०७ सन्ध्या-वन्दनादि

सन्ध्या-कालातिक्रमः

सन्ध्या-कालातिक्रमे तुरीयम् अर्घ्य-दानम् उक्तम् ।
सङ्गव-कालातिक्रमे प्राणायाम-त्रयेण सह तुरीयार्घ्यम् ।
मध्याह्नातिक्रमे प्राणायाम-षट्कम् ।
अपराह्नातिक्रमे द्वादश-प्राणायामान् ।
रात्रौ प्रहर-पर्यन्तातिक्रमे षट्त्रिंशत् प्राणायाम-पूर्वकं
प्रातस्-सन्ध्यां, माध्याह्निक-सन्ध्यां, सायं-सन्ध्याञ् च क्रमेण कुर्यात् ।
न तु तयोः पृथक् प्रायश्चित्तम् ।

तत्कालस्याप्य् अतिक्रमे तु प्रातस्-सन्ध्या-माध्याह्निक-सन्ध्ययोर् लोप एव -
पञ्च-महा-यज्ञादि-व्यतिरेकेण दिवा कर्तव्य-कर्मणो ऽपि
रात्रि-प्रहर-पर्यन्तस्यैव कालत्वात् ।

माध्याह्निक-सन्ध्याया अपराह्णातिक्रमे प्राणायाम-त्रयम् ।
सायाह्नातिक्रमे तत् षट्कम् ।
रात्रि-प्रहर-पर्यन्तातिक्रमे द्वादश-प्राणायामान् कुर्यात् ।
माध्याह्निक-सन्ध्यायाः कालातिक्रमे प्रायश्चित्तार्घ्यदानानुक्तेः
प्राणायामा एव कार्याः ।

सायं-सन्ध्यायाः कालातिक्रमे रात्रिप्रहरपर्यन्तं तुरीयार्घ्य-दानम् एव ।

ततोर्ध-रात्र-पर्यन्तं प्राणायाम-त्रयम् ।
ततो याम-त्रयावधि तत् षट्कं ।
ततः परम् आप्रभातं द्वादश-प्राणायामान् ।
परेद्युः प्रहर-पर्यन्तं चतुर्विंशति-प्राणायामान् कुर्यात् ।
ततः परं लोप एव ।

[[308]]

उक्तप्रायश्चित्त-क्रमः प्रामादिक-विषयः आपद्-विषयश्च ।
बुद्धि-पूर्वकत्वे
अष्टोत्तर-शताष्टोत्तर-सहस्र-गायत्री-जप-+
+अहर्-उपवास–रात्र्य्-उपवास–दिनोपवास–प्राजापत्यादिकं
यथा-योग्यं प्रायश्चित्तं भवेत् ।
सन्ध्या-वन्दनादि-नित्यकर्मण एक-दिनलोपे एक-दिनम् उपवासः ।
दिन-द्वय-लोपे त्रि-रात्रम् उपवासः ।
दिन-त्रय-लोपे अर्ध-कृच्छ्रम् ।
दशाहलोपे पूर्ण-कृच्छ्रम् ।
ततः परं मासाद् अधो लोपे चान्द्रायणम् ।
तद्-ऊर्ध्वं चान्द्रायणं पराक-कृच्छ्रञ् च कुर्यात् ।
कृच्छ्र-लक्षणं त्व् अन्यत्रावगन्तव्यम् ।

ब्रह्म-यज्ञादि

एवं सन्ध्या-वन्दन–जप–मन्त्र-जप-
+आधारशक्ति-देवर्षि-काण्डर्षि-पितृ-तर्पण-
वस्त्र-निष्पीडन-पूर्वकं ब्रह्म-यज्ञं कुर्यात् ।
तत्र विशेषः ।
ऋचः प्रीणन्त्व् इति त्रिस् सलिलं पीत्वा,
यजूंषि प्रीणन्त्वित्योष्ठौ परिमृज्य अप उपस्पृश्य ।
सामानि प्रीणन्त्विति शिरः स्पृष्ट्वा,
अथर्वाणि प्रीणन्त्वित्य् अप उपस्पृश्य,
ब्राह्मणानि प्रीणन्त्विति लोचने,
इतिहासपुराणानि प्रीणन्त्विति नासिके,
कल्पा गाधाश्च प्रीणन्त्विति श्रोत्रे,
प्रीणन्तु नाराशँसीर् इत्य् उरः स्पृष्ट्वोदकं स्पृशेत् ।
एवं-रूप-मन्त्राचमनम् आह्निकोक्तं
तूष्णीम् आचमनं वा कृत्वा
ब्रह्मयज्ञं कुर्यात् ।

नियतप्रश्नाध्यायिनां ब्रह्मयज्ञे अनध्याये प्राप्तप्रश्नाध्ययनस्य न दोषः, अनियताध्यायिनां त्वेकोनुवाकोनध्यायदिनेऽध्येतव्यः । अधीतशाखान्तरोपि ब्रह्मयज्ञे स्वशाखामेव पठेत् । प्रातश्चेत्, ब्रह्मयज्ञप्रश्नमुपांशु पठेत् । मध्यन्दिने तूच्चैः । ग्राममध्ये चेत्सर्वदोपांशूच्चारणमेव । अनधीतवेदानां ब्रह्मयज्ञे पुरुषसूक्तजपः । प्रथमोपाकर्मणः पूर्वं चतुर्वेदादिमुक्त्वा गायत्र्यैव ब्रह्मयज्ञः कार्यः । ब्रह्मयज्ञपारायणजपादौ संहितामेव पठेत् । न क्रमजटादिकम् । भगवदुत्सवपारायणे क्रमपठनस्य न दोषः ।

[[309]]

… वेदम् अधीत्य तद्-विस्मरणे भ्रूण-हत्या-दोषः ।
अन्यानुपूर्व्य्-अध्ययने अप-स्वराध्ययने च स एव दोषः ।
अध्ययन-काले कर्म-काले गमन-काले देवालये महत्-सन्निधौ च
शिखा-प्रसारण-शोषणादिकं निष्ठीवनादिकञ् च न कुर्यात् ।
रात्रौ ब्रह्मयज्ञम् आरण्यक-पठनञ्च न कुर्यात् ।

औपासनादि

एवं ब्रह्मयज्ञं कृत्वा
स्व-सूत्रोक्तविधिना औपासनं कुर्यात् ।

स्वस्योपाधौ गुरुशिष्यपत्नी-पुत्र-ऋत्विक्-जामातृ-प्रभृतिभिः कारयेत् ।
विधुर-ब्रह्मचारि-सन्यासि-स्त्री–दुश्-शील–बालादिभिर् न कारयेत्।
स्वस्य औपासनम् अकृत्वा
परौपासनं न कुर्यात् ।

श्रौताग्निं हुत्वा, ततः स्मार्ताग्निं जुहुयात् ।
श्राद्ध-भोजनं कृत्वा
स्वीयम् अन्य-दीयं वा श्रौतं स्मार्तं वा न जुहुयात् ।+++(5)+++

ब्रह्मचारी तु समिदाधानं कुर्यात् ।

स्नातकस् तु विवाह-पर्यन्तं
लौकिकाग्नौ काल-द्वयेपि व्यस्ताभिस् समस्ताभिर् व्याहृतीभिर् आज्येन जुहुयात् ।+++(5)+++

अभिगमनाराधनादि

एवं हुत्वा यथायोग्यम् अभिगमनाराधनं कृत्वा
मङ्गल-द्रव्य-वीक्षणं महद्-अभिवादनञ् च कुर्यात् ।

इत्यभिगमनम् ।

[[311]]