०३ विघ्न-विनाशः

[[33]]

विश्वास-प्रस्तुतिः

करिष्यमाण-कैङ्कर्य-प्रतिबन्ध-निवृत्त्यर्थं

मूलम्

करिष्यमाणकैङ्कर्यप्रतिबन्धनिवृत्त्यर्थं

आह्निकार्थप्रकाशिका

कैङ्कर्य-प्रतिबन्धक-निवृत्ति-प्रार्थन-तन्-मन्त्रादिकम् आह करिष्यमाणेत्यादिना ।

विश्वास-प्रस्तुतिः

इति मन्त्रेण सदाचार्योपदिष्टेन प्रतिबन्धकनिवृत्तिं सम्प्रार्थ्य,

मूलम्

इति मन्त्रेण सदाचार्योपदिष्टेन प्रतिबन्धकनिवृत्तिं सम्प्रार्थ्य,

आह्निकार्थप्रकाशिका

तदुक्तं -

यद् अयम्
अपवर्गाङ्कुर-भूत-
स्वयम्-प्रयोजन-
स्वामि-कैङ्कर्य-महानन्द-लाभः

विघ्नायुतेन गोविन्दे नृणां भक्तिर् निवार्यते

इति कथं भविष्यतीति भयाद्
अनन्तरं प्रतिबन्धक-निवृत्तिं प्रार्थ्य

एतत्क्रियाविरोधीनि प्राचीनान्यशुभानि मे ।
कर्माण्यनन्तान्यच्छेद्यान्यनादीन्यशुचीन्यपि ॥

इत्यादि ।

स च प्रार्थनामन्त्रः

त्वय्याराधनकामोयम्

इत्यादिकः यथान्यायं देशिकसकाशादधीत्यात्रान्वहं प्रयोक्तव्यः ।
एवम् एव सर्वेषां मन्त्राणां समाधिः ।
विपर्यये हि नैष्फल्यं दृष्टादृष्ट-प्रत्यवायश् च
तेषु तेषु शास्त्रेषु पठ्यते ।

यदृच्छया श्रुतो मन्त्रश्
छन्नेनाथ छलेन वा ।
पत्रेक्षितो वा व्यर्थस् स्यात्
प्रत्युतानर्थदो भवेत् ॥

इति ।

[[34]]