भोजनविधिः
अथ भोजनविधिः
पाणी पादौ प्रक्षाल्य द्विराचम्य शक्तश्चेत्, स्वर्णवलयं वर्तुलदर्भपवित्रञ्च धृत्वा, अशक्तश्चेत् वर्तुलदर्भपवित्रं वा धृत्वा, भुक्तिपात्रस्यान्यूनाधिकं गोमयेन निच्छिद्रं चतुरश्रमण्डलं कृत्वा, तस्मिन् प्रक्षाल्य निक्षिप्ते जम्बूपनस-काञ्चीनालिकेरपलाशकदल्युहिनापिशाचोदुम्बरपद्मचूतानामन्यतमपत्रे अभिन्ने प्राङ्मुखो दक्षिणाभिमुखो वा भोजनं कुर्यात् । अश्वत्थवटतिन्दुकार्कोदुम्बरपत्रे करे अञ्जलौ पाषाणे पर्णपृष्ठे वस्त्रे कदल्यादिगर्भपत्रे च न भोजनम् । सौवर्णराजतत्कांस्यपात्रे वा भुञ्ज्यात् । वस्त्रप्रावृतदेहेन न भुक्तिः कार्या । स्वजनैरप्येकपङ्क्तिभोजनं न कुर्यात् । ब्रह्मविद्भिस्सहैकपङ्क्तिभोजनन्तु पावनम् । अग्निजलभस्मद्वारादिभिः पङ्क्तिर्भिद्यते । तथा निम्नोन्नतप्रदेशेनापि पङ्क्तिभेदः । पानपात्रं दक्षिणपार्श्वे निक्षिप्य वामकरेण कांस्यादिचषकस्थं तीर्थं षडङ्गुलधारया पिबेत् । पानकाले भोजनपात्रं दक्षिणेन पाणिना स्प्रष्टव्यम् । स्वहस्ते सत्यन्यहस्तेन न पिबेत् । मुखनिःसृतजलस्य पात्रपतने तदन्नन्त्यजेत् । स्वाङ्गपतने स्नायात् । स्त्री तु पानपात्रं वामपार्श्वे निक्षिपेत् । स्त्री वा पुमान्वा भगवत्पात्रेण चक्रादिलाञ्छितेन वा आयसेन वा पात्रेण न पिबेत् ।
[[318]]
पीतशेषन्न पिबेत् । किञ्चिन्निःस्राव्य वा पिबेत्, भोजनकाले दक्षिणेन इतरकाले वामेन करेण न पिबेत् । नद्यादौ दक्षिणेन पाणितलेनादाय पिबेत् । नाञ्जलिना पिबेत् । भोजनार्थमासीनः केनाप्यभिवादितः चेत्? पुनराचामेत् । पादाभ्यां पादेन वा भुवं स्पृष्ट्वा भोक्तव्यम् । अशक्तौ प्राणाहुतिपर्यन्तं वा । तस्मिन्नपि समये चरणौ वस्त्रेणाच्छादयेत् । न साधुसन्निधौ स्वचरणौ प्रकाशयेत् । पात्रपरिविष्टमन्नम् आपोशनात्पूर्वन्न स्पृशेत् । आह्निकोक्तरीत्या परिषेचनापोशने कुर्यात् । भगवदभिषेकाचमनीयपानीयाम्भःस्वपानाय कल्पयेत् । पाद्यतीर्थेनैवापोशनद्वयम् । आसने समासीनोपि पादौ भूमावेव निक्षिपेत् । आसने पादौ निक्षिप्य न भुञ्ज्यात् । आपोशनार्थं गृहीतस्य तीर्थस्य न वृथास्रावं पुनःपूरणञ्च कुर्यात् । परिषेचनशेषजलेनापोशने पञ्चगव्यप्राशनं कार्यम् । प्राणाहुत्यनन्तरं वामकरं स्पृष्टभोजनपात्रं[[??]] तत्रैव क्षालयेत् । नत्वन्नमुल्लङ्घ्यान्यत्र । सर्वेषामेतावन्तं कालं मौनम् । अनन्तरं साधुभिस्सद्वाक्यमुक्त्वा वा भुञ्ज्यात् । वर्णिनो यतेश्चाऽऽभोजनावसानं मौनमेव । अनिवेदितं भगवते न भुञ्ज्यात् । अन्यत्र भगवन्निवेदितं स्वार्चायै निवेद्य ततोन्तर्यामिणे निवेद्य प्राणाहुतीः कृत्वा भोक्तव्यम् । भोजनमध्यप्राप्तं फलादिकं पुत्रादिना निवेदयित्वा भोक्तव्यम् । निवेदनानर्हं कोद्रवान्नादिकमापदि भोक्तव्यञ्चेत् भगवन्निवेदिततोयादिभिर्मिश्रीकृत्य भुञ्जीयात् । एवं भुक्त्वा, अक्षालितेनालीढेन पाणिनोत्तरापोशनं कृत्वा, वर्तुलपवित्रं विस्स्रस्य भूमौ विसृजेत् । पात्रे प्रक्षेपे प्रायश्चित्ती भवति । आपोशनानन्तरं पात्रस्पर्शे आपोशनमकृत्वोत्थाने च सचेलं स्नायात् ।
[[319]]
भुक्तिकाले पादेनाङ्काक्रमणं, वामपाणिना भूतलस्पर्शं, पादस्पर्शं, पादप्रसारणम्, उच्छिष्टपाणेर्मुखसमुद्धरणं दक्षिणपाणिना भुक्तिपात्रासंस्पर्शं, निष्ठीवनम्, अतिवादं, लौकिकवादं, कलहं, परिहासं, बालतर्जनम्, अन्नदोषकथनं, सह भुञ्जतां शीघ्रभोजननियोगं, भुक्तवत्सु तेषु स्वयं शनैर्भोजनमित्यादिकं वर्जयेत् । भुक्तिकाले श्वशूद्रपतिताद्यवलोकने तदन्नं परित्यजेत् । सूकरकुक्कुटाद्यवलोकने “मानस्तोक” इत्यृचं जपेत् । तथा पतितशूद्रादिवाक्यश्रवणे चण्डालरजस्वलादिवाक्यश्रवणे तदन्नन्त्यजेत् । भुक्तिकाले क्रियाकाले च बिडालपुच्छस्पर्शे स्नायात् । पुच्छव्यतिरिक्ताङ्गस्पर्शे क्रियाकाले आचमनं, भुक्तिकाले स्पृष्टाङ्गस्य जलेन मार्जनञ्च कुर्यात् । मुखाधिककवलं मुखनिःसृतञ्च त्यजेत् । अपक्वं तैलपक्वं दर्व्या दत्तं तद्व्यतिरिक्तं हस्तदत्तमायसपात्रदत्तञ्च त्यजेत् । प्रत्यक्षलवणं क्षीरदध्याम्लयुक्तं पटोलं; तादृशं च निष्पावजातं साम्लमगस्त्यशाकं, दधिमिश्रं माषं, लवणेन वा तक्रेण वा मिश्रं क्षीरं, क्वथितं नालिकेरजलं दधि च, ताम्रस्थे क्षीरमधुनी, कांस्यपात्रस्थमैक्षवं नालिकेरजलञ्च त्यजेत् । खादितन्तु न खादयेत् । चूतफलादिकन्तु हस्तेनादाय पुनर्निक्षेपवर्जं भोक्तव्यम् । मध्ये मध्ये निक्षेपे पुनः खादनदोषः । नखविदलितन्त्यजेत् । उच्छिष्टपरिविष्टमाज्यं पर्युषितं शूक्तञ्च परित्यजेत् । भक्ष्यशूक्तत्वपर्युषितत्वयोरुपदंशवटकसंस्कृतान्न-भक्ष्यशाकादिपाकविशेषौधादीनां पर्युषितत्वस्य च न दोषः, तथापि व्रतदिने श्राद्धदिने च तानि त्याज्यानि ॥ प्रथमं द्रववस्तु, मध्ये कठिनवस्तु, पुनश्च द्रववस्तु च भोक्तव्यम् । अन्नव्यञ्जनादौ रोमनखमक्षिकादिजन्तुदर्शनञ्चेत् पाककाल एव तत्सद्भावे निश्चिते सति तदन्नव्यञ्जनादिकं त्याज्यम् । पाकात् परं तत्सद्भावे सति रोमादिकमपनोद्य पाद्यजलं प्रक्षिप्य भोक्तव्यम् । न परित्याज्यम् ।
[[320]]
भोजनकाले वाय्वादिना तन्तुतृणरोमपांसुप्रमुखवस्तुपाते जलं मृदं वा अन्नादौ प्रक्षिप्य भोक्तव्यम् । मरीचिरसनालिकेरजलादिकं दक्षिणेन पाणिना अमत्रेणादाय पुनर्निक्षेपवर्जं पिबेत् । सशेषं निक्षिप्य पुनःपाने उच्छिष्टपानदोषः । भोजनकाले दीपनाशश्चेत् सूर्यं ध्यात्वा दीपागमनपर्यन्तं भुक्तिपात्रममुञ्चन् दीपागमने पात्रस्थमेवान्नादिकं भोक्तव्यम् । न पुनः परिविष्टम् ।
अभोज्यादिविषयः
अभोज्यादिविषयः
मुसलशब्दश्रवणे तैलेषु यन्त्रघरट्टशब्दश्रवणेपि न भुञ्ज्यात् । रात्रौ दधितैलतन्मिश्रपदार्थतिलामलकमुद्गसम्बन्धानि वस्तूनि, दिवा कपित्थधानाकेवलक्षराणि [[??]] वर्जयेत् । भानुवारे सप्तम्याञ्चामलकन्त्यजेत् । प्रथमायां कूश्माण्डं, द्वितीयायां बृहतीं, तृतीयायान्तरुणीं, षष्ठ्यां दाडिमम्, अष्टम्यान्नालिकेरं, दशम्यां पटोलिकाम्, एकादश्यान्निष्पावं, त्रयोदश्यान्तिलं, चतुर्दश्यां पर्वकाले सङ्क्रमणे चाम्लञ्च परित्यजेत् । मार्जारमूषिककुक्कुटकाकनरादिमुखस्पृष्टं मनुष्यपश्वाद्याघ्रातं च न भोक्तव्यम् । आशौचान्नं श्राद्धशिष्टं दम्पतिभुक्तशिष्टं शूद्रपतितरजस्वलादिभुक्तशिष्टञ्च न भोक्तव्यम् । पाकभाण्डस्थमन्नादिकं पात्रान्तरे निधाय तस्मादन्नादिकमादाय पात्रान्तरे निक्षिप्य शूद्ररजस्वलादिभ्यो देयम् । तथा सति पाकभाण्डस्थान्नादेर्न दोषः । पात्रान्तरस्थान्नादेरेव शिष्टदोषः ।
[[321]]
उपरागकालपक्वम्, अपक्वमतिपक्वं, पुनः पक्वं, भिस्सटां, सकेशविधि वा पक्वमक्षणतयोनिपक्वम्, ऋतुस्नातापक्वं, पञ्चसंस्कारहीनपक्वं, बालपक्वं प्रत्यहं पुरुषपक्वम्, आचारहीनपक्वम्, प्रागुदग्व्यतिरिक्तदिङ्मुखेन पक्वम्, उभयोर्द्रव्यमेलनेन समुदायपक्वं, शूद्रगृहपक्वं, पथि समुदायशालादिषु पक्वं, सत्रान्नं, शीतिभूतम्, अत्युष्णम्, अत्याम्लम्, अतिकटु, अतितिक्तं, सतुषान्नम्, आरनालम्, अन्यगृहपक्वान्नम्, अद्वारादागतान्नं, चुल्ल्या दक्षिणत उद्वासितं, पात्रव्यतिरेकेण हस्तदत्तं, मुखध्मातम्, अन्यहस्तमर्दितं, वृधा[[??]] पायसकृसरपाकम्, उपनयनसीमन्तनामकरणप्रथमार्तवान्नं, सङ्घान्नम्, अक्रमान्नम्, अनादरदत्तान्नं, क्रयक्रीतान्नं, शूद्रान्नम्, आचारहीनान्नं, लुब्धान्नम्, उन्मत्तभ्रान्ताद्यन्नं, वार्धुषिकाद्यन्नञ्च, वर्जयेत् । ब्राह्मणात् क्रीतं क्षीरदध्यादिकं त्यजेत् । शूद्रगृहे गव्यं न पिबेत् । शूद्रपात्रेण न पिबेत् । शूद्रभुक्तपात्रशिष्टं दध्यादिकं त्यजेत् । स्त्रिया सह न भुञ्ज्यात् ।
उच्छिष्टविषयः
उच्छिष्टविषयः
उच्छिष्टविषयं किञ्चिदुच्यते । स्वोच्छिष्टकबलस्य भुक्तिकाले स्वदेहपतने अभुञ्जन्नुत्थाय स्नायात् । स्वोच्छिष्टलेपपतने तावन्मात्रदेशं प्रक्षाल्य भुक्त्वा यथाशक्ति गायत्रीं जपेत् । अन्योच्छिष्टलेपस्य स्वेदेहसम्बन्धे अभुञ्जन्नुत्थाय स्नायात् । मोहात् भोजने तु स्नात्वा त्रिशतगायत्रीजपं कुर्यात् । भुञ्जानानां मिथोऽङ्गस्पर्शे तदन्नं त्यक्त्वा स्नानं कार्यम् । मोहात् भोजने गायत्र्यष्टशतं जपेत् । पात्रस्थमन्नादिकं भुक्त्वा ततः स्नात्वा गायत्र्यष्टशतजपः कार्य इति केचित् । भोजनात्परं हस्तक्षालनात् पूर्वं स्पर्शेपि स्नानं कार्यम् । भुञ्जानस्य भुक्त्यनन्तरमकृतहस्तक्षालनस्य वा, अङ्गस्पर्शे स्नानं कार्यम् । तत्स्पृष्टद्वितीयस्याचमनतश्शुद्धिः । उच्छिष्टधारायाः स्वपादैकदेशाद्यवयवसम्बन्धे तावन्मात्रं प्रक्षाल्य भुक्त्वा तत्र तिस्रो मृत्तिका देयाः ।
[[322]]
तादृशधारायाः स्ववस्त्रसम्बन्धे अभुञ्जन्नुत्थाय सचेलं स्नायात् । मोहात् भोजने स्नात्वा गायत्र्यष्टशतं जपेत् । एकदिनमुपवासो वा । भोजनपात्रस्योच्छिष्टसम्बन्धे भोक्ता तत्पात्रमस्पृशन्नासीत । अन्यः कश्चन तत्पात्रमन्यत्र नीत्वा तत्स्थलं गोमयेनोपलिप्य पात्रान्तरे अन्नादिकन्निधाय सान्नादिकमेव तत्पात्रं तत्स्थले निक्षिपेत् । भोक्ता तु तत्परिषिच्य भुञ्ज्यात् । नापोशनप्राणाहुती उत्तरापोशनमात्रम् । भोक्त्रा स्पृष्टोच्छिष्टभोजनपात्रश्चेत् हस्तं प्रक्षाल्य पूर्वोक्तक्रमेण निहितमन्नादिकं भुञ्ज्यात् । एवं द्वयोस्रयाणां वा उच्छिष्टधाराया मिथो भोजनपात्रसंसर्गे पूर्वोक्तक्रम एव । केचित् धाराया मिथः पात्रसंसर्गव्यतिरेकेण अन्यतरपात्रोच्छिष्टस्यान्यतरपात्रपतनेपि उभयोरन्नत्यागमिच्छन्ति । एवं भोक्तुः स्नाननिमित्त-उच्छिष्टसम्बन्धव्यतिरेकेण पात्रमात्रोच्छिष्टसम्बन्धे सति पूर्वोक्तप्रकारेण कृत्वा भोजनेपि दिवा द्विभोजनसाम्यात् एकभक्तादिदिने तथा भोजननिषेधं वदन्ति । उभयोर्मूलं चिन्त्यम् । भुञ्जानः कश्चिदन्यस्य समीपे भुञ्जानस्य भोजनपात्रमनुच्छिष्टेनापि पाणिना स्पृशेच्चेत्; उभावप्यन्नं विसृजेताम् । तत् कथमिति चेत् भुञ्जानस्योच्चिष्टत्वात् तेन स्पृष्टान्यदीयपात्रस्य दुष्टत्वात्तत्रस्थमन्नादिकं तेन न भोक्तव्यम् । तत्पात्रस्योच्छिष्टत्वात् । तत् स्पृष्टवतोऽन्यस्याशुद्धत्वात् । उभावपि तत्तदन्नं विसृज्य पात्रान्तरनिक्षिप्तमन्नादिकमेव भुञ्जीयाताम् । स्पृशतः पुनर्भोजनं प्रामादिकस्पर्शविषयम् । बुद्धिपूर्वस्पर्शे तु अभुञ्जन्नुत्थाय स्नायात् । परिवेषणकाले दर्व्यादेरुच्छिष्टसम्बन्धे तद्दूरतो निधाय परिवेषकः हस्तं क्षालयेत् । इतरकरधृतं पात्रं भूमौ निधायाचम्य प्रोक्ष्य गृह्णीयात् । गृहीतधौतवस्त्रादेः पुरुषस्योच्छिष्टसम्बन्धे तदनिधायैवाचमनञ्चरेत् । गृहीतमृत्पाषाणभाण्डस्य पुरुषस्योच्छिष्टसम्बन्धे तद्भाण्डं दूरतस्त्यक्त्वाचामेत् ।
[[323]]
भोक्तुरागमनात् पूर्वं भोजनपात्रदत्तस्यान्नादेरुच्चिष्टतुल्यत्वम् । प्राणाहुतेः पूर्वं पुनःपरिविष्टमन्नं प्राणाहुत्यनन्तरमाज्याभिघा[[??]]रितञ्च त्यजेत् । मोहात्तत्भोजने गायत्रीत्रिशतं जपेत् । एकपङ्क्तिप्रविष्टानां भुञ्जतां मध्ये यः कश्चन पूर्वं पूर्वापोशनं पिबेच्चेत् अन्यैस्तत्पङ्क्तिप्रविष्टैस्तदापोशनं विसृज्य पाणिं प्रक्षाल्य पुनरापोशनं कर्तव्यम् । तथा - उत्तरापोशनं पूर्वं कृतञ्चेत् तत्पङ्क्तिस्थैरन्यैर्भोजनपात्रस्थमन्नादिकन्त्याज्यम् । पङ्क्त्यन्तरप्रविष्टानान्न दोषः । यदि कश्चन भुञ्जानेष्वन्येषु बलात् कामाद्वा उत्तरापोशनं कृत्वा वा अकृत्वा वा भुक्तिपात्रन्त्यक्त्वोत्तितष्ठेत[[??]] तदा तद्भोजनशालास्थैस्सर्वैरपि न भोक्तव्यम् । शालान्तरस्थानान्न दोषः । तस्य भोजनकण्टकस्य प्राजापत्यं प्रायश्चित्तम् । भोजनशालायामेकस्मिन्नप्युच्छिष्टपात्रे स्थिते च्छिलायान्न भोक्तव्यम् । किञ्च एकपङ्क्तौ भुञ्जानः कश्चित् भोजनमध्ये व्याध्यादिवशात् मूत्रपुरीषोत्सर्जनं वमनं वा यदि कुर्यात् तत्पङ्क्तिप्रविष्टैर्न भोक्तव्यम् । तथा पङ्क्तिमध्ये भोक्तृव्यतिरेकेणान्योपि बालादिः पुरीषं विसृजेच्चेत्तत्पङ्क्ते?[[??]] र्देषेः[[??]] । भोजनकाले अन्यकाले वा हठाज्जलमलस्रावे तद्वस्त्रं परिहृत्यान्यद्वस्त्रं परिधाय स्नात्वा घृतं प्राश्य नूतनयज्ञोपवीतं धरेत् । भोक्तुर्हस्तक्षालनात् पूर्वं वमने गण्डूषमात्रम् । अन्तरं वमने स्नानम् । श्राद्धभोक्तॄणामुच्छिष्टवमनविषये कर्तव्यक्रमः श्राद्धप्रयोगे उक्तस्तत्र द्रष्टव्यः । इत्युच्छिष्टविषयः । एवं जात्याश्रयनिमित्तदुष्टमपि वर्जयेत् । किञ्च भक्ष्याभक्ष्यविवेकविस्तारः अनुष्ठानादन्यग्रन्थाच्चावधेयः ।
इत्थमुक्तनियमातिक्रमेण भोजने गायत्रीजपः उपवासः ब्रह्मकूर्चप्राशनञ्च यथानिमित्तं प्रायश्चित्तम् ।
[[325]]
भोजननिषेधकालः
— भोजननिषेधकालः
अथ भोजननिषेधकालः । एकादश्यादिव्रतदिनेषु दिवा रात्रम् उपरागकाले च प्राप्ताष्टमवर्षो न भुञ्ज्यात् । अर्कवारे पर्वद्वये च रात्रौ चतुर्दश्यष्टम्योर्दिवा न भुञ्ज्यात् । एतदज्जीवपितृकविषयमिति वदन्ति । तथा चतुर्दश्यष्टम्यभोजनवचनं कृष्णाष्टमीचतुर्दशीविषयमिति च ।
अत्र किञ्चिद्विचार्यते । पर्वादिषूक्तमेककालभोजनात्मकमेकभक्तं किं स्वतन्त्रम् उतोपवासाशक्तानामुपवासप्रतिनिधितया प्राप्तमिति । स्वतन्त्रत्वे तासु तिथिषु एकभक्तस्यैव वैधत्वेन श्रवणपर्वकृष्णाष्टम्युपवासविधायकशाण्डिल्यवचनस्यासङ्गतत्वापत्तेः उपवासप्रतिनिधित्वमेव वक्तवम् । एवञ्च अहोरात्रभोजनवर्जनस्यैव उपवासशब्दार्थतया तत्राशक्तानां गौणतया एकभक्तानुष्ठाने उक्तेः अशक्तैरपि तादृशतिथिषु भोजनद्वयन्न कर्तव्यमिति पर्यवसितम् । तथा च अहोरात्रसङ्गतेषु तत्तिथिषु कदा वा अनुकल्पाधिकारिभिर्भोजनं कर्तव्यमिति शङ्कायां ‘अर्कद्विपर्वरात्रौ च चतुर्दश्यष्टमी दिवे’ति वचनमेव व्यवस्थापकं भवति । तथाचायन्निष्कृष्टार्थः - पर्वविशिष्टरात्रौ चतुर्दश्यष्टमीविशिष्टेऽह्नि च भोजननिषेधात् तद्व्यतिरिक्तकाले भोजनमनुमतमेव । रात्रावपि भोजनकाले पर्वण्यनागते निवृत्ते वा भोजनस्य न कोपि बाधः । रात्रौ पर्वविशिष्टत्वास्थायां भोजनाभावात् पर्वणि भोजनद्वयाभावाच्च । दिनद्वयेपि रात्रौ भोजनकले पर्वणि विद्यमाने न भोक्तव्यम् । कथमिति चेत् एकादशीजयन्तीव्यतिरिक्तोपवासस्य तिथिसद्भावकालकर्तव्यतया उपवासप्रतिनिधिभूतस्य द्वितीयभोजनाभावस्यापि तत्कालकर्तव्यतया पर्वणि द्विभोजने अनुकल्पोपवासस्याप्यसिद्धेः ।
[[325]]
एवमेव दिवाभोजनकाले चतुर्दश्याष्टम्यनागमने तयोर्निवृत्तौ वा भोजनस्य न कापि क्षतिः । दिनद्वयेपि दिवाभोजनकाले तयोस्सत्वे सति न भोक्तव्यमेवेत्यवधेयम् । परन्तु इदानीं कैश्चिच्छिष्टैरनुष्ठीयमानस्य कृष्णाष्टमीचतुर्दश्यो रात्रावभोजनस्य दिवाभोजनस्य च किमपि नियामकन्न पश्यामः । अत्र केचित् - उपवासार्हतिथिषु अशक्तानां भोजनद्वयस्यैव निषिद्धत्वात् दिवारात्रिनियममनङ्गीकृत्य दिवाभोजनाभावे रात्रिभोजनं रात्रिभोजनाभावे दिवाभोजनं कुर्वते । तत्पूर्वोक्तवचनयुक्त्यादिविरोधादुपेक्ष्यमित्यलं प्रसक्तानुप्रसक्त्या । एवमन्नश्राद्धदिनस्य पूर्वेद्युः प्रत्याब्दिकश्राद्धस्य परेद्युश्च तिलतर्पणादिरूपसर्वश्राद्धदिने पारणादिने स्थालीपाकस्य पूर्वदिने श्राद्धभोजनस्य परेद्युश्च रात्रौ न भोक्तव्यम् । यस्मिन् काले भोजनं निषिध्यते अन्नश्राद्धदिनभिन्ने तत्र तत्र काले अशक्ताः अव्रतघ्नफलाहारादिकं कुर्युः । तच्च भगवते निवेद्य प्रोक्ष्य भुञ्ज्युः । न परिषेचनापोशनप्राणाहुत्यादि । भोजननिषेधकाले अनिषिद्धेपि भोजनालाभकाले च प्राणाग्निहोत्रमन्त्रजपः कार्यः । कस्मिंश्चिच्छास्त्रीयभोजनकाले लवणादिसंस्कृतान्नमेव भोक्तव्यतया प्राप्तञ्चेत् तदा प्राणाहुतिमात्रस्य शुद्धान्नं कल्पनीयम् । अलाभे सति “शेषिलोपाद्वरं शेषलोप" इति न्यायेन परिषेचनापोशनपूर्वकं तेनैव प्राणाहुतिः कार्या । यदि कश्चनाशक्तो दिवा द्विभोजनं करोति तदा परिषेचनापोशनादिकमावश्यकं वा न वेति चेत् ? अङ्गीभूततद्भोजनस्यैवाशास्त्रीयत्वात् तदङ्गविधिनिषेधविचारोऽप्रयोजकः । गृहस्थस्य दिवा सकृत् भोजनं रात्रौ च सकृदिति भोजनद्वयस्यैव विहितत्वात् मध्ये शष्कुल्यादिभक्ष्यभक्षणेपि दिवा द्विभोजनदोष इति वदन्ति ।
[[326]]
अशक्तानां मध्ये पिष्टभक्ष्यफलादिभक्षणे तु न दोषः । आद्यन्ताचमनन्तु सर्वत्र कार्यम् । वेत्रचर्मकृते तालपत्रकृते तृणविशेषादिनिर्मिते च पात्रे भक्ष्यादिकन्निधाय न भोक्तव्यम् ।
अथोत्तरमाध्याह्निकं कृत्वा भगवन्निवेदितताम्बूलचर्वणं कुर्यात् ।
ताम्बूलदानविधिः
ताम्बूलदानविधिः
द्विजेभ्यस्ताम्बूलदाने, त्र्यादिकमेव पूगफलं दद्यात् । न पूगद्वयम् । अलाभे एकं वा दद्यात् । प्रातःकाले पूगाधिक्यं मध्याह्ने चूर्णाधिक्यं रात्रौ पर्णाधिक्यमित्युक्तक्रमेण वा, यथारुचि वा, ताम्बूलचर्वणं [^१] कृत्वाचामेत् ।
[^१]ः
एतदाचमनम् - इज्यान्ताचमनं, न ताम्बूलचर्वणाङ्गम् ।
शङ्खशुक्त्यादिचूर्णमबन्धुगृहचूर्णं च नोपयुञ्ज्यात् । आसीन एव ताम्बूलचर्वणं कुर्यात् । तिष्ठन् शयानो वा न किमपि भक्षयेत्, न किमपि पिबेत् । मोहात्तथा करणे च गायत्र्यष्टशतं जपेत् । ताम्बूलचर्वणकाले भिन्नकाले वा दन्तलग्नवस्त्वपनोदनं कर्तव्यञ्चेत् काष्ठतृणादिना शुद्धेन तदपनुद्य तत्तृणादिकं दूरतो विसृज्य मुखं करञ्च प्रक्षाल्याचामेत् । दन्तलग्नवस्तुनः जिह्वास्पर्शाभावे सति शुद्धिरेव । अतस्तत्पतने न दोषः । एवं श्मश्रौ दन्तादिसम्बन्धेपि नाशुद्धिः । परन्तु हस्तेन न स्पृशेत् । स्पर्शे च हस्तं प्रक्षाल्याचामेत् । स्वाध्यायादिसमये मुखकणिकापतने न दोषः । मुखबिन्दोर्देहपतने अम्भसा परिमृज्य करं प्रक्षाल्याचामेत् । अन्यमुखकणिकापतनेपि तथैव कुर्यात् । अन्यमुखोच्छिष्टबिन्दुपतने स्नायात् । स्वमुखबिन्दोः भूमौ पतने आचामेत् । श्राद्धदिनेषु व्रतदिनेषु बन्धुमृतिशोकदिनेषु च गन्धताम्बूलादिकं वर्जयेत् ।
[[328]]
दर्शादिषु गन्धताम्बूलयोर्न दोष इति धर्मप्रवृत्त्यादिषूक्तम् । तथैव केचनानुतिष्ठन्ति च । यथानुष्ठानं व्यवस्था । इत्थं ताम्बूलचर्वणं कृत्वा इज्यां भगवति समर्पयेत् । केचिदिज्यां समर्प्य स्वाध्यायं सङ्कल्प्य नियमेन पठ्यमानं श्रीमद्रामायणादिकं पठित्वा ततस्ताम्बूलचर्वणं कुर्वन्ति । तथैवोक्तं सच्चरित्रसुधानिधौ । यथानुष्ठानं व्यवस्था । इत्थं तृतीयकाले इज्यां कृत्वा चतुर्थकाले स्वाध्यायं सङ्कल्पयेत् ।
पारणम्
पारणाविधिः
पारणाविधिः
पारणदिनेषु प्रथमद्वितीयतृतीयकालकर्तव्यास्ताम्बूलचर्वणावसानकेज्यान्तास्सर्वाः क्रियाः प्रातरेव कुर्यात् । पारणे तिलमुद्गक्षारलवणतिन्त्रिणीवार्ताकादिकं वर्ज्यम् । प्रयत्नेन तिन्त्रिणी वर्जनीया । आमलकागस्त्याच्युततुलसीमिश्रितां पारणे प्रथमाहुतिं कुर्यात् । भानुवारेपि द्वादशीपारणे आमलकस्य न दोषः । द्वादश्यां प्रातर्हरिवासरे सति तावत्पर्यन्तमिज्या-वैश्वदेवान्ताः क्रियाः यथासम्भवं यथाकालं कृत्वा हरिवासरापगोत्तरक्षणे पारणं कुर्यात् ।
हरिवासरः
हरिवासरः
हरिवासरस्तु द्वादश्या आद्यः पादः । तस्यैकादशीतुल्यत्वात् न तत्र पारणं कुर्यात् ।
पारणाकालः
पारणाकालः
एवं जयन्त्यादिपारणदिनेष्वपि तिथिनक्षत्र-अन्यतरानपगमे सति तदपगमपर्यन्तमुक्तक्रियाः कृत्वा तदपगमे सति पारणं तदैव कुर्यात् ।
[[328]]
पारणदिने द्वादश्या आसायं स्थितौ वा, कलामात्रद्वादश्या अभावे वा पारणा प्रातरेव कर्तव्या ।
साध्यद्वादशीविधिः
साध्यद्वादशीविधिः
उदयानन्तरं द्वादशीकलामात्रसत्त्वे अरुणोदय एव होमादिवैश्वदेवान्ताः क्रियाः कृत्वा द्वादशी यावन्नापैति तावत् शीघ्रं पारणं कुर्यात् । तदा माध्याह्निके सूर्यावलोकनं दीपावलोकनमेव ।
एवं खिन्नवृत्तितया पारतन्त्र्यात् अगत्यन्तरकार्यवशाद्वा तृतीयकाले इज्याकरणासम्भवे उपादानकाले अभिगमनकाले वा उपादानात्पूर्वमेव भगवदाराधनान्तसर्वकर्माणि कृत्वा भुक्त्वा सङ्ग्रहेण स्वाध्यायमपि सङ्कल्पपूर्वकं कृत्वा स्वकार्यं कुर्वीत । एवं द्वादश्यादिदिनेषु प्रातर्भोजने कृते उपादानकाले द्रव्यार्जनं कर्तव्यं चेत् इज्यापूर्वकालीनत्वादुपादानस्य आराधनात् पूर्वमेवोपादानं सङ्कल्प्य तत्सङ्ग्रहतः कृत्वा आराधनभोजनानन्तरम् आर्जितं वस्तु परेद्युरुपादानकाले सङ्कल्प्य गृह्णीयात् । एवमिज्यान्ते कर्मसु प्रातरेव कृतेषु सत्सु द्वितीयतृतीयादिकं कालं स्वाध्याययोगौ समास्कन्दतः । सर्वकर्मापेक्षया योगाख्यं कर्मैव मुख्यम् । अत एवेतरकालेष्वप्यवकाशे सति अच्छिद्रपञ्चकालपरायणानां योग एव विहितः । योगापेक्षया त्विज्यैव प्रधानतमा । तस्माद्योगादिकालेषु विशेषाराधननिमित्तसम्भवे योगादिसङ्कोचेन इज्यैव कर्तव्यतयोच्यत इत्यलं विस्तरेण ।
[[329]]