माघस्नानम्
माघस्नानन्तु स्त्रीभिस्सूर्योदयाव्यवहितोत्तरक्षणे कार्यम् । पुरुषैरुदयात्पूर्वमेव कार्यम् ।
[[303]]
ननूदयात् पूर्वं प्रातःस्नानस्य कर्तव्यतया तत्प्रभृतिसन्ध्यावन्दनजपान्तस्य कर्मणः अविच्छन्नधारतया उदयानन्तरमुपस्थानस्य कर्तव्यतया तदनन्तरं माघस्नानानुष्ठानस्य निष्प्रयोजनतया अरुणोदयकाले कस्यापि स्नानस्याननुष्ठेयतया उदयात्पूर्वं माघस्नानमनुष्ठायानन्तरं प्रातःस्नानानुष्ठाने सन्ध्यावन्दनकालातिक्रमेण प्रत्यवायस्य दुर्निवारतया माघस्नानस्य कस्समय इति चेत् ब्रूमः ।
मकरस्थे रवौ माघे गोविन्दाच्युत माधव ।
स्नानेनानेन मे देव यथोक्तफलदो भव ॥
इति मन्त्रमुच्चार्य उदयात्पूर्वं प्रातःस्नानानुष्ठाने तन्त्रेणोभयमपि सिध्यति । एतन्नित्यमित्येव बहूनामाशयः । काम्यमिति केचित् ।