विश्वास-प्रस्तुतिः
विशुद्ध-देश-निक्षिप्त-स्नानोपकरणः,
स्वाश्रमादिभ्यो नैर्ऋत्यां दिशि
द्वि+++(=चि)+++त्रेषु-पात-प्रथितां भुवम् अतिक्रम्य,
मूलम्
विशुद्धदेशनिक्षिप्तस्नानोपकरणः, स्वाश्रमादिभ्यो नैर्ऋत्यां दिशि चित्रेषुपातप्रतितां भुवमतिक्रम्य,
आह्निकार्थप्रकाशिका
विशुद्ध-देश-निक्षिप्त-स्नानोपकरण इत्यादि
ग्रामाद् बहिर्दिशं गत्वा निर्ऋतिम्
इति पाद्मादि-वचनम् अनुसृत्य निर्ऋति-गमनम् उक्तम् ।
दिगन्तर-गमनम् अप्याचार्य-पाद-सम्मतम् इत्य् उत्तरत्र स्पष्टम् ।
[[39]]
विश्वास-प्रस्तुतिः
फाल+++(=हल)+++-कृष्ट-वल्मीकादि-व्यतिरिक्त-परिशुद्ध-प्रदेशान्
मृदम् आदाय,
शौच-स्थले यत्र क्वचिद् वा निधाय
ततो मूत्र-पुरीषादिकं कुर्यात् ।
मूलम्
फालकृष्टवल्मीकादिव्यतिरिक्तपरिशुद्धप्रदेशान्मृदमादाय, शौचस्थले यत्र क्वचिद्वा निधाय ततो मूत्रपुरीषादिकं कुर्यात् ।
आह्निकार्थप्रकाशिका
मृद्ग्रहणविण्मूत्रविसर्जनादिकमाह - फालकृष्टवल्मीकेत्यादिना ।
विश्वास-प्रस्तुतिः
कृत्वा यज्ञोपवीतन् तु
कर्णे सम्यङ् निवीतकम् ।
मल-मूत्रन् त्यजेद् विप्रश्
शिरः प्रावृत्य वाससा ॥
उदङ्मुखो दिवासन्ध्यं
रात्रौ चेद् दक्षिणामुखः ।
अयाज्ञियैस् तृणैर् भूमिं
सञ्छाद्योदस्त-वस्त्र-धृत् ॥
ष्ठीवनोच्छ्वास-रहितो
विण्-मूत्रे विसृजेद् द्विजः ।
सस्ये गर्ते बिले तोये
पाषाणे तुलसीवने ॥
वृक्ष-मूले दर्भमूले
शाड्वले+++(=घासपूर्णभूमो)+++ जन-संसदि ।
देवालये तत्-समीपे
देवोद्याने ऽनिलान्तिके ॥
स्त्री-सन्निधौ महा-कूपे
तटाके पर्वते शुचौ ॥
पुरीष-गर्ते वाप्यादौ
श्मशाने तु गृहाङ्गणे ।
गृहारामे नदीतीरे
गोष्ठे भस्मनि वर्त्मनि ॥
औषरे फाल-कृष्टे च
छायायाम् अग्निसन्निधौ ।
एतेषु नोत्सृजेन् नित्यं
मलमूत्रे द्विजोत्तमः ॥
इत्यादि ।
मूलम्
कृत्वा यज्ञोपवीतन्तु कर्णे सम्यङ्निवीतकम् ।
मलमूत्रन्त्यजेद्विप्रश्शिरः प्रावृत्य वाससा ॥
उदङ्मुखो दिवासन्ध्यं रात्रौ चेद्दक्षिणामुखः ।
अयाज्ञियैस्तृणैर्भूमिं सञ्छाद्योदस्तवस्त्रधृत् ॥
ष्ठीवनोच्छ्वासरहितो विण्मूत्रे विसृजेद्द्विजः ।
सस्ये गर्ते बिले तोये पाषाणे तुलसीवने ॥
वृक्षमूले दर्भमूले शाड्वले जनसंसदि ।
देवालये तत्समीपे देवोद्यानेऽनिलान्तिके ॥
स्त्रीसन्निधौ महाकूपे तटाके पर्वते शुचौ ॥
पुरीषगर्ते वाप्यादौ श्मशाने तु गृहाङ्गणे ।
गृहारामे नदीतीरे गोष्ठे भस्मनि वर्त्मनि ॥
औषरे फालकृष्टे च छायायामग्निसन्निधौ ।
एतेषु नोत्सृजेन्नित्यं मलमूत्रे द्विजोत्तमः ॥
इत्यादि ।
आह्निकार्थप्रकाशिका
तत्र वासिष्ठ-संहिता-वचनान्य् उदाहरति -
कृत्वा यज्ञोपवीतं तु इति ।
तद् उक्तं तत्रैव पाद्मे
उपवीतं कर्णदेशे
निधाय च तृणादिना ।
इत्यादिना ।
[[40]]
विश्वास-प्रस्तुतिः
निषिद्ध-प्रदेश-व्यतिरिक्त-प्रदेशे
दक्षिण-कर्ण-निक्षिप्त-ब्रह्म-सूत्रः
दिवा-सन्ध्ययोश् चोदङ्मुखः
रात्रौ दक्षिणामुखः
प्रावृत-शिराः पिहिताननश् च
भूमिम् अयाज्ञियतृणादिना प्रच्छाद्य
देवालय-नदी-गो-ब्राह्मणाग्नि-वाय्व्-अश्वत्थाद्य्-अनभिमुखो
मौन-नियम-युक्तो
वामेन मेहनं गृहीत्वा
विण्-मूत्र-विसर्जनं कृत्वा
अयाज्ञिय-काष्ठादिना पुरीष-लेपं वामेन निघृष्य
दक्षिण-हस्तेन पूर्व-स्थापितां मृदं गृहीत्वा
शौच-स्थलं गत्वा
गुद-लिङ्ग-पाद-हस्त-शौचार्थं पूर्व-स्थापितां, तदा स्थापितां वा मृदं
चतुर्धा विभज्य स्थापयित्वा
+उदङ्मुखः परिचारकेणोद्धृत-जल-प्रक्षेप-पूर्वकं शौचं कुर्यात् ।
मूत्र-पुरीषयोर् युगपत् प्रवृत्तौ
पुरीषस्य प्रथमं,
क्रमेण प्रवृत्तौ यथाक्रमं शौचं कुर्यात् ।
अत्र विण्-मूत्रयोस् साहित्ये षण्-मृत्तिकाभिर् मूत्र-शौचं कुर्यात् ।
पञ्चदशभिः द्वादशभिर् वा गुद-शौचं कुर्यात् ।
गुद-लिङ्गान्यतर-शौचानन्तरं
पञ्चष-मृत्तिकाभिर् वाम-हस्तं प्रक्षाल्य
अनन्तर-शौचं कुर्यात् ।
मूत्र-शौचे आर्द्रामलकमात्रा मृत्तिकाः,
गुद-शौचे प्रथम-मृत्तिका प्रसृति-मात्रा,
द्वितीया तृतीया च तद्-अर्ध-परिमाणा,
इतरास् त्व् आर्द्रामलक-द्वि-गुणाः, तत्-समा वा ।
सर्वत्र गुद-लिङ्ग-शौचेषु प्रति-मृत्तिकम् अन्तरान्तरा
वाम-हस्तं मृज्-जलाभ्यां प्रक्षालयेत् ।
पुरीषे कट्य्-आदौ मल-सम्बन्ध-शङ्कायां
सप्त मृत्तिका देयाः ।
सर्वत्र शौचे वाम-हस्तम् उभय-जान्व्-अन्तः
दक्षिणञ् च दक्षिणजानु-बहिः कुर्यात् ।
उत्थाय वामं
दशभिः पादौ प्रत्य्-एकं सप्तभिः
संहत-करौ दशभिस् सप्तभिर् वा शोधयेत् ।
मूत्र-मात्र-प्रवृत्तौ पञ्चभिस् त्रिभिर् वा मृत्तिकाभिर्
लिङ्ग-शौचं कुर्यात् ।
मूलम्
निषिद्धप्रदेशव्यतिरिक्तप्रदेशे दक्षिणकर्णनिक्षिप्तब्रह्मसूत्रः दिवासन्ध्ययोश्चोदङ्मुखः रात्रौ दक्षिणामुखः प्रावृतशिराः पिहिताननश्च भूमियाज्ञियतृणादिना प्रच्छाद्य देवालयनदीगोब्राह्मणाग्निवाय्वश्वत्थाद्यनभिमुखो मौननियमयुक्तो वामेन मेहनं गृहीत्वा विण्मूत्रविसर्जनं कृत्वा अयाज्ञियकाष्ठादिना पुरीषलेपं वामेन निघृष्य दक्षिणहस्तेन पूर्वस्थापितां मृदं गृहीत्वा शौचस्थलं गत्वा गुदलिङ्गपादहस्तशौचार्थं पूर्वस्थापितां तदा स्थापितां वा मृदं चतुर्धा विभज्य स्थापयित्वोदङ्मुखः परिचारकेणोद्धृतजलप्रक्षेपपूर्वकं शौचं कुर्यात् । मूत्रपुरीषयोर्युगपत्प्रवृत्तौ पुरीषस्य प्रथमं, क्रमेण प्रवृत्तौ यथाक्रमं शौचं कुर्यात् । अत्र विण्मूत्रयोस्साहित्ये षण्मृत्तिकाभिर्मूत्रशौचं कुर्यात् । पञ्चदशभिः द्वादशभिर्वा गुदशौचं कुर्यात् । गुदलिङ्गान्यतरशौचानन्तरं पञ्चषमृत्तिकाभिर्वामहस्तं प्रक्षाल्य अनन्तरशौचं कुर्यात् । मूत्रशौचे आर्द्रामलकमात्रा मृत्तिकाः, गुदशौचे प्रथममृत्तिका प्रसृतिमात्रा, द्वितीया तृतीया च तदर्धपरिमाणा, इतरास्त्वार्द्रामलकद्विगुणाः, तत्समा वा । सर्वत्र गुदलिङ्गशौचेषु प्रतिमृत्तिकमन्तरान्तरा वामहस्तं मृज्जलाभ्यां प्रक्षालयेत् । पुरीषे कट्यादौ मलसम्बन्धशङ्कायां सप्त मृत्तिका देयाः । सर्वत्र शौचे वामहस्तमुभयजान्वन्तः दक्षिणञ्च दक्षिणजानुबहिः कुर्यात् । उत्थाय वामं दशभिः पादौ प्रत्येकं सप्तभिः संहतकरौ दशभिस्सप्तभिर्वा शोधयेत् । मूत्रमात्रप्रवृत्तौ पञ्चभिस्त्रिभिर्वा मृत्तिकाभिर्लिङ्गशौचं कुर्यात् ।
आह्निकार्थप्रकाशिका
विण्मूत्रविसर्जनप्रकारमुक्त्वा अनन्तरमेवं शौचविधिरुक्तः ।
दक्षिणेतरहस्तेन गृहीत्वा मेहनं ततः ।
दक्षिणे मृत्तिकां हस्ते समुत्थाय जलाशयम् ॥
प्रागुदीच्यामुदीच्यां वा गत्वा शौचं समाचरेत् ।
मृत्तिकाभिर्द्वादशभिः गुदं षड्भिस्तु मेहनम् ॥
अन्तरा चान्तरा वामकरं प्रक्षाल्य 1 वारिभिः ।
मृत्तिकाभिस्तदन्ते द्वौ करौ द्वादशसङ्ख्यया ॥
संशोध्य चरणौ जङ्घे कटिं चोरुं च वारिभिः ।
प्रत्येकं मृत्तिकामात्रचतुष्केण विशोधयेत् ॥
[[41]]
पितामहस्तु सनत्कुमारायैवमाह -
ततः पूर्वं समुत्थाय प्राचीमेवोपनिष्क्रमेत् ।
उदीपं प्रागुदीचीं वा शौचाचारक्षमां दिशम् ।
यत्रोदकं प्रभूतं तु तद्गत्वा शौचमाचरेत् ।
इति । स्मरन्ति च देशादिभिन्नं शौचं -
देशं कालं तथा ज्ञानं द्रव्यं द्रव्यप्रयोजनम् ।
उपपत्तिमवस्थां च ज्ञात्वा शौचं समाचरेत् ॥
इति दिवसादिभेदेनापि शौचतारतम्यं स्मर्यते
अह्नि यच्छौचमुद्दिष्टं निश्यर्धं तु ततो भवेत् ।
पथि पादस्ततः प्रोक्तो यथाशक्त्यातुरस्य तु ॥
इति ।
विश्वास-प्रस्तुतिः
वाम-हस्ते पञ्च,
हस्तयोस्तिस्रो मृत्तिका देयाः,
इदम् अहश्-शौचं, अहश्-शौचापेक्षया रात्राव् अर्धं,
पथि पादः,
स्त्रीणाम् अर्धं,
ब्रह्मचारिणो द्वि-गुणं,
वानप्रस्थ-यत्योश् चतुर्-गुणं,
यथा-शक्त्य्-आतुरस्य,
एवं धर्म-शास्त्रायुक्त-
स्व-वर्णाश्रमावस्थाद्य्-अनु-गुण-
दृष्टादृष्टार्थ-मृत्-संख्या-वर्ण-परिमाणादि-नियमवत्
गन्ध-लेप-क्षय-करम् अर्शः+++(=hemorroid)+++-पीडादि-रहितं शौचं कुर्यात्
मूलम्
वामहस्ते पञ्च, हस्तयोस्तिस्रो मृत्तिका देयाः, इदमहश्शैचं, अहश्शौचापेक्षया रात्रावर्धं, पथि पादः, स्त्रीणामर्धं, ब्रह्मचारिणो द्विगुणं वानप्रस्थयत्योश्चतुर्गुणं, यथाशक्त्यातुरस्य, एवं धर्मशास्त्रायुक्तस्ववर्णाश्रमावस्थाद्यनुगुणदृष्टादृष्टार्थमृत्संख्यावर्णपरिमाणादिनियमवत् गन्धलेपक्षयकरम् अर्शः पीडादिरहितं शौचं कुर्यात्
आह्निकार्थप्रकाशिका
पारमेश्वरे तु प्रावृडादिकालभेदेनापि मृत्सङ्ख्याभेदादिकमुक्तम्
इत्यादि ।
तिस्रो लिङ्गे मृदो देयाः एकैकान्तरमृत्तिकाः ।
पञ्च वामकरे देयास्तिस्रः पाण्योर्विशुद्धयोः ॥
मूत्रोत्सर्गे शुद्धिरेषा पुरीषस्याप्यनन्तरम् ।
अर्धप्रसृतिमात्रन्तु प्रथमा मृत्तिका स्मृता ॥
द्वितीया च तृतीया च तदर्धा परीकीर्तिता ।
बिडालपादमात्रन्तु तदूर्ध्वा परिकीर्तिता ॥
पञ्चापाने मृत्तिकास्स्युस्तथैवान्तरमृत्तिकाः ।
दश वामकरे देयास्सप्त तूभयहस्तयोः ॥
पादाभ्यां तिसृभिश्शुद्धिः जङ्घाशुद्धिस्तु पञ्चभिः ।
नियोजयेत्ततो विप्रः कट्यां वै सप्त मृत्तिकाः ॥
स्वदेहस्वेददोषघ्ना बाह्यकर्दमशान्तये ।
भक्तानां श्रोत्रियाणाञ्च वर्षास्वेवं निरूपितम् ॥
इत्यादि ।
[[42]]
हेमन्तशिशिरे विप्रैश्श्रोत्रियैस्संयमस्थितैः ।
पथि शौचं प्रकर्तव्यं देशकालानुरूपतः ॥
इत्यादि । यदन्योक्तं -
दक्षिणे मृत्तिकां हस्ते समुत्थाय जलाशयम्
इति पाद्मवचनेन मलमूत्रकरणानन्तरमपि मृत्तिकाग्रहणप्रतीतेः
विण्मूत्रकरणात्पूर्वमादद्यान्मृत्तिकां सदा ।
आददानस्तु वै पश्चात् सवासा जलमाविशेत् ॥
इति । देवलस्मृतिनिषेधस्त्याज्यः, पञ्चरात्रात् स्मृतेः दुर्बलत्वात् ।
हस्तद्वयशौचानन्तरमेव पादशौचं पाद्मवचनसिद्धम् । अतः दुर्बलधर्मशास्त्रसिद्धं पादशौचानन्तरं करशौचं न कार्यमिति च - तदसाधु - दक्षिणे मृत्तिकाम्
इति वचनस्य मलादिविसर्जनपूर्वकालस्थापितमृद्विषयतया देवलवचनाविरोधस्य मलादिविसर्गोत्तरमृद्ग्रहणनिषेधस्य च स्मृतिरत्नाकरसमर्थितत्वात् –
आचारे धर्मशास्त्राणि अधिकारिविशेषनियतानन्यभजनप्रस्थाने पञ्चरात्रम्
इति श्रीन्यायपरिशुद्ध्यनुगृहीताचारविषयधर्मशास्त्रप्राबल्यस्य निराबाधत्वात् । वासिष्ठसंहितायां
पादयोः पक्षसङ्ख्या स्यात् करयोः पञ्चविंशतिः
इति पादशौचानन्तरं करशौचोक्तेः, भवदुक्तप्राबल्यदौर्बल्यासिद्धेः । वस्तुतः धर्मशास्त्रसिद्धानां भगवच्छास्त्रसिद्धानां वा शौचाचमनादिधर्माणां पूर्वाचार्यपरिग्रहानुसारेण परिग्राह्यत्वमाचार्यपादानुगृहीतमिति न कश्चिद्विरोधः । एतत्तत्वं सत्पथरक्षायामस्माभिः प्रपञ्चितम् ।
विश्वास-प्रस्तुतिः
वापी-कूप-तटाकादौ बाह्य-देशान् मृदं नाहरेत् ।
मणि-बन्धात् परतः
जले मृत्तिकां गृहीत्वा
शौचं कुर्यात् ।
जलस्यारत्नि-मात्रात् परतः
स्थले स्थित्वा शौचं कुर्यात् ।
मूलम्
वापी कूपतटाकादौ बाह्यदेशान्मृदं नाहरेत् । मणिबन्धात्परतः जले मृत्तिकां गृहीत्वा शौचं कुर्यात् । जलस्यारत्निमात्रात्परतः स्थले स्थित्वा शौचं कुर्यात् ।
[[43]]
आह्निकार्थप्रकाशिका
वाप्यादौ विशेषमाह - वापीकूपेति । स्मृतिरत्नाकरे चन्द्रिकायां यदाकथञ्चिदुद्धरणमपि न सम्भवति तदा विशेषमाह विवस्वान्
अरत्निमात्रं जलं मुक्त्वा कुर्याच्छौचमनुद्धृत
इति । यमः -
वापीकूपतटाकेषु नाहरेद्बाह्यमृत्तिकाम् ।
अन्तर्जलगता ग्राह्याः परतो मणिबन्धनात् ॥
आद्यन्तयोस्तु शौचानामद्भिः प्रक्षालनं स्मृतम् ।
सुनिर्णिक्ते मृदं दद्यात् मृदन्ते जलमेव च ॥
इति । कट्यादिमृद्वचनं मलसम्बन्धशङ्काविषयमित्याचारादभिहितम् । एवं शलाकादिना नवशोधनमृत्सेचनादिकमपि कर्तव्यम् । रत्नाकरादौ विस्तरो द्रष्टव्यः ।
विश्वास-प्रस्तुतिः
ततो मूत्रे चतुष् षड्वा
पुरीषे ऽष्टौ द्वादश वा
वाम-भागे आसीनो गण्डूषान् कृत्वा,
मूलम्
ततो मूत्रे चतुष्षड्वा पुरीषेऽष्टौ द्वादश वा वामभागे आसीनो गण्डूषान् कृत्वा,
आह्निकार्थप्रकाशिका
अथ गण्डूषाचमनादिकमाह तत इति । स्मृतिरत्नाकरे -
मूत्रे पुरीषे भुक्त्यन्ते तथैवाभक्ष्यभक्ष्यणे ।
चतुरष्टद्विषड्द्व्यष्टगण्डूषैस्तु विशुद्ध्यति ॥
इति ।
विश्वास-प्रस्तुतिः
अन्तर्-जानु-गत-कर-युग्मस्
स्व-सूत्र-संहिताद्य्-उक्त-प्रकारेण
विण्-मूत्रोत्सर्जने त्रयम्
इत्य् उक्त-रीत्या
मूत्र-पुरीषोत्सर्जने त्रिर् आचम्य,
मूलम्
अन्तर्जानुगतकरयुग्मस्स्वसूत्रसंहिताद्युक्तप्रकारेण
विण्मूत्रोत्सर्जने त्रयम्
इत्युक्तरीत्या मूत्रपुरीषोत्सर्जने त्रिराचम्य,
[[44]]
आह्निकार्थप्रकाशिका
तत आचमनम् आह - अन्तर्जानुगतकरयुग्म इति । तदुक्तं -
चतुर्धा मणि-बन्ध-स्थं
तोयं कृत्वा सुनिर्मलम् ।
बुद्बुदाद्यैर्विनिर्मुक्तं पिबेद्विप्रो हृदा ततः ॥
एकैकां ह्रासयेन्मात्रां वर्णत्रयमनुक्रमात् ।
पाणिना क्षालितेनैव पुनराचामयेद्बुधः ॥
इति ।
आचमन-प्रकाराश् च बहुधा धर्म-शास्त्रेषु भगवच्-छास्त्रेषु च प्रतिपादिताः ।
तत्र
स्वसूत्रोक्तम् अन्यद् वा यथाधिगमम् आचमनं कुर्यात्
इति । वासिष्ठसंहितायां -
गोकर्णाकृतिहस्तेन मुक्त्वाङ्गुष्ठकनिष्ठिते ।
संवीक्ष्य ब्रह्मतीर्थेन द्विज आचमनं चरेत् ॥
चतुर्मन्त्रेण वा कुर्यान्नित्यमाचमनं बुधः ।
अङ्गानां स्पर्शनं कुर्यात् केशवाद्यैश्च नामभिः ॥
अष्टाक्षरेण वा कुर्यात् द्वादशार्णेन वा पुनः ।
नामत्रयेण वा नित्यं द्विज आचमनं चरेत् ॥
इति वासिष्ठसंहितावचनविहितेषु नामत्रयकरणकाचमनकेशवादिमन्त्रकरणकाङ्गस्पर्शाश्शिष्टपरिगृहीताः । स्पृष्टव्यान्यङ्गानि कानीत्यपेक्षायां, पञ्चरात्रविहितनामत्रयकरणकाचमनस्य पञ्चरात्रविहितस्पर्शकर्मीभूतान्यङ्गान्येव स्वीकार्याणि - न धर्मशास्त्रोक्तान्यङ्गानि आचार्यपादैः धर्मशास्त्रोक्तस्य भगवच्छास्त्रोक्तस्य वाधिगमसिद्धस्य ग्राह्यत्वानुशासनात्, भगवच्छास्त्रविहितनामत्रयकरणकाचमनानुष्ठाने धर्मशास्त्रविहिताङ्गस्पर्शाङ्गीकारे उदाहृतश्रीसूक्तिविरोधप्रसङ्गादनौचित्याच्च ।
पारमेश्वरे -
द्विरामृज्य मुखं पुनः,
अङ्गुष्ठानामिकां कृत्वा नेत्रे स्पृष्ट्वा च वारिणा ।
तथैव तर्जनीं कृत्वा तथा ते नासिकापुटे ॥
कनिष्ठिकां ततः कृत्वा तेनैव श्रवणे क्षिपेत् ।
तथैव मध्यमां कृत्वा बाहुदेशावुभौ स्पृशेत् ॥
तेनैव नाभिदेशं च सर्वैर्युक्तश्शिरस्स्पृशेत् ।
इत्यङ्गस्पर्शप्रमाणमस्ति । आह्निककाण्डोदाहृतदक्षवचनेनापि हृदयव्यतिरिक्ताङ्गस्पर्श एव प्रतिपन्नः । एवं च, केशवादिभिर्नमोन्तैः मुखे द्विः परामर्शप्रभृतिनेत्रनासापुटश्रवणबाहुद्वयनाभिशिरस्तु, उदाहृतवचनविहिताङ्गुलीभिस्स्पर्शाश्शिष्टाचारानुगुणाः । न च पारमेश्वरोदाहृतवामहस्ततलप्रोक्षणादित्यागेन मुखनेत्रादिस्पर्शमात्रानुष्ठानमयुक्तमिति वाच्यम्, आचार्यानुगुण्येन तावन्मात्रस्य ग्राह्यत्वात् ।
[[45]]
यथा दशरात्रादिपूर्णशावाशौचकालातिक्रमविषये
आत्रिपक्षात् त्रिरात्रं स्यात्
इति देवलवचने आत्रिपक्षादित्यं सम्परित्यज्य
आत्रिमासात्त्रिरात्रं स्यात्
इति । वृद्धवसिष्ठवचने -
अहस्तु नवमादर्वाग्
इत्यंशं परित्यज्य, शेषमादाय शिष्टाचारानुसारेण
त्रिरात्रं त्रिषु मासेषु पक्षिण्येव ततस्त्रिषु ।
ततोऽहष्षट्स्वथ स्नानं दशरात्रात्यघश्रुतौ ॥
इत्याशौचं सार्वभौमोक्तं, एवं यथाधिगममित्याचार्यपादानुगृहीतत्वेन पूर्वोक्तपारमेश्वरवचनसिद्धाङ्गस्पर्शानुष्ठानं न्याय्यम् । यत्पराह्निकोक्तमच्च्युतादिमन्त्रवदाचमनं केशवाय नम इत्याद्यैः कपोलनेत्रनासिकापुटश्रोत्रभुजद्वयस्पर्शानन्तरं पद्मनाभाय नम इति मन्त्रेण नाभिहृदयस्पर्श इति । यदपराह्निकेऽच्युतादिमन्त्रयुक्ताऽऽचमनं केशवाय नम इत्योष्ठोपरि परामर्शः नारायणादिमन्त्रैः नेत्रनासाश्रोत्रभुजद्वयनाभिहृदयशिरस्स्पर्श इत्यभिहितं, तत्पूर्वोपदर्शितरीत्या धर्मशास्त्रविहिते भगवच्छास्त्रविहिते वा आचमनेऽनन्तर्गतत्वात् उपात्ताचार्यपादश्रीसूक्तिविरुद्धत्वाच्चोपेक्ष्यम् । रत्नाकरे दक्षः -
गोकर्णाकृतिहस्तेन त्रिः पिबेद्ब्रह्मतीर्थतः ।
देवलः -
अप्सु प्राप्तासु हृदयं ब्राह्मणश्शुद्धिमाप्नुयात् ।
राजन्यः कण्ठतालुं च वैश्यश्शूद्रस्तथा स्त्रियः ॥
[[46]]
याज्ञवल्क्यः -
शुध्येरन् स्त्री च शूद्राश्च सकृत्स्पृष्टाभिरन्ततः ।
अन्ततः तालुना सकृत्स्पृष्टाभिः स्त्रियश्च शूद्राश्च शुद्ध्यन्तीत्यर्थः । व्यासः -
संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ।
मुक्त्वाङ्गुष्ठकनिष्ठे तु शेषेणाचमनं चरेत् ॥
संवर्तः -
शिरः प्रावृत्य कण्ठं वा तिष्ठन् मुक्तशिखोऽपि वा ।
अकृत्वा पादयोश्शौचमाचान्तोऽप्यशुचिर्भवेत् ॥
आपस्तम्बः -
जान्वोरधस्तात्सलिले उपविष्ट उपस्पृशेत् ।
जलाशयाद्यास्वाचामेदूर्ध्वमम्भस्सु संस्थितः ॥
दक्षः -
स्नात्वा चामेद्यदा विप्रः पादौ कृत्वा जले स्थले ।
उभयोरप्यसौ शुद्धः ततः कर्मक्षमो भवेत् ॥
भरद्वाजः -
स्नानपानक्षुतस्वापहोमभोजनकर्मसु ।
रथ्योपसर्पणे मूत्रविडुत्सृष्टौ द्विराचमेत् ॥
जपे श्मशानाक्रमणे परिधाने च वाससः ।
चत्वरक्रमणे चैव द्विजातिर्द्विरुपस्पृशेत् ॥
याज्ञवल्क्यः -
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे ।
आचान्तः पुनराचामेत् वासो विपरिधाय च ॥
स्मृतिरत्ने -
दाने प्रतिग्रहे होमे जपे सन्ध्यात्रये तथा ।
बलिकर्मणि चाचामेदादौ द्विस्सकृदन्ततः ।
भोजने च तथा चामेदादावन्ते च नित्यशः ।
विष्णुः -
रथ्यामाक्रम्य कृतमूत्रपुरीषः चण्डालभाषणे च ।
बोधायनः -
भोजने हवने दाने उपहारे प्रतिग्रहे ।
हविर्भक्षणकाले च द्विर्द्विराचमनं स्मृतम् ॥
उपहारः, देवार्चनम् । इत्यादीनि पुनराचमननिमित्ततत्प्रमाणानि तत्रैव द्रष्टव्यानि । स्नात्वाचामेदिति दक्षवचनं स्नानोत्तरार्द्रवस्त्रकर्तृकाचमनमात्रविषयमिति माधवीयाह्निककाण्डयोरुक्तम् ।
[[47]]
-
मृज्जलैः इति पाठान्तरम् । ↩︎