मलापहरणस्नानम्
मलापहरणं त्वभ्यङ्गस्नानादिकम् । एतदपि दीपावलीं विना प्रातर्न कर्तव्यम् । प्रातःकालीनकर्मानन्तरं सङ्गवकाले अमन्त्रकं कर्तव्यम् ।
[[302]]
अभ्यज्य उष्णोदकेनैव स्नायात् । माध्याह्निकस्नानाकरणे तु मलापहरणानन्तरं वस्त्रं धृत्वा शीतेन वोष्णेन वा जलेन सूक्तजपप्रोक्षणादिपूर्वकं स्रात्वा वस्त्रं धृत्वा अङ्गतर्पणमपि कुर्यात् । उपवासव्रतश्राद्धदिनभृगुभौमार्कगुरुवासरश्रवणोत्तरफल्लुनीज्येष्ठार्द्राप्रतिपच्चतुर्थीषष्ठ्यष्टमीचतुर्दशीपर्वसु नाभ्यङ्गस्नानं कुर्यात् । क्षौरदिने अभ्यङ्गकरणे प्राजापत्यं निष्कृतिः । रात्रौ मध्याह्नात्परमपि न कुर्यात् । गुरुकुजभृगुभानुवासरेषु क्रमशो दूर्वामृत्-गोमय-कुसुमानि तैले प्रक्षिप्य वा अभ्यङ्गं कुर्यात् । शिरस्तैलेन निःसृतेन नाङ्गलेपनम् । अन्याभ्यक्तशेषेन तैलेन अभ्यङ्गञ्च न कुर्यात् । दीपावलीस्नानमभ्यङ्गरूपम् अरुणोदये कुर्यात् । एतन्नित्यमिति केचित् । अनिषिद्धकाम्यमिति केचित् । इत्यभ्यङ्गस्नानक्रमः ।