[[33]]
विश्वास-प्रस्तुतिः
करिष्यमाण-कैङ्कर्य-प्रतिबन्ध-निवृत्त्यर्थं
मूलम्
करिष्यमाणकैङ्कर्यप्रतिबन्धनिवृत्त्यर्थं
आह्निकार्थप्रकाशिका
कैङ्कर्य-प्रतिबन्धक-निवृत्ति-प्रार्थन-तन्-मन्त्रादिकम् आह करिष्यमाणेत्यादिना ।
विश्वास-प्रस्तुतिः
इति मन्त्रेण सदाचार्योपदिष्टेन प्रतिबन्धकनिवृत्तिं सम्प्रार्थ्य,
मूलम्
इति मन्त्रेण सदाचार्योपदिष्टेन प्रतिबन्धकनिवृत्तिं सम्प्रार्थ्य,
आह्निकार्थप्रकाशिका
तदुक्तं -
यद् अयम्
अपवर्गाङ्कुर-भूत-
स्वयम्-प्रयोजन-
स्वामि-कैङ्कर्य-महानन्द-लाभःविघ्नायुतेन गोविन्दे नृणां भक्तिर् निवार्यते
इति कथं भविष्यतीति भयाद्
अनन्तरं प्रतिबन्धक-निवृत्तिं प्रार्थ्यएतत्क्रियाविरोधीनि प्राचीनान्यशुभानि मे ।
कर्माण्यनन्तान्यच्छेद्यान्यनादीन्यशुचीन्यपि ॥
इत्यादि ।
स च प्रार्थनामन्त्रः
त्वय्याराधनकामोयम्
इत्यादिकः यथान्यायं देशिकसकाशादधीत्यात्रान्वहं प्रयोक्तव्यः ।
एवम् एव सर्वेषां मन्त्राणां समाधिः ।
विपर्यये हि नैष्फल्यं दृष्टादृष्ट-प्रत्यवायश् च
तेषु तेषु शास्त्रेषु पठ्यते ।यदृच्छया श्रुतो मन्त्रश्
छन्नेनाथ छलेन वा ।
पत्रेक्षितो वा व्यर्थस् स्यात्
प्रत्युतानर्थदो भवेत् ॥इति ।
[[34]]