१० स्नानम्

विश्वास-प्रस्तुतिः

भगवद्-भागवताधिष्ठितं तीर्थं गत्वा,
तीरं संशोध्य,
मृद्-वारिभिस् सुप्रक्षालित-पाणिपादो
द्विर् आचम्य,
त्रिः प्राणानायम्य,
गुरुपरम्परा-स्मरण-पूर्वकं

मूलम्

भगवद्भागवताधिष्ठितं तीर्थं गत्वा, तीरं संशोध्य, मृद्वारिभिस्सुप्रक्षालितपाणिपादो द्विराचम्य, त्रिः प्राणानायम्य, गुरुपरम्परास्मरणपूर्वकं

[[50]]

आह्निकार्थप्रकाशिका

ततस्तीर्थागमनस्नानादिकमाह - भगवद्भागवताधिष्ठितं तीर्थं गत्वेत्यादि । तदुक्तम् –

तत्र यत् शुद्धेः पूर्वं जलाशयगमनम् उक्तम्,
तत्र भागवतं भागवताश्रितं च तीर्थं विवक्षितम्, यथाहुः –

तीर्थं भागवतं शुद्धम् उपगच्छेन् मनोहरम्

इति ।

ततस्तीर्थं समासाद्य शुद्धं भागवताश्रितम्

इति । स्मरन्ति च

जलं शुद्धमशुद्धं वा विष्णुवास्तुसमीपतः (गं) ।
विष्णुगङ्गासमं तीर्थं महापातकनाशनम् ॥

इत्यादि

यत्र भागवताः स्नानं कुर्वन्ति विमलाशयाः ।
तत्तीर्थमधिकं विद्धि सर्वपापप्रणाशनम् ॥

इति ।

विश्वास-प्रस्तुतिः

स्वशेषभूतेन मया
स्वीयैस् सर्व-परिच्छेदैः ।
विधातुं प्रीतमात्मानं
देवः प्रक्रमते स्वयम् ॥ (१२)

मूलम्

स्वशेषभूतेन मया स्वीयैस्सर्वपरिच्छेदैः ।
विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् ॥ (१२)

विश्वास-प्रस्तुतिः

हरिः, ओं, तत्,
श्रीगोविन्द

+इत्यादि

अस्यां शुभतिथौ
श्रीभगवदाज्ञया भगवत्-प्रीत्यर्थं कर्मण्यता-सिद्ध्यर्थम्

मूलम्

हरिः ओं तत् श्रीगोविन्देत्यादि अस्यां शुभतिथौ श्रीभगवदाज्ञया भगवत्प्रीत्यर्थं कर्मण्यतासिद्ध्यर्थम्

विश्वास-प्रस्तुतिः

अस्मिन् तीर्थे, अस्यां नद्यां वा
प्रातः स्नानं

करिष्य इति सङ्कल्प्य,

मूलम्

अस्मिन् तीर्थे अस्यां नद्यां वा प्रातः स्नानं करिष्य इति सङ्कल्प्य,

आह्निकार्थप्रकाशिका

स्नानसङ्कल्पमाह - तीर्थे नद्यां वा प्रातः स्नानं करिष्य इति सङ्कल्प्य इति ।

आयम्यासून् करिष्ये सकलशुभकृते यज्ञसूत्रप्रतिष्ठाम्

इत्याचार्यपादश्रीसूक्त्यनुसारेणैव दीक्षितव्यतिरिक्तत्रैविद्यानामिज्याव्यतिरिक्तक्रियासङ्कल्पः कार्यः । इज्यायां तु सङ्कल्पः

कृतं च

इत्यादिरूपः, शिष्टानुष्ठानमपि तथैवेति हृदयम् । एतेन स्नानकाले अभिगमनेन भगवत्कर्मणा भगवन्तं वासुदेवमर्चयिष्यामीति सङ्कल्पं, क्रियान्तरेषु तत्तत्कर्मणा भगवन्तमर्चयिष्यामीति सङ्कल्पं च वदतामपरेषां पक्षः आचार्यपादश्रीसूक्तिशिष्टानुष्ठानविरुद्धः । पाञ्चरात्रिकाणामेव तथा सङ्कल्पोक्तेः ॥

[[51]]

विश्वास-प्रस्तुतिः

अस्त्राभिमृष्ट-काष्ठादिना मूल-मन्त्रेण
शुद्ध-देशान् मृदम् आदाय
द्विधा विभज्य
तीरे निधायाभ्युक्ष्य,

एकेनाधिक-भागेन देहं सर्वतः प्रक्षाल्य,
त्रिर् निमज्योत्तीर्याचम्यासीनो

भगवन्तं ध्यायन्
मूलमन्त्रेण प्राणायामत्रयं कृत्वा,

अन्य-मृद्-भागम् आदाय
दक्षिण-पाणिना वाम-पाणि-तलस्यादौ मध्येऽन्ते च त्रिधा कृत्वा,
पृथक् पृथक् सम्प्रोक्ष्य,
मूल-मन्त्रेणाभिमन्त्र्य,

आदिम-भागेनावाहयिष्यमाण-गङ्गायाः पीठम् अन्तर्-वारि कल्पयित्वा,
मध्यम-भागेन
साङ्गुष्ठ-तर्जन्या ऽस्त्र-मन्त्रेण सच्छोटं स्नान-विघ्नकरान् निरस्य

अन्तिम-भागेन पाणिभ्यां मूलमन्त्रेण स्वगात्रम् अनुलिप्य
जलं प्रविश्य कल्पितपीठे

उदकाञ्जलिम् आदाय
मूल-मन्त्रेण सप्त-कृत्वो ऽभिमन्त्र्य
स्व-मूर्ध्नि सिञ्चेत्

एवं त्रिः पञ्च-कृत्वस् सप्तकृत्वो वा ऽवसिच्य,
दक्षिणेन पाणिना जलम् आदाय
त्रिः पञ्च-कृत्वो वा मूल-मन्त्रेणाभिमन्त्र्य पीत्वाचम्य,
मूल-मन्त्रेण स्वात्मानं प्रोक्ष्य परिषिच्य
तीर्थे निमग्नो भगवत्-पादारविन्दे विन्यस्त-शिरस्कः
यावच्-छक्ति मूल-मन्त्रं जप्त्वा
ऽदित्य-मण्डलान्तःस्थं हरिन् ध्यात्वा ऽभिवीक्ष्योत्तीर्य
दक्षिण-पादं जले, वाम-पादं स्थले च निधायासीनो
द्विराचम्य तीरस्थस् सन्

मूलम्

अस्त्राभिमृष्टकाष्ठादिना मूलमन्त्रेण शुद्धदेशान्मृदमादाय द्विधा विभज्य तीरे निधायाभ्युक्ष्य, एकेनाधिकभागेन देहं सर्वतः प्रक्षाल्य, त्रिर्निमज्योत्तीर्याचम्यासीनो भगवन्तं ध्यायन् मूलमन्त्रेण प्राणायामत्रयं कृत्वा, अन्यमृद्भागमादाय दक्षिणपाणिना वामपाणितलस्यादौ मध्येऽन्ते च त्रिधा कृत्वा, पृथक्पृथक्सम्प्रोक्ष्य, मूलमन्त्रेणाभिमन्त्र्य, आदिमभागेनावाहयिष्यमाणगङ्गायाः पीठमन्तर्वारि कल्पयित्वा, मध्यमभागेन साङ्गुष्ठतर्जन्यास्त्रमन्त्रेण सच्छोटं स्नानविघ्नकरान्निरस्य अन्तिमभागेन पाणिभ्यां मूलमन्त्रेण स्वगात्रमनुलिप्य जलं प्रविश्य कल्पितपीठे

आवाहयामि त्वां देवि स्नानार्थमिह सुन्दरि ।
एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥

इत्युदकाञ्जलिना गङ्गामावाह्य, उदकाञ्जलिमादाय

विष्णुवामपदाङ्गुष्ठनखस्रोतोविनिस्सृते ।
तद्भक्तिविघ्नरूपात् त्वं गङ्गे मां मोचयैनसः ॥

इत्यर्घ्यं दत्वा, उदकाञ्जलिमादाय मूलमन्त्रेण सप्तकृत्वोऽभिमन्त्र्य स्वमूर्ध्नि सिञ्चेत् । एवं त्रिः पञ्चकृत्वस्सप्तकृत्वोवाऽवसिच्य, दक्षिणेन पाणिना जलमादाय त्रिः पञ्चकृत्वो वा मूलमन्त्रेणाभिमन्त्र्य पीत्वाचम्य, मूलमन्त्रेण स्वात्मानं प्रोक्ष्य परिषिच्य तीर्थे निमग्नो भगवत्पादारविन्दे विन्यस्तशिरस्कः यावच्छक्ति मूलमन्त्रं जप्त्वाऽदित्यमण्डलान्तःस्थं हरिन्ध्यात्वाभिवीक्ष्योत्तीर्य दक्षिणपादं जले वामपादं स्थले च निधायासीनो द्विराचम्य तीरस्थस्सन्

[[52]]

आह्निकार्थप्रकाशिका

अथ भगवच्छास्त्रोक्तस्नानविशेषमाह - अस्त्रमन्त्रेति । अयं स्नानविशेषः श्रीभाष्यकारैरिज्याकालेऽभिहितः । तदुक्तिम् -

एवं गृहीतस्नानोपकरणस्तीर्थमासाद्य मुखशोधनपर्यन्तं कृत्वा वक्ष्यमाणक्रमेण तीर्थावगाहनपूर्वकं सर्वक्रियामूलभूतं स्नानमाचरेत् । प्रातःस्नानस्य नित्यत्वं प्रभावश्च तत्र तत्र द्रष्टव्यः

इति । वक्ष्यमाणक्रमेण = इत्यारम्भे वक्ष्यमाणक्रमेण । आचार्यपादकृतनित्यव्याख्याया एकदेशिभिरपहृतत्वात् आचार्यपादश्रीसूक्तौ स्नानविशेषादर्शनमिति प्रपञ्चयिष्यते । तत्र प्रमाणानि अहिर्बुध्न्यवचनानि इज्याप्रकरणे प्रर्दयिष्यन्ते ।

समाचम्य शुचौ देशे गृह्णीयात् स्नानमृत्तिकाम् ।
अस्त्राभिमृष्टैः काष्ठाद्यैः स्वमन्त्रेणैव वाग्यतः ॥
तां विभज्य द्विधा तीरे न्यस्याभ्यज्य मृदोस्तयोः ।
भागेनैकेन महता देहं प्रक्षाल्य सर्वतः ॥
ततो जलं प्रविश्य त्रिर्निमज्ज्योत्तीर्य संयतः ।
आसीनश्शोधिते तीरे समाचम्य यथाविधि ॥
अन्यं मृद्भागमादाय न्यसेद्दक्षिणपाणिना ।
वामपाणितलस्यादौ मध्येऽन्ते च समन्त्रकम् ॥
तत आदिममृद्भागमन्तर्वारिणि निक्षिपेत् ।
पीठार्थमागमिष्यन्त्या गङ्गायाः स्नातुमात्मनः ॥ मध्यमेन मृदंशेन बध्नीयात्सकला दिशः ।
साङ्गुष्ठतर्जन्यास्त्रेण स्नानविघ्नकरान् क्षिपेत् ॥
पश्चादग्रिमभागेन स्वगात्रमनुलिप्य च ।
स्वमन्त्रेणैव पाणिभ्यां प्रविशेच्च जलं ततः ॥
पाणिभ्यां जलमादाय तीर्थायार्घ्यप्रदित्सया ।
तिष्ठन्नावाहयेद्गङ्गां सर्वतीर्थसमन्विताम् ॥
आवाहयामि त्वां देवि स्नानार्थमिह सुन्दरि ।
एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥
विष्णुवामपदाङ्गुष्ठनखस्रोतोविनिस्सृते ।
तद्भक्तिविघ्नरूपा त्वं गङ्गे मां मोचयैनसः ॥

[[53]]

एवमुच्चार्य दत्वार्घ्यं गङ्गायै सुरसिन्धवे ।
तोयमादाय पाणिभ्यां त्रिर्मन्त्रेणाभिमन्त्र्य तत् ॥
त्रिः पञ्चकृत्वो वा तेन सिञ्चेन्मूर्धानमात्मनः ।
ततो दक्षिणहस्तेन समादाय जलं शुचि ॥
त्रिर्वाथ पञ्चकृत्वो वा स्वमन्त्रेणाभिमन्त्र्य तत् ।
पीत्वा पुनः समाचम्य प्रोक्षयेदात्मनस्तनुम् ॥

इति वङ्गिवंशेश्वरवचनान्यत्रानुसन्धेयानि ।

स्वात्मानं सम्प्रोक्ष्य परिषिच्य

इति नित्यग्रन्थेषु बहुषु सत्त्वात् अत्र तदुक्तिः ।

गुरोर्नाम सदा जपेत्

इति प्रमाणादाचाराच्च स्नानसमये स्वाचार्यप्रभृति भगवदन्ताचार्याणां श्रीमत्पदपूर्वकाणि नमोऽन्तानि चतुर्थ्यन्तनामानि कीर्तनीयानि ।

गुरुपादोदकं सिञ्चेत् शिर आदौ तु पूर्ववत्

इति वर्णाश्रमकाण्डस्थवचनमिहानुसन्धेयम् ।

यत्तु अन्योक्तम् -

न प्रातर्मृत्तिकास्नानम्

इति स्मृतिवचनात् प्रातर्मृत्तिकास्नाननिषेधेऽपि

वक्ष्यमाणक्रमेण जलावगाहनादि

इत्यादिनाचार्यपादैः प्रातर्मृत्तिकास्नानविधानेन पञ्चरात्रप्राबल्यावगमात् धर्मशास्त्रविहितस्नानं तदनभिमतमिति । तदयुक्तम् -

प्रातः सङ्क्षेपतः स्नानं होमार्थं तु विधीयते ।
मृन्मन्त्रविधिनिष्पाद्यं मध्याह्ने तु सविस्तरम् ।
कल्पत्वाद्धोमकालस्य बहुत्वात् स्नानकर्मणः ॥

इति रत्नाकरस्थदक्षकात्यायनवचनतो बहुमन्त्रयुक्तमृत्तिकास्नाननिषेधेन तत्र

न प्रातर्मृत्तिकास्नानम्

इति सामान्यनिषेधस्य छागपशुन्यायेन पर्यवसानेन भगवच्छास्त्रविहितलघुमन्त्रकरणकसंक्षिप्तमृत्तिकास्नाननिषेधाप्रसक्त्या विरोधाभावात् । धर्मशास्त्रविहितस्नानमप्याचार्यपादाभिमतमिति सत्पथरक्षायां सम्यक् स्थापितमस्माभिः ।