धात्रीस्नानम्
धात्रीस्नानमपि द्वितीयासप्तमीनहमी[[नवमी??]]दशमीचतुर्दशीपर्वसङ्क्रान्तिरविवासरेषु न कर्तव्यम् । प्रातःकाले न कर्तव्यम् । एतत् काम्यमिति नित्यमिति मलापहरणमिति च मतभेदाः । मृत्तिकास्नानमपि भृगुकुजरविवारमातृपितृमृततिथि-मखानन्दाकृत्तिकासु च प्रातःकाले मध्याह्नात्परञ्च न कर्तव्यम्, एतदपि पूर्ववदेवेति वदन्ति ।