श्री-रङ्ग-दिव्य-दम्पतिभ्यो नमः॥
श्री-रङ्गनाथ-दिव्य-मणि-पादुकाभ्यां नमः॥
श्रीमते पादुका-सेवक-रामानुज-महा-देशिकाय नमः॥
श्रीमते गोपालार्य-महा-देशिकाय नमः॥
श्रीमद्भिः निगमान्त-देशिकापरावतार-भूतैः श्री-गोपालार्य-महा-देशिकैर् अनुगृहीतं आह्निकम् ॥
श्रीमत्-परमहंसेत्यादि–श्री-चिन्नाण्डवन् इति प्रथितैः
श्रीमत्-पादुका-सेवक-रामानुज-महा-देशिकैर् अनुगृहीतया
आह्निकार्थ-प्रकाशिका-व्याख्यया समेतम्
श्रीमद्भिः शुण्ड-पाळयं-राम-भद्राचार्यैः विरचित आह्निकशेषः च
(रङ्गरामानुजकृत आह्निकार्थदर्पणः क्वचिल् लभ्यते?? असकृत् तस्य हेयोपादेयदर्पणय् उल्लेखः, आह्निकार्थप्रकाशिकायां चापि तदीयं विवरणं किञ्चिद् वर्तत इति प्रतिभाति। )
विस्तारः (द्रष्टुं नोद्यम्)
सम्पादकः
शे. नरसिह्मराघवाचार्यः
श्रीकार्यम्, श्रीमदाण्डवन् आश्रमः
प्रकाशकः
श्रीरङ्गम् श्रीमदाण्डवन् आश्रमः
2005
ஸ்ரீரங்கநாதர் - ஸ்ரீரங்கம்
ராயம்பேட்டையில் நம் ஆச்ரமத்தில் தம் திருமாளிகையில் ஸ்ரீமத் திருக்குடந்தை தேசிகன் ஸ்ரீ கோபாலார்ய மஹாதேசிகன் அவதாரம் : புரட்டாசி பூராடம் (ஸ்ரீமுஷ்ணம் ஸ்ரீமத் ஆண்டவனின் ப்ரதிஷ்டை)
2
ஸ்ரீமத் ஆண்டவன் - (ஸ்ரீமுஷ்ணம்)
संपादकीया विज्ञप्तिः
॥ श्रीः ॥
श्रीमते रङ्गरामानुजमहादेशिकाय नमः
॥ संपादकीया विज्ञप्तिः ॥
अवश्यानुष्ठेयत्वेन निगमनिर्णीतानि नित्यादीनि कर्माणि कुर्वन्नेव जिजीविषेन्नर इति शासनम् । श्रुतिस्मृति सूक्तिबाहुल्येन वैविध्येन च निर्णये दुष्करे आचार्याभिमतिप्रमाणप्राबल्यादिपर्यालोडने समीचीनम् आह्निकमन्वगृह्णन् तिरुक्कुडन्दै देशिक इति प्रथिताः श्रीमद्वेदान्तदेशिकापरावतारभूताः श्रीमन्तः गोपालार्यमहादेशिकाः ।
तत्रापि वितर्कावधूननार्थं श्रीमत्परमहंसेत्यादि श्रीमच्चिन्नाण्डवन् इति विख्यातैः श्रीमद्भिः श्री पादुकासेवकरामानुजमहादेशिकैः आह्निकार्थप्रकाशिकाभिधा व्याख्या व्यरचि ।
सूक्ष्माचारसंजिघृक्षया श्रीमत्पेरियाण्डवन् स्वामिचरणानां अन्तेवासिभिः शुण्डपाळयम् श्रीरामभद्राचार्यैः विरचितः आह्निकशेषश्च अस्मिन्नेव ग्रन्थसंग्रहे प्रकाश्यते ।
अद्यत्वे अलभ्यानाम् अत्युत्तमानां प्राचां ग्रन्थानां पुनर्मुद्रणेन महान्तं लोकोपकारं निर्वर्तयद्भिः अस्मदाचार्य सार्वभौमैः श्रीमत्परमहंसेत्यादि श्रीमदाण्डवन् (श्रीमुष्णं) स्वामिचरणैः आज्ञप्ता वयं ग्रन्थत्रितयमिदं पञ्चकालपरायणानाम् आचारनिष्ठानां महते उपकाराय कल्पेतेति विश्वसिमः ।
चेन्नै
27.9.2005
इत्थम् आचार्य चरणरेणुः
शे. नरसिह्मराघवः
श्रीकार्यम्, संपादकश्च ।
॥ श्रीः ॥
श्रीमते वेदान्तरामानुज महादेशिकाय नमः ।
श्रीमते पादुकासेवकरामानुज महादेशिकाय नमः ।
श्रीमते श्रीनिवासमहादेशिकाय नमः । श्रीमते गोपालार्यमहादेशिकाय नमः ।
श्रीमते निगमान्तमहादेशिकाय नमः । श्रीरङ्गनाथदिव्यमणिपादुकाभ्यां नमः ।
तरङ्गमुखनन्दिनीहेमाब्जनायिकासमेत श्री देवनाथ परब्रह्मणे नमः