समुद्रस्नानम्
समुद्रगङ्गागोदावरीभगवतीर्थादिस्नानं क्रियास्नानम् । तत्र समुद्रस्नानविधिरुच्यते । त्रिमुहूर्तचतुर्दश्यविद्धपर्वकाले सर्वत्र समुद्रे स्नायात् । तद्व्यतिरिक्तदिनेषु नवपाषाण-दर्भशयनचापाग्रादिकॢप्तस्थलेष्वेव स्नायात् नान्यत्र ।
पाषाणदानं प्रथमं पुरस्तादावाहनं तत्र नमस्कृतिश्च ।
अर्घ्यं तथा प्रार्थनमभ्यनुज्ञा स्नानञ्च कुर्याद्दशतर्पणञ्च ॥
समुद्रतीरं गत्वा प्रणम्य समुद्रं कुसुमाक्षतैरभ्यर्च्य
नमस्ते सलिलेशाय नमो गम्भीरमूर्तये ।
नमो मेघनिनादाय नमस्ते परमात्मने ॥
विविधाघौघनाशाय सुधागर्भाय ते नमः ।
महानद्यधिनाथाय महारत्नोद्भवाय ते ॥
महातरङ्गनिर्घोषविलसद्विस्मयात्मने ।
महाप्राण्यधिनाथाय महावारिधये नमः ॥
समुद्राय नमस्तेस्तु सागराय नमोस्तु ते ।
सरितां पतये तुभ्यं नमस्तुभ्यमुदन्वते ॥
नमोस्तूदधये तुभ्यं नमस्तुभ्यं सरस्वते ।
नमोम्बुराशये तुभ्यं पारावाराय ते नमः ॥
इति प्रणमेत् ।
[[304]]
आचम्य प्राणानायम्य समुद्रस्नानं करिष्य इति सङ्कल्प्य, इमं मे वरुणेत्यादिपञ्चर्चा वरुणं स्तुवन् ।
पिप्पलादसमुत्पन्ने कृत्ये लोकभयङ्करि ।
पाषाणन्ते मया दत्तमाहारार्थं प्रकल्पितम् ॥
इति मन्त्रेण पाषाणं दत्वा । ततः
विश्वाची च घृताची च विश्वयोने विशाम् पते ।
सान्निध्यं कुरु मे देव सागरे लवणाम्भसि ॥
इति मन्त्रैरावाह्य, ः
नमस्ते विश्वगुप्ताय नमो विष्णवपां पते ।
नमो जलधिरूपाय नदीनां पतये नमः ॥
एतैर्मन्त्रैः समुद्राय वयुनायेति
समुद्राय वयुनाय सिन्धूनां पतये नमः ।
नदीनाँसर्वासां पित्रे जुहुता विश्वकर्मणे विश्वा हा मर्त्यँ हविः ॥
द्वाभ्याञ्च प्रणम्य
सर्वरत्नमयश्रीमन् सर्वरत्नाकराकर ।
सर्वरत्नप्रधान त्वं गृहाणार्घ्यं महोदधे ॥
इति अर्घ्यं दत्वा;
पृथिव्यां यानि तीर्थानि प्राविशंस्त्वां महोदधे ।
स्नातस्य मे फलं देहि सर्वस्मात् त्राहि मांहसः ॥
इति प्रार्थ्य, “समस्तजगदाधार + निषेवणे" इति भगवन्तमनुज्ञाप्य,
वेदादयो वेदवसिष्ठयोनिः सरित्पतिस्सागररत्नयोनिः ।
अग्निश्च ते तेज इला च तेजो रेतोधा विष्णुरमृतस्य नाभिः ॥
इदन्ते अन्याभिरसमानमद्भिः याः काश्च सिन्धुं प्रविशन्त्यापः । सर्पो जीर्णामिव त्वचं जहामि पापँशरीरात् सशरीरस्कोभ्युपेत्य । “द्वौ समुद्रौ"
रामेण या कृता रेखा धनुषा क्षारसागरे ।
मुक्तिस्तद्दर्शनादेव न जाने स्नानजं फलम् ॥
रघुवीरपदन्यासपवित्रीकृतपांसवे ।
दशकण्ठशिरच्छेदहेतवे सेतवे नमः ॥
केतवे रामचन्द्रस्य मोक्षमार्गैकहेतवे ।
सीताया मानसाम्भोजभानवे सेतवे नमः ॥
इत्यादिकं यथायोग्यं यथाशक्ति पठन् स्नात्वा वस्त्रपुण्ड्रधारणानन्तरं समुद्रस्नानाङ्गं पिप्पलादादितर्पणं करिष्य इति सङ्कल्प्य,
पिप्पलादं कविं कण्वं कृतान्तं जीवितेश्वरम् ।
मन्युञ्च कालरात्रिञ्च विद्याञ्चाहर्गणेश्वरम् ॥
इति नामभ्यो दशभ्यस्तर्पयित्वा स्नानाङ्गदेवर्षितर्पणं कुर्यात् ।
[[305]]
अधिकस्नानोद्देशे सति, परिषदनुज्ञापूर्वकं कुर्यात् । तत्क्रमः, अशेषे — स्वीकृत्य मम जन्मप्रभृति, कृतभरन्यासश्चेत्, भरन्यासप्रभृति एतत्क्षणपर्यन्तं मनोवाक्कायैः ज्ञानतः अज्ञानता वा मदनुष्ठितानाम् अकृत्यकरणकृत्याकरणरूपाणां सर्वेषां पापानामपनोदनद्वारा भगवत्प्रीत्यर्थम् अशीत्युत्तरसहस्रकृछ्रफलप्रदानि षट्त्रिंशत्सङ्ख्यातानि समुद्रस्नानानि यथार्हं चापाग्रादिस्थलेषु कर्तुं योग्यतासिद्धिमनुग्रहाणेति अनुज्ञाप्य, तथैव सङ्कल्प्य समुद्रतीरं गत्वा पूर्वोक्तक्रमेण प्रातस्स्नानप्रभृतिसन्ध्यावन्दनान्तं कृत्वा सङ्कल्पितेषु समुद्रस्नानेषु प्रथमस्नानं करिष्य इति सङ्कल्प्य, पूर्वोक्तसमुद्रप्रणाम-तत्स्तुति-तदर्घ्यप्रदानमन्त्रपठनादिकं यथाशक्ति कुर्वन् स्नात्वाऽऽर्द्रवस्त्रं सप्तवातैश्शोषयित्वा धृत्वा ऊर्ध्वपुण्ड्रं धृत्वा पिप्पलादादितर्पणं देवर्षितर्पणञ्च कृत्वा आचम्य प्राणानायम्य सङ्कल्पितेषु द्वितीयस्नानं करिष्य इति सङ्कल्प्य स्नायात् । एवमेव तृतीयादिप्रतिस्नानं शोषितवस्त्रपुण्ड्रधारणं समुद्रस्नानाङ्गं पिप्पलादादितर्पणं स्नानाङ्गं देवर्षितर्पणञ्च कार्यम् । एवं यथाशक्त्यवकाशं पञ्चषादिदिनेषु यथाभिमतं चापाग्रादिष्वेकत्र वा अनेकत्र वा सङ्कल्पितानि षट्त्रिंशत् स्नानाति कुर्यात् । न तु प्रतिस्थलं षट्त्रिंशत् स्नाननियमः । प्रतिदिनं प्रातस्स्नानन्तु पृथगेव । न तु सङ्ख्यान्तर्गतम् । पापविशेषादिनिमित्तसम्भवे परिषद्विधायकादि-कल्पनपुरस्सरं विशेषतः सङ्कल्प्य स्नायात् । तत्क्रमस्त्वन्यत्र द्रष्टव्यः । इति समुद्रस्नानक्रमः ।
एवं गङ्गादिपुण्यतीर्थेषु स्नायात् । अनेन निर्वर्त्यायाः कस्या अपि क्रियाया अभावात् स्नानस्यैव क्रियात्वात् एतत्क्रियास्नानमित्युच्यते ।
[[306]]
जपाङ्गतया होमाङ्गतया जगन्त्यादिविशेषाराधनाङ्गतया श्राद्धाङ्गतया वा क्रियमाणं स्नानं क्रियाङ्गस्नानमुच्यते । ग्रहणसङ्क्रान्त्यादिपुण्यकाले यत् जीवपितृकादिभिरपि कर्तव्यं स्नानं तन्नित्यम् । अकरणे प्रत्यवायश्रवणात् । तत्तत् श्राद्धाङ्गं यत् क्रियते, तत्क्रियाङ्गम् । स्नानद्वयानुष्ठानाशक्तौ तन्त्रेण एकस्नानस्यैवोभयार्थत्वसिद्धिः । एवं प्रातस्स्नानेन माध्याह्निकस्नानेन वा स्नानान्तरप्रसक्तौ अशक्तानां तन्त्रेणेकेनैव स्नानेनार्थद्वयसिद्धिः, तत्र - नित्यात् काम्यसिद्धिरिति केचित् । काम्यान्नित्यसंसिद्धिरित्यन्ये । यथोचितमत्र ग्राह्यम् । एवन्नैमित्तिकेपि । सङ्क्रमणादितर्पणस्य प्रातःकालीनत्वे वस्त्रशोषणस्यावकाशे सति स्नात्वा तद्दिनशोषितवस्त्रं धृत्वा तर्पयेत् । पुण्यकालातिक्रमणादनवकाशे सति अद्विसूर्येण वस्त्रेण कुर्यात् । गौणकाले मुख्याचारेणानुष्ठानापेक्षया मुख्यकाले यथाशक्त्याचारेणानुष्ठानस्यैव युक्तत्वात् । सङ्क्रमणस्यानागतत्वेपि तत्तत्पुण्यकालस्य पूर्वमागतत्वात् स्नानतर्पणादौ उद्देश्यमासादिकमेव सङ्कल्पे वाच्यमिति निबन्धनकृतामाशय इति प्रतिभाति । केचित्तात्कालिकमेव मासादिकं वाच्यमिति वदन्ति । यथाशिष्टानुष्ठानं ग्राह्यम् । एवं सर्वेषां स्नानानां क्रम उक्तः ।