आह्निकार्थप्रकाशिका
गद्योक्तध्यानाशक्तं प्रत्याह - सव्यं पादमित्युक्तप्रकारेण वेति ।
विश्वास-प्रस्तुतिः
इति पारमेश्वरोक्तप्रकारेण सङ्कीर्त्य,
मूलम्
इति पारमेश्वरोक्तप्रकारेण सङ्कीर्त्य,
[[36]]
विश्वास-प्रस्तुतिः
ओं श्रियै नमः,
ओं भूम्यै नमः,
ओं नीलायै नमः,
इत्यादिक्रमेण देव्यादि-नामान्य् अपि सङ्कीर्त्य,
मूलम्
ओं श्रियै नमः, ओं भूम्यै नमः, ओं नीलायै नमः, इत्यादिक्रमेण देव्यादिनामान्यपि सङ्कीर्त्य,
विश्वास-प्रस्तुतिः
इत्यपि सङ्कीर्त्य,
मूलम्
इत्यपि सङ्कीर्त्य,
आह्निकार्थप्रकाशिका
देव्य्-आदि-नाम-सङ्कीर्तनम् आचार्यपादैर् अनुगृहीतम्।
आह्निकार्थप्रकाशिका
ब्राह्मान्मुहूर्ताद् आरभ्य
प्राग्-अंशं विप्र वासरे ।
जप-ध्यानार्चन-स्तोत्रैः
कर्म-वाक्-चित्त-संयुतैः ।
अभिगच्छेज् जगद्-योनिं
तच् चाभिगमनं स्मृतम् ।
इति ।
विश्वास-प्रस्तुतिः
पूर्वाचार्यप्रणीत-स्तोत्राण्य् अपि
शृण्वताम् अपि हर्ष-जनकेनोच्चैस् स्वरेण सङ्कीर्त्य,
तत्-कालोचित-द्वयादि-मन्त्र-जपं
पश्चिम-याम-कर्तव्यं वेदाभ्यासं च कुर्यात् ।
मूलम्
पूर्वाचार्यप्रणीतस्तोत्राण्यपि शृण्वतामपि हर्षजनकेनोच्चैस्स्वरेण सङ्कीर्त्य, तत्कालोचितद्वयादिमन्त्रजपं पश्चिमयामकर्तव्यं वेदाभ्यासं च कुर्यात् ।
आह्निकार्थप्रकाशिका
जयाख्य-संहिता-वचनम् अनुसृत्य स्तोत्र-जपादिकम् आह -
पूर्वाचार्यप्रणीतेत्यादिना ।
स्तोत्र-जपादिकम् आचार्य-पादैर् अप्य् अनुगृहीतम् ।
[[37]]