०२ स्नाननिमित्तानि

स्नाननिमित्तानि

नैमित्तिकस्नाने निमित्तान्युच्यन्ते । षण्डपाषण्डपतिता भोज्यान्न, भ्रान्तोन्मत्त, खरोष्ट्रगौलीकृकलासाखुवृक-गर्दभवानर, गृध्रकाककुक्कुटसूकर, श्मशानप्रेतधूमचितिकाष्ठचिति, सुरा तत् भाण्ड, लशुनास्थि-मांसासृक्, रेतोविण्मूत्रान्यदेवलकनिवृत्तयज्ञीययूपादिसम्बन्धाः । पत्नीप्रसवे सद्यः स्नायात् । भोजनादिकर्मकाले बिडालप्सर्शे स्नायात् । भोजनात्पूर्वं वमनपुरीषोत्सर्जनशोकाश्रुपतनप्रेतसूतिकादर्शनतद्वाक्यश्रवणेषु सचेलं स्नायात् । अस्थिसञ्चयनात्पूर्वं प्रेतबन्धुजनसमाश्वासने स्नायात् । तदूर्ध्वञ्चेदाचमनमात्रम् । प्रेतकर्मारम्भात्पूर्वमबन्धुश्चेत्स्नायात् । प्रारब्धे तु समाप्त्यनन्तरमेव । बन्धुजनस्त्वनन्तरमेव । प्रेतानुगमने कृते त्रयोदशवारन्निमज्य पुनः स्नायात् । प्रेतवहने कृते सचेलस्त्रयोदशवारन्निमज्य घृतं दशवारं गायत्र्यभिमन्त्रितचुलकजलं वा पीत्वा पुनःस्नायात् । भोजनात्परन्नाभेरधश्शुना स्पर्शे तद्देशं प्रक्षाल्याग्निना किञ्चित् प्रताप्य पुनः प्रक्षाल्य पादक्षालनपूर्वकमाचामेत्, तदूर्ध्वाङ्गस्पर्शे सचेलस्नानम् । नाभेरधश्शुना दंशे आहिताग्नेरेकदिनम् । अनाहिताग्नेर्दिनद्वयम् । ब्रह्मचारिणो दिनत्रयम् । क्षीरपानेनोपवासः । तदूर्ध्वाङ्गदंशे द्विगुणम् । रजस्वलाचण्डालसूतिका-प्रसूतिकारयित्रीस्पर्शनमबुद्धिपूर्वकञ्चेत् सचेलं स्नात्वा गायत्रीसहस्रं जपेत् । बुद्धिपूर्वे प्राजापत्यम् । तद्भाण्डस्पर्शे सचेलस्त्रयोदशवारन्निमज्य घृतप्राशनं तत्पर्यायं वा कृत्वा पुनः स्नायात् । चण्डालस्य पञ्चाशत्पदानि सूतिकायाष्षट्त्रिंशत्पदानि उदक्यायाश्चतुर्विंशतिपदानि पतितम्लेच्छकैवर्त-बुरुडरजकमेदोनटभिल्लसुवर्णकांस्यायश्शिला-दारुकार-ध्वजितैलितन्तुवायक्षुरिप्रभृतीनां द्वादशपदानि दूरतो गच्छेत् ।

[[300]]

तन्यू[[न्न्यू??]]नञ्चेत्स्नायात् । पत्तने पथि च तदर्धम् । तृणकाष्ठ-समूहकुड्यान्तरितत्वे सामीप्येपि न दोषः । न्यूनपदैतस्सन्निकृष्टस्यैव स्नानम् । तत्स्पृष्टस्याचमनतश्शुद्धिः । शूद्रादिस्पृष्टस्य सचेलस्नानम् । तत्स्पृष्टस्य द्वितीयस्य साधारणस्नानम् । तृतीयस्याचमनतश्शुद्धिः । अबुद्धिपूर्वकत्वे द्वितीयस्याप्याचमनमेव । चण्डालादिस्पृष्टस्य कृतक्षौरस्य च सचेलं त्रयोदशनिमज्जनपूर्वकं पुनः स्नानम् । तत्स्पृष्टस्य द्वितीयस्य सचेलस्नानम् । तृतीयस्य साधारणम् । अबुद्धिपूर्वकत्वे तृतीयस्याचमनम् । रोगिणो द्वितीयस्य गौणस्नानम् । चतुर्थस्य बुद्धिपूर्वकत्वेप्याचमनमेव । चण्डालाद्यस्पृश्यच्छायास्पर्शे स्नायात् । तत्र द्वितीयादेर्न दोषः । चत्वारिंशत्पदात्परं छायादोषो नास्ति । शूद्रादयो भारवाहिनश्चेत् तेषां मार्गं दत्वा स्वयमपक्रमेत् । नोचेत्तावेवापक्रामयेत् । न स्वयमपक्रमेत् । स्वयमपक्रमणे स्नायात् । दिवामैथुने पञ्चपर्वमैथुने च सचेलं स्नायात् । बालस्यासप्तममासाद्रजस्वलादिस्पर्शे प्रोक्षणमेव । तदूर्ध्वमाचतुर्थाब्दाज्जलेन मार्जनम् । तदूर्ध्वञ्चेत् स्नानम् । रजस्वलाशयनपात्रादिकं स्पृष्ट्वा स्नानमकृत्वा भुञ्जीत चेत् स्नात्वैकदिनमुपवासः । तदुच्छिष्टवस्त्रादिस्पर्शे सचेलं स्नात्वा ब्रह्मकूर्चं पिबेत् । स्नानादिकमकृत्वा भोजने दिनत्रयमुपवासः । रजस्वलासंयोगे सान्तपनकृछ्रम् । “शूद्रान्त्यस्पर्शसामीप्यादिनिमित्ते अज्ञाते न दोषः । सद्यो ज्ञाने तु स्नायात् । कालान्तरे एतादृशं निमित्तन्तव जातमिति केनाप्युक्ते सति मनसो व्याकुलत्वे स्नायात् । नो चेन्न स्नायात् । अज्ञातत्वावस्थायां कृतस्य कर्मणो न हानिः । तत्स्पृष्टस्यापि न दोषः । विष्णुमन्दिरे शूद्रादिस्पर्शेपि न दोषः । विष्णूत्सवे आलयात् बहिरपि षण्डपाषण्डपतितचण्डालादिस्पर्शेपि न दोषः ।

[[301]]

मोहात् स्नाने कृते भगवत्सन्निधावपराधक्षापणं कुर्यात् । भगवत्सेवार्थमनागतानां भगवद्वेषिणाञ्च स्पर्शेनासमाहितमनस्कतया स्नाने कृते न दोषः । शूद्रवाटीस्थकर्दमतोयस्य जङ्घाधःप्रदेशसम्बन्धे पादौ प्रक्षाल्य जङ्घयोस्तिस्रः पादयोः प्रत्येकं षण्मृत्तिका देयाः । तदूर्ध्वन्नाभेरधस्सम्बन्धे आकटि स्नायात् । तदूर्ध्वाङ्गसम्बन्धे सचेलं स्नायात् । तदितररथ्याकर्दमतोयस्य नाभेरूर्ध्वसम्बन्ध एव स्नानम् । तदधश्चेत्तत्प्रदेशमात्रं क्षालयेत् । अस्पृश्यतृणादिनिर्मितकटादावस्पृश्यैस्सहस्थित्यादिनिमित्ते सति निमित्तानुगुणं मुख्यं गौणं वा स्नानं कुर्यात् । व्याधिग्रस्तानां नैमित्तिकस्नानप्राप्तौ शक्तः कश्चन स्वयं स्नात्वा रोगिणं स्पृष्ट्वा तस्य धौतवस्त्रं प्रदाय पुनः स्नात्वा तं स्पृष्ट्वा वस्त्रान्तरं प्रदाय पुनः स्नात्वा तं स्पृशेत् एतत् स्पृष्टिनानम् । एवं नैमित्तिकस्नानविधिरुक्तः ।