०२ सात्त्विकधृतिः, सङ्कल्पः

[[32]]

विश्वास-प्रस्तुतिः

… इति सात्त्विक-धृतिम् अवलम्ब्य,

कृतञ्च करिष्यामि भगवन्
नित्येन भगवत्-प्रीत्य्-अर्थेन
महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेनाभिगमनेन भगवत्कर्मणा
भगवन्तं वासुदेवम् अर्चयिष्यामि,

भगवतो बलेन, भगवतो वीर्येण, भगवतस् तेजसा, भगवतः कर्मणा+++(=कर्तुर् ईप्सिततमेन)+++,
भगवतः कर्म+++(=क्रियां)+++ करिष्यामि -
भगवतो वासुदेवस्य,

इत्य् अनुसन्धाय

भगवान् एव स्व–नियाम्य–स्वरूप-स्थिति-प्रवृत्ति–स्व-शेषतैकरसेन
+++(स्वीयैर् नियाम्यैः स्वरूप-स्थिति-प्रवृत्तिभिः स्वशेषता = स्वपरार्थता, सैव +एकरसो यस्य सः [आत्मा])+++
मया
स्वकीयैश् चोपकरणैः स्वाराधनैक-प्रयोजनाय
परम-पुरुषस् सर्व-शेषी
स्व-शेष-भूतम् इदम् अभिगमनाख्यं कर्म
(स्वस्मै) स्वप्रीतये स्वयम् एव कारयति

+इति त्यागं कृत्वा,

मूलम्

… इति।
सात्त्विकधृतिमवलम्ब्य, कृतञ्च करिष्यामि भगवन्नित्यनेन भगवत्प्रीत्यर्थेन महाविभूतिचातुरात्म्यभगवद्वासुदेवपादारविन्दार्चनेनाभिगमनेन भगवत्कर्मणा भगवन्तं वासुदेवमर्चयिष्यामि, भगवतो बलेन भगवतो वीर्येण भगवतस्तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि भगवतो वासुदेवस्य, इत्यनुसन्धाय भगवानेव स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेन मया स्वकीयैश्चोपकरणैः स्वाराधनैकप्रयोजनाय परमपुरुषस्सर्वशेषी स्वशेषभूतमिदमभिगमनाख्यं कर्म(स्वस्मै) स्वप्रीतये स्वयमेव कारयतीति त्यागं कृत्वा,

आह्निकार्थप्रकाशिका

सात्त्विक-धृत्य्-आलम्बनस्य कैङ्कर्य-प्रवृत्ति-हेतुतया
तद्-उक्त्य्-अनन्तरम्
अभिगमन-सङ्कल्प-सात्त्विकत्यागाव् आह ओं कृतञ्चेत्यादिना।

आचम्य वाग्यतो भूत्वा
प्रारभेत समर्चनम् ।
अर्चयामि त्वदीयोऽहं
त्वद्-दत्तैरौपचारिकैः ।
सांस्पर्शिकैर् इति ब्रूयाद्
एनम् आभ्यवहारिकैः ।

इत्य् अहिर्-बुध्न्य-संहिताष्टाविंशाध्याय-वचनानुसारात्
परिजन-परिच्छद-ध्यान-विधेश् च इज्याद्य्-अन्तयोः
भाष्यकारैर्
औपचारिकादि-भोग-हेतुक-
परिजन-परिच्छदान्वित-स्वात्म-प्रीति-बोधक-
सात्त्विक-त्याग-वाक्य-रचनम् अनुगृहीतम् ।
तद्-व्यतिरिक्त-कर्मसु उक्त-भोग-परिजन-परिच्छद-ध्यानान्वयाभावात् -
श्री-गीता-भाष्य-स्थ-सात्त्विक-त्याग-वाक्ये

स्वकीयैश् चोपकरणैस्
स्वाराधनैक-प्रयोजनाय
परम-पुरुषस् सर्व-शेषी सर्वेश्वरस्
स्वयम् एव कर्माणि कारयति

+इत्य् अनुगृहीततत्वात्
श्रीगीतार्थ-सङ्ग्रह-रक्षायां तस्यैवानूदितत्वात्
शिष्टाचार-सम्प्रदायाच् च
स्वाराधनैक-प्रयोजनायेत्यादि सात्त्विक-त्याग-वाक्यम् अनुगृहीतम् ।

एतेन इज्या-व्यतिरिक्ताभिगमनादि-सात्त्विक-त्याग-वाक्येषु
परिजन-परिच्छदान्वितत्वं वदताम् एकान्यपरेषां+++(←एक+अन्य+पर)+++ पक्षः,
पञ्च-काल-क्रिया-दीपोक्तः
औपचारिकादि-भोगाधीन-
परिजन-परिच्छदान्वित-स्वात्म-प्रीति-बोधकाभिगमन-सात्त्विक-त्याग-वाक्य-पक्षश् च प्रत्युक्तः।

पूर्वोदाहृत-प्रमाणाचार्यपाद-श्रीसूक्ति-शिष्टाचारैर्
अपर-रात्र-योगस्य ब्राह्म-मुहूर्त-प्रबोध-समय-कर्तव्यत्वात् ब्राह्मान् मुहूर्ताद् आरभ्य

उत्थानादि-क्रमाद् एतद्

इत्याचार्य-पादोदाहृत-प्रमाणेन
निर्वेद–सात्त्विक-धृत्य्-आलम्बनयोर् अप्य्
अभिगमन-काल-कर्तव्यत्वावागमाद्
अभिगमन एवान्तर्भावः -
यथा श्रीभाष्यादि-मङ्गल-श्लोकस्य
ग्रन्थ-समाप्त्य्-अर्थस्यापि
प्रथम-पादादाव् अन्तर्भावः,
तद्-वद् इति हृदयम् ।