विश्वास-प्रस्तुतिः
अथ धर्मशास्त्रोक्त-स्नान-विधिः प्रसङ्गाल् लिख्यते।
पाद-प्रक्षालनादि-सङ्कल्पान्तं पूर्ववत् कृत्वा
समस्त-जगद्-आधार
शङ्ख-चक्र-गदाधर ।
देहि देव मम् आनुज्ञां
युष्मत्-तीर्थ-निषेवणे ॥रघु-वीर-पद-न्यास-
पवित्री-कृत-पांसवे ।
दश-कण्ठ-शिरश्-छेद-
हेतवे सेतवे नमः ॥
इत्य्-आदिना भगवन्तम् अनुज्ञाप्य
जलं प्रविश्य त्रिर् निमज्ज्य,
मूलम्
अथ धर्मशास्त्रोक्तस्नानविधिः प्रसङ्गाल्लिख्यते, पादप्रक्षालनादिसङ्कल्पान्तं पूर्ववत्कृत्वा
समस्तजगदाधार शङ्खचक्रगदाधर ।
देहि देव ममानुज्ञां युष्मत्तीर्थनिषेवणे ॥
रघुवीरपदन्यासपवित्रीकृतपांसवे ।
दशकण्ठशिरश्छेदहेतवे सेतवे नमः ॥
इत्यादिना भगवन्तमनुज्ञाप्य जलं प्रविश्य त्रिर्निमज्ज्य,
विश्वास-प्रस्तुतिः
इति वरुणसूक्तं जपित्वा ।
मूलम्
इति वरुणसूक्तं जपित्वा ।
विश्वास-प्रस्तुतिः
इति द्वाभ्यामवगाह्य
मूलम्
इति द्वाभ्यामवगाह्य
गोपालदेशिकोक्त-विनियोगः
इति जलस्थामेध्यांशं दक्षिणतो निरस्य,
विश्वास-प्रस्तुतिः ...{Loading}...
यद॒पाङ् क्रू॒रय्ँ,
यद् अ॑मे॒द्ध्यय्ँ
यद् अ॑शा॒न्तन्,
तद् अप॑गच्छतात् ।
गोपालदेशिकोक्त-विनियोगः
इत्यृग्भ्यां तोयं त्रिर् आलोड्य,
हस्तायाम-प्रमाणं चतुर्-अश्रं
तीर्थे पीठम् ओम् इति विलिख्य,
विश्वास-प्रस्तुतिः ...{Loading}...
अ॒त्या॒श॒नाद् अ॑तीपा॒ना॒द्
य॒च् च उ॒ग्रात् प्र॑ति॒ग्रहा᳚त् ।
तन् मे॒ वरु॑णो रा॒जा॒
पा॒णिना᳚ ह्य् अव॒मर्श॑तु ।
विश्वास-प्रस्तुतिः ...{Loading}...
सो॑ऽहम् अ॑पा॒पो वि॒रजो॒
निर्मु॒क्तो मु॑क्त-कि॒ल्बिषः ।
नाक॑स्य पृ॒ष्ठम् आरु॑ह्य॒
गच्छे॒द् ब्रह्म॑-सलो॒कताम् ।
[[60]]
विश्वास-प्रस्तुतिः
नन्दिनी नलिनी सीता
मालती च मलापहा ।
विष्णुपादाब्जसम्भूता
गङ्गा त्रिपथगामिनी ।
भागीरथी भोगवती
जाह्नवी त्रिदशेश्वरी ॥
मूलम्
नन्दिनी नलिनी सीता
मालती च मलापहा ।
विष्णुपादाब्जसम्भूता
गङ्गा त्रिपथगामिनी ।
भागीरथी भोगवती
जाह्नवी त्रिदशेश्वरी ॥
गोपालदेशिकोक्त-विनियोगः
इति द्वादशगङ्गानामानि सङ्कीर्त्य
विश्वास-प्रस्तुतिः
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेऽस्मिन्सन्निधिं कुरु ॥
इति सान्निध्यं प्रार्थ्य,
मूलम्
गङ्गे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिन्धुकावेरि जलेऽस्मिन्सन्निधिं कुरु ॥
इति सान्निध्यं प्रार्थ्य,
गोपालदेशिकोक्त-विनियोगः
इति पुण्यतीर्थानि संस्मृत्य
विश्वास-प्रस्तुतिः ...{Loading}...
इ॒मं मे॑ गङ्गे यमुने सरस्वति॒
शुतु॑द्रि॒ स्तोमँ॑ सचता॒ परु॒ष्णिया ।
अ॒सि॒क्नि॒या म॑रुद्-वृधे वि॒तस्त॒या
ऽऽर्जी॑कीये श्रुणु॒ह्या सु॒षोम॑या ।
विश्वास-प्रस्तुतिः
[[61]]
पुष्कराद्यानि तीर्थानि
गङ्गाद्यास् सरितस् तथा ।
आगच्छन्तु महाभागाः
स्नानकाले सदा मम ॥
इत्युक्त्वा,
मूलम्
[[61]]
पुष्कराद्यानि तीर्थानि
गङ्गाद्यास् सरितस् तथा ।
आगच्छन्तु महाभागाः
स्नानकाले सदा मम ॥
इत्युक्त्वा,
विश्वास-प्रस्तुतिः
इति निमज्ज्य स्नात्वा,
मूलम्
इति निमज्ज्य स्नात्वा,
विश्वास-प्रस्तुतिः
इति तिसृभिः,
मूलम्
इति तिसृभिः,
विश्वास-प्रस्तुतिः
इति चतसृभिः,
पवमानानुवाकेन च प्रोक्ष्य,
मूलम्
इति चतसृभिः,
पवमानानुवाकेन च प्रोक्ष्य,
विश्वास-प्रस्तुतिः
अघमर्षणसूक्तस्याघमर्षण ऋषिः, अनुष्टुप्छन्दः, भाववृत्तो देवता,
अघमर्षणजपे विनियोगः, तीर्थे निमग्नः,
मूलम्
अघमर्षणसूक्तस्याघमर्षण ऋषिः, अनुष्टुप्छन्दः, भाववृत्तो देवता,
अघमर्षणजपे विनियोगः, तीर्थे निमग्नः,
विश्वास-प्रस्तुतिः
इति षड्वाक्यं द्वादशाष्टौ त्रिर्वा यथाशक्त्य् आवर्त्य
भगवन्तं नारायणं ध्यात्वा
तत्-पादाम्बुजान् निपतन्तीं स्वमूर्ध्नि गङ्गां ध्यात्वा,
तया बाह्यम् आन्तरञ्च मलं संक्षाल्य,
[[62]]
मूलम्
इति षड्वाक्यं द्वादशाष्टौ त्रिर्वा यथाशक्त्यावर्त्य भगवन्तं नारायणं ध्यात्वा तत्पादाम्बुजान्निपतन्तीं स्वमूर्ध्नि गङ्गां ध्यात्वा, तया बाह्यमान्तरञ्च मलं संक्षाल्य,
[[62]]
विश्वास-प्रस्तुतिः
यथाविधि स्नानाङ्गं देव-र्षि-पितृ-तर्पणं कृत्वा,
आसीनो द्विर् आचम्य,
निवीती उपरितन-वस्त्रं चतुर्-गुणीकृत्य,
ये के चास्मत्कुले जाता
अपुत्रा गोत्रजा मृताः ।
ते गृह्णन्तु मया दत्तं
वस्त्र-निष्पीडनोदकम् ॥
इति मन्त्रेणापसव्यं स्थले निपीड्य
वस्त्रं मणिबन्धे निधाय,
द्विराचम्य वस्त्र-खण्डाभ्यां शिरः अङ्गञ् च प्रत्येकं सम्मृज्य,
पूर्ववद् वस्त्रपरिधानादि कृत्वा,
द्विर् आचम्य,
स्नान-वस्त्रं चतुर्-गुणी-कृत्य निवीती अमन्त्रकं,
उच्छिष्ट-भागिनो दासा
ये मृतास् ते त्व् अमन्त्रकम् ।
तृप्यन्तु तरुतां प्राप्ताः
मम सम्बन्धिनो मृताः ॥
इति मन्त्रेण वा निष्पीड्य
मणि-बन्धे निधाय
उपवीती द्विर् आचामेत् ।
मूलम्
यथाविधि स्नानाङ्गं देवर्षिपितृतर्पणं कृत्वा, आसीनो द्विराचम्य, निवीती उपरितनवस्त्रं चतुर्गुणीकृत्य,
ये के चास्मत्कुले जाता अपुत्रा गोत्रजा मृताः ।
ते गृह्णन्तु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥
इति मन्त्रेणापसव्यं स्थले निपीड्य वस्त्रं मणिबन्धे निधाय, द्विराचम्य वस्त्रखण्डाभ्यां शिरः अङ्गञ्च प्रत्येकं सम्मृज्य, पूर्ववद्वस्त्रपरिधानादि कृत्वा, द्विराचम्य, स्नानवस्त्रं चतुर्गुणीकृत्य निवीती अमन्त्रकं,
उच्छिष्टभागिनो दासा ये मृतास्तेत्वमन्त्रकम् ।
तृप्यन्तु तरुतां प्राप्ताः मम सम्बन्धिनो मृताः ॥
इति मन्त्रेण वा निष्पीड्य मणिबन्धे निधाय उपवीती द्विराचामेत् ।
[[63]]
आह्निकार्थप्रकाशिका
अथ धर्मशास्त्रोक्तस्नानविधिः प्रसङ्गाल्लिख्यते इति ।
आचार्य-पादैः स्मृति-वचन-प्रदर्शन-पूर्वकं स्नान-भेद-प्रदर्शनात्
धर्म-शास्त्र-विहित-स्नानानुष्ठान-पारम्पर्यवद्भिस् तद्-अनुष्ठानाय
तद्-विधिर् लिख्यत इति भावः ।
तद् उक्तम् –
तत्र तत्र वर्णभेदेन स्नाननियमं स्मरन्ति पितामहादयः
अपोऽवगाहनं स्नानं
विहितं सार्ववर्णिकम् ।
मन्त्रवत् प्रोक्षणं चापि
द्विजातीनां विशिष्यते
इति ।