०२ उपादानम्

उपादानम्

अथोपादानं सङ्कल्प्य भगवदाराधनोपयुकत-शाकफलादिकं यथाशास्त्रमाहरेत् । खिन्नवृत्तिरपि पतितपाषण्ड-षण्डचण्डालाद्यसत्प्रतिग्रहं न कुर्यात् । सत्प्रतिग्रहे नार्तिज्यो न उञ्छवृत्यादिना वा यावत् कुटम्बभणमेवार्थं[[??]] सम्पादयेत् । स्वाशक्य-भगवद्भागवताराधन-देवागारतटाकादि-निर्माणाद्यर्थं दुष्प्रतिग्रहमतिप्रयत्नञ्च न कुर्यात् । यज्ञार्थम् ऋणनिवृत्त्यर्थञ्च उचितराजधनादिप्रतिग्रहे कृतेपि न दोषः । शक्तेन प्रतिग्रहो न कार्यः । गत्यन्तराभावे विप्रस्य कृषिजीवनमनुमतमेव । उपादानकाले क्रियमाणं वेदान्तार्थविचारादिकं भगवदाराधनान्तरसामग्रीभूतज्ञानसम्पादकतयोपादान एवान्तर्भूतम् । एवं समित्-कुशपुष्पतुलस्यादिकं यथाशास्त्रमाहरेत् । यथा स्वयमशक्तश्चेत् शात्रीयप्रतिग्रहं करोति तथा स्वयं शक्तश्चेत् सद्भ्यो यथाशक्ति दद्यात् । शक्तौ सत्यामपि लोभादिना साधुविप्रलम्भन्न कुर्यात् । आहृतं शाकादिकं प्रक्षाल्य पाचयेत् । तण्डुलन्तु त्रिर्देवेभ्यः द्विर्मनुष्येभ्यस्सकृत् पितृभ्यः क्षालयेत् । तण्डुलक्षालनजलनालिकेरफलजलादिकं भगवदारादधनात् पूर्वन्नोपयुञ्ज्यात् । तथोपयोगे कृते तदन्नादेः भगवदनिवेद्यतया गवादिभ्यस्तन्न दद्यात् । इत्युपादानम् ।