द्रव्यार्जनादिविधिः
अपूर्णवृत्तिश्चेत् स्वाध्यायकाले
यथासम्भवम् उक्तशास्त्राभ्यासादिकं कृत्वा
क्षेत्रसस्याद्यवलोकने वस्त्वर्जने च व्याप्रियेत् ।
शक्तौ सत्यां न वृथा स्वाध्यायसङ्कोचं कुर्यात् ।
अप्रयत्नागतेनाल्पेनापि सन्तुष्येत् ।
अत्याशया असाध्येष्वतिप्रयत्नं न कुर्यात् ।
ग्रामाधिपत्यालयाधिकार-पौरोहित्यादौ न रुचिं कुर्यात् ।
व्यर्थकालयापनं, वृथा लौकिकसल्ँलापं, पैशुन्यं, कलहं, महद्भिर्विरोधम्, अल्पप्रयोजनाधिकव्ययम्, अल्पलाभकृते बन्धुविरोधं, येन केनापि विद्वेषं, स्त्रीजनसहवासं, तत्सल्ँलापं, तद्विरोधं, द्यूतादिकञ्च परित्यजेत् ।
बुद्ध-रुद्रादिस्थलं कटवीं+++(=??)+++ राज-धानीं च न गच्छेत् ।