विश्वास-प्रस्तुतिः
तत आचमन-द्वय-पूर्वकं
षोडशाङ्गुलि-दीर्घैस् तु
वक्र-ग्रन्थि-विवर्जितैः ।
अर्क-न्यग्रोध-खदिर-
करञ्जक-कुभादयः ।
शरजोदुम्बराश्वत्थ-
प्लक्ष-दर्भांश् च वैणवान् ॥
इत्य् उक्त-लक्षणान् दन्त-काष्ठान् 1 स-र्षि-च्छन्दोधिदैवतम् ।
आयुर् बलं यशो वर्चः
प्रजां पशुं वसूनि च ।
ब्रह्म-प्रज्ञाञ् च मेधाश् च
त्वन् नो देहि वनस्पते ॥
इति मन्त्रेणाभिमन्त्र्य गृह्णीयात् ।
काष्ठ-निषेध-तिथिषु च तत्-तत्-पर्णानि तृणं वा गृह्णीयात् ।
एकादश्य्-अमावास्ययोस् तु जम्बु-प्लक्षाम्र-पर्णान्य् एव गृह्णीयात्, नान्यत् ।
तेनैव मन्त्रेणावकुण्ठित-शिराः
भोजने यावन्तो नियमास्
तावन्-नियम-सहितं दन्त-धावनं कुर्यात् ।
जिह्वानिर्लेखनं च कृत्वा,
दन्तकाष्ठं प्रक्षाल्य, निर्ऋत्यां शुद्धदेशे निरस्य,
षोडश गण्डूषान् कुर्यात् ।
दन्तधावनासम्भवे,
द्वादश गण्डूषान् कृत्वा,
द्विर् आचम्य
मूलम्
तत आचमनद्वयपूर्वकं
षोडशाङ्गुलिदीर्घैस्तु वक्रग्रन्धिविवर्जितैः ।
अर्कन्यग्रोधखदिरकरञ्जककुभादयः ।
शरजोदुम्बराश्वत्थल्पक्षदर्भांश्च वैणवान् ॥
इत्युक्तलक्षणान् दन्तकाष्ठान् 1 सर्षिच्छन्दोधिदैवतम् ।
आयुर्बलं यशो वर्चः प्रजां पशुं वसूनि च ।
ब्रह्मप्रज्ञाञ्च मेधाश्च त्वन्नो देहि वनस्पते ॥
इति मन्त्रेणाभिमन्त्र्य गृह्णीयात् । काष्ठनिषेधतिथिषु च तत्तत्पर्णानि तृणं वा गृह्णीयात् । एकादश्यमावास्ययोस्तु जम्बुप्लक्षाम्रपर्णान्येव गृह्णीयात्, नान्यत् । तेनैव मन्त्रेणावकुण्ठितशिराः भोजने यावन्तो नियमास्तावन्नियमसहितं दन्तधावनं कुर्यात् । जिह्वानिर्लेखनं च कृत्वा, दन्तकाष्ठं प्रक्षाल्य, निर्ऋत्यां शुद्धदेशे निरस्य, षोडशगण्डूषान् कुर्यात् । दन्तधावनासम्भवे, द्वादश गण्डूषान् कृत्वा, द्विराचम्य
आह्निकार्थप्रकाशिका
अथ दन्तधावनमाह - तत आचमनद्वयपूर्वकमिति । तदुक्तं -
आचमनोक्त्यनन्तरञ्च दन्तधावनमुखशोधनप्रकारः पारमेश्वरे उक्तः -
एवं प्रक्षाल्य विधिवदाचम्य प्रयतश्शुचिः ।
प्राङ्मुखोदङ्मुखो वापि उपविश्यासनं ततः ।
अर्कादिभिरपामार्गैः कारयेद्दन्तधावनम् ॥
प्रातर्हृत्वा च मृद्वग्रं कषायकटुतिक्तकम् ।
भक्षयेद्दन्तकाष्ठञ्च दन्तमांसा 2 न्यपीडयन् ॥
अर्कन्यग्रोधेत्यादिमूलस्थवचनं पारमेश्वरोक्तं -
आम्राङ्कुरमपामार्गमर्जुनं धातकी शमी ।
अन्यानि च पवित्राणि तेषु सम्पन्नमाहरेत् ॥
इति । अत्राभक्षणीयस्यापि दन्तकाष्ठस्य भक्षणोक्तिः भक्षणवदाद्यन्ताचमनादिप्राप्त्यर्था । पाद्मेऽप्येवं दन्तधावनमुक्तमित्यादि –
अत्र सर्वत्र प्रतिषिद्धानां वर्जनं सर्वत्र विहितानां 3 ग्रहणं क्वचिद्विहितानां क्वचिच्च प्रतिषिद्धानां गत्यभावे ग्रहणम् इति निष्कर्षः । एवं सर्वत्र भाव्यम् ।
यथोक्तलक्षणं दन्तकाष्ठं समन्त्रकं गृहीत्वा
आयुर्बलम्
इत्यादिस्मार्तमन्त्रपूर्वकं प्रादक्षण्येन प्रथममधरतो दन्तधावनं कुर्यात् । काष्ठालाभादिदशासु तत्तत्तरुपर्णैस्तृणैर्वा - तेषामप्यभावे द्वादशगण्डूषैः मुखशुद्धिः इत्यादि ।
[[48]]
अत्र
प्रतिपत्पर्वषष्ठीषु चतुर्दश्यष्टमीषु च ।
दन्तानां काष्ठसंयोगो दहत्यासप्तमात्कुलम् ॥
अष्टम्यां च चतुर्दश्यां पञ्चदश्यां त्रिजन्मसु ।
तैलं मांसं व्यवायञ्च दन्तकाष्ठञ्च वर्जयेत् ॥
इत्यादिभिः प्रतिषिद्धदिनानि ग्राह्याणि । भक्षयेद्दन्तकाष्ठञ्चेत्यत्र भक्षणाङ्गाचमनविधौ पूर्वप्रदर्शिततात्पर्यवर्णनस्योचिततया भक्षयेदित्यस्यास्य प्रवेशे तात्पर्यमिति रत्नाकरोक्तं न सम्यक् । सर्वत्र सर्वेषु प्रमाणेषु - भगवच्छास्त्रेषु धर्मशास्त्रेष्विति यावत् ।
पारमेश्वरोक्तानां दन्तकाष्ठानां पाद्मोक्तानाम् -
अपामार्गश्च निम्बश्च जम्ब्वाम्रार्कद्रुमास्तथा ।
एते प्रशस्ताः कथिता दन्तधावनकर्मणि ।
अन्ये द्रुमा निषिद्धास्स्युस्सर्वधा द्विजधावने ॥
इति वासिष्ठसंहिताविहितानाञ्चैककण्ठ्येन दन्तधावनसाधनतया प्रतिपन्ननिम्बार्कन्यग्रोधादिव्यतिरिक्ता वृक्षादयो भगवच्छास्त्रे प्रतिषिद्धाः । स्मृतिरत्नाकरे मार्कण्डेयोशनोभारद्वाजस्मृतिभिः केचन वृक्षा निषिद्धाः । उभयशास्त्रनिषिद्धा वर्ज्याः । उभयविहिता उपादेयाः, एकशास्त्रे निषिद्धानामन्यशास्त्रे विहितानां गत्यभावे ग्रहणमिति फलितम् । एवं
पयोभिस्सह तर्जन्या
इति भगवच्छास्त्रे विहिततर्जनीग्रहणस्य
तृणपर्णोदकानामङ्गुल्या वा दन्तान् धावयेत् प्रदेशिनीवर्जम्
इति स्मृत्युक्तप्रदेशिनीनिषेधस्य च व्यवस्था आस्थेया ॥
यत्तु - पारमेश्वरोक्तेषु पाद्मोक्तान्येव ग्राह्याणि, इतराणि तु गत्यन्तराभावे ग्राह्याणि,
एकादश
इति सङ्ख्यया इतरेषां निषिद्धत्वात् । तदभिप्रायेण हि अत्र
सर्वत्र प्रतिषिद्धानाम्
इत्याद्युच्यत इति,
सर्वत्र प्रतिषिद्धानामिति श्रीसूक्तेर्भगवच्छात्रमात्रविषयत्वमिति चान्योक्तं; तदसङ्गतम् -
एकादश च
इति पाद्मवचनस्थचकारेण पारमेश्वरोक्तसमुच्चयेन,
एकादश
इति सङ्ख्यानिर्देशस्य इतरनिषेधपरत्वासम्भवात् । शौचस्नानादिषु भगवच्छास्त्रधर्मशास्त्रवचनानामाचार्यपादोदाहृतत्वेन उभयत्र दन्तकाष्ठविधिप्रतिषेधदर्शनेन च
सर्वत्र
इत्यादि श्रीसूक्तेस्तदुभयविषयत्वौचित्यात् । एवं सर्वत्र भाव्यं, दन्तकाष्ठविषयविहितप्रतिषिद्धव्यवस्थाविहितप्रतिषिद्धक्रियान्तरविषयेऽपि भाव्येत्यर्थः ॥
[[49]]
अत्र
जान्वोरन्तःकरौ कृत्वा कुक्कुटासनमास्थितः ।
शिरः प्रच्छाद्य वस्त्रेण एकान्ते प्रयतो बुधः ॥
मौनेन सह कुर्वीत दन्तधावनमुत्तमम् ।
भुक्तकाले तु नियमा यावन्तस्सम्प्रकीर्तिताः ॥
तावन्तो नियमाः सर्वे दन्तधावनकर्मणि
इति वासिष्ठसंहितावचनानि,
यावन्तो नियमाः प्रोक्ता द्विजश्रेष्ठस्य भुञ्जतः ।
प्रेक्ष्याप्रेक्ष्येषु कर्तव्या दन्तधावनकर्मणि ॥
इति स्मृतिसङ्ग्रहवचनञ्च
आयुरित्यादिमन्त्रोऽयमुक्तश्शाखाभिमन्त्रणे ।
विनाभिमन्त्रणं तूष्णीं वृथा स्याद्दन्तधावनम् ॥
अस्य प्रजापतिर्ऋषिश्छन्दोऽनुष्टुप् वनस्पतिः ।
देवतेति हृदि स्मृत्वा मन्त्रारम्भे वदेत् बुधः ॥
अभिमन्त्र्य हृतां शाखां मन्त्रेणानेन वै द्विजः ।
अधरोर्ध्वक्रमेणैव शोधयेच्छाखया तया ॥
इति रत्नाकरस्थवचनानि,
प्राङ्मुखः प्रागुदङ्मुखो वा दन्तधावनं कुर्यात् नान्यदिङ्मुखः
इति रत्नकरोक्तम्,
तृणपर्णैस्सदा कुर्यादमां चैकादशीं विना ।
तयोरपि च कुर्वीत जम्बूप्लक्षरसालकैः ॥
इति । मुक्ताफलस्थवचनम्,
दन्तान्संशोध्य निर्लिह्य जिह्वां गण्डूषयेन्मुहुः
इति नारायणमुन्युक्तं चानुसन्धेयानीत्यन्यत्र विस्तरः ।
दन्तधावनानन्तरं
द्विराचम्य
इत्युक्तिः,
भोजने च
इत्यादिवचनविहिताद्यन्ताचमनद्वयस्य दन्तकाष्ठभक्षणविधिवाक्यात् दन्तधावनाङ्गतया विहितत्वस्य पूर्वं दर्शितत्वादिति ध्येयम् ।