धनुर्मासाराधनविधिः
धनुर्मासाराधनविधिरुच्यते । धनुर्मासि प्रतिदिनमुषसि स्नात्वा, भगवन्मन्दिरं गत्वा प्रणम्य “कौसल्यासुप्रजा रामे"त्यादि सुप्रभातवाक्यैः भक्ताङ्घ्रिरेणुकृतप्राबोधिकद्राविडदिव्यप्रबन्धगाधाभिश्च भगवन्तमुद्बोध्य, दिव्यकवाटमुद्धाट्य प्रणम्य, “धनुर्मासाराधनं करिष्य” इति सङ्कल्प्य, यथाविधि मन्त्रपुष्पान्तमुपचारान् कृत्वा, गोदादिव्यगाधादिकमधीत्य, मुद्गान्नन्निवेद्य, अनन्तरमवसानगाधापठनकाले प्रतिदिनमेकैकगाधाक्रमेण त्रिंशद्दिने गोदात्रिंशद्गाधाश्च पठेत् । तन्मासस्यैकोनत्रिंशद्दिनत्वे पूर्वमासान्त्यदिनमुत्तरमासाद्यदिनं वा आराधनायाङ्गीकुर्यात् ।
तत्र वृश्चिकमासान्त्यदिने अर्धरात्रादधस्तद्धनुस्सङ्क्रमणे तद्दिनं ग्राह्यम् । परतश्चेत् मकरमासप्रथि[[??]]मदिनम् । यद्युपाधिवशात् उदयात् पूर्वं न क्रियते तद्दिने सन्ध्यावन्दनानन्तरं प्रातरेव कार्यम् ।
[[315]]
एवमाराध्य तीर्थतुलस्यादिकं स्वीकृत्य, निवेदितमुद्गान्नमामलकमात्रं स्वीकुर्यात् । एकादश्यादिषु न स्वीकुर्यात् । एवं भगवत्सन्निधौ एकादश्यादिव्रतदिनानि दर्शादिश्राद्धदिनानि च वर्जयित्वा इतरदिनेषु भगवन्निवेदितान्नप्राशने न दिवा द्विभोजनादिप्रत्यवायः । एकभक्तदिने गोष्ठ्यां प्रसादत्वेन दत्तस्यान्नस्य पुलाकमात्रं स्वीकार्यं नोपेक्ष्यम् । स्वस्योपाधौ धनुर्मासाराधनम् अन्येनापि कारयेत् । आशौचकाले एकादश्यादिव्रताधिकारो नास्ति । व्रतानुष्ठानाभावेपि व्रतदिने अन्नस्य निषेधान्न भोक्तव्यम् । मातृपितृमृतिवत्सरे कृतसपिण्डीकरणस्याराधनयोग्यतायास्सत्वात् व्रतसङ्कल्पवर्जं तत्तदुत्सवकाले तत्तद्विशेषाराधनं कुर्यात् । वत्सरान्तसपिण्डीकरणे तदपि न ।
एवं भगवन्तमाराध्य, भगवन्मात्रनिवेदितैरन्नादिभिस्तदभावे आमेन फलैर्वा यथोपदेशं वैश्वदेवं कुर्यात् ।
स्वयं श्राद्धनिमन्त्रितश्चेत्? वैश्वदेवान्तं स्वीयनित्यकर्म कृत्वा, प्राप्तद्वितयवरणः, अभ्यङ्गं कृत्वा श्राद्धं भुञ्जीत । श्राद्धं भुक्त्वा होमस्वाध्याय-भगवदाराधनादिकन्न कुर्यात् । जयन्त्यादिव्रतदिनेषु श्राद्धभोजनेपि व्रतहानिर्नास्ति । व्रतदिने प्रातर्व्रतं सङ्कल्प्य श्राद्धभोजनं कृत्वा परेद्युर्भगवदाराधनपारणानुष्ठानेन व्रतं समापयेत् ।
एकादशीजयन्त्यादिदिने मृताहसम्भवे प्रातर्व्रतं सङ्कल्प्य श्राद्धं कृत्वा पितृशेषमाघ्राय विशेषाराधनादिकं कृत्वा, परेद्युः श्राद्धाङ्गतर्पणं कृत्वा, भगवन्तमाराध्य पारणं कुर्यात् ।
व्रतदिने क्षौराभ्यङ्ग-पुष्पताम्बूलादिकं वर्जयेत् । उत्सवान्तपारणपक्षे सङ्क्रमणादौ श्राद्धकर्तुः श्राद्धभोक्तुश्च रात्रिभोजननिषेधात्, आराधनमात्रम् ।
[[316]]
पारणन्तु लुप्यते । तद्व्यतिरिक्तपर्वरात्रावपि पारणस्य न कापि क्षतिः । मृताहवदेव तत्पूर्वदिनमपि ।
प्रातःपारणपक्षे परेद्युस्सङ्क्रमणादिसम्भवे प्रातःपारणं लुप्यते । सङ्क्रमणेन पारणस्याविरोधे सति कार्यमेव ।
व्रतानन्तरदिने श्राद्धकर्तृत्वं श्राद्धभोक्तृत्वं वा स्वस्य सम्भावितञ्चेत् प्रातर्भगवन्तमाराध्य, व्रतं समापयेदिति केचित् । अन्ये तु श्राद्धभोजनं श्राद्धीयपितृशेषभोजनं वा पारणात्वेन विभाव्यानन्तरं व्रतसमापनमित्याहुः । यदत्र युक्तं तद्ग्राह्यम् ।
पिता पुत्रास्सर्वेपि विभक्ता अविभक्ता वा, सन्ध्याहोमव्रतादिकं पृथक्कुर्युः । इच्छायां सत्यां भगवदाराधनमपि । वैश्वदेवन्तु परमेकस्मिन् गृहे पिता, अभिन्नपाकेषु पुत्रेषु ज्येष्ठो वा कुर्यात् । भिन्नपाकाश्चेत् भिन्नपाकाभावेपि विभक्ताश्चेत् पृथक्कुर्युः । एवं वैश्वदेवं कृत्वा प्रातर्ब्रह्मयज्ञाकरणे तदपि कुर्यात् । औपासनाग्नौ वैश्वदेवे तच्छेषं दम्पती भुञ्जीयाताम् । पाकाग्नौ चेत् सर्वैरपि भोज्यम् ।
अथ यतये ब्रह्मचारिणे च भिक्षान्दद्यात् । यतिहस्ते प्रथमं जलं दत्वा ततो भैक्षं दत्वा पुनश्च जलं दद्यात् । ग्रासपरिमिता भिक्षा । एवं भिक्षात्रयं दद्यात् । हस्तेन न भिक्षा देया । पात्रपत्राद्यन्तरितेन हस्तेन स्त्री वा पुमान्वा दद्यात् । वैश्वदेवात्पूर्वं भिक्षार्थं यत्यागमने वैश्वदेवार्थमुद्धृत्य पात्रे निधाय भैक्षन्दत्वा वैश्वदेवं कुर्यात् । ततः पादघटिकाकालमतिथिं प्रतीक्षेत । आगतमतिथिं यथाविधि सम्पूज्य भोजयेत् । अशक्तौ जलं विश्रमार्थं स्थलं वा दद्यात् । विनयेन वाक्येनोपचरन्नन्नदातारं वा निवेदयत् ।
[[317]]
अतिथिरयोग्यश्चेत् तम् अज्ञातकुलगोत्रानन्याश्चान्नार्थिनो भगवदनिवेदितैरन्नाद्यैर्भोजयेत् ।
अतिथीन्बालान्मोणः[[??]] अशक्तान्वृद्धान् मातृपित्रादीन् गर्भिणीञ्च भार्याञ्च पूर्वं भोजयित्वा पुत्रबान्धवादिभिः स्वयं भुञ्ज्यात् । पाकभेदं घृतादौ परिवेषणादिवैषम्यं च न कारयेत् । तथा कृते महान् प्रत्यवायो लोकनिन्दा च स्यात् ।