११ वस्त्रधरणादि

[[54]]

विश्वास-प्रस्तुतिः

वस्त्र-खण्ड-द्वयेन प्रत्येकं शिरोऽङ्गं च संमृज्य
व्याहृतिभिः

मूलम्

वस्त्र-खण्ड-द्वयेन प्रत्येकं शिरोऽङ्गं च संमृज्य
व्याहृतिभिः

विश्वास-प्रस्तुतिः

इति मन्त्रेण शुष्कं वासः प्रोक्ष्य,

दे॒वस्य॑ त्वा सवि॒तुᳶ प्र॑स॒वे᳚+++(=अनुज्ञायां)+++, ऽश्विनो᳚र् बा॒हुभ्या᳚म्, पू॒ष्णो हस्ता᳚भ्या॒म् आद॑दे

इत्यादाय,

उदु॒ त्यं जा॒तवे॑दसं
दे॒वं व॑हन्ति के॒तवः॑+++(→रश्मयः)+++ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥

इत्यादित्याय दर्शयित्वा,

अव॑धूतँ॒ रख्षोऽव॑धूता॒ अरा॑त॒यः ।

इत्यवधूय,

मूलम्

इति मन्त्रेण शुष्कं वासः प्रोक्ष्य,

देवस्य त्वा सवितुः व्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामादद

इत्यादाय,

उदुत्यं जातवेदसं देवं वहन्ति केतवः दृशे विश्वाय सूर्यम्

इत्यादित्याय दर्शयित्वा,

अवधूतँरक्षोऽवधूता अरातयः

इत्यवधूय,

विश्वास-प्रस्तुतिः ...{Loading}...

आ॒वह॑न्ती वितन्वा॒ना,,
कु॒र्वा॒णा चीर॑म् आ॒त्मनः॑ ।
वासाँ॑सि॒ मम॒ गाव॑श् च,,
अ॒न्न॒पा॒ने च॑ सर्व॒दा ।
ततो॑ मे॒ श्रिय॒म् आव॑ह,,
लो॒म॒शां प॒शुभि॑स् स॒ह
स्वाहा᳚ ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

आ॒वह॑न्ती वितन्वा॒ना,,
कु॒र्वा॒णा चीर॑म् आ॒त्मनः॑ ।
वासाँ॑सि॒ मम॒ गाव॑श् च,,
अ॒न्न॒पा॒ने च॑ सर्व॒दा ।
ततो॑ मे॒ श्रिय॒म् आव॑ह,,
लो॒म॒शां प॒शुभि॑स् स॒ह
स्वाहा᳚ ।

रङ्गरामानुजः - टीका

विद्यौपयिक-होम-साधन-मन्त्राः उच्यन्ते - आवहन्ती इत्यादिः ।
लक्ष्मी-प्रार्थना-मन्त्रोऽयम् ।
आवहन्ती - उत्पादयन्ती, वितन्वाना वर्धयन्ती, यतस्त्वम्,
ततो मे चीरम् इतराणि वासांसि गाः अन्नपाने च सर्वदा कुर्वाणा सती,
सा हि श्रीरमृता सताम् (तै.ब्रा.१-२-१) इति त्रयी-लक्षणां श्रियम्, लोमशाम् - बहुलां यज्ञाद्यौपयिकपश्वादिद्रव्यैस्सह आवह - उत्पादय ॥ होमसाधनत्वात् मन्त्रस्य स्वाहान्तत्वम् । आ मा यन्तु इति । ब्रह्मविद्यायोग्याः ब्रह्मचर्यव्रतसम्पन्नाः शिष्याः ‘समागच्छन्तु इत्यनुकूलशिष्यप्रार्थनामन्त्रः ।

विश्वास-प्रस्तुतिः

इत्य् उच्चार्य,
उपवीतं निवीतं कर्णे निधाय
कौपीनं धृत्वा,
जङ्घे मृज्-जलाभ्यां संशोध्य,
हस्तौ प्रक्षाल्य
वस्त्रम् उत्तरीयञ् च धृत्वा,
मन्त्रस्नानं कुर्यात्
स्नानवस्त्रम् अनिष्पीड्य, स्वपार्श्वे निक्षिपेत्, न पुरतः ।

मूलम्

इत्युच्चार्य, उपवीतं निवीतं कर्णे निधाय कौपीनं धृत्वा, जङ्घे मृज्जलाभ्यां संशोध्य, हस्तौ प्रक्षाल्य वस्त्रमुत्तरीयञ्च धृत्वा, मन्त्रस्नानं कुर्यात् । स्नानवस्त्रमनिष्पीड्य, स्वपार्श्वे निक्षिपेत्, न पुरतः ।

आह्निकार्थप्रकाशिका

स्नानानन्तरं शिरस्-सम्मार्जन-वस्त्र-ग्रहणादिकम् आह - वस्त्रखण्डद्वयेनेत्यादिना । शाण्डिल्यः

चतुर्निमज्ज्य विधिवद्
आचम्यादाय वाससः ।
खण्डद्वयं शिरोऽङ्गं च
प्रत्येकं परिमार्जयेत्
अन्तर् आच्छाद्य कौपीनं
वाससी परिधाय च ।
उत्तरीयं सदा दध्यात्
तद्विना नाचरेत् क्रियाः ॥
शुचीवोहव्यामरुत
इत्युक्त्वा शुद्धमम्बरम् ।
सम्प्रोक्ष्य देवस्यत्वेति
व्याहृत्या ऽऽदाय चाम्बरम् ॥
उदुत्यं जातवेदसम्
इत्युक्त्वा दर्शयेत् ततः ।
आवहन्तीत्य् उदाहृत्य
परिधाय द्विराचमेत् ॥

जाबालिः -

स्नात्वा निरस्य वस्त्रन्तु
जङ्घे शोध्ये मृदंभसा ।
अपवित्रीकृते ते तु
कौपीनास्राववारिणा ॥

योगयाज्ञवल्क्यः -

स्नात्वैवं वाससी धौते
अच्छिन्ने परिधापयेत् ।
प्रक्षाल्योरू मृद्-अद्भिश्च
हस्तौ प्रक्षालयेत्ततः ॥

“अच्छिन्ने” इति शक्तिविषयम् ।

[[55]]

अत्रापस्तम्बः -

अप्रतिकृष्टं च शक्तिविषये ।

वसिष्ठः -

स्नानशाट्यां च दातव्या
मृदस् तिस्रो विशुद्धये
उत्तरीयं च निष्पीड्य
तां च शेषं समाचरेत् ॥

तां - स्नानशाटीं
शेषं = सन्ध्यावन्दनादिकं कर्म, इति रत्नाकरस्थ-वचनानि, व्यासः -

नोत्तरीयम् अधः कुर्यान्
नोपर्य् आधस्त्यम् अम्बरम् ।
नान्तर्-वासो विना जातु
निवसेद् वसनं बुधः ॥

भृगुः -

न रक्तम् उल्बणं वासो
न नीलं च प्रशस्यते ।
दशाहीनं जलार्द्रं च
वर्जयेद् अम्बरं बुधः ॥

इत्य् आह्निककाण्ड-स्थ-वचन-द्वयं चात्र भाव्यानि ।

यत् तु कण्ठभूषणे -

अत ऊर्ध्वं स्नातकस्यान्तः परिधानम् एव कर्तव्यं,
न कौपीनं,
ब्रह्मचारिणो नान्तर्वासः - अस्नातकत्वात् तस्य कौपीनम् एव,

स्वोक्तं वासश् च कौपीनं धारयेत् प्रथमाश्रमी

इति भारद्वाजस्मृतेर् इति गृहि-कौपीन-निषेध उक्तः, सोऽनुपपन्नः -
गृहि-कौपीनधारणस्य धर्म-शास्त्र–भगवच्-छास्त्र-शाण्डिल्य–वृद्ध-हारीत-स्मृति-विहितत्वेनावश्य-धार्यत्वात् ।

वासिष्ठ-संहिता-प्रथम-द्वितीयाध्याययोः –

यज्ञोपवीतं कर्णे तु
दक्षिणे सन्निधाय च ।
कटिसूत्रं सकौपीनम्
उत्तरीयं यथाक्रमम् ॥
अन्तरीयं+++(=पादवेष्टनं)+++ बहिर्-वस्त्रं+++(=कम्बलादि)+++
धृत्वाचम्य द्विरन्ततः ।
कौपीनं सोत्तरीयं च
कटि-सूत्र-समन्वितम् ॥
धृत्वा वस्त्र-द्वयं शुद्धम्
आचम्य विधिवत् सुधीः ।

इति ।
वासिष्ठ-संहिता-द्वितीयाध्याये
उत्तरतो वैश्वदेव-पञ्चमहा-यज्ञ-विधानेन
गृह-स्थ-विषयत्वं सिद्धम् ।
शेष-संहितायाम् –

कौपीनं कटि-सूत्रञ् च
वस्त्र-युग्मं च धारयेत् ।

इदं प्रभाव-व्यवस्थाधिकारे सार-प्रकाशिकोदाहृतम् ।
पराशर-संहिता-प्रथमाध्याये

कौपीनं कटिसूत्रं च
सयोक्त्रं चोत्तरीयकम् ।

च शब्दः अन्तरीय-समुच्चायकः,
पूर्वोदाहृत-वचनैकार्थ्यात् ।

[[56]]

योक्तृ-पदं वस्त्रोपरि-बन्धन-सूत्र-परम् ।
अन्तर् आच्छाद्येति शाण्डिल्य-स्मृति-वचनं पूर्वम् उदाहृतम् ।
वृद्ध-हारीत-स्मृतौ -

धौत-वस्त्रं चोत्तरीयं
स-कौपीनं धरेत् सितम् ।

इति ।

न चैतद् वचन-जातं ब्रह्मचारि-विषयं,
तस्यान्तर्-वस्त्राभावस्य कण्ठ-भूषणोक्तेः,
अत्रान्तर्-वस्त्र-विधानेन गृहि-विषयत्व-ध्रौव्यात्+++(←ध्रुव)+++ ।
न च शाण्डिल्य-वचन-स्थ-कौपीन-शब्दः

नाच्छादयति कौपीनम्

इत्यत्रेव गुह्यपरः, न वस्त्र-खण्डपर इति वाच्यम्; अन्तश्शब्द वैय्यर्थ्यात्,

आच्छाद्य

इति क्त्वा-प्रत्ययेन छादन-क्रियायां
वस्त्र-द्वय-परिधान-पूर्व-कालिकत्व-प्रतीत्या
प्रच्छादन-क्रिया-करणतया
पूर्व-प्रदर्शित-वचन-विहित-वस्त्र-खण्ड-रूप-कौपीनस्यैवाभ्युपेयत्वात्,

परिधाय च

इति च-शब्दस्याच्छादन-क्रिया-समुच्चायकतया
वस्त्र-द्वय-परिधानस्य, गुह्य-प्रच्छादन-रूपत्वासम्भवात् ।

न च “कौपीनम् आच्छाद्ये"त्य् अनुपपन्नम्।
कौपीनेनान्तर् आच्छाद्येति प्रयोक्तव्याद् इति वाच्यम्;

वस आच्छादने

इति वस-धातु-समानार्थकस्य आङ्-पूर्वक-छदि-धातोस् सकर्मकत्वेन

वसानः कौपीनम्

इति भवभूति-प्रयोगवत् द्वितीयोपपत्तेः, तत्रैव

वाससी परिधाय च

इति द्वितीयाप्रयोगाच्च ।

आ-पाद-चूडं
भगवच्-छास्त्र-विहित-पाञ्चकालिक-भगवद्-धर्म-प्रतिपादक-
शाण्डिल्य-स्मृति-वचनस्य तच्-छास्त्रानुगुण-पूर्वोक्तार्थ-परत्वस्यैवोचितत्वात् ।

सार्वभौम-जयन्ती-निर्णये पाञ्चरात्र-प्राबल्यं प्रतिपाद्य

सामान्योक्तम् अविरुद्धं
सर्वैर्ग्राह्यम् इति निष्कर्ष

इत्य् उक्तम् इति पाञ्चरात्र-विहितस्य ग्राह्यत्वम् अङ्गीकृतम् ।
मुमुक्षु-दर्पण एक-पञ्चाशच्-छ्लोक-व्याख्याने

यत् तु संवर्तवचनं

अकच्छः पुच्छ-कच्छो वा
द्विकच्छः कटिवेष्टितः ।
कौपीन-धारकश् चैव
नग्नः पञ्चविधः स्मृतः ॥

इत्यत्र कौपीन-निन्दा तन्-मात्र-धारण-परा,
यतो वस्त्रद्वयेन सह तद्धारणं विधीयते ।

[[57]]

भरद्वाजसंहितायाम् –

तामसं त्व् एक-वस्त्रं तु
राजसं वसनद्वयम् ।
सकौपीनं वस्त्र-युग्मं
सात्त्विकं मुनिभिः स्मृतम् ॥

इति।

कण्ठभूषणे गृहि-कौपीन-निषेध-प्रमाणं नोदाहृतम् इति,
पूर्वोक्त-प्रमाणादर्शने ऽपि होलकाधिकरण-न्यायेन
गृहि-कौपीन-धारणस्य शिष्टाचार-मूलत्वेन त्याज्यत्वं न सम्भवति ।+++(4)+++

दशाहीनन् तु कौपीनम्
अन्तरा धारयेत् गृही

इति इतराह्निके ऽप्य् उक्तं वैकुण्ठ-दीक्षितीये । अत्र नारदः -

कटिसूत्रन्तु कौपीनं
शुद्धवस्त्रद्वयं तथा ।
कुण्डले चाङ्गुलीयादि
गृहस्थस्य विशिष्यते ॥

संग्रहे -

अन्तर्-वासस् तु कौपीनम्
उपवीतं पवित्रकम् ।
शिखा-छिद्रोर्ध्वपुण्ड्रं च
शुद्ध-वैदिक-लक्षणम् ॥
स-कौपीनं धौत-वस्त्र-
द्वयं च कटि-बन्धनम् ।
व्यतिस्यूतं विधृत्यैव
कर्म कुर्वीत वैष्णवः ॥
त्रिभिर् वा पञ्चभिर् वापि
कार्पासैर् एव तन्तुभिः ।
कटिसूत्रं व्यतिस्यूतं
धारयेद् वैष्णवोत्तमः ॥
कटिसूत्रं व्यतिस्यूतं
धारयेन् नान्यथा कृतम् ।

अन्यथा कृतम् अव्यतिस्यूतं न धारयेद् इत्य् अर्थः ।
भरद्वाज-न्यासोपदेशे -

अर्क-सूत्रैर् व्यतिस्यूतं
धारयेत् कटिबन्धनम् ।
कौपीन-वस्त्र-युग्मञ् च
यथार्हम् इतराणि च ॥

इति ।

कश्यपस्मृतौ -

उपवीतं निवीतं तु
कृत्वा कर्णावलम्बितम् ।
उत्तरीयेण वस्त्रेण
शिरस् संवेष्ट्य मौनवान् ॥
प्राङ्मुखोदङ्मुखो वापि
वस्त्रं संधारयेद् द्विजः ।
कटिसूत्रं च कौपीनम्
अन्तरीयं क्रमेण तु ॥
उत्तरीयं बहिर्वस्त्रं
द्विर् आचामेत् ततो बुधः ।

कौपीनस्य प्रमाणं हि
वक्ष्यते मुनिसत्तमाः ॥
बाहुमात्र-प्रमाणं हि
दीर्घं कौपीनम् उच्यते
द्वादशाङ्गुलि-विस्तारं
शुभ्रं मलिन-वर्जितम् ॥

एकवस्त्रं तामसं स्यात्
राजसं वसनद्वयम् ।
कौपीन-सहितं तत् तु
सात्त्विकं मुनिभिः स्मृतम्
कौपीन-रहितो नग्नो
नग्नो रक्तपटस् तथा ।

इति ।

[[58]]

रत्नाकरे कौपीनविधायकं

अन्तर् आच्छाद्य कौपीनम्

इति शाण्डिल्यवचनम् उदाहृतम् । कण्ठभूषणे तद्-विरुद्ध-कथनम् ।

तत्रैव

गर्भाष्टमेऽष्टमे वाब्दे

इति स्मृति-विषये

अष्टवर्षं ब्राह्मणम्

इति श्रुति-बलात्
विज्ञानेश्वरोक्त-तुल्य-विकल्पो ऽङ्गीकृतः,
शतक-व्याख्या-दशनिर्णययोः, गर्भाष्टमस्य उपनयन-मुख्य-कालत्वम् अभिहितम् ।

कण्ठभूषणे -

अत्र पत्न्याः पाद-ग्रहणस्यायुक्तत्वात्
वरस् तत्-पाणिम् अमुञ्चन्न् एव
पादम् उद्धृत्य निक्षिपेत्य् एव
वधूं प्रक्रमयतीत्युक्तं,

நாராயணன் நம்பி செம்மையுடைய திருக்கையால் தாள் பற்றி அம்மிமிதிக்கக் கனாக் கண்டேன்

इति गोदा श्रीसूक्ति-विरुद्धम् ।

पाणिं गृह्णीष्व पाणिना

इति सीता-विवाह-प्रकरण-श्लोक-व्याख्यायाम् अपि तथैवोक्तम् ।
एवं शतक-व्याख्यादौ
पूर्वोत्तर-विरोधानुक्ति-दुरुक्ति-निरर्थकोक्त्य्-आदि-दोषाः
बहुधा सन्ति ।
सार्वभौम-कृताः ग्रन्थाः अ-शोधिता एव प्रचारम् उपगताः ।+++(5)+++
ततस्तत्र तत्र दोषास् सन्तीति प्रामाणिकानां महतां प्रवादः ।

पर-कल्पित-तटाकोपजीवनवत्
न हि तटाक-स्थः पङ्को ऽप्य्
अ-पङ्किल-बुद्धिभिः तद्-अवगाहिभिर् उपजीव्यत

इति श्री-न्याय-परिशुद्धि-श्रीसूक्त्य्-अनुसारेण
प्रमाण-न्याय-शिष्टाचाराविरुद्ध-सार्वभौम-ग्रान्थार्थ एव ग्राह्यः
न त्वन्यः ।
अतः गृहस्थ-कौपीन-निषेध-कथनम् उपेक्ष्यम् एवेति ।

[[59]]

विश्वास-प्रस्तुतिः

ततो वक्ष्यमाण-क्रमेण +ऊर्ध्व-पुण्ड्रादि कुर्यात् ।

मूलम्

ततो वक्ष्यमाणक्रमेण ऊर्ध्वपुण्ड्रादि कुर्यात् ।

आह्निकार्थप्रकाशिका

अथ धर्माशास्त्रोक्त-स्नानानि वक्तुम्
ऊर्ध्व-पुण्ड्र-धारणानां वक्ष्यमाणत्वम् आह ततो वक्ष्यमाणेत्यादिना ।