१२ क्षौरविधिः

क्षौरविधिः॥

प्रसङ्गात् क्षौर-विधिरुच्यते ।
क्षौरं मासि मासि गृहस्थैः कार्यम् ।

अभिगमनान्तं प्रातःकर्म कृत्वा
सङ्गव-काले कारयेत् ।
सङ्गवात् परं पितृ-मास-चतुष्टये निषिद्ध-दिने न कार्यम् ।
अज्ञानान् निषिद्ध-दिने क्षौरे कृते
शुद्ध-दिने पुनः कारयेत् ।

क्षौर-प्रशस्त-नक्षत्र-वारादि-युक्ते स्वानुकूले दिने
नापितः हस्त-पादादिकं प्रक्षालयित्वा+++(ल्य)+++
क्षुरं गोमय-जलैः प्रक्षाल्य
शिरो ऽङ्गञ् च शुद्ध-जलेन स्वयम् एव संमृज्य
कर-वक्षो-मुख-शिरः-पाद-गुह्य-स्थानानि क्रमशो वापयेत् ।

[[307]]

मणि-बन्ध–कूर्पर-मध्य-देशम् आ-कट्य्-अपराङ्गं+++(=??)+++ न वापयेत् ।
भ्रू-खण्डनन् न कारयेत् ।

एवं यथा-विधि नख-खण्डनान्तं कारयित्वा
तस्मै वेतनं प्रदाय
त्रयो-दश-मज्जन-पूर्वकं स्नान-द्वयात्मक-पुनस्-स्नानं कृत्वा
नूतन-यज्ञोपवीतं धरेत् ।