विश्वास-प्रस्तुतिः
ततस् स्नानीय-तिलाक्षत-दर्भ-वस्त्र-दृष्टादृष्टार्थं
स्नानोपकरणं सर्वं संभृत्य,
तमस्-तिरोहित-दुष्ट-जन्तु-पलायनार्थं वैणव-दण्डं सङ्गृह्य,
मूलम्
ततस्स्नानीयतिलाक्षतदर्भवस्त्रदृष्टादृष्टार्थं स्नानोपकरणं सर्वं संभृत्य, तमस्तिरोहितदुष्टजन्तुपलायनार्थं वैणवदण्डं सङ्गृह्य,
आह्निकार्थप्रकाशिका
ततो नद्यादिगमनमाह तत इत्यादिना ।
विश्वास-प्रस्तुतिः
निर्गम-मार्गं सञ्चाल्य,
केशवम् अनुध्यायन् सङ्कीर्तयन्,
गृहान् निर्गत्य,
मूलम्
निर्गममार्गं सञ्चाल्य, केशवमनुध्यायन् सङ्कीर्तयन्, गृहान्निर्गत्य,
आह्निकार्थप्रकाशिका
निर्गममार्गं सञ्चाल्य केशवमनुध्यायन् गृहान्निर्गत्येति ।
तद् उक्तं -
तमस्-तिरोहित-दुष्टजन्तु-पलायनार्थं निर्गम-मार्गं सञ्चालयेत् ।
यथोक्तं पारमेश्वरे -
बहिर्-निर्गम-मार्गन् तु सञ्चाल्य
इत्यादि । ततो गृहान् निर्गच्छन् केशवम् अनुध्यायेत्
व्रजंश् चिन्तय केशवं
इति स्मरणात् ।
केशव-शब्देन -
अंशवो ये प्रकाशन्ते -
यद् आदित्य-गतं तेज इत्य्-आद्य्-उक्तांशव उच्यन्ते -
तद्वत्त्वात् केशवः -
गच्छतो मार्गादि-प्रकाशनार्थं
दिङ्-मोहान्तर-तमो-निरासार्थम्।
क इति ब्रह्मणो नाम
ईशोहं सर्वदेहिनाम् ।
आवां+++(→ब्रह्मरुद्रौ)+++ तवाङ्गे सम्भूतौ
तस्मात् केशव-नामवान् ॥
इति
ब्रह्म-रुद्रोपलक्षित-विश्व-सृष्टि-रक्षा-हेतुत्वात्
केशि-वधोपलक्षित-सर्व-दुष्ट-दमन-स्वभावत्वाच् च
असहाय-दशा-साहाय्यार्थं
तदा तच्-चिन्तनं
इति, केशि-वध-कर्तृत्वार्थस्य व्याकरणाबोध्यत्वेपि
श्रीविष्णु-पुराण-पञ्चमांश-निर्वचन-सिद्धत्वं बोध्यम् ।