१३ स्नानानुकल्पाः

विश्वास-प्रस्तुतिः

अप्रतिषिद्ध-दिनेष्व्
अशक्तश् चेद् उष्णोदकेन स्नायात्

मूलम्

अप्रतिषिद्धदिनेष्वशक्तश्चेदुष्णोदकेन स्नायात् ।

आह्निकार्थप्रकाशिका

अशक्तं प्रत्याह - अप्रतिषिद्धदिनेष्विति । तथा यमः -

आदित्य-किरणैः पूतं
पुनः पूतन् तु वह्निना ।
आम्नातम् आतुर-स्नाने
पुनः पूतं हृतोदकम् ॥
मृते जन्मनि सङ्क्रान्त्यां
श्राद्धे जन्मदिने तथा ।
अ-स्पृश्य-स्पर्शने
चैव न स्नायादुष्णवारिणा

षट्त्रिंशन्-मते -

आपः स्वभावतो मेध्याः
किं पुनर्-वह्नि-संयुताः ।
तेन सन्तः प्रशंसन्ति
स्नानम् उष्णेन वारिणा ॥
शीतास्व् अप्सु निनीयोष्णान्
मन्त्र-सम्भार-सम्भृतान् ।
गेहे प्रशस्यते स्नानं
तद्-धीनम् अफलं बहिः ॥

इत्यादीनि रत्नाकर-वचनान्य् अत्र भाव्यानि ।

विश्वास-प्रस्तुतिः

वारुण-स्नानाशक्तौ अ-शिरस्कं स्नायात् । तदशक्तौ कापिल-स्नानम् ।

आसीनः पुनरप्येवं
मन्त्रस्नानं समाचरेत् ।
जपन् पवित्रं मन्त्रं स्वं
प्राणायाम-समन्वितम् ॥ 68

असङ्ख्येयाशुचि-स्पर्श-
दूषितैर् बाह्य-वारिभिः ।
स्नातस्यापि भवेद् एतत्
स्नानम् अन्यस्य किं पुनः ॥

इति वङ्गिवंशेश्वरोक्तं मूलमन्त्र-प्राणायाम-जप-रूपं मन्त्रस्नानम्,

[[65]]

शन्न आपस्तु द्रुपदा 1
आपोहिष्ठाघमर्षणं

इत्युक्त-मन्त्रस्नानं वा

मुखं कर-द्वयोपेतं
पादौ कटितटा-वधि

इत्युक्त-पञ्चाङ्ग-स्नानं वा,
तत्-तच्-छास्त्रोक्तं पार्थिवं वायव्यं दिव्यञ् च स्नानं,

खस्थितं पुण्डरीकाक्षं
मन्त्रमूर्तिं हरिं स्मरेत्
अनन्तादित्य-सङ्काशं
वासुदेवं चतुर्-भुजम् ॥
शङ्ख-चक्र-गदा-पद्म-
धारिणं वन-मालिनम् ।
केयूर-हारिणं देवं
सुवर्ण-मकुटोज्ज्वलम् ॥
ध्वज-वज्राङ्कुशालक्ष्य
पादपद्मं सुनिर्मलम् ।
तत्-पादाङ्गुष्ठ-जां गङ्गां
निपतन्तीं स्वमूर्द्धनि ॥
चिन्तयेद् ब्रह्म-रन्ध्रेण
प्रविशन्तीं स्वकान्तनुम् ।
तया संक्षालयेत् सर्वं
बाह्यम् आभ्यन्तरं मलम् ॥
तत्-क्षणाद् विरजा मर्त्यो
जायते स्फटिकोपमः ।
इमं मानसिकं स्नानं
मन्त्राच् छतगुणं स्मृतम् ॥

इत्युक्त-मानसिक-स्नानं,

मूलम्

वारुणस्नानाशक्तौ अशिरस्कं स्नायात् । तदशक्तौ कापिल-स्नानम् ।

आसीनः पुनरप्येवं मन्त्रस्नानं प्राणायामसमन्वितम् ।
असङ्ख्येयाशुचिस्पर्शदूषितैर्बाह्यवारिभिः ।
स्नातस्यापि भवेदेतत् स्नानमन्यस्य किं पुनः ॥

इति वङ्गिवंशेश्वरोक्तं मूलमन्त्रप्राणायामजपरूपं मन्त्रस्नानं

[[65]]

शन्न आपस्तु द्रुपदा 1 आपोहिष्ठाघमर्षणं

इत्युक्तमन्त्रस्नानं वा

मुखं करद्वयोपेतं पादौ कटितटावधि

इत्युक्तपञ्चाङ्गस्नानं वा, तत्तच्छास्त्रोक्तं पार्थिवं वायव्यं दिव्यञ्च स्नानं,

खस्थितं पुण्डरीकाक्षं मन्त्रमूर्तिं हरिं स्मरेत् ।
अनन्तादित्यसङ्काशं वासुदेवं चतुर्भुजम् ॥
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ।
केयूरहारिणं देवं सुवर्णमकुटोज्ज्वलम् ॥
ध्वजवज्राङ्कुशालक्ष्य पादपद्मं सुनिर्मलम् ।
तत्पादाङ्गुष्ठजां गङ्गां निपतन्तीं स्वमूर्द्धनि ॥
चिन्तयेद्ब्रह्मरन्ध्रेण प्रविशन्तीं स्वकान्तनुम् ।
तया संक्षालयेत्सर्वं बाह्यमाभ्यन्तरं मलम् ॥
तत्क्षणाद्विरजामर्त्यो जायते स्फटिकोपमः ।
इमं मानसिकं स्नानं मन्त्राच्छतगुणं स्मृतम् ॥

इत्युक्तमानसिकस्नानं,

आह्निकार्थप्रकाशिका

तत्र शक्तस्य वारुणम् एव स्नानं, तद्-अशक्तस्य तु

न स्नानम् आचरेद् भुक्त्वा
नातुरो न महानिशि ।
न चान्यवस्त्रम् आच्छाद्य
नाविज्ञाते जलाशये ॥

इत्य्-आदिभिस्
तत्-प्रतिषेधात् स्नानान्तराणि भवन्ति ।
तेषु च वारुणानन्तरम् आकण्ठं स्नानं,
‘अशक्ताव् अशिरस्कं वे’ति स्मरणात्,
तत्राप्य् अशक्तस्य कापिलं,
तस्मिन्न् अप्य् शक्तस्य तत्-तच्-छास्त्र-चोदितेषु
पार्थिवाग्नेय-वायव्य-दिव्य-मान्त्र्य-मानसात्म-ध्यान-
पञ्चाङ्ग-पुरुषान्तर(स्पर्श)पूर्वकावगाहन-रूपेषु स्नानान्तरेषु
तत्-काल-सम्भावितं, तत्रापि स्व-शक्यं कुर्यात् ।
आह चैवं क्रतुः -

प्राक् छौचं स्नानम् आग्नेयं
ब्राह्मं वा स्नानम् इष्यते ।
वृद्धातुराणाम् उष्णाद्भिः
योगाङ्गैर् वा यमादिभिः ॥

इति । अत्र यथाधिकारम् इति विवक्षा ।
एवं चोक्तं पारमेश्वरे -

विना विविध-सम्पर्कैः
पञ्चाङ्गं स्नानम् आचरेत्
मुखं कर-द्वयोपेतं
पादौ कटितटावधि ।
स्त्रीसङ्गाद्य्-उपघाते तु
स्नानं कुर्याद् यथाविधि ॥

इति शीतोदक-स्नानासमर्थस्य उष्णोदकेन स्नानं
तच् चानुपहतस्याप्रतिषिद्धेषु दिवसेष्व् एव ।

एवं शक्त्य्-आद्य्-अनुगुणं स्नानं कुर्यात् ।
बलानुरूपं च स्नानं प्रत्येकं समुदितं वा सञ्जगृहुः

दिव्याप्य् अमान्त्र-वायव्य-
भौम-तैजस-मानसैः ।
एतैस् समस्तैर् व्यस्तैर् वा
कृत-शुद्धिर् यथाबलम् ॥

इति ।

[[64]]

अन्यथा त्व् अकर्मण्यो भवति,
‘स्नानमूलाः क्रियास्सर्वाः इति विधानात्’ इति ।

कापिलं स्नानं -

नाभेर् अधः प्रविश्याप्सु
कटिं प्रक्षाल्य मृज्जलैः ।
आर्द्रेण वाससा चाङ्ग-
मार्जनं कापिलं स्मृतम् ॥

इत्य् उक्तम् । स्नान-विषय-प्रमाणादिकं सर्वं रत्नाकरादाव् अनुसन्धेयम् ।

अथ गौण-स्नानान्य् आह –
वारुण-स्नानाशक्ताव् इत्य्-आदिना ।
योग-याज्ञवल्क्यः -

मान्त्रं भौमं तथाग्नेयं
वायव्यं दिव्यम् एव च ।
वारुणं मानसञ् चेति
सप्त स्नानान्य् अनुक्रमात् ॥
आपोहिष्ठादिभिर् मान्त्रं
मृदालम्भस् तु पार्थिवम्
आग्नेयं भस्मना स्नानं
वायव्यं गो-रजः स्मृतम् ॥
यत् तु सातप-वर्षेण
तत् स्नानं दिव्यम् उच्यते ।
वारुणं चावगाहस् तु
मानसं विष्णुचिन्तनम् ॥

इत्य्-आदि ।
रत्नाकरोक्त-स्नानेषु
वारुण-स्नानाशक्तस्याशिरस्क-स्नानं
तच् च पूर्वोदाहृताचार्य-पाद-श्री-सूक्ति-सिद्धम् ।

[[66]]

कापिलम् अपि प्रदर्शितं पाद्मे -

स्नानमूलाः क्रियास् सर्वाः
स्नानं च बहुधा स्मृतम् ।
वारुणं दिव्यम् आग्नेयं
वायव्यं पार्थिवन् तथा ॥
मान्त्रं मानसम् इत्य् एवं
स्नानं सप्त-विधं भवेत् ।

अवगाहनम् अप्स्व् अन्तर्
वारुणं स्नानम् इष्यते ॥
सहातपेन वर्षेण
स्नानं दिव्यम् अनन्तरम् ।

समिधां दीपितानां च
गोमयस्य हुतस्य च ॥
सितेन भस्मनाङ्गेषु
ललाटादिषु च क्रमात् ।
यद् ऊर्ध्व-पुण्ड्र-करणं
मन्त्रोच्चारण-पूर्वकम् ॥
तद् आग्नेयं भवेत् स्नानं

शोधनं परमं स्मृतम् ।
गच्छत्सु गोषु पादोत्थैः
रजोभिर् भूमि-सम्भवैः ॥
स्पर्शनं वपुषि स्नानं
वायव्यं तद् उदाहृतम् ।

प्रशस्ते पर्वताग्रादौ
जातया श्वेत-मृत्स्नया ॥
उच्चार्य केशवादीनि
नामान्य् अङ्गे यथाक्रमम् ।
ललाटादौ यद् विधानम्
ऊर्ध्वपुण्ड्रस्य तद् भवेत् ॥
पार्थिवं स्नानम्, अब्-लिङ्गैर्
मन्त्रैः विप्रकरेरितैः ।
अम्भोभिः प्रोक्षणं ब्रह्मन्
तन् मान्त्रं स्नानमिष्यते ॥

इति स्नानानि प्रदर्शितानि ।

विश्वास-प्रस्तुतिः

इत्य् एतानि यथा-सम्भवं कुर्यात्

मूलम्

इत्येतानि यथासम्भवं कुर्यात् ।

आह्निकार्थप्रकाशिका

इत्य् एतानि यथासम्भवं कुर्यादिति ।

तत्-तच्-छास्त्रेषु चोदितेषु
पार्थिवाग्नेय-वायव्य-दिव्य-मान्त्र-मानस

इत्य्-आदिना भगवच्-छास्त्र–धर्म-शास्त्रोक्त–गौण-स्नानानाम्
आचार्य-पादानुगृहीतत्वात्

पाद्मोक्तान्य् एव गौण-स्नानानि
परमैकान्त्य्-अनुष्ठेयानि,
न धर्मशास्त्रोक्तानि

+इति अन्योक्तम् अनादरणीयम् ।

[[67]]


  1. भुवि मूर्ध्नि तथाकाशे
    मूर्ध्न्य् आकाशे तथा भुवि ।
    आकाशे भुवि मूर्ध्नि स्याद्
    आपोहिष्ठादि-मन्त्रतः ॥ ↩︎ ↩︎