०१ साधारणी

इज्या

अथेज्यां सङ्कल्प्य माध्याह्निकस्नानार्थं मृत्तिकागोमयादिसम्भारान् गृहीत्वा नद्यादिकमासाद्य पाणिपादौ प्रक्षाल्य द्विराचम्य त्रिः प्राणानायम्य सङ्कल्प्य त्रिर्निमज्य अश्वक्रान्तेति मन्त्रतो दूर्वां शिरसि कृत्वा स्नात्वा अश्वक्रान्त इति सप्तवाक्यान्युच्चार्य एकया मृदा शिरः, तिसृभिरधोङ्गम् एकैकस्य पादस्य त्रिस्र इति पदद्वयं षड्भिरुपलिप्य स्नात्वा, गन्धद्वारेति मन्त्रेण गोमयेन सर्वाङ्गमुपलिप्य स्नायात् ।

[[312]]

सर्वत्रामलकमात्रा मृत्तिका गोमयञ्च । एवं स्नात्वा पीठपरिकल्पनसूक्तपठनादिकं प्रातस्स्नानवत् कृत्वा उत्तीर्य वस्त्रधारणोर्ध्वपुण्ड्रतर्पणाचरणपूर्वकं माध्याह्निकम् । ततो वस्त्रनिष्पीडनञ्च कुर्यात्, ब्रह्मचारिगृहस्थयोः स्नानद्वयं, यतिवनिनोः स्नानत्रयम्, एतादृशमृत्तिकास्नानरूपं वा साधारणं वा माध्याह्निकस्नानं कुर्यात् । अशक्तस्तु गौणस्नानं कुर्यात् । अथाह्निकोक्तप्रकारेण भगवदाराधनं कुर्यात् । पुष्पाणि प्रक्षाल्य समर्पयेत् । तुलस्याः प्रोक्षणतश्शुद्धिः । सा पुरातनापि ग्राह्या । पुष्पस्य दिनान्तरे अशुद्धिः । करवीरपुष्पैर्गृहार्चां नार्चयेत् । भगवद्दक्षिणपार्श्व एव वन्दनजपतीर्थप्रसादस्वीकारादिकं कुर्यात् । प्रदक्षिणप्रणामान्युग्मानेवाचरेत् । भगवद्दीपे एरण्डतैलन्न दद्यात् । भगवद्दीपन्नान्यत्र नयेत् । दीपं विना नाराधयेत् । दीपतैलन्न स्पृशेत् । स्पर्शे तु स्नायात् । पुमान् कुत्रापि दीपन्न निर्वापयेत् । स्त्री तु वस्त्राञ्चलेन । स्त्री तु कूश्माण्डं न भिद्यात् । भगवद्दीपान्नान्यदीपं जनयेत् । भगवदनुपचारज्वलने तु न दोषः । स्वार्चामनाराध्यान्यार्चान्नाराधयेत् । स्वस्योपाधौ ऋत्विक्पुत्रगुरुशिष्यादिभिः कारयेत् । ते च औपासनवत् यजमानस्येज्याराधनं करिष्यामीति सङ्कल्प्य कुर्युः । भगवद्दिव्यविमानकवाटबन्धनोद्घाटने शनैर्निश्शब्दं कुर्यात् । हठात् अकाले वा न कुर्यात् । शक्तेन कालत्रयेप्याराधनं कार्यम् । अशक्तेन प्रातस्सायमभिगमनं सङ्ग्रहेण ध्यानरूपं कृत्वा मध्याह्ने इज्या यथोक्तविधिना कार्या । एकदिने श्रवणसङ्क्रान्तिजयन्तीमातृपितृश्राद्धगुरुजन्मर्क्षाद्यनेक-निमित्तप्रयुक्ताराधनप्रसक्तौ अभिगमनोपादानसङ्कोचेन तत्तदाराधनानि पृथक् पृथक् तत्तत्कालक्रमेण कुर्यात् ।

[[313]]

अनेकयौगपद्ये इच्छया पौर्वापर्यनियमः । अशक्तस्य तु यन्मुख्यं तत् कार्यम् । इतराणि ध्यानरूपाणि । नित्याराधनविशेषाराधनयोः कालयौगपद्ये शक्ताववकाशे च नित्यं कृत्वा विशेषमपि कुर्यात् । अशक्तस्य तन्त्रेणोभयम् । श्रीरामनवमीनृसिंहजयन्तीश्रीजयन्त्याराधनं सर्वैरपि तत्तदवतारकाले कार्यम् । श्रीरामनवम्याराधनस्य मध्याह्नकालिकतया कटकलग्नस्य पूर्वमागमने पूर्वं कर्तव्यम् । आवर्तनात् परमागमने नित्याराधनानन्तरं कार्यम् । अशक्तस्य तु तन्त्रेणोभयम् । नृसिंहजयन्त्याराधनमपि अर्धमण्डलसमये सायंसन्ध्यां कृत्वा औपासनात् पूर्वमेव प्रकाशवत्यां सन्ध्यायां कर्तव्यम् । श्रीजयन्त्याराधनं तद्दिनरात्रौ चन्द्रोदयकाले कर्तव्यम् ।

श्रीजयन्तीविशेषाराधनं करिष्ये, श्रीरामनवमीविशेषाराधनं करिष्ये,

इत्येवं सर्वत्र वैशेषिकाराधनसङ्कल्पः । एवं गुरुजन्मर्क्षमातृपितृश्राद्धादिदिनेषु क्रियमाणदिव्यप्रबन्धाध्ययनाङ्गतया प्रातर्वा मध्याह्ने वा सायं वा रात्रौ वा आराधनस्य कर्तव्यत्वे ‘‘दिव्यप्रबन्धाध्ययनाङ्गं विशेषाराधनं करिष्य” इति सङ्कल्प्य कुर्यात् । नियताभिगमनाराधनाधिकारी तु तत्तत्काले तन्त्रेण कुर्यात् । एकस्मिन् दिने एकदैव भूतशुद्धिः । भोजनाद्यन्तरिते तु पृथक् । तीर्थप्रसादस्वीकारस्तु प्रत्याराधनं कार्यः । भगवत्तीर्थं वैश्वदेवानन्तरं स्वीकर्तव्यम् । (केचित् पूर्वमेवेति वदन्ति । एवं मातृपितृमृताहेपि श्राद्धात् पूर्वमेव स्वीकुर्वन्ति ।) भगवद्वन्दनं भगवत्तीर्थप्राशनञ्च कृत्वा न पाणिप्रक्षालनं कुर्यात् । भगवदालयादागत्य न पादौ प्रक्षालयेत् । सूर्यचन्द्रोपरागपुण्यकालाराधनं तत्तत्काले कर्तव्यम् । उपरागदूषिते काले *न नित्याराधनम् । मोक्षानन्तरमेव । सन्ध्यावन्दनौपासनादेर्न हानिः ।

[[314]]

मोक्षानन्तरमेव रात्रौ वा भगवदाराधनभोजनादिकं कर्तव्यम् । पञ्चमहायज्ञानान्तु रात्रौ नानुष्ठानम् । सूर्यग्रस्तास्तमये तु रात्रौ मोचनानन्तरं स्नात्वा भगवदाराधनं कृत्वा स्वयन्न भुञ्जीत । आशौचकालेपि मृतपितृकः आर्द्रवाससा चन्द्रसूर्योपरागे तर्पणं कुर्यात् । चन्द्रग्रस्तास्ते मोचनानन्तरं स्नात्वा दिवा इज्याकाले भगवदाराधन-वैश्वदेवादिकं कृत्वा स्वयमभुक्त्वा रात्रौ चन्द्रोदयानन्तरं स्नात्वा भुञ्जीत । कृत्तिकादीपोत्सवाराधनमपि सायंसन्ध्यामौपासनञ्च कृत्वा यथासम्भवमासनोपचारैरभ्यर्च्य धानादिनिवेदनानन्तरं ‘‘अग्निर्नः पातु कृत्तिकाः" इत्याद्यष्टवाक्यैः, अग्न्यात्मकभगवते, दीपविशेषनीराजनं समर्पयेत् । ततस्सायं वैश्वदेवं कुर्यात् ।