अथ स्नानक्रमः
प्रथमतः स्नानं षड्विधम् । नित्यं नैमित्तिकं काम्यं मलाकर्षणं क्रियारूपं क्रियाङ्गञ्चेति । प्रातःस्नानादिकं नित्यम् । जननमरणाशुद्धस्पर्शनादिनिमित्ते क्रियमाणं नैमित्तिकम् । पुष्यस्नानादिकं काम्यम् । तैलोद्वर्तनादिभिः स्नानं मलापकर्षणम् । समुद्रगङ्गादिपुण्यतीर्थस्नानं क्रियारूपम् । श्राद्धहोमपूजाद्यङ्गतया क्रियमाणं स्नानं क्रियाङ्गम् । सङ्क्रान्त्युपरागस्नानादिकमपि नित्यम् । अकरणे प्रत्यवायश्रवणात् । एतेषु काम्यं स्नानं सकामानामेव । निष्कामैर्न कार्यम् । जननमरणादिनिमित्तमन्तरेण निशि न स्नायात् । चन्द्रोपरागे तु निशिस्नानं न बाधकम् । यदि निमित्तान्तरवशात् करणीयं तदा अग्निं प्रज्वाल्य कुर्यात् । चण्डालादिवापीकूपतटाकेषु न स्नायात् । यदि स्नायात् बुद्धिपूर्वे उपवासत्रयेण । अबुद्धिपूर्वे एकोपवासेन । ब्रह्मकूर्चेण वा शुद्धेत् [[शुद्ध्येत्??]] । अन्यनद्यां गङ्गागोदावरीव्यतिरिक्तनदीनाम न कीर्तयेत् । नद्यां सर्वदा प्रवाहाभिमुखं, वाप्यादौ तु दिवा सूर्याभिमुखं, रात्रौ प्रथमयामे प्रत्यङ्मुखं, पश्चिमयामे प्राङ्मुखं, मध्ययामयोः प्राङ्मुखोदङ्मुखं वा स्नायात् । अशक्तानामुष्णोदकस्नाने न दोषः । शक्तानान्तु सप्तदिनोष्णोदकस्नाने प्राजापत्यकृच्छ्रतश्शुद्धिः । अशक्तानामप्येकादशीपर्वसङ्क्रान्त्युपराग-श्राद्धदिन-जननमरणाशुचि-स्पर्शादिनिमित्तेषूष्णोदकस्नानं निष्फलम् । आतुराणान्न दोषः । नूतनप्रवाहे नद्यां त्रिरात्रन्न स्नायात् ।
[[297]]
काले अकाले वा नद्यां नूतनजलस्य महतः स्नानानर्हता अल्पस्य तु न दोषः, नीराद्दूरजले भ्रमणवशात् गतप्रत्यागतजले च न स्नायात्, स्नानकाले अन्यदा वा आर्द्रवाससा मुखादिकन्न परिमृजेत् । तथा नाभेरधोभागदेहस्य दक्षिणहस्तेन शोधनं पादेन पादघर्षणञ्च न कुयात् । आतुरो न स्नायात् । सुहृद्बन्ध्वादीननुव्रज्य न स्नायात् । मार्गे नदीदर्शने स्नात्वा आचम्य वा तान्नदीं लङ्घयेत् । कटकमासि गङ्गाकृष्णागोदावरीनर्मदाव्यतिरक्तासु समुद्रगासु नदीषु त्रिदिनम्, असमुद्रगासु नदीषु मासं न स्नायात्, एवं स्नात्वा शिखां पृष्ठतो वामभागतो वा अनालम्बयित्वा पुरतो दक्षिणतो वा आलम्बयित्वा तीरं गच्छेत् । धर्मशास्त्रोक्तरीत्या वा पूर्वाचार्योक्तमृत्तिकास्नानरीत्या वा यदवगाहनात्मकं तदेव वारुणं स्नानम् । तदेव मुख्यम् । कापिलादिकं गौणस्नानम् । तत्र मन्त्रस्नानञ्चतुर्विधम् । आपोहिष्ठेत्यादिनवभिस्सप्रणवैः पादशिरो हृदयशिरो हृदयपाद-हृदयपादशिरस्सु च यथाक्रमं प्रोक्षणरूपमेकम् । शन्नोदेवी x नः । आपो वा इदं + सुवराप ओम् । द्रुपदादिव x मैनसः । आपोहिष्ठा X यथाचनः, इत्येतैर्मन्त्रैश्शिरसि प्रोक्षणरूपं द्वितीयम् । आपोहिष्ठेति नवभिः पादशिरोहृदयेषु त्रिवारं पादशः प्रोक्ष्य ततोर्धशः शिरोहृत्पादेषु द्विः प्रोक्ष्य ततः ऋक्त्रयरूपैरापोहिष्ठेत्यादिनवभिः हृदयपादशिरस्सु एकवारं प्रोक्ष्य ततस्समस्तेन तेन शिरसि प्रोक्षणरूपं तृतीयम् । वङ्गिवंशेश्वरोक्तरीत्या पवित्रमन्त्रजपपूर्वकमूलमन्त्रप्राणायामरूपं चतुर्थम् । * । मानसिकस्नानं “खस्थितं पुण्डरीकाक्ष"मित्याद्याह्निकोक्तभगवद्दिव्यमङ्गलविग्रहध्यानरूपम् । मन्त्रस्नानमानसिकस्नाने तु अवगाहनस्नानवतापि नित्यं कर्तव्ये एव ।
[[298]]
अशक्त्या उष्णोदकस्नाने कर्तव्ये सङ्कल्पान्तं यथावत् कृत्वा समस्तजगदाधारनिषेवणे इत्यनुज्ञाप्य प्रथमतस्तूष्णीं स्नात्वा देहं सम्यक् प्रक्षाल्य तदुष्णोदकं किञ्चित् कस्मिंश्चित् पात्रे धृत्वा तस्मिन् भगवद्दिव्यवामपादाङ्गुष्ठगलत् गङ्गासान्निध्यं प्रार्थ्य गङ्गायै मनसा सर्वोपचारान् समर्प्य, तेन जलेन आपोहिष्ठेत्यादिभिर्मूलमन्त्रेण चात्मानं प्रोक्ष्य ततस्तज्जलमिश्रितेन उष्णोदकेन स्नात्वा अन्यतो गत्वा शुद्धजलेनाचम्य शुष्कवस्त्रेण देहं संमार्जयेत् । इत्थं गौणतया मुख्यतया वा यत् प्रतिदिनमनुष्ठीयते तन्नित्यं स्नानम् । नैमित्तिकन्तु यन्निमित्ते जाते क्रियमाणं तत् । यत्तु नित्यनैमित्तिकादिस्नानानन्तरं चण्डालादिदर्शने स्नानशाट्या देइपरिमार्जने उभाभ्यां वस्त्रनिष्पीडने आर्द्रवस्त्रन्निष्पीड्य स्कन्धपादनिक्षेपे स्नानवस्त्रमूर्ध्वमनुद्धृत्याधस्तात् त्यागे परित्यक्तस्नानवस्त्रस्य अनाचम्य अप्रोक्ष्य च स्पर्शने च पुनः स्नानं विधीयते तन नैमित्तिकम् । किन्तु स्नानानन्तरमुक्तनियमातिक्रमे पूर्वकृतस्नानस्यैवासिद्धेः पूर्वस्नानस्थानापन्नत्वेन तत्पुनः स्नानमेव । नैमित्तिकस्नानं द्विविधं, सामान्यं सचेलस्नानञ्चेति । सामान्यस्नानन्तु नित्यस्नानवदाचमनप्राणायामसङ्कल्पोत्तरीयक्षालनपूर्वकं जले प्रविश्य सूक्तजपादिपूर्वकं क्रियमाणम् । सचेलस्नानन्तु निमिते जाते आचमनादिकं कृत्वा प्रथमतो यथावस्थित एव जले निमज्ज्यानन्तरमाचमना[[??]]नुष्ठानपूर्वकं क्रियमाणम् । एतत्सचेलस्नानं द्विविधम् । एकस्नानात्मकं स्नानद्वयात्मकञ्चेति । पूर्वन्तु यथावस्थितो जले त्रिर्निमज्याचमनाद्यनुष्ठानपूर्वकं क्रियमाणम् । द्वितीयन्तु ? यथावस्थितो जलं प्रविश्य त्रयोदशवारन्निमज्याङ्गानि संमृज्य आर्द्रवस्त्रं शुष्कीकृत्य परिधाय मृदा जलेन वा पुण्ड्रधारणं कृत्वाचमनप्राणायामपूर्वकं सङ्कल्प्य पुनः क्रियमाणं स्नानम् । सर्वेष्वपि नैमित्तिकस्नानेष्वङ्गभूतं देवर्षिपितृतर्पणं कार्यम् । केचिदेतेष्वघमर्षणपठनदेवर्षिपितृतर्पणनिषेधान्नास्तीति वदन्ति । यथासम्प्रदायमनुष्ठेयम् ॥ ***
[[299]]