०४ ध्यानम् सप्रपदनम्

विश्वास-प्रस्तुतिः

निर्विघ्न-कैङ्कर्य-हेतु-भूत-
भगवत्-प्रसाद-सिद्ध्यर्थं
भगवन्तं ध्यातु-कामः

मूलम्

निर्विघ्नकैङ्कर्यहेतुभूतभगवत्प्रसादसिद्ध्यर्थं भगवन्तं ध्यातुकामः

आह्निकार्थप्रकाशिका

अथ निर्विघ्न-कैङ्कर्य-भगवत्-प्रसाद-सम्पादनम् आह निर्विघ्नेत्यादिना
तद् उक्तम् -
एवं-विध-निर्विघ्न-कैङ्कर्य-सिद्धिर् अपि

सङ्कल्पादेव भगवान् तत्त्वतो भावितात्मनाम् ।
वृत्तान्तमखिलं कालं सेचयत्यमृतेन तु ॥

इति श्रीसात्त्वतादिकथितप्रकारेण
भगवत्प्रसादाद् एव भविष्यतीति
तत्-सिद्ध्यर्थम् अपि
प्रथमं हरेर् एव ध्यानमुच्यते ॥

विश्वास-प्रस्तुतिः

स्वाचार्य-प्रभृति-भगवत्-पर्यन्त-गुरु-परम्परा-प्रपदन-पूर्वकं
भगवन्तं प्रपद्य

मूलम्

स्वाचार्यप्रभृतिभगवत्पर्यन्तगुरुपरम्पराप्रपदनपूर्वकं भगवन्तं प्रपद्य

आह्निकार्थप्रकाशिका

इत्यादिभगवत्प्रपदनं गुरुपरम्पराप्रपदनपूर्वकमित्याह - स्वाचार्यप्रभृतीत्यादिना - अत्र प्रमाणम् आचार्यश्रीसूक्त्यादिकं पूर्वमेव दर्शितम् ।

विश्वास-प्रस्तुतिः

अखिल-हेयेत्यादिना पूर्वोक्त-प्रकारेण भगवन्तं ध्यात्वा,

मूलम्

अखिलहेयेत्यादिना पूर्वोक्तप्रकारेण भगवन्तं ध्यात्वा,

आह्निकार्थप्रकाशिका

गद्योक्तध्यानप्रकारमाह अखिलहेयेत्यादिना तदुक्तम् ।

भगवच्-छास्त्र-तद्-उपब्रह्मण-नित्य-गद्य-स्तोत्रादिषु
विप्रकीर्णोक्तं ध्यानं
यथावगमं समाहृत्यानुतिष्ठेत्

इति ।

[[35]]

विश्वास-प्रस्तुतिः

“सव्यं पादम्” इत्युक्तप्रकारेण वा ध्यात्वा,

मूलम्

सव्यं पादमित्युक्तप्रकारेण वा ध्यात्वा,