश् शिष्टाचार-सिद्धः ग्राह्यः ।

अर्ध-चन्द्रा-कृतिः स्त्रीणाम्

ऊर्ध्वपुण्ड्रं तथा स्त्रीणाम्
अर्धचन्द्राकृतिर् भवेत् ।

इति वासिष्ठ-पराशर-संहिता-वचन-सत्त्वात्,
भगवत्-पादाकृत्येव ऊर्ध्व-पुण्ड्रं स्त्रीणां,
अन्यथा धारणे वचनं नास्तीतीतरोक्तम् अपास्तम् ।

नारिकेल-फलार्धं द्विनेत्र-युक्तं पुण्ड्र-धारण-जल-पात्रं,
बिल्व-फल-करण्डे श्रीचूर्ण-निक्षेपादिकं
तत्र तत्रोक्तम् अनुसन्धेयम् इत्यन्यत्र विस्तरः ।