०३ काम्यस्नानम्

काम्यस्नानम्

काम्यस्नानन्तु पुष्यस्नानादिकम् । तत्सकामैरनुष्ठेयम् । तेपि नित्यस्नानं कृत्वा प्रातःकालीनं कर्म कृत्वाचम्य प्राणानायम्य एतदर्थं पुष्यस्नानं करिष्य[[??]] सति सङ्कल्प्य सात्विकत्यागवर्जं नित्यस्नानवत् स्नानं कुर्युः । निष्कामैरेतन्नानुष्ठेयम् । एतदुष्णोदकेन कृतञ्चेन्निष्फलमेव । इति काम्यस्नानक्रमः ।