योगविधिः॥
सायं-सन्ध्यादि
अथाह्निकोक्त-क्रमेण बहिर्-जले सायं-सन्ध्यां, होमाराधन-वैश्वदेवादिकं कुर्यात् ।
रात्रौ बलिहरणं पञ्च-महा-यज्ञाचरणञ् च नास्ति ।
केचित् बलिहरणं कुर्वन्ति ।
भोजनम्
ततः पूर्वोक्तनियमविशिष्टो भोजनं कुर्यात् ।
सन्ध्या-काले भोजनं मैथुनं निद्राञ् च त्यजेत् ।
रात्रौ यामाद् ऊर्ध्वन् न भुञ्जीत ।
उपरागाद्य्-उपाधिवशात् तत् काले भोजनासम्भवे
अर्धरात्राद् अर्वाक् भुञ्जीत ।
तद्-ऊर्ध्वन् तु न भुञ्जीत ।
वर्जनीयानि
रात्रौ गोमयाम्बुभिर् गृह-सेकं, गोमयाहरणं,
दण्डं विना गृहात् बहिर् गमनं, वन-सञ्चारम्, अ-सहाय-गमनं,
शून्यागारे वृक्षाधः-प्रदेशे च शयनं, देवागार-शयनञ् च परित्यजेत् ।
स्वाध्यायः, योगारम्भः
एवं भुक्त्वा
यथा-शक्ति स्वाध्यायं चरित्वा
स्वाध्याय-कर्म भगवते समर्प्य
योगं सङ्कल्प्याह्निकोक्तक्रमेण यथाशक्ति भगवन्तं ध्यात्वा निद्रागमे शयीत ।
शय्या-देशः
जन्त्व्-आद्य्-अधिष्ठितं पर्यङ्कं शनैस् सन्ताड्य, संशोध्य, परिष्कृत्य
खट्वायां भूमौ वा प्रसार्य,
स्वगृहे प्राक्-शिराः,
पथि प्रत्यक्-शिराः,
श्वशुरगृहे अन्यगृहे च दक्षिण-शिराः,
सर्वत्रानुदक्-शिरा वा शयीत।
पत्नी-व्यतिरिक्त-स्त्रिया सहैकस्थले न शयीत ।
स्वप्नः
…
सुस्वप्ने दृष्टे मातृ-पितृ-भगिनी-पत्नी-व्यतिरिक्त-जनेषु न कथयेत् ।
दुस्-स्वप्ने दृष्टे
उत्थाय पाणि-पादौ प्रक्षाल्याचम्य
तद्-दोष-परिहारार्थं भगवन्-नाम-सङ्कीर्तन-स्तोत्र-जपादिकं कृत्वा
प्रातः-काले जनेषु दुस्-स्वप्नं कथयेत् ।
निद्रा-विच्छेदः
मध्ये निद्राविच्छेदे सति
तदा तदा योगम् एव यथाशक्ति कुर्यात् ।
पुनश्च निद्रागमे शयीत ।
ब्राह्मे मुहूर्ते अवश्यम् उत्थाय यथापूर्वं कर्माणि कुर्यात् । इति पञ्चकालविधौ वक्तव्यशेषस्समाप्तः ।