विश्वास-प्रस्तुतिः
ततस् सन्ध्यायाम् आसन्नायां -
सन्धातृत्वेन सर्वेषां
सन्ध्येति परिकीर्तितम् ।
भगवन्तम् उपासितुं जिगमिषुः
“हरिर् हरिर् हरिर्” इति कीर्तयन्
तल्पाद् उत्थाय
मूलम्
ततस्सन्ध्यायामासन्नायां सन्धातृत्वेन सर्वेषां सन्ध्येति परिकीर्तितम् । भगवन्तमुपासितुं जिगमिषुः हरिर्हरिर्हरिरिति कीर्तयन् तल्पादुत्थाय
आह्निकार्थप्रकाशिका
अथ
प्रहरार्धं तथा सन्ध्या
इति आशौच-शतक-व्याख्योक्त-
सन्ध्यासन्न-काल-कर्तव्यम् आह
ततस् सन्ध्यायाम् इत्य्-आदिना ।
विश्वास-प्रस्तुतिः
नमः क्षितिधराय
इति मन्त्रेण क्षितिधरं महा-वराहम् अनुध्यायन्
वाम-पादं भूमौ विन्यस्य
नमोऽस्तु प्रियदत्तायै
तुभ्यं देवि वसुन्धरे ।
त्वं माता सर्वलोकानां
पाद-न्यासं क्षमस्व मे ॥
इति भुवं प्रपद्य
मूलम्
नमः क्षितिधराय
इति मन्त्रेण क्षितिधरं महावराहमनुध्यायन् वामपादं भूमौ विन्यस्य
नमोऽस्तु प्रियदत्तायै तुभ्यं देवि वसुन्धरे ।
त्वं माता सर्वलोकानां पादन्यासं क्षमस्व मे ॥
इति भुवं प्रपद्य
आह्निकार्थप्रकाशिका
वाम-पादं भुवि विन्यस्येति
अवकुण्ठ्य च वस्त्रेण
शरीरं दक्षिणाङ्घ्रिणा ।
आक्रम्य भूमिं प्रथमं
त्रिविक्रमम् अनुस्मरन् ।
विन्यसेद् दक्षिणं पादं
पूर्वं भूमिम् अपीडयन् ।
इति पाद्म-वासिष्ठ-संहितादिषु
दक्षिण-पाद-विन्यास-विधानेपि
हरिर्-हरि ब्रुवन् तल्पाद्
उत्थाय भुवि विन्यसेत् ।
नमः क्षितिधरायोक्त्वा
वामपादं महामते ॥
निशा-क्षये तु शयनात्
स्तुत्वा नारायणं विभुम् ।
उत्थाय दक्षिणांसेन
वामपादं न्यसेद् भुवि ॥
इति पारमेश्वर-जयाख्य-वचन-विहित-वाम-पादन्यास
एवाचार्य-पादाभिमतः
आचार-प्राप्तश् चेत्य् अभिप्रायेण
वाम-पाद-न्यासाभिधानम् ।
क्षिति-धर-वराह-ध्यान-पूर्वकं
भू-प्रपदन-मन्त्रम् आह
क्षिति-धरायेत्य्-आदिना । तदुक्तं -
नमः क्षितिधरायोक्त्वा
वामपादं महामते
इति पारमेश्वरादिपठितेन
नमःपूर्वेण क्षितिधरलिङ्गेन मन्त्रेण
महावराहं क्षितिधरम् अनुध्यायन्
वामपादं भूमौ विन्यस्येत्यादि ।
विश्वास-प्रस्तुतिः
पदक्रमान् कुर्वन्,
मूलम्
पदक्रमान् कुर्वन्,
विश्वास-प्रस्तुतिः
इति पादेन्द्रियाधिदैवतं त्रिविक्रमं ध्यायेत्, एष सन्ध्या-पूर्वकाल कर्तव्यक्रमः ।
मूलम्
इति पादेन्द्रियाधिदैवतं त्रिविक्रमं ध्यायेत्, एष सन्ध्या-पूर्वकाल कर्तव्यक्रमः ।
आह्निकार्थप्रकाशिका
अथ पदक्रममन्त्रानाह पदक्रमानित्यादिना । तदुक्तम् -
ततः पदक्रमान् कुर्वन्
विष्णुक्रमणमन्त्रेण पादेन्द्रियाधिदैवतं त्रिविक्रमं विष्णुं ध्यायेत्
इत्यादि । केषुचिद् आह्निक-कोशेषु
समुद्र-वसने देवी
इति श्लोकोऽस्ति ।
आचार्यपादैर् अनुपात्तत्वात् स नानुसन्धेयः ।
[[38]]