स्वाध्यायविधिः
चतुर्थकाले स्वाध्यायं सङ्कल्प्य, यथाशक्त्यष्टाक्षरद्वादशाक्षरजपपूर्वकमितिहासपुराणपठनं वेदशास्त्राभ्यासं तदर्थप्रवचनं सत्काव्यपरिचयं पूर्वाचार्योक्तद्राविडगीर्वाणप्रबन्धाध्ययनाध्यापनतदर्थप्रवचनादिकं, सात्त्विकग्रन्थनिर्माणं, सद्ग्रन्थलेखनं च, यथाधिकारं कुर्यात् । स्वयं रहस्यार्थगृहीता चेत् ज्ञातॄन् प्रणम्य तदर्थं तदुक्तं भक्तिश्रद्धापूर्वकं गृह्णीयात् । तत्र किञ्चिन्मनसोऽसमाधाने कालान्तरे वा तदा वा शनैस्तदसमाधानहेतुं विज्ञाप्य, तदुक्तार्थवैशद्येन समाहितमना भूयात् । हठात् कमप्यर्थन्न पृच्छेत् । स्वयं यत्र विशेषार्थग्रहणं करोति तत्र सर्वत्र गुरुभावेनावर्तेत । तेषां नामकथनं, तत्समीपे आसनशयनपादप्रसारणानि, तदागमने अनुत्थानं, तैस्सह समानदेशोपवेशनं, तन्निन्दाश्रवणं, तत्समीपे अन्यस्तुतिञ्च वर्जयित्वा तेषु यावज्जीवं कृतज्ञो वर्तेत । गुरुव्यतिरिक्तब्रह्मविद्विषयेपि यथार्हमुक्तधर्मविशिष्टो वर्तेत । स्वयम् उपदेष्टा चेत् शिष्यस्य गुणपूर्तिं ज्ञात्वा, स्वाचार्योपदेश-तत्प्रभाव-प्रकटनपूर्वकं तस्मा उपदिशेत् । उपदेशयोग्यपात्रलाभे सति नार्थं गोपयेत् । गूढार्थान् झटिति न प्रकाशयेत् । यदि कश्चन स्वाज्ञातोप्यर्थस्तेनोच्येत, तस्यौचित्ये सति सन्तुष्येत् । नासूयादिना अपलपेत् । शिष्यस्याप्यतीव त्वंकारहुंकारादिना न परिभवं कुर्यात् । ख्यातिलाभपूजाद्यर्थं कमप्यर्थं कस्मैचनापि न वदेत् ।