पत्नीसम्भोगविधिः
सम्भोगेच्छा चेत्
स्व-स्थ-चित्तया अरोगया पत्न्या सह
स्वयम् अपि तादृशः संश्लिष्येत् ।
प्राप्ताष्टममासया गर्भिण्या संश्लेषो न युक्तः ।
[[332]]
रजः-प्रादुर्भाव-प्रभृति-षोडश-रात्रयः ऋतु-कालः ।
तत्राद्यं रात्रि-चतुष्टयं विहाय,
शिष्टासु रात्रिषु व्रत-दिनं श्राद्ध-दिनञ् च विहाय
सम्भोगं कुर्यात् ।
तथा षष्ठ्य्-अष्टमी–चतुर्-दशी–सङ्क्रान्ति-व्यतीपात–जन्म-र्क्ष–बुध-वारेषु
न सम्भोगं कुर्यात् ।
प्रवासाद् आगतस्य एतेषु न दोषः।
अनिषिद्धे पञ्चम-दिने ऋतु-स्नातया पत्न्या अवश्यं सम्भोगः कार्यः -
अन्यथा महान् दोषः।
पुत्रे जाते त्व् अ-सम्भोगे ऽपि न दोषः।
पूर्वोक्त-ऋतु-काल-भिन्न-दिनेषु अ-निषिद्धेषु
पत्न्या अपेक्षितश् चेद् गच्छेत् ।
ऋतुकाले उपवीत्यैव सम्भोगः ।+++(5)+++
तद्-भिन्न-काले पश्चाद्-भाग-गतेन निवीतेन सम्भोगः कार्यः ।
अर्धरात्रात् पूर्वम् एव सम्भोगो युक्तः ।
एकस्यां रात्रौ सकृद् एव संश्लिष्येत् ।
पत्नी-द्वयवांश् चेत्
अवैषम्येण तत्-तद्-इच्छानुगुणम्
एकैकस्यां रात्रौ एकैकया संश्लिष्येत् ।
इत्थं सम्भोगे कृते
पति-पत्न्योर् उभयोर् अपि
मूत्र-द्विगुणं शौचः कार्यः ।
ततश्-शौचं कृत्वा
पृथक् शय्यायां शयानो निद्राम् अनुभवेत् ।