०८ वस्त्र-तर्पणे


एवं प्रासङ्गिकेन सह स्नानान्त-विधिर् उक्तः ।

एवं स्नात्वा
कौपीनं धृत्वा
द्वादश-हस्त-परिमितं वस्त्रं स-पञ्च-कच्छम् अन्तरीयं
षट्-हस्त-परिमितम् उत्तरीयञ्च धृत्वा
धृतोर्ध्वपुण्ड्रो मान्त्र-मानस-स्नाने कृत्वा
स्नानाङ्गं देवर्षि-पितॄन् तर्पयेत् ।

सर्वत्र तर्पणे गोशृङ्गमात्रम् उद्धृत्य जले तर्पयेत् ।